आपस्तम्बशुल्बसूत्र · अध्याय 12
गतमेतत् ।
एकादशः खण्डः.
कपर्दिभाष्यम्
क्रत्वर्थेनोपादीयमानामामेकविधादीनां पक्षपुच्छत्वं प्रतिपादितम् ।
तथा तेषामुपधानविधिः कथं भवतीत्युच्यते ----
एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत्
करणानां द्वादशेन त्रयोदशेन कृतैःसमचतुरश्रैः इष्टकाः कारयेत् ।
सर्वतो द्वादशेनैकं करणं सर्वतस्त्रयोदशेन द्वितीयम् ।
पादेष्टकाश् च व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्
पादेष्टकाश् च द्वादशीवधास्त्रयोदशविधाश्वार्धेष्टकाश् चेति शुल्बान्तरम् ।
अस्माकमपि प्रौगेर्ऽधेष्टकाः कार्याः ।
एकविधादिष्वपि यदि प्रथमप्रस्तारो द्वादशभिः द्वितीयस्त्रयोदशभिरित्यस्मिन्पाक्षेर्ऽधेष्टकाः कार्याः ।
इतरथा सङ्धया न पूर्यत एव ।
तत्र श्लोकाः --
द्विविधे मानिका रज्जुःसप्तत्या च शतेन च ।
अङ्गुलीनां मिता सा स्यादूनाग्नेर्दशमिस्तिलैः ॥
त्रिविधे मानिका रज्जुरष्टोत्तरशतद्वयम् ।
षड्भिरेव तिलैरूना गणकैः परिकल्पिता ॥
विधस्पापि चतुर्थस्य मानिका रज्जुरुच्यते ।
मिता शतद्वयेनाथ चत्वारिंशाधिकेन च ॥
विधस्य पञ्चमस्येयमष्टषष्टिःशतद्वयी ।
एकादशतिलैर्युक्तां मानिकां गणका विदुः ॥
चतुर्भिश् च नवत्या च शताभ्यां च मिता भवेत् ।
त्रिभिरेव तिलैरूना षढ्विधस्य विधानिका ॥
उपधाने ऽभितः पादास्तिस्रो रीत्यो ऽथ द्वादश्यः ।
ततः पञ्च त्रयोदश्यः ।
तत एका त्रयोदशी ।
पादरीतिः तत एका त्रयोदशी ततस्तिस्रो ऽभितः पादा रीत्यां द्वादश्यः ।
द्वितीयस्यां एका चतुर्थी च तेभ्यो ऽन्यो ऽष्टमी ।
एष प्रस्तारः ।
अपरस्मिन् प्रस्तारे द्वे रीत्यौ त्रयोदश्येका त्रयोदशी पादा तत एकाभिहितपादा त्रयोदशी ।
ततश्चतस्रो द्वादश्यः ।
अथ मध्यमाःषडिष्टकाः चतुर्भेदाः, एष द्विशतः प्रत्तारः ॥
व्यत्यासमिति -- गतमेतत् ॥
एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणम्
एकविधप्रभृतीनां षड्विधपर्यन्तानां सर्वेषां प्रथमाहारे द्वितीयाहारे च यथा सङ्ख्याः श्रूयन्ते ।
किमुक्तं भवति? यदि प्रथमाहारःसहस्रसङ्ख्या जानुदघ्नता च ।
अथ द्वितीय एते युक्ता एव ।
ते धर्माः सप्तार्धस्वरूपयुक्ता एवेति ।
तच्च वचनं सप्तार्धप्रकृतित्वज्ञापनार्थम् ॥
करविन्दीया व्याख्या
व्यत्या र्षेत्
गतं ।
विकृतिषु पुनर्व्यत्यासे वचनं किमर्थम्? उच्यते -- प्रकृतौ चितीनां प्रस्ताराणां च वैषम्यात् किमयं व्यत्यासः प्रस्तारधर्मः चितिधर्म इति कस्यचित्सन्देहःस्यात् ।
विकृतौ तु द्विप्रस्ताराश्वितय इति प्रस्तारयोर्वैषम्येमायं व्यत्यासः कस्य धर्म इति सन्देहे यावन्तः प्रस्तारास्तावतो व्यत्यस्य चिनुयात् भेदाभावाय ।
व्यत्यासस्य प्रस्तारधर्मताप्रतिपादनाय पुनर्वचनं व्यत्यासस्य ।
एकवि माणम्
एकविधप्रभृतिषड्विधपर्यन्तानां प्रथमाहारः प्रथमप्रयोगः यो युज्येत भृशं युक्तो भवति ।
यथाश्रुतिसङ्ख्या श्रुत्युक्तेन प्रकारेण सङ्ख्या सहस्रादिः यथा भृशं युज्यते तथोर्ध्वप्रमाणं जानुदघ्नादि च योयुज्येतेति च सम्बन्धः ।
एकविधप्रभृतिषड्विधपर्यन्तानां सर्वेषां प्रथमाहारेण द्वितीयाहारेण तृतीयाहारेण "साहस्रं चिन्वीत प्रथमं चिन्वानःऽ इत्याद्याः श्रूयमाणाः साहस्रादिसङ्ख्याजानुदघ्नादिपरिमाणाश्वैतेषु सम्पाद्यतयोपदिश्यन्ते ।
एतेन एकविधस्य
प्रकृतित्वे द्विविधादीनां तत्प्रकृतित्वे च साहस्रादिसङ्ख्याजानुदघ्नादि परिमाणत्वं सिद्धं भवति ।
एकविधादयो ऽपि नित्या एव अकामसम्बन्धात् ।
प्रकृतयो विकृतयश् च नित्या उक्ताः ।
इतानीं काम्याः प्रौगादय उच्यन्ते ।
काम्या गुणविकाराः गुणशास्त्रत्वात्
नित्यस्य सप्तविधाग्नेर्विकाराः प्रौगाद्याकृतिविशेषेण गुणेन विकृताः ।
कुतः? गुणशास्त्रत्वात् ।
गुणं शास्ति विदधातीति गुणशास्त्रम् ।
"प्रौगचितं चिन्वीतऽ इति वक्ष्यमाणं वाक्यं प्रौगस्याग्नेश्वयनमनूद्य तत्र भातृव्यापनोदनफलार्थं प्रौगाद्याकृतिविशेषं गुणं विधत्ते ।
तस्मात्काम्याः प्रौगादयः ।
गोदोहनादिवन्नित्यस्याग्नेर्गुणविकाराः न नित्याः नैव प्रकृतय इति ।
सुन्दरराजीया व्याख्या
(व्यत्या र्षेत्)
"सन्ध्यन्तराले पञ्चमभागीयाःसपादाःऽ इत्यस्यापरा व्याख्यापादशब्देन प्रस्तुता एवाणूकापादा गृह्यन्ते ।
प्रस्तुताश् च पादा अष्टसंख्या इति तथैवेह ग्राह्याः ।
तत्रैवमुपधानम् -- प्रथमे प्रस्तारे सन्ध्यन्तराले पार्श्वयोस्त्रिंशदङ्गुलं परिशिष्य मध्यमे पञ्चत्रिंशत्पञ्चमभागीयाः, परिशिष्टयोस्त्रिंशदङ्गुलयोः पश्चात्पुरस्ताच्च द्वेद्वे पञ्चदशाङ्गुले उदीच्यौ, मध्ये तस्रस्तिस्रो ऽणूकाः, पञ्चमीभिः पूरयितुमशक्यत्वात्पुच्छस्य पार्श्वयोः पुरतःषट्षट्पञ्चदशाङ्गुलाः ।
पुच्छशेषे त्रयोदशाणूकाः, एवं कृते अष्टोनद्विशतं भवति ।
पुच्छमध्ये ऽणूकामेकामुद्धृत्य दशाङ्गुला नवोपदध्यात् ।
आत्मनि द्वितीये मध्ये वा मन्त्रोपधानसौकर्यार्थम् ।
एवं द्विशतः प्रस्तारः ।
अपरस्मिन् पुच्छवर्जं यथासूत्रमेवात्मनि प्राच्यो दश रीत्यः ।
तत्र दक्षिणस्यां मध्ये पञ्चमीं निधाय ततः प्राक्पश्चाच्च द्वेद्वे प्रादेशमायौ ।
एवमुत्तरस्यां पुच्छस्यापरार्धे पार्श्वयोर्मध्ये च तिस्रस्तिस्रःषड्भागीयाः प्राच्यः, पुच्छशेषे द्वादशाणूकाः ।
