भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बशुल्बसूत्र · अध्याय 11

11.1

निगदव्याख्यातमेतत् ।
चतुर्थोति -- इष्टकापरिमाणमिह त्रिषाहस्रमित्युच्यते ।
त्रिषाहस्रमेव नियतं ।
नोच्येत अनीकवदावृत्तिःस्यात् ।
अन्यस्याविधानात् ।
अमुमेवार्थं दर्शयितुं श्रुतिं दर्शयति -- विज्ञायत इति ।
ज्यायांसं -- द्विषाहस्रं त्रिषाहस्रं वा चित्वा कनीयांसं -- साहस्रं न चिनुयादिति प्रतिषेधः ।
तथार्ऽधाष्टममर्धनवमं वा चित्वा एकविधाप्तार्घविधपर्यन्ता न चेतव्याः ।
इत्यापस्तम्बसूत्र विवरणे कपर्दिस्वामिभाष्ये
शुल्बाख्यप्रश्ने तृतीयः पटलः.
करविन्दीया व्याख्या
उत्सेधाधिक्यं च प्रस्तारानेकत्वे न भवतीत्याह --
द्विषा स्ताराः
द्विषाहस्रे ऽग्नौ द्विप्रस्ताराः तूष्णीं पुरीषाभ्यूहनम् ।
" तासु पुरीषमभ्यूहतीति ऽगपॢ नाक्ष अन्ये च चितिधर्माः ।
चतु माणम्
आहरेषु -- प्रयोगेषु ।
चतुर्थपब्रभृतिषु प्रयोगेष्वनन्तरोक्तं त्रिषाहस्रं नित्यं; न न्यूनादिकमित्यर्थः ।
नन्वनन्तरार्थादेव त्रिषाहस्रं चतुर्थप्रभृतिषु नित्यं भविष्यति किमर्थमिदमुच्यते? उच्यतेयदीतं नोच्यते, तर्हि अनीकवदावृत्तिः प्रसज्येत ।
यद्वा द्वितीयतृतीयनिमित्ता विवृद्धिरिति चतुर्थादिषु साहस्रमेव वा प्रसज्येत् ।
अत इदमुच्यते -- "नित्यमिष्टकापरिमाणमितिऽ ।
अमुमेवार्थं श्रुत्या प्रथयति --
विज्ञा ते
ज्यायांसमधिकप्रमाणं कनियांसमल्पप्रमाणम् ।
द्विषाहस्रं त्रिषाहस्रं वा कृत्वा न साहस्रं चिन्वीत ।
तत्र्रिषाहस्रमेव चिन्वीत ॥
तत्र्.अ श्लोकाः --
यदत्र पुच्छे प्रादेशमुपधायेति सूत्रितम् ।
तदभेदाय पुच्छाग्रे पृथग्ग्रीतिनिषेधकम् ॥
अग्रस्य रीतिभेदे स्युर्बह्वयः पुच्छे भिदा यतः ।
अतः पुच्छादनारम्भः पुच्छाग्रप्रभृतिर्भवेत् ॥
तथोपधाने तन्मूले यत्क्षेत्रमतिरिच्यते ।
चतुर्भिरर्धैः प्रादेशसहितैश्छादयेत्ततः ॥
अप्यये विपरीतोक्तिरेवमर्थवती भवेत् ।
प्रादेशमात्रा नाग्रे स्युस्तथा बहुभिदा यतः ॥
छादने विनियुक्तानां सामर्थ्यें नास्ति यत्र तु ।
तत्रान्याभिःसमर्थाबिस्तत्रत्याबिश्छदिर्भवेत् ॥
प्रच्छादयेति वचनं सर्वाग्निविषयं यतः ।
अतः पञ्चमभागीया पाणिबाहुऌयहेतुका ॥
व्यत्यासेनोपधानस्य व्यत्यासवचनस्य च ।
पुनःक्रिया तत्र तत्र भेदाभावैकहेतुका ॥
व्यत्यासे लोकतःसिद्धे तत्रासौ यतते यतः ।
तेनेष्टका मा6भेदो ऽप्यमृष्य इति गम्यते ॥
संख्यामात्रमनूद्येह पूरणं विदधाति यत् ।
तेन मन्यामहे साम्यं सर्वप्रस्तारगोचरम् ॥
न्यूने तु पूरयेदुक्तैः साम्यस्यायतनीस्थतेः ।
अतिरेके क्रमाभावात् प्रस्ताराःसर्वतःसमाः ॥
इति करविन्दस्वामिकृतायां शुल्बदीपिकायां तृतीयः पटलः
सुन्दरराजीया व्याख्या
द्विषाहस्रे त्रिप्रस्ताराः
प्रतिप्रस्तारं संधानार्तं पुरीषं भवति ।
चित्यन्ते मन्त्रतः ।
चतुर्थप्रभृति परिमाणम्
नित्यमुत्तरं त्रिषाहस्रमेव --
विज्ञायते चिन्वीतेति
सरेवत्राग्निषु दक्षिणोत्तरे पार्श्वे सदृशे एवोपधेये ।
तथा पाश्वात्यपौरस्त्ये ।
यदेवमाह -- "अद्यर्धा दश पुरस्ताद्दश पश्चात् अष्टावष्टौ पादेष्टकाः पक्षाग्रयोस्वतस्रश्वलतस्रः पक्षाग्रीयाः, इत्यादि ।
तदाह बोधायनः -- "पशुधर्मा ह वा अग्निर्यथा वै पशोर्दक्षिणेषमस्थ्नं यद्दक्षिणं तदुत्तरेषामुत्तरम्, इत्यादि ।
एतच्च सति संभवे; यदाह -- "द्वितीयचतुर्थयोस्वान्यतरतः प्रतिसंहितामेकैकां त्रिंशत्षष्टयः, एकं पञ्चमीम्ऽ इति च ।
द्विशता एव सर्वे प्रस्ताराः. प्रतिप्रस्तारं संख्यापूरणवचनात् रथचक्रे द्विशतयोरेव प्रस्तारयोर्वचनात् एष द्विशतः प्रस्तार इति श्येनचिति वचनाच्च ।
अतश्वोडा नाकसदश्वैकीकृत्य संख्येयाः ।
बोधायनस्त्वाह -- "पञ्चम्यां वा चितौ संख्यापूर्तिर्द्विशताः प्रस्ताराः ।
पञ्चचोडाभिर्नाकसदःसमानसंख्याः प्रतीयात्ऽ इति ॥
दशमः खण्डः
इति सुन्दरराजीये आपस्तम्बशुल्बसूत्रव्याख्याने
शुल्बप्रदीपे तृतीयः पटलः
कपर्दिभाष्यम्
अथ चतुर्थः पटलः
चतुरश्राभिर् अग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच् छब्दस्य

11.2

अस्याःश्रुलेरर्थस्तर्क्यते -- किं समानानां चतुरश्राणां चाविशेषग्रहणं आहोस्वित् समानामामेवेति? कुतः? विशेषाग्रहणात् ।
न कश्विद्विशेषः श्रूयते ।
तस्मादविशेषेणेति प्राप्ते उच्यते -- समचतुरश्रा एव ग्राह्याः ।
कुतः अनुपपदत्वाच्छब्दस्य ।
यत्रोपपदं न श्रूयते दीर्घो विषम इति वा तत्र समचतुरश्राणामेव मुख्यत्वात् मुख्येर्थे प्रथमं प्रत्ययो भवति; यतः प्रतीयते तस्यार्थो भवति ।
इतरत्र गौणः ।
तस्मात्सपचतुरश्राभिरेवोपा धातव्यः ।
नाध्यर्धाभिरिति स्थितम् ।
पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्य् ऊर्वस्थिमात्रयो भवन्त्य् अणूकमात्रयो भवन्तीति विज्ञायते

11.3

चतस्र एताःश्रुतयः ।
तासासावयमेव व्याचष्टे --
चतुर्भागीयमणूकम् । पञ्चमभागीयारत्निः । तथोर्वस्थि
अणूकशब्दः पुरुषचतुर्थस्य वाचसः ।
अरत्निः पञ्चमस्य ।
तथा -- तेनैव प्रकारेण ऊर्वस्थि षष्ठस्य ।
षड्भागीया इति शुल्बान्तरे ।
पादेष्टका पादमात्री

