भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 67

67.1

आप्ग्स्-तात्_22.1:
ततः पार्वणवदग्नेरुपसमाधानाद्यग्निमुखान्ते, स्वकीयेनावदानधर्मेणापूपात्पुरोडाशाद्वावदाय उत्तरयर्चा ऽयां जनाः प्रतिनन्दन्तिऽ; इत्येतया अञ्जलिना जुहोति ।
अञ्जलेस्तु ऽयेन जुहोतिऽइत्यादिसंस्कारलेपाञ्जनमुपस्तरणाभिगारणहविरवदानानि च विप्रतिषेधादन्यः कुर्यात् ।
स्विष्टकृतं तु दर्व्यैव जुहोति, नाञ्जलिना;विकृतौ चोद्यमानो धर्मः प्रधानार्थो भवतीति न्यायात् ।
न च वाच्यमौपकार्यस्याङ्गत्वात् प्राधान्यमेव नास्तीति ;यतो ऽस्यापि स्वाङ्गापेक्षया प्राधान्यमस्त्येव ।
अत एव ऽमन्दं दीक्षणीयायामनुव्रूयात्ऽ(आप.श्रौ । 10-4-11) इति वाङ्नियमस्सोमाङ्गभूतदीक्षणीयाप्रधानमात्रार्थः न तदङ्गप्रयाजाद्यर्थो ऽपि ।
तथा ऽततस्तूष्णीमाग्निहोत्रं जुहोतिऽ(आप.श्रौ.5-17-6) इति तूष्णीकत्वमाधानाङ्गभूतस्य नैयमिकाग्निहोत्रविकृतेः प्रधानस्यैव धर्मः न तदङ्गानामपीति ।
औपकार्यस्य चौषधिहवुष्कत्वादेव सिद्धस्य तन्त्रस्य पुनर्वचनं एतत्स्नापन्नदधिहोमे ऽपि प्राप्त्यर्थमित्युक्तमेव

67.2

था
4 शेषस्याष्टधा कृतस्य ब्राह्मणेभ्य उपहरणम् ।
सिद्धश्शेषस्तमष्टधा कृत्वा आब्रह्मणेभ्य उपहरति ॥ आ
(प.8.,ख.,22-2)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.2:
तन्त्रस्य शेषस्सिद्धो भवति अविकृत इत्यर्थः ।
अञ्जलिना जुहोतीत्युभयं विशेषः स्विष्टकृति न भवतीतियर्थः ।
तेन स्विष्टकृतमवदानकल्पेन दर्व्या हुत्वा समिधमेकविंशतिमाधाय जयादि प्रतिपद्यते

67.3

ऽतेन सर्पिष्मता ब्राह्मणऽमित्ययेकस्य भक्षणे प्राप्ते ऽष्टाभ्य इपहारो विधायते ।
तत्र ये ब्राह्मणाः श्वोभूते भोक्तारः तेभ्यो निवेद्योपवसति

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc