आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 68
आप्ग्स्-तात्_22.2:
अपूपस्य शेषस्सिदधः उपहरति प्राशनार्थमिति चानुवादः, तं शेषं सर्पिष्मन्तमष्टधा कृत्वा अष्टफ्यो ब्रह्मणेभ्य इति विधातुम् ।
तेनेहब्राह्मणैकत्वबाधः ।
केचित्-सिद्धः शेषः इति सूत्रच्छेदः ।
सिद्धो ऽविकृतस्तन्त्रस्य शेषः ।
तेन दर्व्या होमस्स्विष्टकृतः, जयादि प्रतिपद्यत इति च सिद्धमिति तेषां तमष्टधेत्यत्र तमपूपमिति व्यवहितस्य परामर्शो भवेत् ।
एवमौपकार्य कृत्वा मासिश्रादधवध्भोक्तृभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
श्वो ऽष्टकाश्राद्धं भविष्यतीति भेदः
5 गोरुपाकरणम् ।
श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति ॥ आ
(प.8.ख.,22-3)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.3:
दर्भेणेत्येकत्वमविवक्षितम् ।
गां स्त्रियं, जुष्टामितेल्ङ्गात् ।
पुरस्तात्प्रतीचीं तिष्ठन्तीं, श्रौते तथा दर्शनात् ।
पित्र्यं चा ।
#टकाकर्म, पितृभ्यस्त्वाजुष्टा मितिदर्शनात् ।
पित्र्येषु यत्नमन्तरेणापि तन्त्रं प्रवर्तते इति पुरस्तादुक्तम् ।
तत आज्यभागान्ते तन्त्रे कृते उपाकरणादेः प्रवृत्तिः ।
अत्र प्रमाणं वक्ष्यामः ।
ऽअपरपक्षस्यापराह्णः श्रेयानिऽत्येष च कालः ।
सर्वत्र प्राचीनावीतम्
आप्ग्स्-तात्_22.3:
अथ स्वोभूते अष्टभ्याम् ।
ब्राह्मणान् गृहमानीयेत्याद्यग्निमुखान्तं सर्व मासिश्रीद्धवत्कृत्वा, अथ दर्भेणैकेन गां स्त्रियं ऽपितृभ्यस्त्वा जुष्टामुपाकरोमि, इत्यनेन मन्त्रेणोपाकरोति
6 वपाहोमः ।
तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ॥ आ
(प.8ख्.,22-4)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.4:
तूष्णीमित्यनुच्यमाने सम्प्रदानाभावे होमानिवृत्तेः देवताकल्पनायां प्राप्तायां या ऐताः पाशुबन्धिक्यः पश्वाहुयः
ऽउपाकृत्य पञ्च जुहोतीऽति विहिताः ता एता इति विज्ञायेत ।
ततश्च मन्त्रेष्वपि प्राप्तेषु तूष्णीं इत्युक्तम् ।
एवं ब्रूवन् एतद्दर्शयति श्रौतस्य पशेरावृताषस्यापि पशोस्संस्कार इति ।
तेन ऽपुरस्तात् प्रत्यञ्चं तिष्टव्तऽमित्येवमादयो विशेषा इहापि भवन्ति ।
तस्या इति वचनं तस्या वपाया एवात्र चोदितो विशेषो यथास्यात् श्रपणादि, नावदानमित्येवमर्थम्, तेन मांसौदनादेर्मासिश्राद्धवदन्यस्मिन्नग्नौ संस्कारः ।
आज्यग्रहणमनर्थकम् ।
अपिवोत्तरया जुहोतीतिवत् सिद्धम्, तत् क्रियते ज्ञापकार्थम्, एतत् ज्ञापयति-आज्यभागान्ते तन्त्रे कृते पशोरुपाकरणादीति ।
कथं कृत्वा ज्ञापकम्?सर्वत्र प्रधानाहुतिषु तान्त्रिकस्य हविषस्सधर्मकस्यानेकत्वे सति विशेषणं दृश्यते-स्थालीपाकादन्नादाज्याहुतिरितु, तदिहापि दृष्टम् ।
तत् ज्ञापयति-तान्त्रिकेणैवाज्योनाहुतयोहबयन्त इति ।
उपाकरणस्य चैतासां चानन्तर्य दृश्यते
"उपाकृत्य पञ्च जुहोती"(तै.सं.3-1-5)ति ।
तस्मादाज्यभागान्ते पशोरुपाकरणमिति सिद्धं भवति ।
एवं पञ्चाज्याहुतीर्हुत्वा तूष्णीं संज्ञप्य वपाञ्च वपाश्रपणीभ्यां तूष्णीमुद्धृत्य औपासने श्रपयित्वाभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य ततस्तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेन जुहोति उत्तरयर्चा ऽवह वपाऽमित्येतया ।
पर्मस्य वपाश्रपण्योश्च पात्रैस्सह सादनादि भवति
आप्ग्स्-तात्_22.4:
तूष्णीं स्वाहाकारेणापि विना पञ्चाज्याहुतीर्जुहोति , मन्त्रप्राप्त्यभावात् ।
देवता चासां प्रजापतिरेव ।
तस्यै वपामित्यादि व्याख्यातम् ।
उत्तरया वह वपाम्ऽ इत्येतया
7 मांसौदनहोमाः ।
मांसौदमुत्तराभिः ॥ आ
(प.8.,ख.22-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.5:
(हुतायां वपायां पशोर्विशसनं कारयित्वा अन्वष्टकार्थ ...गृहेषु श्रपयित्वा अन्यानि च हविष्यौदनादीनि तान्यभिघार्य बर्हिषि प्रतिष्ठाप्य पुनरभिघार्य दर्व्या जुहोत्यवदानकल्पेन ।
नात्र सकृदुपघातकल्पः ।
स्विष्टकृति विप्रतिषेधात् ।
आज्ये ऽभावात्
मांसपिष्टौदनयोश्च भावात् ।
तत्र)मांसौदनमुत्तराभिः यां जनाः प्रतिनन्दन्तिऽइत्येताभिः सप्तभिः ।
मांसमिश्र ओदनो मांसौदनः ।
होमकाले च मिश्रणम् ।
न श्रपणकाले ।
पक्तिवैषम्यात् ।
अस्मिन् कर्मणि अष्टादशहोममन्त्राः समाम्नाताः ।
ऋचो दश यजूंष्यष्टौ ।
तत्राद्या ऋगपूपार्था ।
वपार्थोत्तरा ।
उत्तरादिभिरिति स्त्रीलिङ्गनिर्देशः ।
पिष्टान्नमुत्तरयेति वक्ष्यति ।
तेन सप्तभिऋग्भिर्मासौदनस्य होमः
आप्ग्स्-तात्_22.5:
मांसमिश्र ओदनो मांसौदनः तं उत्तराभिः ऽयां जनाः प्रतिनन्दन्तिऽइत्यादिभिस्सप्तभिर्जुहोति ।
इदं चेह वक्तव्यम् -
वपाहोमान्ते गोर्विशसनं कारयित्वान्वष्टकाब्राह्मणभोजनव्यञ्जनार्थ मांसमवशिष्य, इतरत् कृत्स्नं लौकिकप्रकारेण श्रपयित्वा, तदेकदेशं मासिश्राद्धवत् ब्राह्मणभोजनार्थादन्नद्धोमार्थमुद्धृते ऽन्ने संसृज्य, तेनैव मांसमिश्रेणौदनेन जुहोतीति ।
न च मांसौदनयोस्सहपाकश्शङ्कनीयः, गोरालम्भात् प्रागेव होमार्थान्नस्योद्धृतत्वात्, मांसौदनयोः पक्तिवैषम्याच्च
8 पिष्टान्नहोमाः ।
पिष्टान्नमुत्तरया ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.6:
पिष्टेन कृतमन्नं तस्य पयसि श्रपणमुत्तरयर्चा ऽउक्थ्यश्चेऽत्येतया जुहोति
आप्ग्स्-तात्_22.6:
पिष्टेन कृतमन्नं पिष्टान्नं पयसि शृतं प्रसिद्धम् ।
तदुत्तरया ऽउक्थ्यश्चऽइत्यनया जुहोति ।
इह ब्राह्मणभोजनाद्यर्थमवश्यं पिष्टान्नं श्रपयितव्यम् ।
शृताच्च होमार्थ भेदेन पूर्वमेवोद्धरणम् ।
मांसौदनस्य पिष्टान्नस्य च पार्वणवत्स्वकीयो ऽवदानधर्मः ।
पलाशपर्ण चेह वपाहोममात्रे ।
अन्यद्दर्व्यैव
9 आज्याहुतयः ।
आज्याहुतीरुत्तराः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.7:
उत्तरैर्मन्त्रैः ऽभूः पृथिव्यग्निनर्चेऽत्यादिभिः अष्टाभिराज्यस्य जुहोतीत्यर्थः
आप्ग्स्-तात्_22.7:
उत्तरमन्त्रकरणिका आज्याहुतीरष्टौ जुहोतीत्यर्थः ।
ते च ऽभूः पृथिव्यग्निनाऽइत्यादयः यजूरूपाः
10 स्विष्टकृदादि ।
स्विष्टकृत्प्रभृति समानमापिण्डनिधानात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.8:
स्विष्टकृत्प्रभृति पिण्डनिधानान्तं कर्म कृत्स्नं मासिश्राद्धवदिहापि कर्तव्यमित्यर्थः ।
अत्र मांसौदनात् पिष्टाच्च स्विष्टकृत्, ततो जयादि ।
अथ ब्राह्मणानामुपवेशनं हस्तेषूदपात्रानयनमलङ्कारः ।
ततऽस्सर्वमुत्तरैरभिमृशेऽदित्यादि ग्रासवरार्ध्य प्राश्नीयात् इत्येवमन्तम् ।
एतदेवास्मिन्नहनि भोजनं, नान्यत् ।
आरब्धे चाभोजनमासमापनादिति ।
पञ्चयज्ञाश्च लुप्यन्ते
आप्ग्स्-तात्_22.8:
स्विष्टकृदादि तन्त्रशेषं सर्वाभिमर्शनादि च प्रदक्षिणीकृत्येत्येवमन्तं ब्राह्मणभोजनं, पिण्डनिधानं, ग्रासवरार्ध्य प्राश्नीयादित्येवमन्तं, सर्व पदार्थजातं मासिश्राद्धवदिहापि कर्तव्यमेवेत्यर्थः ।
तत्र च मांसौदनात् पिष्टान्नाच्च स्विष्टकृते सहावदानमिति भेदः
अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.9:
न पिण्डनिधानमित्युच्यमाने ऽन्वष्टकायामपि पिण्डनिधानं न स्यात् ।
अष्टका प्रकृता ।
तत्र कः प्रसङ्गो यदन्वष्टकायां न स्यात् ।
एवं तर्हि एतत् ज्ञापयति - विकल्पो ऽत्र विधिरयम् ।
अतः कृत्स्नस्य कर्मणो विषयो भवति सापूपस्य सान्वष्टकस्येति ।