11.4

तत्र यथाकामी शब्दार्थस्य विशयित्वात्

11.5

चतुर्भागीयः पाद इति संज्ञा विहिता शास्त्रान्तरे ।
पाद शब्देन प्रमाणचतुर्भागो गृह्यते क्षेत्रचतुर्भागश् च ।
पादः प्रमाणमस्याः पादमात्री ।
पादशब्दस्य संबन्धशब्दत्वात् पुरुषचतुर्भागो ऽपि गृह्यते अणूकादिचतुर्भागश् च सन्निहितत्वात् ।
तेषां पादेष्टकाभिरित्युक्ते पुरुषचतुर्भागा अणूकादिचतुर्भागाश् च प्रतीयन्ते ।
कुतः? शब्दार्थस्य विष(श)यित्वात ।
वक्ष्यति च -- अणूकाः पञ्चदशभागीयानां स्थान इति ।
सङ्ख्यापूरणे ऽणूकानां प्रवेशं दर्शयति ।
ऊर्वस्थयरत्नयोः एकार्थत्वं केचिदिच्छन्ति ।
ते पञ्चदशभागीयाभिःसङ्ख्यापूरणं कुर्वते ।
तेषां दर्शने प्रस्तारा न युज्यन्ते ।
सहस्रसङ्ख्या तु पूर्यते प्रतिप्रस्तारमिति वचनमनर्थकमापद्येत ।
ये प्रस्तारा ते द्विशता इति वजनानि न युज्यन्ते ।
तस्मात्पूर्वोक्त एवार्थो ग्रह्यः ।
सर्ववचनानामर्थवच्वाय ।
करविन्दीया व्याख्या
अथ चतुर्थः पटलः
चतुर यते
चतुष्कोणाबिरिष्टकाभिरग्निं चिनुते ।
कीदृश्यो ग्राह्या इत्यत आह --
सनच ब्दस्य
ता इष्टका अदीर्घविषमाः समचतुरश्रा ग्रह्याः ।
कुतः? अनुपपदत्वाच्छब्दस्य ।
न ह्यत्रोपपदं श्रूयते दीर्घाभिरिष्टकाबिर्विषमाभिर्वेति ।
अतः "समं स्यादश्रुतत्वादितिऽ न्यायेन समा एव स्युः ।
पूर्वस्मिन्नग्नौ दीर्घाश् च सन्ति ।
अतो विधिभेदाद्वा विकल्पः पूर्वेणाग्निना ।
नित्यश्वाकामश्रुतेः ।
अग्निकल्पस्यैव श्रवणं प्रदर्शनार्तम् ।
आसां श्रुत्यैव दर्शयन्नाह --
पाद यते
एताश्रतस्रःश्रुतयः इष्टकानां प्रमाणं विदवति ।
सम्भवाच्च तासां समुच्चयः ।
पादमात्रयः -- पाद प्रमाणाः ।
पादशब्दस्वरणचतुर्थभागादौ वर्तते ।
इह चतुर्मागवाची ।
स चतुर्भागो ऽणूकादीनां ग्राह्य इत्युत्तरसूत्रे प्रतिपादयिष्यते ।
पादप्रणाणाः पादमात्रयः ।
अरत्निः सकनिष्ठिकः करः ।
स च पुरुषस्य पञ्चमबागः ।
वक्ष्यति च पञ्चारत्निः पुरुवः चतुर्विंशत्यङ्गुलयोरत्निरिति ।
तत्प्रमाणा अरत्निमात्रयः ।
उर्वस्थि -- ऊर्वोरस्थि ।
अणूकं पृष्ठवंशः ।
ता ऊर्वस्थिजान्वास्थिनाम्प्तयोर्नाणूकस्येत्यत्र व्याख्यानात् ।
पुरुषस्यः ष्ठो भाग -- उर्वस्थि ।
चतुर्थो भागो ऽणूकः ।
एतच्च उत्तरसूत्रे स्पष्टं वक्ष्यति ।
तत्प्रमाणा ऊर्वस्थिमात्रयः ।
अणूकामात्रयश् च ।
आ(ता)सोमवदिकपमाणवशेन संज्ञाविशेषविधानार्थमाह --
चतुर्मि त्री
अणूकारत्नयूर्वस्थिशब्दैः तन्मात्रय इष्टका गृह्यन्ते ।
उपसंहारे पादमात्रीष्टकेति दर्शनात् ।
संज्ञासु स्त्रीलिह्गनिर्द्देशाच्च ।
किञ्चाणूकादिशब्दैरपीष्टकानां व्यवहारा दृश्यन्ते ।
"अणूकाः पञ्चदशभागीयानां स्थाने सन्ध्यन्तराले पञ्चमबागीयाःसपादाःता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात्ऽ इत्यादिषु अणूकमात्री चतुर्भागीया तत्संज्ञा भवतीत्यर्थः ।
पञ्चमभागीयारात्निः -- अरत्निमात्री पञ्चमभागीयाख्या ।
तथोर्वस्थि -- उर्वस्थिमात्री षड्बागीयाख्या ।
पादेष्टका -- पादमात्री ।
ननु कथमेतल्लभ्यते षड्भागीयोर्वस्थीति? तथेति प्रकारातिदेशात् ।
कथमतिदेशः? यथारत्निमात्रीसङ्ख्या सन्निकर्षेण स्वपूर्वोक्तारत्निमात्रीप्रमा(णे)णान्यूनानन्तरपरिमाणवचन संज्ञा स्यादिति तथोर्वस्थिमा6यपि संख्या तत्सन्निकर्षेण स्वपूर्वोक्तारत्निमात्री प्रमाणान्यूनानन्तरपरिमाणवचनसंज्ञा स्यादिति ।
किञ्च षड्बागीयोर्वस्थीति वक्तव्य तथेत्ययमतिदेशः प्रकृतपुरुषावयवप्रमाणप्रकारसमाप्तिसूचनार्थः ।
तेनोर्वस्थयन्तानामेवावयवप्रमाणपरिमाणत्वं न पादमात्रीणामिति ज्ञायते ।
अतःस्ववाक्यसन्निहितत्वात् "उपधाने ऽष्टावष्टौ पादेष्टकाः चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् ।
सन्ध्यन्तराले पञ्चमभागीयाःसपादाःता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात्ऽ इति दर्शनाच्च ।
अणूकार्दानां पादा इह पादत्वेन गृह्यन्ते न चरणादयः ।
किञ्चश्वुतिदृष्टमपहायाणूकादीनां व्युत्क्रमेण पाठपौर्वापर्ये पूर्वस्य प्रमाणाधिक्यज्ञापनार्थः ।
तेनोर्वस्थिप्रमाणानामरत्निमात्रीभ्यो न्यूनप्रमाणत्वं पादमात्रीणामणूकारत्नचूर्वास्थिमात्रीभ्यो न्यूनप्रमाणत्वं च ज्ञापितं भवति ।
एतच्च सर्वमुक्तं भगवता बोधायनेन "समचतुरश्राभिरग्निंऽ चिनुत "इत्युपक्रम्य तस्येष्टकाः कारयेत् ।
पुरुषस्य चतुर्थेन पञ्चमेनः ष्ठेन दशेमन चऽ इतिवदता ।
अतो ऽणूकादिपादा इह पादत्वेन गृह्यन्ते ।
ते च तेषामर्धेन ग्राह्याः ।
अर्धप्रमाणेन पादप्रमाणं विधीयत इति न्यायात् ।
अतः पञ्चदशाङ्गुलाणूकपादाः द्वादशाङ्गुलारत्निपादाः दशाङ्गुला ऊर्वास्थिपादाः ।
तेनेह षड्विधा इष्टकाः ।
तादृशैः करणैः कार्याः ।
नन्वणूकादिशब्दैरासां परिमाणज्ञाने व्यवहारे च सिद्धे किमर्थं महत्यः संज्ञाः क्रियन्ते? उच्यते -- श्रौतनामणूकादिशब्दानां पूरुषचतुर्भागादिमात्रपरिमाणपरत्वज्ञापनेन तस्य तस्य पुरुषस्य चतुर्भागादिपरिमाणैरिष्टकानिर्माणार्थम् ।
तथाहि -- लोके द्विविधाः पुरुषाः समाश् च विषमाश् च ।
तत्र समाःसामुद्रीयाशेषलक्षणोपेताः ।
कतिपयैर्विहीना विषमाः ।
समाःसामुद्रीयाशेषलक्षणोपेताः ।
कतिपयैर्विहीना विषमाः ।
समानामणूकादयः ।
तदपेक्षया नियतपरिमाणत्वान्मुख्यतया गृहीताः ।
इतरेषां तु गर्भाधानादिकालस्तितप्राकृतादृष्टादिवशेन न्यूनाधिकवक्राद्यनेक रूपाङ्गतयाणूकादिषु चतुर्भागादिनियमव्यभिचारात्तत्प्रमाणैरुत्पादितानामिष्टकानां उपधानकाले तत्संख्याकानां तासां तत्र तत्रोपधाने ताभिस्ताभिस्तद्देशपूरणं न्यूनाभिर्वा पूरणम् ।
भिन्नजातीयानां तत्रत्यानां तत्र तत्र सङ्घट्टनमित्येवमादयो महान्तो दोषास्तत्र सम्भीवष्यन्तीति ।
अतःश्रुतिगताणूकादिशब्दैस्तद्वैषम्यपरिहाराय पुरुषचतुर्मागादयो लक्ष्यन्त इत्यस्यार्थस्य प्रतिपादनायान्वर्था महत्यःसंज्ञाः कियन्ते ।
तेनायमर्थःसंपद्यते -- ऊर्ध्वबाहोः पुरुषस्य प्रमाणं गृहीत्वात्स्य चतुर्थेन पञ्चमेनः ष्ठेन वा तेषां अर्धेष्टकाः कारयेदिति ।
अत्र केचिद्वर्वश्थ्यरत्वयोरेकार्थतामिच्छीन्त ।
तेषां मते ऽग्निकल्पे तथोर्वस्ति शब्दस्यारत्निशब्दस्य वा पृथगुपादानं पुनरुपादानं श्रुतिदर्शनं च सूत्रकारस्य प्रमादकृतमेवावतिष्ठते ।
तत्र या यित्वात्
गतं ।
अयमर्थः -- चतुर्भागादयः पुरुषचतुर्भागपरिमिताः स्युः ।
पुरुषकल्पनानुरूपाः स्युरिति चतुर्भागीयास्त्रिंशदङ्गुलाः पञ्चभागीयाश्चतुर्विंशत्यङ्गुलाः षड्भागीयाः विंशत्यङ्गुलाः ।
तासां पादास्तदर्थमिताः पञ्चदशद्वादशाङ्गुलाश् चेति ।
सुन्दरराजीया व्याख्या
अथ चतुर्थः पटलः
अथैतमेव चतुरश्वं प्रकारान्तरेणोपधातुमाह ----
चतुरश्राभि त्वाच्छब्दस्य
अनुपपदत्वं दीर्घादिभिरिति विशेषणाभावः ।
पादमात्रयो विज्ञायते
एषां पादादीनां प्रमाणमाह --
चतुर्भागीयाणूकम्
पुरुषस्य चतुर्भागीया त्रिंशदङ्गुला अणूकमात्रीत्युच्यते ।
पञ्चमभागीयारात्निः
चतुर्विंशत्यङ्गुला ।
तथोर्वस्थि
तथा तेनैव मार्गेणोर्वस्थि ज्ञातव्यं, तच्च षढ्भागीयं विंशत्यङ्गुलम् ।

केचिदूर्वस्थीत्यपि पञ्चमभागीयामेवाहुः, तदयुक्तम् ।
"कुल्मिमात्रो ऽरत्निप्रादेश ऊर्वस्थीतिऽ भेदेन निर्देशात् ।
"इष्टकाः करोति प्रादेशमात्रयो ऽरत्निमात्रय ऊर्वस्थिमात्रऽ इति प्रयोगकल्पे पृथग्वचनात् तदूर्वस्थीत्यादिवचनाच्च ।
व्यक्तोक्तत्वाच्च बोधायनेन -- "तस्येष्टकाः कारयेत् पुरुषस्य चतुर्थेन पञ्चमेन षष्ठेन दशमेनऽ इति ।
पादेष्टका पादमात्रि
पादश्वाविशेषादणूकादीनां च सर्वासां च भवति ।
तत्र यथाकामीशब्दार्थस्य विशयित्वात्
लोके पादशब्दश्चतुर्भागवचनः प्रसिद्धः ।
व्कचिदेकदेशमात्रे ।
"कृच्छ् पादः प्रकीर्तितऽ इति "ऋचं पादग्रहणऽ इति ऋक्षु च ।
वेदे त्वेकदेशमात्रे दृश्यते -- "त्रिपदा गायत्री पञ्चपदा पाङ्क्तिर्ः ,चपपदा शव्करीऽ इति ।
इह तदुभयं ग्राह्यं ।
शब्दार्थस्योभयत्र वृत्तेः ।
अत्र च पादशब्दार्थनिरूपणं क्रियते एकविधाद्यर्थम् ।
अस्मिं स्त्वग्नौ चतुर्भागवचने ऽपि पादे न कश्विद्दोषः ।
ये तु षड्भागीयान्नेच्छन्ति तेषामेवोपयोगः, अणूकारत्निपादत्वेन दशाङ्गुलाष्टाङ्गुलानां ग्राह्यत्वात् ।
कपर्दिभाष्यम्
उपधाने ऽष्टावष्टौ पादेष्टकाश् चतुर्भागीयानां पक्षाग्रयोर् निदध्यात् । सन्ध्योश् च तद्वद् आत्मानं षडङ्गुलापेताः
उपधानकाले अष्टावष्टौ चतुर्भागीयानां पादेष्टकाः पक्षाग्रयोरूपदधायात् ।
अष्टावष्टाविति विशयाः ।
अत्मानं षडङ्गुलमात्रमवेताः अवगता व्याप्ता इति यावत ।
नवाङ्गुलमात्रं पक्षयोः ।
श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश् च

11.6

श्रोण्यंसयोस्वतस्रश्चतस्रः ।
ताः पादाः ।
प्रचीःश्रोण्योः ।
अंसयोः प्तीचीः ।
एवं चतुर्भागीयपादा अष्टाचत्वारिंशत् ।
सन्ध्यन्तराले पञ्चभागीयाः सपादाः

11.7

पक्षसन्ध्योरन्तराले पञ्चमभागीयाः पादसहिताः ।
मध्ये पादाः ।
दश प्रतीचिः ।
तासां दक्षिणतः पठ्चविंशतिः पञ्चमभागीयाः ।
उत्तरतो विंशतिः ।
एवं सन्ध्यन्तराले पञ्चपञ्चाशदिष्टकाः उपधेयाः ।
पुच्छे प्रादेशमुपधाय सर्वम् अग्निं चतुर्भागीयाभिः प्रच्छादयेत्

11.8

प्रादेशशब्देन किं क्षेत्रमभिधीयते? पुच्छे यत्प्रादेशमिति? अथवा इष्टकाः प्रादेशेन कारिताः? यदि क्षेत्रमभिधीयेत प्रादेशपङ्क्तिरेवोपधातव्या स्यात् ।
तथा सति भिद्येताग्निः ।
इतरस्मिन्पक्षे यथा न भिद्यते तथा प्रादेशेष्टका भवेयुः ।
प्रादेशमिति जातावेकवचनम् ।
प्रादेशेष्टकाभिःसहाणूका न शेरते ।
शेरते तु पञ्चभागीयास्ताभिःसह ।
अतश्चतस्रश्चतस्रः श्रोण्योः पादेष्टकास्त्रयोदश पञ्चमभागीयाः ।
पूर्वार्धे ऽष्टावणूकाः ।
एवमेकोनत्रिंशत्पुच्छे ।
अपरे पुनरेवं वर्णयन्ति -- यस्य वितस्तया वर्धनं कृतं तत्रापि चतुरश्रश्रुतिसामर्थ्यात् प्रादेश एवेष्टकाभिर्व्याप्यत इति ।
एवमर्थं प्रादेशग्रहणमिति ।
तस्मिन्नपि पक्षे उक्त उपधानक्रमः ।
सर्वमिति द्वात्रिंशत् ।
अष्टाविंशतिरात्मन्युक्ताः ।
पुच्छपूर्वार्धे ऽष्टौ ॥
पादेष्टकाभिः संख्यां पूरयेत्

