आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 69
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने द्वाविंशः खण्डस्समाप्तः ॥
अथ त्रयोविंश खण्डः ॥
2 फलीकरणमुष्टिहोममन्त्रः ।
दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत् ॥ आ
[एतदादिसूत्रत्रयमेकसूत्रतया परिगणितं हरदत्तमते इति ख.ड. पुस्तकयोः]
(प.7.ख.,23-1)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_23.1:
छत्रदण्डौ सव्येन पाणिना धारयन्नेव दक्षिणेन पाणिना फलीकरणानां मुष्टिं जुहोति ।
उत्तरयर्च्चा (1- ग.घ. अवजिह्वकेति लिङ्गदर्शनात्) ऽअव जिह्वकेऽत्येतया ।
तत्रासाविति प्रत्यर्थिनो नामनिर्धेशः प्रथमया ।
होमश्चायमपूर्वः ।
उपसमाधानं परिस्तरणं तूष्णीमुभयतः पर्युक्षणमित्येतावत् ।
ततस्संवादं गत्वा प्रत्यर्थिनं दृष्ट्वा जपेत् ।
उत्तरा मृचं ऽआ ते वाचमास्यांऽइत्येताम् ।
अत्राप्यसाविति प्रत्यर्थिनो नामनिर्देशः सम्बुध्या ।
अवाचीनेन मुष्टिना होमः ।
ऽअवयज इतिऽलिङ्गात् ।
दक्षिणेनेति वचनं होमकाले छत्रदण्डयोः सव्येन धारणार्थम् - सव्यस्य व्यापृतत्वात् दक्षिणेनैव होमः इति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0