तेन दध्यञ्जलिः कृत्स्नैकाष्टकाकरणात् विकल्प्यते सापूपेन सान्वष्टकेनेति केचित् ।
वयं तु ब्रूमः - अष्टकायामकृतायां भोजनमस्य न भवतीत्येतदर्थमेव वचनमन्वष्टकायां यत् पिण्डदानं तदिह .... नास्मिन् कर्मणि पृथक् कर्तव्यमिति
आप्ग्स्-तात्_22.9:
या श्वोभूतो ऽन्वष्टकेति विधास्यते तस्यामन्वष्टकायामेव पिण्डनिधानं पिण्डप्रदानं नाष्टकायामित्येके आचार्या उपदिशन्ति ।
केचित् - न पिण्डनिधानमेके इति वक्तव्ये अन्वष्टकायामेवैक इत्येवं वचनमेतत् ज्ञापयति - विकल्पो ऽत्र विधीयमानः कृत्स्नस्य कर्मणः सापूपहोमस्य सान्वष्टकस्य विषये भवतीति ।
तेन दधिहोमः कृत्स्नेनान्वष्टकान्तेनाष्टकाकर्मणा विकल्प्यत इति ।
केचित्तु - अन्वष्टकायां यत् पिण्डनिधानं, तदेवास्य, न पुनस्तदस्मिन् प्रदेशे पृथक् कर्तव्यमिति वचनव्यक्त्यास्य कर्मणो ऽसमाप्तत्वसूचनम् ।
तेनान्वष्टकायामकृतायां न कर्तुर्भोजनं, नापि पञ्चमहायज्ञा इति ।
वस्तुतस्तु - भाष्यकारेणात्रार्थविशेषस्यानुक्तत्वात्, ऽअन्वष्टकोभयोरपि पक्षयोऽरिति वक्ष्यमाणत्वात्, अवान्तरप्रयोगस्य समाप्तेस्स्पष्टत्वाच्च, ऽअन्वष्टकायामेवैकऽइत्येषो ऽन्वष्टकायामेव पिण्डनिधानं नाष्टकायामिति फलाभिप्रायो व्यपदेश इति मन्तव्यम् ॥
अथ यज्ञोपवीतप्राचीनवीतयोर्विवेकः - औपकार्ये च मांसौदनहोमेषु चादितश्चतुर्षु, षष्ठे च पिष्टान्नहोमे च, आज्यहोमे चादितष्,ट्सु, दधिहोमे चाघारादिषु च (प्राक् तेषु इत्यधिकम् ।
एव प्रतिषिद्धम्) यज्ञोपवीतं, मन्त्राणां देनलिङ्गत्वात् ।
अन्यत्र प्रकृतिवत् प्राचीनावीतमेव ।
ननु चात्र कलियुगे धर्मज्ञसमयाद्गोरालम्भो निषिद्धः ।
तेन यद्यपि ऽमांसौदनमुत्तराभिःऽइत्यत्र हविरुपसर्जनीभूतमांसाभावे ऽपि केवलौदनहविष्कहोमैः प्रधानान्तरसहितैः अष्टकाधिकारसिद्धेरुपपत्तिः;तथापि वपाहोमे स्वरूपस्यैवाभावान्न युज्यते ।
मैवम्, प्रमाणबलेन कस्मिंश्चित् प्रधाने निषिद्धे ऽपि प्रधानान्तरैरेव विषयप्रत्यभिज्ञानादधिकारसिद्धेरुपपन्नत्वात् ।
अत एव दर्शपूर्णमासयोः ऽनासोमयाजी सन्नयेत्ऽ; (तै.सं. 2-5-5), ऽनासोमयाजिनो ब्राह्मणस्याग्नीषोमीयः पुरोडाशो विद्यतेऽ(आप.श्रौ. ) इति निषिद्धयोरपि सान्नाय्याग्नीषोमयोस्तद्व्यतिरिक्तैरेव प्रधानैरधिकारसिद्धिः ।
इयांस्तु भेदः - क्वचिच्छ्रुतिर्निषेधिका, क्वचिद्धर्मज्ञसमय इति ।
धर्मज्ञसमयो ऽपि वेदवत् प्रमाणम् ।
अथवा आज्यमेव वपामांसयोस्स्थाने प्रयोक्तव्यम् ।
ऽआज्येन शेषं संस्थापयेत्ऽइति पात्नीवते दर्शनात् ऽआज्यस्य प्रत्याख्यामवद्येत्ऽ(तै.सं.3-1-3) इति दर्शनाच्च ।
प्राप्तिस्तु नित्यत्वादेवाष्टकायाः कृत्स्नायाः ।
यद्वा - गोस्स्थाने छाग एवालब्धव्यः, प्रस्तुतसमानयोगक्षेमे ऽऐन्द्राग्नं पुनरुत्सृष्टमालभेतऽ(तै.सं.2-1-5) इत्यत्र गोः पुनरुत्सृष्टस्य स्थाने ऽपुनरुत्सृष्टश्छागःऽइति भरद्वाजसूत्रदर्शनात् ।
अपि वात्यन्तलघुरपि दधिहोमपक्षः कलियुगे व्यवस्थितो द्रष्टव्यः ।
प्रमाणं तु त्रैविद्यवृद्धाश्शिष्टा एव
11 दध्यञ्जलिहोमः ।
अथैतदपरं दध्न एवाञ्जलिना जुहोति ययापूपम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.10:
एवमष्टकायां मुख्यः कल्पो दर्शितः ।
अथानुकल्पः यया ऋचा जुहोति ऽयां जनाऽइत्येतया तया दध्नः पूर्णेनाञ्जलिना जुहोति ।
तन्त्रस्य विधानात् अञ्जलिना होमत्वाच्च अपूर्वो दध्यञ्जलिः ।
अञ्जलिनेति वचनात् दर्व्या निवृत्तिः ।
(2 क,ख, पुरस्तात्तन्त्रमुपरिष्टात्तन्त्रं च कृत्स्नं न भवति) ।
तन्त्रद्वयञ्च न भवति ।
कः पुनरस्य कालः ?अष्टमी ।
पूर्वाह्णे च क्रिया, दैवत्वात् ।
प्रातर्होमानन्तरं औपासनमुपसमाधाय सम्परिस्तीर्य तूष्णीं समन्तं परिषिच्य दध्नाञ्जलिं पूरयित्वा ऽयां जनाऽइति जुहोति ।
न स्विष्टकृत् ।
पुनरपि तूष्णीं परिषेचनम् ।
अन्ये तु पुरस्तात्तन्त्रं स्विष्टकृच्चेच्छन्ति, न जयादीन् ।
अत्र मूलं मृग्यम् ।
एष कालः, आचार्यप्रवृत्तित्वात् ।
एषा ह्येवानुकल्पेष्वाचार्यस्य प्रवृत्तिः ।
तद्यथा - समावर्तने तूष्णीमेव तीर्थे स्नात्वेति ।
दध्यञ्जलिश्चायमष्टकायां ये होमास्तेषां निवर्तकः, तदनन्तरमभिधानात्, नापूपहोमस्य ।
नान्वष्टकायाः ।
ब्राह्मणभोजनपिण्डनिर्वापणे च भवतः ।
होममात्रस्यैवायं दध्यञ्जलिर्निवर्तकः ।
एवं तर्ह्यत्र वचनं व्यज्यते यज्जुहोति तद्दध्न एवाञ्जलिनेति ।
(अपर आह - अपूपाष्टकयोर्द्वयोरपि निवर्तकम् ।
नान्वष्टकायाः ।
यदि तस्या अपि प्रत्याम्नायः स्यात् तामभिधायायमनुकल्पो वक्तव्यस्स्यादिति) ।
अन्ये तु सापूपस्य सान्वष्टकस्य कृत्स्नस्याष्टकाकर्मणो निवर्तको दध्यञ्जलिरिति
आप्ग्स्-तात्_22.10:
यया ऽयां जनाऽइत्येतया अपूपं जुहोति, तया ऋचा दध्नस्स्वावदानधर्मेणावदायाञ्जलिना जुहोति ।
पार्वणवच्चाग्निमुखान्ते दधिहोमः, अपूपहोमवच्चावदानम् ।
ऽयेन जुहोति तदग्नौ प्रतितप्यऽइत्यादिकं लेपाञ्जनं चान्येन कारयितव्यम् ।
अयं च दधिहोमो ऽष्टम्यां पूर्वाह्णे ।
केचित् - अञ्जलिहोमास्सर्वे अपूर्वाः, नैव तत्र पुरस्तादुपरिष्टात्तन्त्रमिति ।
अयं चानुकल्पो ऽपूपहोमाद्याज्याहुतीरुत्तरा इत्येवमन्तानामेव स्थाने वेदितव्यः, नान्वष्टकाया अपि, आज्याहुत्यन्तं कर्म विधायान्वष्टकायाः प्रागेवानुकल्पस्य विधानात् ।
तेनोभयोरपि पक्षयोर्नवम्यामन्वष्टका नित्यैव ।
तेन दधिहोमपक्षे ऽन्वष्टका नास्तीति निर्मूलम् ।
अयं च दधिहोमविधिर्होमानामेव स्थाने;ऽदध्न एवाञ्जलिना जुहोतीऽति जुहोतिशब्दस्य स्वारस्यात् ।
तेनास्मिन्नपि पक्षे ब्राह्मणभोजन पिण्ड प्रदान योरावृत्तिः ।
तस्मात् सप्तम्यां रात्रौ ब्राह्मणान्निमन्त्र्याष्टभ्यां होमस्थाने दधिहोमः, ततो ऽपराह्णे भोजनादि सर्वमविकृतं, नवम्यामन्वष्टकापीति सिद्धम्
12 अन्वष्टका ।
अत एव यथार्थ मांसं शिष्ट्वा श्वोभूते ऽन्वष्टकाम् ॥ आ
(प.8.,ख.22-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.11:
अत एवास्या एव गोरेकाष्टकायामालब्धायां मांसं यस्य यथार्थ यावत्प्रयोजनं शिष्ट्वा श्वोभूते नवम्यामन्वष्टकानाम कर्म कर्तव्यम् ।
भूयांसमतो माहिषेणेत्यादीनां निवृत्त्यर्थ एवकारः
आप्ग्स्-तात्_22.11:
श्वोभूते मवम्यामन्वष्टकाख्यं कर्म कर्तव्यम् ।
अत एव गोरष्टकायामालब्धायाः मांसं यथार्थ यथाप्रयोजनं शिष्ट्वा इत्येतत्प्रथमपक्षविषयम्
तस्या मासिश्राद्धेन कल्पो व्याख्यातः ॥ आ
(प.8.,ख.22-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.12:
मासिश्राद्धवदन्वष्टका कर्तव्येत्यर्थः ।
कल्पातिदेशात् द्रव्यदेवतादि सर्वमिह प्राप्यते ।
ऽतत्रान्नस्योत्तराभिर्जुहोतीऽत्यत्र मांससंसृष्टस्यान्नस्य होममिच्छन्ति ।
अष्टकायां दर्शनात् ।
इह च यथार्थ मांसमिति वचनात् ।
अन्ये मासिश्राद्धातिदेशादन्नस्याव होममिच्छन्ति ।
यत्रैव तु कार्ये मासि श्राद्धे मांसं इहापि तत्रैवेति ।
अत्र केचित्-दध्यञ्जलिपक्षे ऽप्यन्वष्टकामिच्छन्ति ।
मध्ये तस्य विधानात् ।
यदि ह्यसावन्वष्टताया अपि प्रत्याम्नायः स्यात् तामप्यभिधाय वक्तव्यं स्यादिति ।
अत एव यथार्थ मांसं शिष्ट्वा श्वोभूते ऽन्वष्टका तस्या मासि श्राद्धेन कल्पो व्याख्यातः इति पूर्वत्र सम्बन्धः ॥
अथैकोद्दिष्टविधिः शास्त्रान्तरात् ।
प्रेतमेकमुद्दिस्य यच्छ्राद्धं क्रियते तदेकोद्दिष्टम् ।
अयुग्मा ब्राह्मणाः एकः त्रयः पञ्चेति ।
वृध्या फलभूयस्त्वम् ।
तत्र नाग्नौ करणं, नाभिश्रावणं, न पूर्व निमन्त्रणं, न दैवं, न धूपो, न दीपो, न स्वधा, न नमस्कारः, उदङ्मुखाः ब्राह्मणाः ।
सर्वस्मादन्नात्सकृत्सकृदवदाय दक्षिणतो भस्ममिश्रानङ्गारान्निरूह्य तेष्वेव जुहुयात् प्रेतायामुष्मै यमाय च स्वाहेति ।
प्रेतायेति वचनं प्रेतस्य नामनिर्देशार्थम् यज्ञशर्मणे यमाय च स्वाहेति प्रयोगमिच्छन्ति ।
यज्ञशर्मणे प्रेताय यमाय चेत्यन्ये ।
अमुष्मै तृप्तिरस्त्विति अपां प्रतिग्रहणं विसर्जनं चा अस्ति तृप्तिरिति प्रतिवचनम् ।
अमुष्मा उपतिष्ठत्वित्यनुदेशनं, आशयेषु च पिंढदानं भोजनस्थान इत्यर्थः ।
तृप्यस्वेति संक्षालनम् ।
एतदेकोद्दिष्टं सर्ववर्णानां स्वाशौचान्ते प्रसिद्धम् ॥
अथान्यानि नवश्राद्धमासिकानि त्रैपक्षिकं षाण्मासिकं साम्वत्सरिकमिति ।
यत्प्रथमं क्रियते तन्नवश्राद्धम् ।
नवं च तच्छ्राद्धञ्चेति कृत्वा ।
तस्य वर्णानुपूर्वेण कालः
चतुर्थे पञ्चमे चैव नवमैकादशे तथा ।
यदत्र दीयते जन्तोः तन्नवश्राद्धमुच्यते ॥
इति ॥
सर्वेषामपि वर्णानां चत्वार्यपि नवश्राद्धानीत्यन्ये ।
तोषां द्वितीयादिषु नवशब्दो घटते ।
मासिकानि द्वादश प्रतिमासं मृताहे कर्तव्यानि ।
आद्यं तु स्वाशोचन्ते ।
अन्त्यं च सपिण्डीकरणेन सह मृताह एव त्रापक्षिकं षाण्मासिकं द्वितीयादिषु सम्वत्सरेषु प्रतिसम्वत्सरं मृताह एव साम्वत्सरिकमिति षोडशैतान्येकोद्दिष्टानि ।
साम्वत्सरिके च क्षेत्रजजारजयोः एकोद्दिष्टकल्पस्य च विकल्पः ।
इतरेषामेकोद्दिष्टमेव ।
ये नवश्राद्धानां समुच्चयमिच्छन्ति तेषां षोडशैकोद्दिष्टानीत्येषापि प्रसिद्धिर्दुरुपपादा ।
अत्र पठन्ति--
नित्यश्राद्धं मासि मासि अपर्याप्तावृत्तुं प्रति ।
द्वादशाहेन वा भोज्या एकाहे द्वादशापि वा ॥
अथ सपिण्डीकरणं सम्वत्सर एकादशे चतुर्थे तृतीये वा मासि त्रिपक्षे अर्धमासे द्वादशे वाहनि उपनयनाभ्युदयप्राप्तौ वा ।
तत्र एकोद्दिष्टस्य मासिश्राद्धस्य च समुच्चयः ।
प्रेतस्यैकोद्दिष्टं तस्य ये प्त्रादयः तेभ्यो मासिश्राद्धं मन्त्रेषु च न क्श्चिद्विकारः ।
यन्मे मातेत्यादिषु यथैव ते पित्रा प्रेतेन पूर्व प्रयुक्तास्तथाव पुत्रेणापि प्रयोक्तव्याः ।
पुत्रादन्यस्य च सपिण्डीकरणे नाधिकारः, मासिश्राद्धाभावात् ।
सपिण्डीकरणास्य च मासिश्राद्धप्रयोगविकारत्वात् ।
तस्मादपुत्रस्य प्रेतस्य भार्या यावज्जीवमेकोद्दिष्टकल्पेनैव पत्ये मासिश्राद्धं ददाति ।
पुत्रो ऽप्यकृतविवाह एवमेव ।
विवाहादूर्ध्व यदा मासिश्राद्धमारभते तदा पितुः सपिण्डीकरणेन सहारभते ।
अन्ये त्वेतदनुष्ठानं अन्यथापि भवति ।
तत्र पित्रे प्रेताय पूर्ववद्भस्मनि होमः इतरेभ्यो ऽन्नादाज्याच्च मासिश्राद्धवत् ।
पिण्डदाने-मासिश्राद्धवत्पिण्डान् दत्वा तत्समीपे पृथक् स्तीर्णेषु दर्भेषु प्रेताय पिण्डः ।
पूर्ववदपो दत्वा तस्यान्ते अर्घ्यार्ध पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ऽये समामाऽइति द्वाभ्यां पिण्डं पिण्डेषु संसृजेत् ।
एतत्सपिण्डीकरणम् ।
एतस्मिन्कृते प्रेतः पितृत्वमापद्यते ।
चतुर्थश्चानुज्ञापित उत्सृष्टो भवति ।
अत्र विप्रतिप्त्तिः- केचित्प्रपितामहस्य पात्रं पिण्डं चेतरेषु संसृजन्ति ।
प्रेतशब्देन स एवोच्यते प्रकर्षेण इतः प्रेत इति ।
स ह्यत्रानुज्ञातो भवति ।
प्रसिद्धस्त्वाचारः यस्य सपिण्डीकरणं स प्रेतः, तस्यैव च पात्रपिण्डयोरितरेषु संसर्गः ।
एवमपि प्रपितामहस्यैवानुज्ञेति ।
मातृसपिण्डीकरणे सा यदि पुत्रिका, आसुरादिविवाहोढा वा ततो मातामहादीनां पिण्डेषु संसर्गः ।
तत्पिण्डस्येतरत्र श्वश्त्वादि पिण्डेन एकाचित्यारूढायास्तु भर्तृपिण्डेनेति केचिद्व्यवस्थापयन्ति ।
प्रयोगस्तु पिरसिद्धाचारानुरोधेन कर्तव्यः ।
अत्र केचित्पठन्ति --
भ्राता वा भ्रातृपुत्रो वा सपिण्डः श्ष्य एव वा ।
सहपिण्डक्रियाः कृत्वा कुर्यादभ्युदयं ततः ॥
इति ॥
तथा--
अपुत्रायां मृतायां तु पतिः कुर्यात्सपिण्डतामिति ॥
अथ नाम्दीश्राद्धम्- तत्र बोधायनः -अथाभ्युदयिकेषु प्रदक्षिणमुपचारो यज्ञोपवीतं प्रागग्रान् दर्भान्, युग्मान् ब्राह्मणान्, यवैस्तिलार्थः, पृषदाज्यं हविः ।
सोपयामेन पात्रेण नान्दीमुखाः पितरः प्रीयन्तामित्यपां प्रतिग्रहणं, संसर्जनं च ।
नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यग्नौकरणमनुदेशनं च ।
आशयेषु परिसमूढेषु दर्भेषु पृषदाज्येनानुप्रदानं नान्दीमुखेभ्यः पितृभ्यः स्वधा नमः इति सर्व द्विर्द्विरिति (बौ.गृ.3-12-2....5)
तत्रैव प्रदेशान्तरे"तेषु भक्तवत्सु स्वधायै स्थाने ऽमधु मनिष्ये मधु जनिष्यऽइत्येतद्यजुर्जपित्वा नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनयति स्वधैवैषोक्ता भवति ।
नैकेनाह्ना दैवं पित्र्यं च कुर्वन्ति यस्यैकाह्ना पित्र्यं दैवं च कुर्वन्ति प्रजा हास्य प्रमायुका भवति, तस्मात् पितृभ्यः पूर्वेद्युः क्रियते, परेद्युर्देवानामिति ।
(बौ.गृ.प.1-3-10-11) तथा पुष्पफलाक्षतमिश्रैर्यवैः तिलार्थ उपलिप्य दध्योदनं समप्रकीर्येति ।
तत्र मासिश्राद्धं सर्वेषां पित्र्याणां प्रकृतिः ।
अस्माकं विशेषास्तु शास्त्रान्तरादागमयितव्याः ।
तेन ऽपूर्वेद्युर्निवेदनऽमित्यादि सर्वमिहापि भवति ।
युग्मा ब्राह्मणाः अष्टौ षोडश वा ।
यद्युष्टौ द्वौ देवेभेयः पितृभ्यो द्वौ द्वौ ।
यदि षोडश देवेभ्यश्चत्वारो द्वादश पितृभ्य इत्यादि ।
यवैस्तिलार्थः मासिश्राद्धो यत् तिलकृत्यमर्घ्यादिषु तदत्र यवैः कर्तव्यः ।
पुष्पादिभिश्च मिश्रणम, प्रदेशान्तरे वचनात् ।
पृषदाज्यं हविः ।
र्मासौदनवत्पृषदाज्यमिश्रमित्येके, केवलमेवेत्यन्ये ।
सोपयामेनेति येनार्घ्य प्रदीयते तत्पात्रमन्येन पात्रेणोपयम्येत्यर्थः ।
नान्दीमुखाः प्रीयन्तामिति देवेभ्यस्तु विश्वेदेवाः प्रीयन्तामिति ।
तत्र पितॄणामेकपात्रं, न त्रीणि;पितृपितामहप्रपितामहविशेषस्यानुपदेशात्, सर्वेषु मन्त्रेषु नान्दीमुखाः पितर इत्युपदेशात् ।
तस्मादेकमेव पात्रं पितॄणां, देवानां चैकम् ।
तत्र ब्राह्मणानुपवेश्याग्नेः प्रतिष्ठापनं अर्घ्यपात्रयोश्च ।
अग्निश्चौपासन एव ।
विवाहेष्वसंभवात् ।
अर्घ्य प्रदाय गन्धादिभिश्चालङ्कृत्यानुज्ञातो हविरुद्धृत्य पृषदाज्येन संसृज्याभिघार्याज्यभागान्ते नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्येकां प्रधानाहुदीं जुहोति केवलेन पृषदाज्येन सौविष्टकृतं द्वितीयं जुहुयादिति ।
तन्त्रशेषं समाप्य क्लप्तान्वा प्रतिपूरुषमिति न्यायेनानेन नान्दीमुखेभ्यः पितृभ्यः स्वाहेत्यनेन मन्त्रेण पितृभ्यो ऽनुदिशति, देवेभ्यस्तु वुश्वेभ्यो देवेभ्यः स्वाहेति ।
मासिश्राद्धे ये होममन्त्राः
अनुदेशनमन्त्राश्च तेषां निवृत्तिः ।
उपस्पर्शनं तु भवत्येव प्रत्याम्नायाभावात् ।
पृथिवीते पात्रमित्याशयेषु च परिसमूढेष्विति आशयेषु भोजनस्थानेषु परिसमूढेषु परिसमूहनेन शोधितेषु पृषदाज्यमिश्रेण बविषा पृषदाज्येनैव तावत्पिण्डस्यानुप्रदानं नान्दीमुखेभ्यः स्वधानम इत्यनेन ।
एवं सर्व द्विर्द्विरिति ।
आसनप्रदानादिषु द्विर्द्विः प्रयत्नः कर्त्तव्य इत्यर्थः ।
उपलिप्य दध्योदनं सम्प्रकीर्य तते ऽये अग्निदग्धाऽइत्यस्मिन् स्थाने भवति ।
अथ दक्षिणां दत्वा विसर्जनं नान्दीमुखाः पितरः प्रीयन्तामिति ।
तत उदपात्रसमीपे मधु मनिष्य इति यजुर्जपित्वा विसर्जनमन्त्राभ्यां बर्हिषि पात्रे निनीय्य न्युब्जमिति ।
एवमेतन्नान्दीश्राद्धं तत्र कर्तव्यं यत्रापरेद्युर्देवयज्यानुष्ठानम् ।
केचित्वन्यथा पठन्ति च---
मातुश्श्राद्धं तु पूर्व स्यात्पितॄणां तदनन्तरम् ।
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं विदुः ॥
इति ॥
अस्मिन् पक्षे मात्रादीनां द्वौ द्वौ ।
एवं पित्रादीनां, एवं मातामहादीनां, देवार्थेद्वावेति विंशतिर्द्विजाः ।
तथा च मनुनान्यपरे वाक्ये दर्शितम्--
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे इति ।
(म.स्मृ.8-392)
यात्राभ्युदयश्राद्धं भवति तद्विंशतिद्विजं कल्याणं भवति ।
पुनश्च पठंति--
पुंसि जातान्नचौलोपस्नानपाणिग्रहेषु च ।
अग्न्याधाने तथा सोमे दशस्वभ्युदयस्स्मृतः ॥
इति ॥
प्रयेगश्च-पार्वणश्राद्धवदेव ।
एतावदत्र नाना युग्मा ब्राह्मणाः प्रदक्षिणमुपचारो यज्ञोपवीतं यवास्तिलार्त इति
आप्ग्स्-तात्_22.12:
तस्या अन्वष्टकायाः कल्पो मासिश्राद्धवत् कर्तव्य इत्यर्थः ।
कल्पातिदेशात् सर्वमिह द्रव्यदेवतादिकं प्राप्यते ।
तस्मान्निमन्त्रणादि ग्रासप्राशनान्तं सर्व मासिश्राद्धवदविकृतं कर्तव्यम्
अथावशिष्टानां मन्त्राणां येषु विनियोगस्तानि कर्माणि व्याचष्टे--
1 याच्ञार्थ गज्छता कर्तव्यो जपः ।
सनिमित्वोत्तरान् जपित्वार्ऽथ ब्रूयात् ॥ आ
(प.8.,ख.22-13)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.13:
सन्यर्थ दातारं गत्वा ।
भिक्षणलभ्यं धनं सनिरित्युच्यते ।
सनिमित्वा उत्तरान्मन्त्रान् ऽअन्नमिव ते दृशे भूयासऽमित्यादीन् सप्त जपित्वा ।
तमर्थ प्रब्रूयात् यदर्थमागत- ।
सप्तमे मन्त्रे असावित्यत्र प्रदातुर्नामग्रहणं ,म्बुध्या
आप्ग्स्-तात्_22.13:
सनिर्यात्ञा भिक्षणम् ।
केचित्-भिक्षणलब्धं धनमिति ।
या सनिःऽभिक्षणे निम्त्तमाचार्यो विवाहो यज्ञे मातापित्रोर्बुभूर्षार्हतश्च नियमविलोपःऽऽतत्र गुणान् समीक्ष्य यथाशक्ति देयम्ऽ(आप.ध.2-10-1,2) इति धर्मशास्त्रे.वगता, तामुद्दिश्य इत्वा गत्वा ।
उत्तरान् मन्त्रान् ऽअन्नमिव ते दृशे भूयासंऽइत्यादीन् सप्त जपित्वा तमर्थ प्रयोजनं ब्रूयात्, यं भिक्षेत तं बोधयति ऽआचार्यार्थं भिक्षामि भवन्तम्ऽइति ।
एवमुत्तरेष्वपि भिक्षणनिमित्तेषु विशेषः विवाहार्थमित्यादिः ।
सप्तमे च मन्त्रे ऽअसाऽवित्यत्र समबुद्ध्या दातुर्नामग्रहणम्
इदानीं यदि याच्ञया रथादीनि सब्धानि, तदा केन विधिना स्वीकारः?इत्युत्तरे विधये आरभ्यन्ते---
2 रथलाभे चक्राभिमर्शनम् ।
रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा ॥ आ
(प.8.,ख.22-14)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.14:
यदि रथो लभ्यते ततस्तं लब्ध्वा योजयति कर्मकरैर्युगधुरोः करोति ।
तं प्राङ्मुखमवस्थाप्य उत्तरयर्चा ऽअङ्कौ न्यङ्कावभितऽइत्येतया ।
रथचक्रे उभे सहाभिमृशति ।
पक्षसी रथस्येति शेषः पार्श्वे फलके इत्यन्ये ।
नेमी इत्यपरे ।
सकृदेव मन्त्रः ।
पाणिभ्यामुभाभ्यामभिमर्सनम् ।
तथा चाश्वलायनः--ऽरथमारोक्ष्यन्नाना पाणिभ्यां चक्रे अभ्मृशेत् (आश्व.गृ.2-6-1) इति
आप्ग्स्-तात्_22.14:
रथश्चेल्लब्धः तं कर्मकरैर्वाहाभ्यां योजयित्वाथ तं प्राञ्चं प्राङमुखमवस्थाप्य उत्तरया ऽअङ्कौ न्यङ्कौ ऽइत्येतया रथचक्रे उभे पाणिभ्यां युगपदभिमृशति ।
अपि वा पक्षसी ईर्षे ।
अन्यथापि पदार्थमाहुः
3 रथारोहृअमन्त्रः ।
उत्तरेण यजुषाधीरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थ यायात् ॥ आ