11.9

पञ्चदशभागीयाभिःसंख्यां पूरयेत् ।
आत्मनि द्वितीयायां रीत्यां मध्यमां चतुर्भागीयां मध्यमे द्विशतः प्रस्तारः ॥
करविन्दीया व्याख्या
उपधा ध्यात्
उपधानकाले पञ्चदशाङ्गुला अष्टावष्टौ पक्षाग्रयोर्निदध्यात् ।
पक्षात्मसन्धयोश् च तद्वदात्मनि षडङ्गुलावेताः ।
पक्षात्मसन्ध्योश्वाष्टावष्टौ ।
ताःषडङ्गुलाःश्येनात्मनि प्रविष्टाःश्रोण्यंसेषु च ।
चकारेण तद्वदित्याकृष्य सामर्थ्याद्विशयाभावः ।
श्रोण्यंसेषुचतस्रश्चतस्रः ।
विशेषमाह -- अष्टावष्टौ प्राचीः प्रतीचीश् च ।
श्रोण्योः प्राचीः अंसयोः प्रतीचीः ।
ननु अष्टावष्टाविति वीप्सया प्राप्तानां स्थानचतुष्टयनिर्द्देशे प्रतिस्थानमष्टावष्टौ कथं न स्युः? उच्यते -- "अष्टौ प्राचीः प्रतिस्थानमष्टावष्टौ कथं न स्युः? उच्यते --"अष्टौ प्राचीः प्रतिचीश्वेतिऽ वचनसामर्थ्यात् प्राचीनां प्रतीचीनां चाष्टत्वमवगम्यते न प्रत्येकं चतस्र एवेति ।
श्रोण्योःप्राच्यौ रीत्यावंसयोःप्रतीच्यौ ।
ता एता अष्टाचत्वारिंशत् चतुर्भागीयाः पादाःसन्ध्यन्तराले पञ्चमभागीयाःसपादाः पक्षसन्ध्योर्मध्ये आत्मनि पञ्चमबागीयाःसपादाः सामर्थ्यात् स्वपादैःसहिता निदध्यात् ।
अत्र दक्षिणभागे विशयानामुत्तरतः पञ्चविंशतिः पञ्चमभागीयाः ।
उत्तरभागे विशयानां दक्षिणतो विंशतिः पञ्चमभागीयाः ।
मध्ये दश प्रदेशाः ।
एवमेताःसन्ध्यन्तराले पञ्चपञ्चाशदिष्टकाः ॥
पुच्छे येत्
गतमेतत् ।
पूर्वाग्नौ पुच्छाग्रप्रदेशे पृथग्रीतित्वे भेदप्रसङ्गेन तत्परिहारायायं यत्नः ।
अत्र तु मूलप्रदेशरय पृथग्रीतित्वे उपरितनप्रस्तारे वक्ष्यमाणविशयपञ्चमभागीयाविधेर्भेदः प्रसज्येतेति गम्यते ।
स चापि परिहार्य एव ।
ततश्चतुर्भागीयाभिरात्मशेषं पक्षशेषं च प्रच्छाद्य पुच्छे तु पूर्वार्धे ऽष्टौ चतुर्भागीया उपधाय पश्चार्धे भेदाभावाय पञ्चदश पञ्चमबागीया उपदध्यात् ।
उक्तं चाभियुक्तैः --
अवाधः कॢप्तदेशानां स्तारे स्तारे च पूरणम् ।
भेदभावो ऽपि चाग्नीनामाचार्याणां परायणाम् ॥
इति ।
चतुर्भागीयाशब्दो बाहुयाभिप्रायः ।
प्रच्छादने प्रच्छादन शब्दस्यापि पूर्वोक्तमेव प्रयोजनम् ।
अत्र प्रादेशपृथग्रीतित्वे भेदप्रसङ्गात् सर्वाग्नेः प्रच्छादनर्य विहितत्वाच्चतुर्भागीयानां चासम्भवादुक्तानामसम्भवे भेदाभावाय च तत्रतत्रोक्तानामसम्भवे तत्रत्याभिःसम्भवन्तीभिरन्याभिः प्रच्छादनं कार्यमिति पूर्वमेवोक्तम् ।
तत्र दक्षिणे पक्षे पादानां मध्ये षोडशचतुर्भागीयाः ।
उत्तरे च ताः षोडश ।
आत्मनि सन्ध्योरन्तरालरच पुरतः पुरतः पादानां मध्ये चतूर्दश ।
ताः पश्चिमतश्वपादानां मध्ये चतुर्दश ।
अष्टौ पुच्छरय पूर्वार्धे ।
अपरार्धे पञ्चदश पञ्चमभागीयाः ।
सन्ध्यन्तराले पञ्चचत्वारिंशत् पञ्चमभागीयाः तत्र षष्टिरणूकाः ।
षष्टिः पञ्चमभागीयाः ।
अष्टाचत्वारिंशदणूकापादाः दश पञ्चमबागीयाः पादाः ।
ता एताःषडशीतिशतम् ।
अत्र चतुर्दशसंख्या सम्पाद्या ।
तत्सम्पादनमाह --
पादे येत्
गतम् ।
आत्ममध्ये पञ्चम्यां रीत्यां उपान्त्यां चतुर्भागीयामुद्ध्रृत्य नव षड्भागीयान् पादानुपदध्यात् ।
पुच्छश्रोण्योरेकैकां पञ्चमभागीयामुद्धृत्य
चतुरस्तत्पादानुपदध्यात् ।
एवं द्विशतः प्रस्तारः ।
आत्मनि प्राच्यो रीतयः ।
पक्षयोर्दक्षिणोत्तरयोः पुच्छे चोदीच्यो रीतयः ॥
सुन्दरराजीया व्याख्या
उपाधाने ऽष्टावष्टौ दध्यात्
चतुर्भागीयानां पादेष्टकाः पञ्चदशाह्गुलाः ॥
सन्ध्योश्व--वेताः
सन्ध्योः पक्षाप्यययोः तद्वत् पक्षाग्रवदष्टावष्टौ ॥
ताश्वात्मानं षडङ्गुलेन प्राप्ताः, नवाङ्गुलेन पक्षौ ॥
शोण्यंसेषु -- चीश् च
एकैकत्र चतस्रश्चतस्रः, एवं षोडश प्राचीः प्रतीचीरिति पादाः अष्टावित्यत्र वीप्सार्थो द्रष्टव्यः ।
अथवा अनेन सूत्रेण श्रोण्यंसेष्वष्टावेव विधीयन्ते, "अन्या अष्टौ पादेष्टकाभिःसंख्यां पूरेयत्ऽ इत्यनेन ।
सर्वथा तावत् षोडशैवोपधेयाः ।
सन्ध्यन्तराले -- पादाः
पक्षाप्यययोरन्तराले पञ्चमबागीयाः पञ्चचत्वारिंशत् ।
आसां मध्ये दश प्रादेशमात्रयः ।
पादशब्देन च सन्निहितत्वात् पञ्चमबागीयानां पादा उच्यन्ते ।
तासां पादेष्टकानां दक्षिणतो विंशतिः पञ्चमभागीयाः, उत्तरतः पञ्चविंशतिः, विपरीता वा ॥
पुच्छेप्रादेशमुपधाय
पुच्छाग्रे यत्प्रवृद्धं प्रादेशक्षेत्रं तदुपदध्यात् सामर्थयाद्दशभिः प्रादेशैः ॥
सर्वमग्निं -- दयेत्
एवं प्रच्छादिते एकोननवतिशतं (189 ) इष्टका भवन्ति ।
पादेष्ट -- येत्
पुच्छस्यापरार्धे पार्श्वेयोश्चतस्रश्चतस्रः पञ्चदशाङ्गुलाः ।
एवं कृते पञ्चोनद्विशतं भवति ।
ततः पुच्छस्य पूर्वार्धे पार्श्वेयोर्मध्ये तिस्रस्तिस्रःषड्भागीयाः प्रचीरुपदध्यात् ।
एवं द्विशतः प्रस्तारः ॥
कपर्दिभाष्यम्
अपरस्मिन् प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः
द्वितीये प्रस्तारे पुच्छाप्यये पुच्छात्मसन्धौ विशया उभयस्थाः पञ्चमभागीया उपधेयाः ।
ता आत्मनि चतुर्दशभिः पादैर् यथायोगं पर्युपदध्यात्

11.10

तासानेव पादेष्टकाभिः विशयासंसृष्टाभिः चतुर्दशभिरुपदध्यात् ।
आत्मनि यथा युज्यन्ते ।
इह षड्भागीयानां करणमुक्तम् ।
उपधानं नोक्तम् यथा पूर्वत्रार्धेष्टकानां पुरस्ताच्चोपधेयाः पुच्छस्य पूर्वार्धे पार्श्वयोस्तिस्रस्तिस्रः षड्भागीयाः मध्ये चतस्रः ।
शिष्टे द्वादश चतुर्भागीयाः ।
सर्वम् अग्निं पञ्चमभागीयाभिः प्रच्छादयेत्

11.11

पादेष्टकाक्षिः सङ्ख्यां पूरयेत्
इह पादेष्टकाशब्देन पुरुषस्य पूरयितव्यस्य चतुर्भागकारिका अणूका गृह्यन्ते ।
पञ्चमभागीयाश् च कृता उपधेया इत्युच्यन्ते ।
द्वादश चतुर्भागीया आत्मनि ।
प्रथमा रीतिः पञ्चमभागीयानाम् ।
द्वितीया रीतिश्चतुर्भागीयानाम् ।
षष्ठी प्रादेशानाम् ।
नवमी चतुर्भागीयानाम् ।
शिष्टे पञ्चमभागीयाः ।
एष प्रस्तारो द्विशतः ।
अत्र केचन याज्ञिकाः अनुपाशितगुरवः आचार्याभिप्रायमजानन्तः ऊनाद्दूय(ह्य)धिकप्रस्तारं कुर्वन्ति ।
अस्य तु सूत्रकारस्य प्रतिप्रस्तारं पूरयेदिति वदतस्तदनभिप्रेतमेव ।
यद्येवमभिमतमभविष्यत् सर्वत्र प्रतिप्रस्तारं संख्यां पूरयेदिति नावक्ष्यत् ।
उक्तं च; तस्माद्द्विशतः प्रस्तारः
कर्तव्यः ।
तत्र श्लोकः --
अष्टौ श्रोण्यंसयोश् च स्युः पादाः सूत्रकृतेरिताः ।
तासां मध्ये चतुर्थ्यःस्युः चतुर्दश चतुर्दश ॥
सन्ध्यन्तराले पञ्चम्याः पादैश् च दश्भिःसह ।
तासां मध्ये दश प्रोक्ताः प्राच्यस्युःशुल्बकर्मणि ॥
अष्टौ पुच्छस्य पूर्वार्धे चतुर्थ्यःशिष्ट एव तु ।
द्वितीया नवमी चैव चत्तुर्थी नाम वात्मनि ॥
उदीच्य एव नित्यं स्युर्मध्याः पञ्चमपादकैः ।
कृताभिश्चतुरश्राभिरणूकोविर .... त्निभिः ॥
अस्या एव सपादाभिः प्रस्तारो द्विशतः कृतः ॥
इति ॥
करविन्दीया व्याख्या
अपर याः
द्वितीये प्रस्तारे पुच्छाप्यये एवं पञ्चपञ्चमभागीया उपधेयाः ।
अविशेषादात्मपुच्छयोःसमं प्रविष्टाः ॥
ता आ ध्यात्
ता विशयाश्चतुर्दशभिः पादैः प्रकृतत्वात् पञ्चमभागीयानां यथा योगं परितःसर्वतः उपदध्यात् ।
विशयानां पुरस्ताद्दश ।
सर्व येत्
पक्षयोस्त्रिंशत्त्रिंशच्पञ्चमभागीयाः पुरस्तात्प्रभृत्यात्मनि प्रच्छाद्यमाने उदगायताः पञ्चमभागीयानां नव रीतयः ।
चतुर्दशीयानां पादानां दक्षिणतो द्वे पञ्चमभागीये उत्तरतश् च द्वे ।
पुच्छे तु यथोक्ताभिः प्रच्छाद्यामाने बहुभेदप्रसङ्गात् षड्भागीया उत्पन्ना अपि न युक्ता इति षड्भागीयास्तिस्रस्तिस्रो विशयानां पश्चात् पुच्छपार्श्वयोः प्रतीचीरुपदधाति ""तासां पार्श्वे द्वेद्वे चतुर्भागीये प्रतीच्यौ उपधाय तासां मध्ये तिस्रः षड्भागीयाः प्रतीचीरुपदध्थात् ।
अपरार्धे चाष्टावणूकेष्टका उपदध्यात् ।
एवमात्मनि विशयाभिः सह एकोनशतं पञ्चमभागीयाश्चतुर्दशप्रादेशाः पक्षयोस्त्रिंशत्तिंशत् पञ्चमभागीयाः पुच्छे द्वादश चतुर्भागीया नव षड्भागीयाः ।
ता एताः षडूनं द्विशतम् ।
तत्र षट्संख्या सम्पाद्याऽऽ
पादे येत्
अत्र नवपञ्चमभागीयारीतीनां मध्यस्थामेकां पञ्चमभागीयारीतिमुद्धृत्य मध्ये विंशतिप्रादेशेष्टका उदीचीरुपदध्यात् ।
अत्र चतुःसंख्यातिरिच्यते ।
अतिरेके अधिकप्रमाणोपधानेन संख्यापूरणस्यान्याय्यत्वादणूकाः पञ्चमभागीयानां स्थान इति परिभाषयाणूकोपधानेन संख्यापूरणस्य न्याय्यत्वाच्च ।
ततः प्रादेशरोत्या पूर्वरीतिः यथा संश्लिष्टा भवति तथा कृत्वा पूर्वान्तरीतिमुद्धृत्य तत्राष्टावणूका उपदध्यात् ।
एवं प्रादेशरीत्याः परितस्तिस्रो रीतीः प्रच्याव्य द्वितीयां रीतिमुद्ध्त्याष्टावणूका उपदध्यात् ।
एवं द्विशतः प्रस्तारः ।
अत्र केचित -- प्रथमे प्रस्तारे पुच्छाग्रे दशप्रादेशानुपधाय पादेष्टकाश्वानादृत्य पञ्चदशभागीयाभिःसंख्यां पूरयन्ति ।
भेदमपि सहन्ते ।
प्रथमे ऽपि प्रथमे ऽपि प्रस्तारे सन्ध्यन्तराले ऽणूकास्तत्पादाश्वोपदधाति ।
तथोपधाने प्रयोजनं मृग्यम् ।
केचितु प्रच्छादनकाले संख्यापूरकाणां स्थानमवशिष्य प्रच्छाद्य संख्यापूरका उपदधति ।
तत्र तु सूत्राञ्जस्यमस्ति वा नवेति चिन्त्यम् ॥
तत्र्.अ श्लोकाः ।
ऊर्वर्स्थिशब्दसंयुक्ता श्रुतिर्मुख्यात्र या कृता ।
आचार्येणैव सूत्राणां षड्भागीया कृते तु सा ।
आक्यातमर्थं चाचार्यैस्तथोर्वस्थीति सूत्रितम् ।
षड्भागीयापदं तद्द्वदप्यन्यैःसूत्र्रितं परैः ।
हिरण्यकेशिनां शुल्बे तथोर्वस्थीति सूत्रितम् ।
व्याख्यातारो ऽपि तत्रैतत् षड्भीगायापरं विदुः ।
बोधायनश् च भगवान् समे तु चतुरश्रके ।
तुर्यपञ्चमषष्ठैश् च सपादैः करणं व्यधात् ।
उर्वस्थिनामधेयानामुपदेशबलादिह ।
प्रच्छादितानामाभिस्तद्बाधःसूत्रकृतेष्टते ।
अरत्नयो ऽप्यणूकाश् च छादने स्युर्विपर्ययात् ।
पूर्वस्मिन्नपरस्मिंश् च प्रस्तारे संभवो न हि ।
न पञ्चदशभागीया श्रूयते त्र द्वितीयके ।
श्रूयन्ते तास्तु पूर्वाग्नौ न तत्पूर्वो द्वितीयकः ।
प्रकृतित्वाद्द्वयोरग्नयोः नित्यत्वाच्च द्वयोरपि ।
अतस्तासं द्वितीये ऽग्नौ कथं प्राप्तिर्विमृश्यताम् ।
किन्तु तासां तु यत्कार्यं तत्राणूकास्तु बोधिताः ।
प्रथमाग्नेरतो ऽन्यत्र तत्स्थाने स्युरणूकिकाः ।
ये त्वत्र पञ्चदशभागीयाभिःसंख्यापूरणं कुर्वन्ति ते किमुपदेशतो वा प्राप्तं मन्वते? अतिदेशतो वा? उभयथापि न युज्यते ।
द्वयोः प्रकृतित्वात् प्रकृतिविकाराभावाच्च ।
नन्वणूकाः पञ्चदशभागीयानां स्थान इति वचनसामर्थ्यात्तासां प्राप्तिर्भविष्यति ॥
इत्.इ चेन्न; पञ्चदशभागीयानां स्थान इति वचनं तत्कार्ये संख्यापूरणो ऽण्कानां प्रापकम् ।
न तु संख्यापूरणमात्रे तासामप्यु पधायकम् ।
तस्माच्चिन्त्यमिदम् ।
सथमर्थमिदमाचार्येणोक्तं? उच्यते -- उपधीयमानानामिष्टकानां संख्यायाःस्थाने ।
न च प्रस्तारै संख्यासम्पत्तौ यदिष्टकाभेदादवयवभेदःस्यात् स मर्षणीय इति मन्यमानेनोक्तम् ।
तदेतद्द्वितीयश्येने प्रतिपादयिष्यते ।
केचित्तु याज्ञिका न्यूनाधिकप्रस्तारमग्नौ कुर्वन्ति समुदाये संख्यासम्पत्तिं मन्यमानाः ।
तदयुक्तम् ।
पञ्चदशप्रभृतिभिः प्रस्तारेः सहस्रादि संख्यायां सम्पाद्यमानायां विशेषाश्रवणे "समं स्यादश्रुतत्वात्ऽ इति प्रस्ताराणां द्विशतत्वस्यैव न्याय्यत्वात् ।
रथचक्राग्नौ तस्य करण्या द्वादशेनेत्यादिना द्विशतानामेवोत्पादनाच्च ।
ननु यत्र यत्र प्रस्तारे पूरयेदिति वचनान्तरमस्ति तत्र प्रस्तारे संख्यापूरणमस्तु ।
तद्यत्र नास्ति तत्र समुदायसंख्या पूरणसंख्या इतरथा पूरणवचनस्यानर्थक्यप्रसङ्गात् ।
उच्यते -- न तत्रानर्थक्यप्रसङ्गः ।
कथं? तत्र हि न्यायप्राप्तं संख्यापूरणं तत्साधनत्वेन पञ्चदशभागीयानां विधानात् ।
यदि सर्वे प्रस्तारा द्विशताः किमर्थमेष द्विशत प्रस्तार इत्युच्यते? सिद्धे सत्यारम्भमात्रोद्देशेन सर्वेषां प्रस्ताराणां द्विशतत्वसम्पादनार्थम् ।
यथैकविधप्रस्तारो द्विशतः एवमन्ये ऽपि सर्वे प्रस्तारा द्विशतसंख्याः कार्याः ।
पूरणवचना भावे ऽपीति न्यायप्राप्तमेवार्थं अनुवादेन द्रढयितुमयं यत्नः ।
तस्मात्सर्वे प्रस्तारा द्विशताः कार्या इति न न्यूनाधिका इति सिद्धं सर्वप्रस्ताराणां द्विशतत्वम् ।
प्रकृतिभूतःसप्तविध उक्तः ।
इदानीं नित्या विकृतय उच्यन्ते -- एकविधेति ।
एकविधादीनां षड्विधपर्यन्तानां षण्णामग्नीनां तस्यतस्याग्नेः करणीनां द्वादशभागेन त्रयोदशभागेन च इष्टकाः कारयेत् ।
अत्रैकविधस्य करणी शतं विंशतिः (120) अङ्गुलयः ।
द्विविधस्य एकोनसप्ततिशतं अङ्गुलयः चतुविंशतितिलाश् च ।
(169 2 ।
3 4 ।