ये तु षड्भागीया नेच्छन्ति तेषामपि पुच्छवर्जमेवमेवोपधानम् ।
तत्र पुच्छे प्रादेशमुपधायेत्यस्य प्रादेशेष्टकामुपधायेत्येवं वर्णयन्ति ।
अन्यथा भेदप्रसङ्गात् ।
प्रादेशाश्चतुर्भागीयाभिःसह न शेरत इति सामर्थ्यात् पञ्चमभागीयानामाक्षेपः ।
तत्रैवमुपधानम् -- पुच्छस्यपूर्वार्धे पार्श्वयोश्चतस्रः पञ्चदशाह्गुलाः ।
मध्ये षडणूकाः ।
अपरार्धे पञ्चदश पञ्चम्यः ।
पुच्छाग्रे मध्यमा अभितो द्वे उद्धृत्याष्टौ प्रादेशेष्टका उपधेयाः ।
एवमष्टोनद्विशतं भवति ।
ततः पूर्ववदेकां चतुथीं पञ्चमीं वोद्धृत्य दशाङ्गुला वाष्टाङ्गुला वोपदध्यात् ।
द्विशतः प्रस्तारः ।
द्वितीये प्रस्तारे पुच्छे षोडशाणूकाः, आत्मन्युत्तरस्यां रीत्यां चतसृभ्यः पञ्चमीभ्यः प्राक्तिस्रो ऽष्टाह्गुला उदीच्यः तत एका पञ्चमी ।
ततस्तिस्रो ऽष्टाङ्गुलाः ।
ततस्तिस्रः पञ्चम्यः ।
दक्षिणारीतिः पूर्ववदेव ।
द्विशतः प्रस्तारः ।
एवं सारत्निप्रादेशस्योपधानमुक्तमाचार्येण ।
तद्रहितस्योच्यते -- पक्षाग्रयोस्तिस्रस्तिस्रो ऽणूकाः ।
तासां पस्वात्पुरस्ताच्च द्वेद्वे पञ्चदशाङ्गुले ।
एवम्न्ययोरप्यात्मानं प्रदेशेनोपेताः पार्श्वयोः षट्षट् प्रादेशाः ।
पक्षशेषे पञ्चम्यः ।
सन्ध्यन्तराले चत्वारिंशत्पञ्चमभागीया आत्मशेषः पूर्वोक्तवदेव ।
पुच्छस्य पूर्वार्धे पार्श्वयोरष्टौ पञ्चदशाङ्गुलाः, पध्ये षडणूकाः ।
अपरार्धे षड्भागीयाभिरुदीच्यस्तिस्रो रीतयः ।
तासु पूर्वस्यां पार्श्वयोर्द्वेद्वे दशाङ्गुले ।
पुच्छस्य पूर्वार्धे षड्भागीया अष्टादश ।
अपरार्धे पृष्ठयामभितः पञ्चम्याकुद्धृत्य अष्टौ पादेष्टका उपदध्यात् ।
आत्मनि पूर्वरीतौ मध्ये पञ्चमीं निधायाभितश्चतस्रः पादेष्टका उपदध्यात् ।
एवं द्विशतः प्रस्तारः ।
अथात्रापि षड्भागीयामनिच्छतां पुच्छस्य पार्श्वयोः पुरतःषट्षट् पञ्चदशाङ्गुलाः ।
पुच्छशेषे त्रयोदशाणूकाः ।
पक्षाग्रयोश्चतस्रश्चतस्रो ऽणूकाः ।
शेषं पूर्वोक्तवदेव ।
एवं कृते चतुरशीतिशतमिष्टका भवन्ति ।
तत्रात्मनि पृष्ठयान्ते चतुर्थ्यौ पञ्चम्यावुद्धृत्याष्टादशाङ्गुला अष्टाङ्गुला वोपदध्यात् ।
द्विशतः प्रस्तारः ।
अन्यस्मिन् प्रस्तारे पुच्छाप्यये पञ्चमभागीया इत्यादि यथासूत्रम् ।
आत्मनः पूर्वरीतिः पूर्वोक्तवत् ।
पुच्छस्य पूर्वार्धे ऽष्टावणूकाः अपरार्धे पञ्चम्यावृद्धृत्याष्टङ्गुला उपदध्यात् ।
द्विशतः प्रस्तारः ।
एवमुपधानस्यानेकप्रकारा उक्ताः ।
तत्र युक्ततरः प्रकारो विद्वद्भिरादरणीयः ।
सर्वेष्वेव प्रकारेषु पुच्छाप्यये पक्षाप्यये वा अन्यतरत्र विशया इष्टका उपधीयन्त इत्यनुसन्धातव्यम् ॥
एकादशः खण्डः.
एकविधप्रभृतीनांअत्पादेष्टकाश्व.
व्याधिकरणःष्ठयौ ।
एकविधप्रभृतीनां षड्विधपर्यन्तानां याः करण्यः तासां द्वादशेन त्रयोदशेनेति समचतुरश्रा इष्टकाः कारयेत् पादेष्टकाश् च ।
ताश्चतुर्बागीया नवम्यश् चेति द्विविधाः ।
तत्र श्लोकाः --
अङ्गुल्यो विंशतिशतं करण्येकविधे भवेत् ।
द्विविधे सप्ततिशतं ज्ञेयं दशतिलोनितम् ॥
त्रिविधे द्वे शते चाष्टौ चाङ्गुल्यष्,ट्तिलोनिताः ।
चतुर्विधस्य करणी चत्वलारिंशच्छतद्वयम् ॥
अष्टषष्टिः पञ्चविधे सैकादशतिले शते ।
षड्विधे त्रिशताच्याज्याःषडङ्गुल्यस्तिलावपि ॥
एकविधस्य तावत् करण्या द्वादशेन दशाङ्गुलेनैकं करणम् ।
तदर्धेन पञ्चाङ्गुलेन द्वितीयं पादेष्टकारूपम् ।
तृतीयेन च सैकादशतिलेन त्र्यङ्गुलेन तृतीयम् ।
सा नवमीत्युच्यते ।
एवं त्रयोदशेन साष्टतिलेन नवाङ्गुलेनैकम् ।
तदर्धेन तत्पाद्याः ।
चतुरङ्गुला सैकविंशतितिला ।
तृतीयेन च नवमी त्र्यङ्गुला सतिलत्रया ।
एवं द्विविधादिषु द्रष्टव्यम् ।
व्यत्यासंअश्चिकीर्षेत्
तत्र प्रस्तारयोरनुक्तत्वात् द्वादशीत्रयोदशीनामेव सावयवानां प्रस्तारेषु व्यत्यासः ।
द्वादशीभिःसावयवभिरेकः प्रस्तारः त्रयोदशीभिरपर इति ।
संकालितोपधानं तु न भवत्यवचनात् एतदतिदिष्टप्रौगचित्यसम्भवाच्च ।
तत्र प्रथमे प्रस्तारे अग्निमध्ये नवद्वादशीनां नवम्यश्चतुरश्रीकृताः ।
ताः परितःषष्टिः पाद्याः ।
ताः परितो ऽष्टाविंशतिशतं द्वादश्यः ।
उत्तरांस एकामुद्धृत्य चतस्लः पाद्याः ।
द्विशतः प्रस्तारः ।
अपरस्मिन् त्रयोदशभिः प्रच्छादिते नवषष्टिशतमिष्टका भवन्ति ।
अग्निमध्यस्थमुद्धत्य चतस्रः पाद्याः ।
प्रतिकोणं चतस्रश्चतस्रः पाद्याः पृष्ठयायां पश्चात्पुरस्ताच्चैकैकामुद्धृत्य नवनव नवम्यः ।
द्विशतः प्रस्तारः ।
एकविध र्ध्वप्रमाणं एकविधादीनामपि सहस्रादिसंख्या ।
ऊर्ध्वप्रमाणं च जानुदघ्नादिसप्तविधादिपद्भवत्येव ।
क्षेत्रापचये ऽपि संख्योर्ध्वप्रमाणयोर्नापचय इत्यर्थः ॥
कपर्दिभाष्यम्
काम्या गुणविकाराः गुणशास्रत्वात् ॥ .3 ॥
काम्याः प्रौगादयः गुणेन विकृताः -- किमुक्तं भवति? गुणसिद्धिर्नाग्नेः ।
कुतः? गुणशास्रत्वात् ।
शास्तीति शास्रम् ।
गुणो ऽत्र शिष्यते नाग्निः ।
तस्माद्गुणशास्त्रत्वात् गोदोहनादिव, द्गुणफलान्योतानि ॥
प्रौगचितं चिन्वीत भ्रातृव्यवान् इति विज्ञायते
प्रौगः शकटपुर्वभागः ।
तदाकारं चिन्वीत भ्रातृव्यवान्यस्य बहवः भ्रातृव्याः स एवं चिन्वीत ।
यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच् छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगम्
कराणानि चयनम् इत्य् एकविधोक्तम्
एतच्च वचनं सप्तार्धस्य प्रकृतित्वज्ञापनार्थम् ।
पञ्चदशभिरङ्गुलैर्नवभिश् च तिलैः अन्तरा चतुःपुरुषा रज्जुः द्विस्तावतीं करोति ।
तथा चतुरश्रं विहृत्य सूत्रोक्तेन मार्गेण श्रोणीं परिलिखेत् ।
करणानि च कारयेत् ।
द्वादशेन त्रयोदशेन सपादेन च प्रौगाकारः ॥
प्रौगा इष्टकाः कारयेत्
चतुःपुरुषारत्निना च पञ्चदशभिरङ्गुलैस्तिलैरेकविंशत्या परिमिता रज्जुरीषामात्री भवति वाक्षयोः प्रमाणम् ।
तस्या द्वादशेन च त्रयोदशेन च करणानि च कारयेत् ।
द्वादश्या प्रथमे प्रस्तारे प्रौगमुख्यः ।
चतुःषष्टिः पादेष्टकाः चतस्रश्चतस्रःश्रोण्योः ।
एवं चतुर्विंशोत्तरं शतं ।
चतस्रोर्ऽधेष्टकाःश्रोण्योरेव ।
अन्यस्मिन् प्रस्तारे त्रयोदश्यः श्रोण्योः पादाश्वत्वारिंशत् द्वावर्धौ अष्टपञ्चाशदधिकशतं त्रयोदश्यः ।
प्रस्तारो द्विशतः ।
एवं व्यत्यासं चिनुयात् ।
तत्र श्लोकाः --
एकोनविंशत्यरत्निभिरङ्गुलीभिःसहाष्टभिः ।
तिलानां पञ्चविंशत्या मिता पश्चाद्विमानिका ॥
एकविंशत्यरत्निभिरङ्गुलीनां त्रिपञ्चकैः ।
तिलानामेकविंशत्या मिता त्वेका विमानिका ॥
कुर्वन्ति प्रौगमग्निमेतास्तिस्रःसमीकृताः ।
आसामेव यथासूत्रं करणानि प्रकल्पयेत् ॥
करविन्दीया व्याख्या
प्रौगंअयते
प्रौगः शकटस्य पूर्वभागः ।
तदाकृतिमग्निं चिन्वीत ।
भ्रादृव्यवान्भ्रातृव्यैश्रात्रुभिर्बाध्यमानः ।
तेन भ्रातृव्यान् प्रणुदत एव ॥
यावान -- उगम्.
यावानरत्निप्रादेशाभ्यां सहितःसप्तविधः तावद्द्विगुणां समचतुरश्रां भूमिं कृत्वा तस्य चतुरश्रस्य पूर्वस्याः करण्या मध्यादारभ्य श्रोणी प्रत्यक्ष्णया लिखेत् ।
सप्तार्धविधस्य द्विस्तावती भूमिः पञ्चदशपुरुषाः ।
तस्याः करणी त्रयःपुरुषाश्चतुरधिकशताङ्गुलयः पञ्चविंशतितिलाश् च ।
तयापरेण यूपावटदेशं सञ्चरमवशिष्यानुप्रष्ट्यं समचतुरश्रं विहृत्य पूर्वस्याः करण्या अर्धाच्छोणी प्रत्यालिखेत् ।
सा भूमिःसप्तविधपरिमितप्रौगाकृतिर्भवति ॥
कर -- येत्
अत्र करणी करणीनां द्वादशत्रयोदशकृतानि ।
ताभिश् च यनं प्रस्तारव्यत्यास इत्येवमाद्येकविधवत् ग्राह्यमित्यर्थः ।
विशेषस्तु प्रौगा इष्टकाः कारयेत् ।
करणानि प्रौगाकृतीनि भवेयुः ।
ता द्वादशत्रयोदशभागीयाः पादा अर्धाश् च प्रौगाकृतीनि भवेयुः ।
ता द्वादशत्रयोदशभागीयाः पादा अर्धाश् च प्रौगाकारा ग्राह्याः ।
चत्वारः पुरुषा एकोनचत्वारिंशदङ्गुलयः एकविंशतितिलाश् च प्रौगस्यैषा मात्रा ।
सा प्रौगस्य पार्श्वमानी ।
तस्याः द्वादशेन त्रयोदशेन च करणानि कारयेत् ।
पादा अर्धाश् च द्वादश भागीयानामष्टत्रिंशदह्गुलयः पञ्चविंशतितिलाश् च ।
एषामात्री तन्मुखम् ।
पार्श्वमान्यौ त्रिचत्वारिंशदङ्गुलयः दशतिलाश् च ।
अर्घेष्टकानामेकापार्श्वमानी ।
सैव अन्या अष्टत्रिंशदङ्गुलयः पञ्चविंशतितिलाश् च ।
एकोनविंशतिरङ्गुलयोर्ऽधत्रयोदशतिलाश् च मुखम् ।
पादेष्टकानामेकोनविंशतिरङ्गुलयः द्वाविंशतितिलाश् च ।
अथ त्रयोदशभागीयानां तासां पञ्चत्रिंशदङ्गुलयः पञ्चविंशतितिलाश्चैकं मुखम् ।
पार्श्वमान्यौ तिलोनचत्वारिंशदङ्गुलयः ।
अर्धेष्टकानामपि सैवैका पार्श्वमानी ।
अन्याः पञ्चत्रिंशदङ्गुलयः पञ्चविंशतितिलाश् च ।
सप्तदशाह्गुलयः एकोनत्रिंशत्तिलाश् च तिलार्धाश्वैकं मुखम् ।
पादेष्टकानां सप्तदशाङ्गुलय एकोनत्रिंशत्तिलाश्वैकं मुखम् ।
पार्श्वमान्यौ विंशतिरङ्गुलयोर्ऽधतिलोनाः ।
उपधाने प्रथमप्रस्तारे प्रौगमुखे चतुःषष्टिः पादेष्टका उपदध्यात् ।
श्रोण्योश्चतस्रश्चतुर्विंशोत्तरं शतं द्वादश्यः चतस्रोर्ऽधेष्टकाः ।
एष द्विशतः प्रस्तारः ।
अपरस्मिन् श्रोण्योर्विंशतिविशतिस्त्रयोदशपादाः द्वावर्धावष्टपञ्चाशदधिकशतं त्रयोदश्यः ।
एष द्विशतः प्रस्तारः ।
व्यत्यासश् च कार्यः ॥
सुन्दरराजीया व्याख्या
काम्याःअगुणशास्रत्वात्
काम्याः छन्दश्वित्प्रभृतयो ऽग्नयो नित्यस्य चतुरश्रस्य गुणविकारा, तस्यैवाग्नेणमात्रेण विकृतत्वात् गुणफलं स्वफलं च साधयन्ति ।
यथा अग्निष्टोमस्य गुणविकारा उक्थ्यादयः ।
प्रौगचितंअविज्ञायते
प्रौगं शकटस्य मुखं त्रिकोणं, तद्वच्चीयत इति प्रौगचित् ।
"कर्मण्यग्नयाख्यायाम्ऽ इति व्किप् ।
तस्याग्नेर्मानमाह --
यावान लिखेत्
सारत्निप्रादेशस्य सप्तविधस्य करणी त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलयोर्ऽधद्वादशतिलाः ।
तस्या द्विकरणी पादोनपञ्चषष्टिचतुःशताङ्गुलयः द्विस्तावत्याः पञ्चदशपुरुषायाश्चतुरश्रीकृताया भूमेः करणी ।
प्रणगस्य पार्श्वमानी चत्वारः पुरुष एकोनचत्वारिंशदङ्गुलय एकविंशतितिलाश् च ।
यावानग्निरित्येव सिद्धे सारत्निप्रादेशग्रहणं तस्य पक्षस्य शाखान्तरीय त्वेन यत्नसाध्यत्वात् एकविधादिष्वेकशतपर्यन्तेषु केवलेषु कारत्निप्रदेशेषु च यथाकामं गुणविकारा भवन्त्येवेति पूर्वमेव प्रतिपादितम् ।
तत्र पक्षपुच्छरहितानां प्रौगचिदादीनां खाकाशश्रुतिवेदैकामित्यादिना आनीतस्य पुरुषस्य विंशतिशततमो भागो ऽङ्गुलिः कल्प्या ।
तस्याश्वतुस्त्रिंशो भागस्तिलः ।
सा प्रौगं नित्या प्रकृत्येव ।
सा भूमिरेवं कृते प्रौगं भवति ।
करणानि थोक्तं करणं द्वादशेन त्रयोदशेनेत्यादिना ।
प्रौगाःअरयेत्
द्वादश्याः पार्श्वे त्रिचत्वारिंशदङ्गुले सपाददशीतलयुक्ते नवतिलोनं नवत्रिंशदङ्गुलमपरम् ।
तेषामर्धैः पाद्याः ।
तृतीयैर्नवम्यः ।
त्रयोदश्यास्तु चत्वारिंशदङ्गुले तिलोने पार्श्वे त्रिपादोनषाट्त्रिंशदङ्गुलमपरम् ।
एतेषामर्धैः पाद्याः ।
तृतीयैश् च नवम्यः ।
उपादाने प्रथमे प्रस्तारे चतुश्वत्वारिंशच्छतेन द्वादशीभिरुदीच्यो द्वादश रीतयः ।
मध्यमरीतिचतुष्टये मध्यो षोडशोद्धृत्य चतुःषष्टिः पाद्याः ।
प्रौगमुख्यामुद् धृत्य नव नवम्यः ।
द्विशतः प्रस्तारः ।
अपरस्मिन् प्रस्तारे त्रयोदशीबिः नवषष्टिशतेन त्रयोदश रीतयः ।
तासु दशम्यां सप्तेष्टका उद्धृत्य विंशतिः पाद्याः ।
अष्टादशनवम्यश् च निधेयाः ।
एवं द्विशतः ।
कपर्दिभाष्यम्
उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यान् नुदेय प्रतिजनिष्यमाणान् इति विज्ञायते
उभयतःशकटमेव चिन्वीत यः कामयेतोत्पन्नानुत्पत्स्यमानांश् च शत्रून् बाधेयेति ।
यथा विमुखे शकटे
तावद् एव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योर् अर्धात् तावति दक्षिणोत्तरयोर् निपातयेत् । सा नित्योभभयतः प्रौगम्
प्रौगचितोक्तीः (-क्तं) । उभयतः प्रौगा इष्टकाः कारयेत्
तावदेव सप्ताधेस्य द्विगुणम् ।
इह तु दीर्घचतुरश्रस्य द्विगुणायामप्रमाणविस्तारः ।
पुरुषद्वयेन त्रिबिररद्निभिः षोडशभिरङ्गुलैः सार्धैकविंशत्या तिलैः मिता तिर्यङ्मानीमध्ये च शङ्कून्निहत्य शङ्कुषु रज्ज्वा वेष्टयित्वा बाह्यतस्त्यजेत् ।
सप्तषशष्ठिशतत्रयमङ्गुलीनां चतुर्दशभिस्तिलैःसार्धयीषाप्रामाण्यम् ।
आसां द्वादशेन करणानि कारयेत् ।
प्रौगचितोभयतः प्रौगेष्टकाः कारयेत् ।
उभयतः प्रौघाकाराः इष्टकाः पादाश्वोभयतः प्रौघीभूताः ।
चयनविधिरुक्तः प्रौगे ।
तत्र श्लोकः --
त्रिसप्तकैस्तिलैर्युक्तां साष्टाविंशशतत्रयीम् ।
प्रौगस्योत्तरस्याग्नेः तिर्यङ्भानीं विदुर्बुधाः ॥
तिर्यग्द्विगुणितायामे चतुरश्रे हविर्भुजः ।
शङ्गून्निहत्य मध्येषु करणेषु चतुर्ष्वपि ॥
रज्जुं शह्गुषु संयोज्य श्रोण्योरंसान् परित्यजेत् ।
शिष्टं सप्तार्धमेव स्याच्छकटे विमुखे यथा ॥
चतुर्दशतिलैर्युक्तं सप्तषष्टिशतत्रयम् ।
प्रौघस्योत्तरस्यैतदीषामात्रं प्रकल्पितम् ॥
ईषाद्वादशभागेन तथा भागोत्तरेण च्च ।
उभ्यतः प्रौगीभूताः सपादाः कारयेदिह ॥
करविन्दीया व्याख्या
उभ -- ते
उभयतः प्रौगं -- उभयतः शकटमुखं ।
प्रजातान् शत्रून प्रणुदेयं जनिष्यमाणांश् च प्रणुदेयं यथा न जायन्ते तथा करवाणीत्यर्थः ।
श्रुतिपदं व्याचष्टे ----
यथावि -- तोक्ताः
विमुखे -- नानामुखघे शकटे यथा पृष्ठै संहिते तिष्ठेते तादृगाकारमुभयत्र प्रौगं तथा चिन्वीतेत्यर्थः ।
तावदेव पूर्वोक्तं सारत्निप्रादेशश् च सप्तविधस्य द्वियुणं दीर्घं चतुरश्रं विहृत्य तिर्यङ्नानीपार्श्वमानीनां मध्ये शङ्कुं निहत्य पूर्वस्माच्छङ्कोः दक्षिणं शङ्कुं प्रत्यक्ष्णया लिशेद्दक्षिणतः पश्चिमं पश्चिमतः उत्तरमुत्तरतः पूर्वं, एवं लिशेदुभयतः प्रौगाकृतिक्षेत्रं भवति ।
विस्तारद्विगुणायामं दीर्घं पञ्चपुरुषाः सप्तदशाङ्गुलास्वायामः, द्वौ पुरुषावष्टषष्टिरङ्गुलय एकविंशतितिलाश् च तिर्यङ्भानी दीर्घचतुरश्रस्य ॥
उभय -- येत्
करणानि चयनविधिश् च प्रौगवत् ।
विशेषस्तूभयतः प्रौगाः इष्टकाः ।
त्रयः पुरुषाःसप्त चाङ्गुलयः सप्तदश तिलाश् च एषां प्रमाणम् ।
अस्य द्वादशो भागस्त्रिंशदङ्गुलयः पञ्चविंशतितिलाश् च ।
त्रयोदशो भागो ऽष्टाविंशतिरङ्गुलयः त्रिभागोना नव तिलाश् च ।
शतद्वयं अष्टाविंशतिरङ्गुलयः एकविंशतितिलाश्वोभयतः प्रौगस्य तिर्यङ्भानी ।
तस्या द्वादशभागेन त्रयोदशभागेन परिमितं करणं यथा भवति तथा भवेत् करणम् ।
अर्धेष्टका द्वादशभागीयाभिस्त्रयोदशभागीयाभिस्व आयामतस्तुल्याः विस्तारतस्तदर्धविस्ताराः ।
पादेष्टका आयामतो विस्तारतश्वार्धाः ।
प्रथमे प्रस्तारे याःपादा उपहिताः ते द्वितीये तदन्यत्रोपधेयाः ।
द्वादशभागीयापक्षे चतस्रोर्ऽदेष्टकाः त्रयोदशभागीयापक्षे द्वे ॥
सुन्दरराजीया व्याख्या
उभयतःअशकटे
विमुखे -- विपर्यस्तमुखे प्राक्पश्चान्मुखे यथा शकटभागे तादृगेषो ऽग्निर्भवति ।
ताव येत्
द्विस्तावदग्निक्षेत्रविस्तारद्विगुणायामं दीर्घचतुरश्रं विहरेत् ।
त्रीणि शतान्यष्टाविंशतिश्वाङ्गुलयो द्वाविंशतितिलाश् च तिर्यङ्भानी ।
द्विगुणा पार्श्वमानी ।
एवं विहृत्य पूर्वापरयोः करण्योर्मध्यात् दक्षिणोत्तरयोर्णध्ये निपादयेत् ।
बहिष्पन्द्यमपच्छिन्द्यात् ।
सुतोक्तः
एकविधोक्त इष्टकादिः ।
उभ रयेत्
द्वादश्याश्वत्वारि फलकानि त्रिंशदङ्गुलानि सैकविंशतितिलानि ।
एकाक्ष्णया सप्तविंशत्यङ्गुला त्रयोदशतिलयुक्ता ।
द्विगुणान्या ।
एषामर्धैः पाद्यास्तृतीयैर्नवम्यः ।
त्रयोदश्याश्वत्वारि फलकानि सपाद्ष्टाविंशत्यङ्गुलानि, इत्येकः कर्णरज्जुः ।
एक विधवदेवोपधांनम् ।
रीतयस्तु कोणादिमुखाः ।
द्वितीयप्रस्तारे मध्ये विंशतिः पाद्याः, अष्टादश नवम्यः ।
ता अपि मध्यस्थपादानां पश्चात्पुरक्ताच्च विधेयाः ॥
कपर्दिभाष्यम्
रथचक्रचितं चिन्वीत भ्रातृव्यवान् इति विज्ञायते
यावान् अग्निः सारत्निप्रादेशस् तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश् चतुरश्रम् अवदध्याद् यावत्सम्भवेत्
मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0