(प.8.,ख.22-15)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.15:
ततः उत्तरण यजुषा ऽअध्वनामध्वयत्ऽइत्येन ।
रथं स्वमधिरोहति ।
ततः उत्तरयर्चा ऽअयं वामश्विमा रथऽइत्येतया ।
प्रचीमुदीचीं वा दिशमभिप्रपाद्य यथार्थ यायात् यत्र प्रयोजनं तत्र गच्छेत् ।
अधीरुह्येति दीर्घपाठश्छान्दसः ।
एताद्विधानं क्रयादिलब्धस्यापि रथस्य प्रथमारोहणे भवति ।
द्वितीयादिषु तु न भवति ।
लब्ध्वेति वचनात्
आप्ग्स्-तात्_22.15:
तेन(ततः) उत्तरेण ऽअध्वनामध्वपतेऽइत्यनेन यजुषा रथं स्वयमधिरुह्य ।
दीर्घश्छान्दसः ।
उत्तरया ऽअयं वामश्विनौऽइत्येतया ।
प्राचीमुदीचां वा दिशमभ्प्तयाय प्रस्थायादृष्टार्थ, ततो यथार्थ प्रयोजनानुसारेण यायान् गच्छेत्
केचित्-लब्ध्वेतिवचनात् क्रयादिलब्धस्यापि रथादेः प्रथमारोहणे विधिरयं भवतीति ।
नैतत्;प्रकृतयाच्ञादिना लब्धरथादिविषयत्वेनैवास्य वाक्यस्यार्थवत्त्वोपपत्तेः, ऽयाच्ञया रथादीनि लब्ध्वाऽइति भाष्यविरोधाच्च
4 अश्वारोहणमन्त्रः ।
अश्वमुत्तरैरारोहेत् ॥ आ
(प.8.,ख.22-16)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.16:
लब्ध्वे त्यनुवर्तते ।
उत्तैरेकादशभिः ऽअश्वो ऽसि हयो ऽसिऽइत्यादिभिः ।
रथलाभवदश्वलाभो व्याख्यातः
आप्ग्स्-तात्_22.16:
अश्वश्चेद्याच्ञया लब्धः तमुत्तरैर्मन्त्रैः ऽअश्वो ऽसिऽ; इत्यादिभिरारोहेत्
5 हस्त्यारोहणमन्त्रः ।
हस्तिनमुत्तरया ॥ आ
(प.8.ख.,22-17)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.17:
लब्ध्वाऽगोहोदिति वर्तते ।
उत्तरया ऽहस्तियशसमसीऽत्येतया ।
तत्रासाविति हस्तिनो नामग्रहणम् ।
अभिनिदधामि नागेन्द्रेति ।
आरुह्य तूष्णीमङ्कुशाभिधानम् ।
मन्त्रे चाभिनिदधामीति द्रष्टव्यः ।
तेन मन्त्रे लिङ्गस्याविरोधः
आप्ग्स्-तात्_22.17:
पूर्ववद्व्याख्यानम् ।
उत्तरया ऽहस्तियशसंऽइत्येतया ।
असावित्यत्र च सम्बुद्ध्या ऐरावतेति गजनामग्रहणम् ।
अत्र यद्यपि ऽवज्रेणाभिनिदधाम्यसौऽइतिलिङ्गादङ्कुशाभिधानार्थता मन्त्रस्य;तथापि ऽहस्तिनमुत्तरयाऽरोहेत्ऽइति वाचनिकविनियोगस्य बलवत्त्वात्तदनु सार्येव मन्त्रो व्याख्यातव्यः
ताभ्यां रेषणे पूर्ववत् पृथिवीमभिमृशेत् ॥ आ
(प.8.ख.,22-18)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.18:
ताभ्यां अस्वहस्तिभ्यां. रेषणे शरीरोपमर्दे जाते पूर्ववत् हेमन्तप्रत्यवरोहणवत् पृथिवीमभिमृशेत् ।
ऽस्योना पृथिविऽऽबडित्थेऽत्येताभ्याम् ।
पूर्ववदिति न जातकर्म गृह्यते, व्यवधानात्
आप्ग्स्-तात्_22.18:
ताभ्यां तयोरश्वहस्तिनोः ।
रेषणे मरणे सति ।
पूर्ववत् हेमन्तप्रत्यवरोहणवत् ऽस्योना पृथिवीऽइत्येताभ्यां पृथिवीमभिमृशेत् ।
केचित्-ताभ्यां अश्वहस्तिभ्याम् ।
प्रमादाद्भूमौ पतितस्य रेषणे शरीरोपमर्दे जाते इति
1 छत्रदण्डयोरादानम् ।
संवादमेष्यन् सव्येन पाणिना छत्रं दण्डञ्चाऽदत्ते ॥ आ
(प.8.ख.,22-19)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.19:
यत्र स्थानेर्ऽथादिनिमित्ते प्रत्यर्थिभिः सम्वदते स सम्वादः ।
तमेष्यन् तत्रापराजयाय सव्येन पाणिना छत्रं दण्डञ्चादत्ते ।
पाणिग्रहणमुत्तरार्थम् ।
इह तु आदानपरत्वादेव सिद्धम् ।
तेन खलीकरणहोमः पाणिनैव कर्तव्यः, न पात्रेण अन्यथा मुष्टिशब्दस्य परिमाणवाचित्वस्यापि दरशनादस्याप्रसङ्गः
इति श्रीहरदत्तमिश्रविरचितायां गृह्यवृत्तावनाकुलायां द्वाविंशः खण्डः ॥
आप्ग्स्-तात्_22.19:
सम्वादः ऋणादानादिव्यवहारः ।
केचित्-यत्र स्थाने प्रयर्थिभिस्संवदत इति ।
ऋणादानादिव्यवहारं कर्तुमेष्यन् व्यवहारे जयमिच्छन्नित्यर्थः शेषं व्यक्तम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0