4) त्रिविधस्य द्वे शते सप्त ङ्गुलयः एकोनत्रिंशत्तिलाश् च (207 2 ।
3 9 ।
4) चतुर्विधस्य द्वे शते चत्वारिंशच्चाङ्गुलयः (240) पञ्चविधस्य द्वे शते षष्ठिरङ्गुलयः एकादश तिलाश् च (260 1 ।
3 1 ।
4) षड्विधस्य द्वे शते त्रिनवतिरङ्गुलयः एकत्रिंशत्तिलाश् च (293 3 ।
3 1 ।
4) ।
एतासां करणीनां सर्वतो द्वादशेनैकं करणम् ।
सर्वतस्त्रयोदशेनैकं करणम् ।
तयोः पादेष्टकानां करणं चकारादर्धेष्टकानामपि षड्विधं नवविधं वा करणम् ।
उपधानमुच्यते -- अभितः पादास्तिस्रो रीत्यो द्वादश्यः ।
ततः पञ्चरीत्यस्त्रयोदश्यः ।
तत एका त्रयोदशीपादाः ।
तत एका त्रयोदश्यः ।
ततस्तिस्रो ऽभितः पादा द्वादश्यः इति त्रयोदश रीत्यः ।
तत्र द्वितीयायां रीत्यां द्वादश्यां चतुर्थीमष्टमीं चेष्टकामुद्धृत्य द्वेद्वेर्ऽधेष्टके उपदध्यात् ।
तत्रैव चोपान्त्ये उद्धृत्य चतस्रोर्ऽधेष्टकाः ।
द्विशत एव प्रस्तारः ।
द्वितीये प्रस्तारे द्वे रीत्यौ त्रयोदश्यः ।
तत एका 6योदशीपादा ।
तत एकाभितः पादा त्रयोदश्यः ।
ततश्चतस्रो रीत्यो द्वादश्यः ।
तत एकाभितः पादा द्वादश्यः ।
ततस्तिस्रो रीत्यस्त्रयोदश्यः इति त्रयोदश रीत्यः ।
अत्र मध्यमायां वा षडुद्धृत्य पादा उपदध्यात् ।
प्रस्तारो द्विशतः ।
अथवा प्रथमप्रस्तारे द्वादशभिः द्वितीयस्त्रयोदशभिस्तथोच्यते ।
कृत्स्नद्वादशी पक्षे दीर्घा पादेष्टका अर्धेष्टकाश् च तत्रतत्र प्रथमप्रस्तारे प्राच्यःसप्तदश रीतयः ।
ताःसर्वा द्वादशेष्टकाः ।
तासां सर्वासां दक्षिणा अर्धेष्टकाभिः ।
तत एका पादाभिस्ततस्तिस्रो द्वादशीभिस्तत एका पादाभिस्तत एकार्धाभिः ।
तत एका पादाभिस्ततस्तिस्रो द्वादशीभिः ।
अन्त्यार्धाभिरेवं सप्तदश रीतयः ।
तत्र षञ्चमीषष्ठीसप्तमीनां रीतीनामन्त्यास्तिस्र उद्धृत्य एकां द्वादशीमुपदध्यात् ।
अथैकादशी द्वादशी त्रयोदशीनामन्त्याः तिस्र उद्धृत्य एकादशीमुपदध्यात् ।
एवं द्विशतः ।
यद्द्वितीयं त्रयोदशभिरुदीच्यो रीतयश्चतुर्दश तासां प्रथमार्धाभिर्द्वादशीत्रयोदशीभिरन्त्यार्धाभिः ताश्चतुर्दश रीतयः ।
एवं द्वादश शतमिष्टकाः ।
तत्र पूर्वार्धे त्रयोदशीः षडुद्धृत्य चतुर्विंशतिं पादा उपदध्यात् ।
एवं द्विशतः ।
यदि सर्वे प्रस्तारा द्वादशीभिः तदा पूर्वोक्तप्रकारेण प्रथमं प्रस्तारमुपधाय द्वितीयप्रस्तारत एव रीतीरुदीचीरुपदध्यात् ।
एष द्विशतः ।
यदि सर्वे त्रयोदशीभिः, तदा द्वितीयप्रस्तारोक्ता रीतिः प्रथमे प्रस्तारे प्राचीरुपधाय पश्चार्धे त्रयोदशीरुद्धृत्य पादा उपधायापरस्मिन् प्रस्तारे ता उदीचीरुपदध्यात् ।
एष द्विशतः ।
यद्येकत्र त्रयोदशान्यतो द्वादश तदा प्रागायता इष्टका उदीच्यः त्रयोदश रीतयः ।
ताःषट्पञ्चाशच्छतं च पूर्वस्यां रीत्यां पञ्चम्यां चाष्टावष्टावुद्धृत्याष्टाविंशतिं पादाः द्वे द्वे चार्धे ।
एवं द्विशतं ।
द्वितीये प्रस्तारे ता एव प्राच्यो रीतयः ।
यत्र दक्षिणतः उत्तरतश्वाष्टावष्टावुद्धृत्य पूर्ववत् पादा अर्धाश्वोपदध्यादेवं द्विशतः ।
एवमेव प्रौगादिष्वपि करणानि द्वादशभागीयाभिस्त्रयोदशभागीयाभिर्वा यथायोगमुपधाय पादेष्टकाभिरर्धेष्टकाभिश् च संख्यां पूरयेत् ।
अलमतिप्रसङ्गेन ॥
सुन्दरराजीया व्याख्या
उभयत्र प्रादेशमात्रमविशेषात् ।
ततः पुरस्ताद्दश प्रादेशाः पार्श्वयोर्द्वैद्वौ ।
सर्वमग्निंअपूरयेत्
आत्मनि विशयाभिःसह उदीच्यो दश रीतयः, तासां द्वितीयां नवमीं चतुर्थीभिरुपदधायात्, षष्ठीं प्रादेशैः ।
आत्मशेषे पक्षयोश् च पञ्चमभागीयाः ।
पुच्छस्यापरार्धे पार्श्वयोर्मध्यतो नव षड्भागीयाः प्राच्यः ।
पुच्छशेषे द्वादशाणूकाः ।
एवं द्विशतः प्रस्तारः ।
व्यत्यासं चिनुयाद् यावतः प्रस्तारांश् चिकीर्षेत्

मूल पाठ: Āpastambaśulbasūtra with the commentaries of Kapardin, Karavinda and Sundararāja · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc