भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 13

13.1

शुल्बान्तरे रथचक्रद्वयमुक्तम्; अनेनाचार्येणैकमेवोक्तम्; तस्मात्तदेवोच्यते ।
यावानग्निःसारत्निप्रादेशो द्विस्तावतीं भूमिं परिमण्डलां कृत्वा उभयतः प्रौगस्य या तिर्यङ्भानी तया चतुरश्रं करणं कृत्वा तेनेष्टकाः कारयेत् ।
ताश्चतुरश्रे चतुश्वत्वा रिंशदधिकशतमुपधाय तासां चतुरश्रमवदध्याद्यावत्सम्भवेत् ।
इति द्वादशः खण्डः
तस्य करण्या द्वादशेनेष्टकाः कारयेत्

13.2

तासां षट् प्रधाव् उपधाय शेषम् अष्टधा विभजेत्

13.3

प्रधिकाश्वत्वारः ।
तेषु प्रधिकेनषु षडिष्टका द्वादशेन कारिताः उपधाय शेषं प्रधिकमष्टधा विभजेत् ।
अष्टभिरपदध्यात् ।
तासां करणं वक्ष्यामः -- त्रयस्त्रिंशदङ्गुलमष्टभिस्तिलैरूनमेकं, एकत्रिंशदङ्गुलं द्वादशभिस्तिलैरूनमेकं, अष्टाविंशत्यङ्गुलमेकं अष्टाविंशत्यङ्गुलं तिलाभ्यां सहैकं, एतैश्चतुर्भिः फलकैः एकं करणं; तस्य चतुर्थं फलकं तक्षेत् ।
यथा धनुराकारं भवति यथा शरमष्टादशतिलमात्रं भवति ।
तथा एकत्रिंशदङ्गुलं द्वादशभिक्तिलैरूनं, एकविंशत्यङ्गुलं एकादशभिक्तिलैरूनमेकं, अष्टात्रिंशदङ्गुलं त्रिभिस्तिलैःसहैकं, नवत्रिंशदङ्गुलं द्वादशतिलैः सहैकं, एतैश्चतुर्भिः द्वितीयं कररणम् ।
अस्य चतुर्थं पूर्ववत्तक्षेत् ।
शरप्रमाणं तिलाभ्यां सहैकं भवति तथा तक्षेत् ।
चत्वारिंशदह्गुलं दशभिस्तिलैरूनमेकं, त्रयस्त्रिशदङ्गुलं दशभिस्तिलैरूनमेकं, द्वात्रिंशदङ्गुलं तिलेन सहैकं, द्वात्रिंशदङ्गुलं द्वादशभिस्तिलैःसहैकं, अष्टाविंशत्यङ्गुलं एकादशभिस्तिलैःसहैकं, पञ्चचत्वारिंशदङ्गुलं चतुर्भिस्तिलैरूनमेकं, एतैश्चतुर्भिश्चतुर्थं करणम् ।
तस्य चतुर्थं तक्षेत् ।
पूर्ववच्च प्रमाणद्वयङ्गुलं त्रिभिस्तिलैरूनम् -- तत्र श्लोकौ भवतः ----
रज्जुः कृतान्यतः पाशा सप्ताशीतिशताङ्गुला ।
विमानं रथचक्रस्य करोत्योषा तु मण्डलम् ।
चतुरश्रकरणी रज्जुः चतुःषष्टिशतद्वयी ।
तिलैस्त्रयोदशैर्युक्ता रथचक्रे हविर्भुजि ॥
करविन्दीया व्याख्या
रथच ते
रथचक्रं मण्डलाकारं ब्रातृव्यवान् तैर्बाध्यमानः तान् जेतुम् ॥
यावा भवेत्.
अरत्निप्रादेशसहितस्य करणी द्वौ पुरुषावष्टाशीतिरह्गुलयः विष्कम्भार्धं एकर्विशतितिलाश् च ।
तस्य मध्ये यावत्सम्भवं चतुरश्रं विहृत्य विलिख्य ॥
तस्य येत्.
चतुरश्रस्य करणी द्वे शते चतुःषष्टिश्वाङ्गुलयः त्रयोदशतिलाश् च ।
तस्या द्वादशभागः सतिला द्वाविंशतिलङ्गुलयः ।
चतुर्भिः द्वादशभागीयानां करणी ।
तन्मध्ये चतुश्वत्वारिंशच्छतमिष्टचकाः तासां द्वादशभागीयानां षडिष्टका एकैकस्मिन् प्रधवुपधाय सम्पाद्य शेषं प्रधिशेषमष्टधा विभजेत् ।
तत्र पूर्वस्मिन् प्रधौ दक्षिणार्धे चत्तुरश्रकरणीसमीपे दक्षिणोत्तरास्तिस्रः द्वादशभागीयाः ।
उत्तरतो व्यवलिख्य शषें प्रध्यर्धं चतुर्धा विभजे देकैकस्मिन् भागे एकैकं करणं तिसृणां द्वादशभागीयानां पुरस्ताद्द्वौ भागौ ।
तस्मिन् दक्षिणतो द्वौ भागौ ।
एवं विभागे चतुर्णां विभागानां पश्चत्तिर्यङ्मानी त्रयस्त्रिंशदङ्गुलयः
एकतिलम् ।
तत्र दक्षिणभागस्य करणं त्रिभिः फलकैर्भवति ।
तत्र तिर्यङ्भान्युक्ता चतुर्णां समेति पार्श्वमान्येकैव ।
सा च षड्विन्तिरङ्गुलयः द्वादशतिलाश् च ।
द्वितीयं वक्तव्यं द्विचत्वारिंशदङ्गलयः सार्धपञ्चविंशतितिलाश् च ।
तद्विष्कम्भार्धप्रमा णया रज्ज्वा कर्कटेन वऽऽलिख्य तक्षयेत् ।
द्वितीयदक्षिणपार्श्वमानी सैव या दक्षिणस्योत्तरा ।
तिर्यङ्नानी चोक्ता ।
उत्तरपार्श्वमानी द्विचत्वारिंशदङ्गुलयः पञ्चविंशतितिलाश् च ।
मुखञ्चतुस्त्रिंशदङ्गुलयः दश तिलाश् च ।
तत्पूर्वं तक्षयेत् ।
तान्येव विपरीतान्युत्तरार्धे करणानि ।
एषैवोत्तरार्धे विभागकल्पना ।
तत्र सर्वषां सैव पश्चात्तिरश्वी ।
दक्षात्तिरश्वी ।
दक्षिणमुत्तरेषां दक्षिणं भवति ।
तान्येव तान्येव मुखानि ।
अत्र चतुर्थवत् पञ्चमं ।
तृतीयवत् षष्ठम् ।
द्वितीयवत् सप्तमम् ।
प्रथमवदष्टमम् ।
एवं दक्षिणोत्तरपश्चिमप्रधिषु दक्षिणोत्तरपश्चिममुखान्येतानि करणानि भवन्ति ॥
सुन्दरराजीया व्याख्या
रथचक्र त्संभवेत्
विष्कम्भो मण्डलविधावेव प्रपञ्चितः ।
मध्ये शङ्कुं निहत्य पञ्चाशीतिशताङ्गुलेन चतुर्दशतिलयुक्तेन परिमण्डलं भ्रमयेत् ।
तस्य परिणाहस्तिलन्यूनं पञ्चषष्ठयधिकशतोत्तरसहस्राङ्गुलयः ।
तस्य मध्ये विष्कम्भार्धद्विकरण्या द्विषष्टिशतद्वयाङ्गुलया सप्ततिलसहितया समचतुरश्रमवदध्यात् ।
चतुरश्राद्बहिश्वत्वारः प्रधयः ॥
इति द्वादशः खण्डः
तस्य कारेयेत्
द्वाविंशत्यङ्गुलेन पञ्चतिलोनेन समचतुरश्रकरणम् ।
चतुरश्रमध्ये चतुश्वत्वारिंशच्छतमिष्टकाःशेरते ।
तासां -- विभजेत्.
प्रधिमध्ये षट् चतुरश्रा उपधाय तस्य प्रधेःशेषमष्टधा विभजेत् ।
उपहितानां षण्णां पार्श्वयोर्द्वेद्वे मुखे चतस्र उदीरिताः ।
तासां चत्वारि करणानि ।
त्रिकोणमाद्यम् ।
तस्य तिलत्रययुक्तं षड्विंशत्यङ्गुलमेकं तिर्यक्फलकम् ।
सार्धसप्ततिलहीनं त्रयस्त्रिंशदङ्गुलं द्वितीयम् ।
एकादशतिलयुक्तद्विचत्वारिंशदङ्गुलं तृती यम् ।
कर्णरूपं तद्धनुरिव तक्षेत् ।
यथा षट्तिलयुक्ताङ्गुलिःशरो भवति ।
द्वितीयस्य षड्विंशत्यङ्गुलं तिलत्रययुक्तं तिर्यक्फलकमेकम् ।
एकादशतिलयुक्तं द्विचत्वारिंशदङ्गुलमपरम् ।
सप्ततिलोनं त्रयस्त्रिंशदङ्गुलमेकं पार्श्वम् ।
षट्त्रिंशकं सविंशतितिलं पार्श्वान्तरम् ।
तद्धनुरिव तक्षेत् ।
यथा तिलत्रयोनाङ्गुलिःशरो भवति ।
तृतीयस्य सार्धविंशत्यङ्गुलमेकं तिर्यक्फलकम् ।
त्रिंशकं षोडशतिलहीनं द्वितीयम् ।
सप्ततिलोनं त्रयस्त्रिशकमेकं पार्श्वान्तरम्, तद्धनुरिव तक्षेत् ।
पञ्चविंशतितिलास्तस्य शरः ।
एतान्येव चत्वारि करणानि अन्यस्मिन् प्रध्यर्धे विपर्यासेन भवन्ति ।
एव मेव चत्वारः प्रधयः ॥
कपर्दिभाष्यम्
उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन् प्रस्तारे । व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्

13.4

गतमेतत् ।
एष एव प्रस्तारो मण्डले श्मशाने द्रोणे च ।
द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते

13.5

अन्नकामस्य द्रोणचिदिति श्रुतिः ।
द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च

13.6

तत्र यथाकामी शब्दार्थस्य विशयित्वात्

13.7

द्रोणशब्दो जलाधारस्य वर्तुलाकारस्य वाचकः ।
दारुमयस्य सत्सरुकस्य चतुरश्रस्य च ।
तत्रैकतरो गृह्यत इत्युच्यते ।
यथाकामी चतुरश्रं परिमण्डलं वा ।
अगृह्यमाणत्वाद्विशेषस्य चतुरश्रं परिमण्डलं वा चिनुयात् ।
उभयशब्दप्रवृतेः ॥
चतुरश्रं वा यस्य गुणशास्त्रम्

13.8

स चतुरश्रः

13.9

पश्चात् त्सरुर् भवत्य् अनुरूपत्वायेति विज्ञायते

13.10

वाशब्दः पक्षव्यावृत्तौ ।
न विकल्पार्थः ।
नैष मण्डलाकारश्वेतव्यः; चतुरश्र एव चेतव्यः ।
यस्य गुणशास्त्रं "द्रोणे वा अन्नं भ्रियतेऽ इति ।
तच्चतुरश्रे युज्यते न वर्तुलाकारद्रोणे ।
अतो गुणसम्बन्धाच्चतुरश्र एव निश्वीयेत ।
तस्माच्चतुरश्र एव चेतव्यः ।
पश्चात्पुच्छस्थानेत्सरुर्भवति अनुरुपत्व श्रुतेः, तथाकारसंपादनाय ।
करविन्दीया व्याख्या
उपधार् -- षेत्.
गतम्.
द्रोण -- ते.
अन्नाधारं पात्रं द्रोणमित्युच्यते ।
तदाकारं चिन्वीत अन्नकामः ।
द्वयानि -- च.
तुशब्दो भेदे ।
न प्रौगादिवदेकप्रकाराणि द्रोणानि किन्तु द्विप्रकाराणि चतुश्राणि परिमण्डलानि च ।
खलुशब्दः प्रसिद्धौ ॥
या -- त्वात् --
गतम्.
उभयत्र द्रोणशब्दप्रयोगादुभयप्रकारौ ग्राह्यौ ॥
चतुर -- श्रः
चतुरश्राण्येव ग्राह्याणि ।
कुतः? यस्येदं गुणशास्त्रं स चतुरश्रः, प्राकृतं चतुरश्रं अग्निमनूद्यान्नकामाय द्रोणाकारं विधीयते ।
अत इदमपि चतुरश्रमेव ग्राह्यमित्यर्थः ॥
पश्चा -- ते.
आत्मनः पश्चात् पुच्छस्थानेत्सरुर्भवति ।
त्सरुर्मुष्टिः ।
प्राङ्भुखावस्थितस्थ पुरुषस्य पश्चात् स्थितः द्रोणो ऽपि पश्चान्मुष्टिर्भविष्यति ।
एवमिहापीत्यर्थः ॥
सुन्दरराजीया व्याख्या
उपाधाने -- चतुरश्रं वा.
तत्र हेतुमाह --
यस्य -- स चतुरश्रः.
गुणप्रापकःसमचतुरश्रः ।
यस्य -- अग्नेः ।
पश्चास्तरु -- विज्ञायते ।
पश्चात्सरुर्यस्य स तथोक्तः ।
असमासो वा ।
त्सरुश्बद उभयलिङ्गः ।
"त्सरुः पुमानऽ इति नैघण्टुकः प्रमादः ।
"दशमंत्सरुऽ इति निर्देशात् ।
अनुरूपत्वं द्रोणानुरूप्यम् ।
एतच्च मण्डलचतुरश्रयोःसमानम् ।
तथाह भारद्वाजः --
द्रोणिचितं चिन्वीतान्नकामश्चतुरश्रं परिमण्डलं वा पश्चात्सरुर्भवति ।
इति ।
स्पष्टमेवाह कात्यायनः --
"दशमभागो वृत्तः पश्चात्पुरस्ताद्वा पण्डले ऽप्येवमेवऽ इति ।
कपर्दिभाष्यम्
सर्वस्या भूमेर् दशमं त्सरुस् तस्य पुच्छेन निर्हार उक्तः

13.11

तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश् च

13.12

द्वादशचतुर्भागीयाक्षेत्रं सारत्निप्रादेशस्य दशमोंऽशः ।
षष्ठयङ्गुलप्रमाणं तिर्यङ्भानी तस्य द्विकरणी पार्श्वमानी ।
तस्या क्ष्णया रज्ज्वा कृते चतुरश्रे द्वादशचतुर्भागीया क्षेत्रं भवति ।
यच्सरोः प्रमाणम् ।
तयैव त्रिगुणीकृतया द्रोणः ।
तस्य पुच्छेन निर्हार उक्तः -- पुच्छेनैव मानमार्गो व्याख्यातः ।
तस्य करण्या द्वादशेष्टकाः कारयोत् तस्येति द्रोणः परामृश्यते नत्सरुः स च त्रिकोण समदेशेन चतुर्भागीयेनेत्यर्थः ।
अध्यर्धाः पादेष्टेकाश् च अत्र विप्रतिपन्ना याज्ञिकाः अक्ष्णया पादमिच्छन्ति केचित् ।
केचिद्दीर्घपदपादमर्धेष्टकाः कर्तव्याः ताभिर्विना संख्यापूरणस्याशक्यत्वात् ।
व्क्तमुक्तं शुल्बान्तरे "अर्धेष्टकास्वेति ।
इहापि चकारादर्धेष्टकाश्चेति ।
करणानि च ष्ट्त्रिंशदङ्गुलं तिलोनमेकं करणञ्च; एकतो ऽध्यर्धं द्वितीयं; प्रथमकरणमुभयतो ऽभ्णया चतुर्धा दीर्घं,ऽ तेन पादानां तृतीयं करणं, तृतीयेनैव करणेन दीर्घेण वार्ऽधेष्टकानां करणं चतुर्थम् ।
उपधाने ऽध्यर्धाः पुरस्तात् प्रतीचीर् आत्मन्य् उपदधाति । त्सर्वर्गे श्रोण्योश् च प्राचीः

13.13

सर्वम् अग्निं चतुरश्राभिः प्रच्छादयेत्

13.14

पादेष्टकाभिः सङ्ख्यां पूरयेत्

13.15

अपरस्मिन् प्रस्तारे ऽध्यर्धा दक्षिणत उदीचीर् आत्मन्य् उपदधात्य् उत्तरतश् च दक्षिणास् त्सरुपार्श्वयोर् दक्षिणा उतीचीश् च

13.16

सर्वमग्निं चतुरश्राभिः प्रच्छादयेत्

13.17

पादेष्टकाक्षिः सङ्क्यां पूरयेत्

13.18

व्यत्यासं चिनुयाद् यावतः प्रस्तारांश्चिकीर्षेत्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc