आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 65
आप्ग्स्-तात्_21.2:
शुचित्वादिगुणयुक्तान् ब्राह्मणान्, अनर्तावेक्षः प्रत्युपकारादिदृष्टप्रयोजनानवेक्षो, भोजयेदिति वाक्यार्थः ।
पदार्थस्तु शुचयो वाङ्मनः कायशुद्धाः ।
न च वाच्यं धर्मशास्त्रे ऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.2-15-11) इति सर्वार्थमुक्तत्वादिह पुनश्शुचित्ववचनमनर्थकमिति;यतो ऽल्पाविद्यानपि शुचीनेव भोजयेत्, तदभावे वरं क्रियालोपो, न त्वशुचीनित्येवं शुचीत्वादरार्तम् ।
मन्त्रवतो मन्त्रब्राह्मणवतः योनिगोत्रमन्त्रासम्बन्धानित्यत्र ऽद्वन्द्वात्परं श्रूयमाणः प्रत्येकमभिसम्बन्ध्यतेऽइति न्यायेन, योन्या असम्बन्धाः, गोत्रेणासम्बंधाः याज्ययाजकाध्येत्रध्यापयितारः ।
यत्तु धर्मशास्त्रे ऽमन्त्रान्तेवास्यसम्बन्धान्ऽ(आप.ध.2-17-4) इति
मन्त्रसम्बन्धव्यातिरेकेणान्तेवास्यसम्बन्धानित्युक्तं तदङ्गाध्येतृश्रोतृलक्षणमन्त्रसम्बन्धनिषेधाभिप्रायम् ।
ननु-सामयाचारिकेष्वेव ब्रह्मणानां मन्त्रवत्त्वं योनिगोत्रमन्त्रासम्बन्धत्वं व सिद्धम्;तदिहं किमर्थ पुनरुक्तम् ?उच्यते-नित्ये मासिश्राद्धे गृह्योक्तगुणानपि भोजयेत् नावश्यं धर्मोक्तान् ब्रह्मविदोन्तेवास्यसम्बन्धानित्येवमर्थम् ।
अयुग्मा विषमसङ्ख्याकाः ।
त्र्यवराः त्रित्वमवरं सङ्ख्या येषां ते त्र्यवराः ।
एतच्च पितृपितामहप्रपितामहविषयम् ।
ततश्च पित्रादीनां त्रयाणां प्रत्यकं त्रीन् पञ्च वा न पुनस्सप्तादीन्, द्वो दैवे पितृकार्ये त्रीनेकैकमुभयत्र वा ।
भोजयेत्सुसमृद्धो ऽपि न प्रसज्येत विस्तरे ॥
(म.स्मृ.3-135) इति मनुवचनात् ।
नन्वस्मिन् मनुवचने ऽपितृकार्ये त्रीन्ऽइत्युक्त्वा ऽन प्रसज्येत विस्तरेऽइत्युक्तं, तत्किमिति ऽप्च वाऽइत्युक्तम्?उच्यते-अयुग्मांस्त्र्यवरानिति सूत्रकारवचनात् ।
एवं तर्हि ऽएकैकमुभयत्र वाऽइति विरुद्धः ।
न;तस्यानु कल्पत्वात् ।
अत्र यद्यपि मात्रादिभ्यः पृथगेव पिण्डदानदर्शनं, तथापि तासां पृथग्ब्राह्मणभोजनं न भवति, हेमाभिमर्सनयोः पृथक्त्वादर्शनात्, पितृमात्रर्थब्राह्मणसङ्ख्यासङ्कलने सत्ययुग्मत्वविरोधात्, आचाराबावाच्च ।
अपि च--
अष्टकासु च वृद्धौ च गयायां च मृते ऽहनि ।
मातुश्श्राद्धं पृथक्कुर्यादन्यत्र पतिना सह ॥
इति मनुवचनादष्टकादिभ्यो ऽन्यत्र मासिश्राद्धादौ पृथक्त्वाभावस्स्पष्ट एवावगम्यते ।
इह च सूत्रकारभाष्यकाराब्यामनुक्तमपि विश्वदेवार्थ युग्मानां भोजनं कर्तव्यम् ऽद्वौ दैवेऽइति मनुयाज्ञवक्ल्याभ्यामुक्तत्वात्, पिशाचा राक्षसा यक्षा भूता नानाविधास्तथा ।
विप्रलुम्पन्ति सहसा श्राद्धमारक्षवर्जितम् ।
तत्पालनाय विहिता विश्वेदेवास्स्वयम्भुवा ॥
इत्यादि झागलेयवचनात्, अविगीतशिष्टाचाराच्च ।
यदा त्वेक एव ब्राह्मणो लभ्यते, तदा तं पित्राद्यर्थमेव भोजयेत्, प्रधानत्वात् ।
अङ्गभूतस्य तु वैश्वदेवस्य यद्येकं भोजयेच्छ्राद्धे दैवं तत्र कथं भवेत् ।
अन्नं पात्रे समुद्धृत्य सर्वस्य प्रकृतस्य च ॥
देवतायतने कृत्वा तत्र श्राद्धं प्रकल्पयेत् ।
प्रास्येदग्नौ तदन्नं तु दद्याद्द्वा ब्रह्मचारिणे ॥
(व.11-30,31) इति वसिष्ठोक्तविधिनानुष्ठानम् ।
ननु च--
मातामहानामप्येवं तन्त्रं वा वैश्वदैविकम् ।
(या.स्मृ.1-2280),
तथा--
मातामहनामप्येवं श्राद्धं कुर्याद्विचक्षणः ।
मन्त्रोहेन यथान्यायं शेषं मन्त्रविवर्जितम् ॥
(वि.स्मृ.750)
तथैव--
पृथङ्मातामहानां च वैश्वदेवसमन्वितम् ।
कुर्वीत भक्तिसम्पन्नं तन्त्रं वा वैश्वदैविकम् ॥
(वि.पु.3-15-16)
इति याज्ञवल्क्यविष्णुस्मृत्योः विष्णुपुराणे च विधिदर्शनात् मातामहश्राद्धमपि नित्यमेवावगम्यते ।
तत्किमिति सूत्रकारभाष्यकारौ न ब्रूतः?
उच्यते-नैव तत्रापि स्मृत्यन्तरेषु पित्र्यवत्सर्वस्यैव जीवतो द्विजस्यावश्यं मातामहश्राद्धमपि नियमेन कर्तव्यमिति विधित्सितम् ।
कृते
अभ्युदयः, #करणे न प्रत्यवाय इति ।
कस्य तर्हि नियमेन कर्तव्यमिति विधिरिति चेत्;यः पुत्रिकाकृताया आसुरादिविवाहो- ढाया वा पुत्रो मातामहेन सह मातुस्सापिण्ड्यं करोति, तस्य मातामहश्राद्धं नियतमेव, अकरमे च प्रत्यवायः ।
मासिश्राद्धे तु मातुः पृथक्
श्राद्धाभावान्मातामहश्राद्धांशभागित्वोपपत्तेः ।
अथ वा यो दौहित्रो ऽपुत्रस्य मातामहस्याखिलार्तहारी तस्यैतच्छ्राद्धं नियतम् ।
यथाह लौगाक्षिः--
श्राद्धं मातामहानां च अवश्यं धनहारिणा ।
दौहित्रेण विधिज्ञेन कर्तव्यं विधिवत्सदा ॥
इति ।
इममेवार्थ बारुचिरप्याह-
ऽयस्मिन् पक्षे अपुत्रो मातामहः, पुत्रिकासुतश्चाखिलद्रव्यहारी, तस्मिन् पक्षे तस्य पिण्डदाननियमःऽइत्यादिना ग्रन्थेन ।
मातामहश्राद्धप्रयोगश्च स्मृत्यन्तरेभ्यो न्यायतस्च प्रत्येतव्यः ।
तस्मात् सर्वस्य धौहित्रस्य पित्र्यवत् कर्तव्यमेवेति नियमाभावत्सूत्रकारभाष्यकारौ न ब्रूतः
3 अन्नहोमाः ।
अन्नस्योत्तराभिर्जुहोति ॥ आ
(प.8.खं.,21-3)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.3:
उत्तराभिः ऽयन्मे मातेऽत्यादिभिः स्त्रीलिङ्गनिर्देशादृग्बिस्सप्तभिः अन्नस्यैकदेशं जुहोति ।
ब्राह्मणभोजनार्त कल्पितादन्नादुद्धृत्य जुहोतीत्यर्थः ।
तत्र ऽअमुष्माऽइत्यस्य स्थाने आदितो द्वयोः पितुर्नामनिर्देशः ।
मध्यमयोः पितामहस्य ।
अन्त्ययोः प्रपितामहस्य ।
"यदि द्विपिता स्यादेकैकस्मिन् पिण्डे द्वौ द्वावुपलक्षये"(आप.श्रौ.1-27)दिति न्यायेन द्विपितुर्द्वयोरुपलक्षणम्-अमुष्मा
अमुष्मा इति ।
अन्ते स्वाहाकारः ।
केचित् ऽपितरौ वृञ्जेताऽमित्यूहं कु4वन्ति ।
(ऋग्विकल्पं कुर्वन्ति वा)एतेन पितामहप्रपितामहौ व्याख्यातौ ।
तथा ऽस्वाहा पित्रऽइत्यत्रापि केचिदूहं कुर्वन्ति ।
अपरे न-पितृत्वमत्र विवक्षितं एकत्वमविवक्षितमिति ।
केचित्
मातामहानामप्यूहन होमं कुर्वन्ति-ऽयन्मे मातामही, यन्मे मातुः पितामही, यन्मे मातुः प्रपितामही, तन्मे रोतो मातामहो वृङ्क्तां इत्यादि
आप्ग्स्-तात्_21.3:
अत्रान्नशब्देन ब्रह्मणभोजनार्थमन्नं विवक्षितम्, षष्ठ्या चापादानापादेयभावः ।
तेनायमर्थः-ब्राह्मणभोजनार्थात्सर्वस्माद्धविष्यजातादोदनापूपादेर्होमार्थमेकस्मिन्पात्रे सहोद्धृत्य, तस्मात् पार्वणवदवदानधर्मेणावदायोत्तराभिः ऽयन्मे माताऽइत्यादिभिस्सप्तभिः प्रत्यृचं प्रधानीहुतीर्जुहोति ।
न तु बहुमन्त्रक एको होमः, ऽएतद्वा विपरीतम्ऽ(आप.गृ.21-5) इति बहुत्वलिङ्गात् ।
लिङ्गं च ऽएतद्वेऽति सूत्रव्याख्याने व्यक्तं भविष्यति ।
अत्र प्रथमद्वितीययोर्मन्त्रयोरमिष्मा इत्यस्य स्थाने विष्णुशर्मण इति चतुर्थ्या पितुर्नामग्रहणम् ।
एवं तृतीयचतुर्थयोः पितामहस्य पञ्चमषष्ठयोः प्रपितामहस्य ।
सप्तमे त्वदश्शब्दाभावान्नास्ति नामग्रहणम् ।
अनूहश्चात्र द्विपित्रादिकस्यापि, ऽतस्मादृचं नोहेत्ऽ; (आश्व.श्रौ.) इति ऋगूहप्रतिषेधाच्च ।
तस्मात् ऽपिता वृङ्क्तामाऽइत्याद्येकवचनं पित्रादिशामान्यपरम् ।
अत एव प्रकृतौ दर्शपूर्णमासयोरनेकपत्नीकस्यापि ऽपत्नी सन्नह्यऽइत्येकवचनेनैव सम्प्रैषः ।
ऊह इत्युपदेशः ।
प्रकृतावेव द्वादशाहे"अद्य सुत्यामित्यालेखनः"इत्यूहदर्शनात् ।
एषः ते तत मधुमानेऽइत्यादिष्वेष न्यायः ।
जीवपित्रादिकस्तु पित्रादेः पित्रादीनां त्रयाणां मृतानां नामानि गृह्णाति ।
यस्तु प्रमीतपितृको ऽयं ध्रियमाणपितामहस्स्यात्, स स्वपितुश्च तत्पितामहप्रपितामहयोश्च नामानि गृह्णीयात् ।
तथा मन्वेषु प्रतियोगिभेदे ऽपि पितृपितामहप्रपितामहशब्दानामेव प्रयोगः ।
ऊहपक्षे तु, तत्तत्प्रतियोपिनिर्देशपूर्वकः ऽपितुः पिता वृह्क्ताम्ऽपितुः पितामहो वृङ्क्ताम्ऽइत्यादिकः प्रयोगः ।
न च जीवपित्रादिकस्य मासिश्रीद्धं नास्तीत्याशङ्कनीयम्, ध्रियमाणे तु पितरि पूर्वषामेव नि4वपेत् ।
पूर्वेषु त्रिषु दातव्यं जीवेच्चेत्त्रितयं यदि ॥
(म.स्मृ.3-220) इत्यादिवचनजातात् ।
नन्वेमपि व्युत्क्रमाच्च प्रमीतपित्रादिकस्य नैव घटते, ऽव्युत्क्रमाच्च प्रमीतानां नैव कार्या सपिण्डता ।
ऽइति व्युत्क्रममृतानां सपिण्डीकरणनिषेधेन सपिण्डीकृतपितृसम्प्रदानके श्राद्धे तत्पुत्रादीनामधिकाराभावात् ।
मैवम्; पिता यस्य तु वृत्तस्स्याज्जीवेच्चापि पितामहः ।
पितुस्स नाम सङ्कीर्त्य कीर्तयेत्प्रपितामहम् ॥
पितामहो वा त्च्छ्राद्धं भुज्जीतेत्यब्रवीन्मनुः ॥
(म.स्मृ.3-221,222) इति मनुवचनेन व्युत्क्रमप्रमीतपित्रादिकसयापि श्राद्धविधानात् ।
ततश्च व्युत्क्रमाच्चेति निषेधः पाक्षिक इति निश्चयादधिकारो ऽपि पाक्षिको ऽविगम्यते
4 आज्यहोमाः ।
आज्याहुतीरुत्तराः ॥ आ
(प.8.खं.,21-4)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.4:
षडाज्याहतीर्जुहोति-स्वाहा पित्र इत्याद्याः ।
तत्र ऽस्वाहा पित्रऽ; इति पुरस्तात् स्वाहाकारत्वान्नान्ते स्वाहाकारः ।
अत्राहुः मासिश्राद्धे ब्राह्मणभोजनं प्रधानकर्मतदङ्गमग्नौ करणं पिण्डश्च ।
तोन जीवपितृश्राद्धक्रिया न भवति ।
ऽयदि जीवपिता न दद्यात्ऽइति
निषेधात् ।
आहोमात् कृत्वा विरमेत्ऽइत्ययमपि विदिर्न भवति ।
होमस्य भोजनाङ्गत्वात् पिण्डपितृयज्ञे तु होमस्य प्रधानत्वादिति ।
अन्ये तु येभ्य एव पिता दध्यात् तेभ्य एव पुत्रो ऽपीत्याहुः ।
अपर आह त्रीणि श्राद्धे प्रधानानि-अग्नौ करणं भोजनं पिण्डदानमिति तेना ऽहोमात् कृत्वा विरमेऽदित्यस्यापि विधेरयं विषय इति
आप्ग्स्-तात्_21.4:
एवमन्नहोमात् दुत्वा, अनन्तरमुत्तराः ऽस्वाहा पित्रेऽइत्याद्याष्षडाज्याहुतीर्जुहोति
एतद्वा विपरीतम् ॥ आ
(प.7.खं.,21-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.5:
पूर्वास्सप्ताज्याहुतयः उत्तराष्षडन्नाहुतय इत्यर्थः ।
मन्त्रास्तु यथाम्नातमेव ।
प्रयोगः-पूर्वद्युर्निवेदनं सायं भोजनानन्तरं श्वः श्राद्धं भविष्यतीति ।
तत आगभ्यव्रतचर्या सर्वेषाम् ।
(वयं तु ब्रूमः पूर्वेद्युः सायं भोजनं न भवति ।
ऽयदनाश्वानुपवसेत् पितृदेवत्यस्स्या"दिति लिङ्गादिति) ।
अथापरेद्युः प्रातः द्वतीयं निवेदनम्-अद्य क्रियत इति ।
अथाब्यङ्गस्ततो ऽपराह्णे स्नातान् क-तपच्छौचान्
तानमन्त्रयते ।
पूर्व विश्वेभ्यो देवेभ्यो यज्ञोपवीती युग्मान् द्वौ चतुरो वा ऽमासि श्राद्धे विश्वेभ्यो देवेभ्यः क्षणः कर्तव्यऽइति ।
ऽओं तथेऽति प्रतिवचनम् ।
ऽप्राप्नोतु भवाऽनिति यथासनं प्रापणम् ।
ऽप्राप्नवानीऽति प्रतिवचनमे ।
देवेभ्यः प्राङ्मुखाः ब्राह्मणाः प्राङ्मृलेषु दर्मेषु ।
पितृभ्य उदङ्मुखाः द्विगुणभुग्नेषु दक्षिणाग्रेषु युवानः पित्रे ।
वृद्धाः पितामहाय ।
वृद्धतमाः प्रपितामहाय ।
एकैकस्य त्रयस्त्रयो वा ।
शुचौदेशे दक्षिणाप्रवणे श्राद्धागारं सर्वतः परिश्रितमुदगवाद्वारं तस्य पूर्वोत्तरे देशे अग्निरौपासनः ।
तस्या धक्षिणतः पिण्डदानार्थ स्थण्डिलम् ।
तस्य दक्षिणतः उदङ्मुखाः पित्रार्थाः पश्चात् प्राङ्मुखाः देवार्थाः ।
तस्मिन्नेव स्थण्डिले यथावकाशं त्रिषु पात्रेषु पितृभ्य उदकान्यर्घ्याणि दक्षिणापवर्गाणि तिलवन्ति ।
देवेभ्य एकस्मिन्यवमति ।
तानि पुष्पैरवकीर्यदर्भेषु सादयित्वा दर्भैः प्रच्छाद्य आसनगतानां बराह्मणानां हस्तेषु
स्वस्मात्स्वस्मात् उदपात्रात् पात्रान्तरेमाप आदाय ऽविस्वे देवा इदं वोर्ऽघ्यऽ; ऽपितः इदं तेर्ऽघ्य, पितामह इदं तेर्ऽघ्य, प्रपितामह इदं तेर्ऽघ्य, इत्यर्ग्याणि ददाति तूष्णीं वा ।
पुरस्तादुपरिष्टाच्च शुद्धोदकम् ततो गन्धादिभिः वासोभिश्च द्विजानभ्यर्च्य ।
ऽउद्ध्रियतामग्नौ च क्रियताऽमित्यामन्त्रयते ।
ऽकाममुद्ध्रियतां काममग्नौ च क्रियतांऽइति प्रतिवचनम् ।
ततो ब्राह्मणार्थ संस्कृतादन्नादुद्धृत्यापरेणाग्निं बहिर्षि प्रतिष्ठाप्याभिघार्याग्नेरुपसमाधानाद्यज्यभागान्ते त्रयोदश प्रधानाहुतीर्जुहोति
आप्ग्स्-तात्_21.5:
यद्वा- विपरीतमेद्भवति , ऽयन्मे माताऽइत्याद्याः पूर्वास्सप्ताज्याहुतयः, ऽस्वाहा पित्रेऽइत्याद्या उत्तराष्षडन्नाहुतय इति
5 अन्नाभिमर्शनम् ।
सर्वमुत्तरैरभिमृशेत् ॥ आ
(प.8.खं.,21-6)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.6:
एवं प्रधानाहुतीर्हुत्वा सौविष्टकृतं हुत्वा जयादि प्रतिपद्यते ।
साङ्गे प्रधाने सर्वत्र प्राचीनावीतम् ।
न दायादय इत्यन्ये ।
परिषेचनान्तं कृत्वा प्रणीताश्च विमुच्य ततस्सर्वमन्नं होष्यं च समुपनिधाय हुतशेषं च तस्मन् उत्सृज्य तमुत्तैरस्त्रिभिः अभिमृशेत्
ऽएष ते तत मधुमानिऽत्येतैः ।
अत्राप्यूहः ऽएष ते मातामह मधुमाऽनित्यादि ॥
त्र ॥
आप्ग्स्-तात्_21.6:
अथ ब्राह्मणभोजनार्थहविष्यमहविषयं च सर्वमन्नं उत्तरैः ऽएष ते तत मधुमान्ऽइत्येतैस्त्रिभिर्मन्त्रैः अभिमृशेत् ।
एकयत्नेन सर्वस्याभिमर्शनासम्भवे मन्त्रावृत्तिः ;शेषिपरतन्त्रत्वाच्छेषाणाम्
कॢप्तान्वा प्रतिपूरुषम् ॥ आ
(प.8.खं.,21-7)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.7:
अथ वा भोजनपात्रेषु कॢप्तानोदनविशेषान् प्रतिपुरुषं पृथगभिमृशेत् यथालिङ्गम् ।
तत्र यावन्तः पित्रर्थे भोजयन्ते तावत्सु प्रथमस्य मन्त्रस्यावृत्तिः ऽएवमुत्तरयोः- ।
ततः पात्रेषु कस्पितानन्नशेषान्
आप्ग्स्-तात्_21.7:
अथवा -पित्राद्यर्थेभ्यो ब्राह्मणेभ्यः प्रतिरूरूषं भोजनपात्रेषु कॢप्तान् प्रकस्पितान् भोजयपदार्थान् एकैकेन मन्त्रेण यथालिङ्ग मभिमृशेत् ।
अत्रापि पित्रादेरेकैकस्य ब्राह्मणबहुत्वे युगपदभिमर्शनासम्भवे च तत्तन्मन्त्रावृत्तिः
6 भोक्तृभिरन्नोपस्पर्शनम् ।
उत्तरेण यजुषोपस्पर्शयित्वा ॥ आ
(प.8.खं.,21-8)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.8:
उत्तरेण यजुषा ऽपृथिवी ते पात्रऽमित्यनेन ब्राह्मणैः स्पर्शयित्वा भोजयेदिति शेषः ।
तत्र च ऽब्राह्मणानां त्वा, ऽमैषां क्षेष्ठाःऽइति बहुत्वं दृश्यते तथापि प्रतिपुरुषं मन्त्रावृत्तिः उपरवमन्त्रवत् , वत्सापाकरणमन्त्रवच्च ।
तत्र पूर्व देवानामुपस्पर्शनं ऽविश्वे देवासऽ; इत्यनयर्चा, स्मृत्यन्तरे दर्शनात् ।
वैष्णव्येत्यपरे ।
इदं विष्णुरित्यन्ते विष्णो हव्यं रक्षस्वेति ।
तथा पित्र्येष्वप्यन्ते विष्णो कव्यं रक्षस्वेति ।
भुञ्जानेषु पराङावर्तते ।
रक्षोघ्नान् पित्र्यान् वैष्णव्यानन्यांश्च पवित्रान् धर्म्यान् मन्त्रान् धर्मशास्त्र मितिहासपुराणांश्चाभिश्रावयति ।
ततस्तृप्तानि ज्ञात्वा मधुमतीः श्रावयेत् अक्षन्नमीमदन्तेति च ।
अथ भूमावन्नं विकरति-ऽये अग्निदग्धा ये ऽनग्निग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिणडेन तृप्ता यान्तु परां गतिऽमिति ।
अथाचान्तेषु पुनरपो दत्वा ऽस्वदितऽमिति पित्रर्तान् वाचयति ऽरोचतऽइति वाश्वदेवार्तान् ।
ततो यथाश्रद्धं दक्षिणां दत्वा सर्वेभ्यो ऽन्नशेषेभ्यः पिण्डार्थ प्राशनार्थञ्चोद्धृत्य शेषं निवेदयोत्-अन्नशेषैः किं क्रियतां इति ।
इष्टैस्सहोपभुज्यतामिति प्रतिवचनम् ।
ऽदातारो नो ऽभिवर्दन्तां वेदास्सन्ततिरेव नः ।
श्रद्धा च नो मा व्यपगात् बहुदेयं च नो ऽस्तुऽ; ॥
इति प्रार्थयते ।
ऽदातारो वो ऽभिवर्धन्ताऽमित्यूहेन प्रतिवचनम् ।
भुक्तवतः प्रदक्षिणीकृत्य, नमस्कारः ।
ओं स्वधेति पितृभ्यः ।
विश्वेदेवाः प्रीयन्तामिति विश्वेषां देवानाम् ।
तत्र सर्वकर्मणां वैश्वदेवेषु पूर्व प्रवृत्तिः पश्चात् पित्र्येषु ।
विसर्जने विपर्ययः ।
अभिश्रवणादि यज्ञोपवीती प्राक्पिण्डेभ्यः कल्पान्तरदर्शनात्
आप्ग्स्-तात्_21.8:
उत्तरेण ऽपृथिवी ते पात्रम्ऽइत्यनेन यजुषा, कॢप्तानन्नाविशेषान् ब्राह्मणान्, हस्ते गृहीत्वोपस्पर्शयित्वा, तं भोजयेदिति शेषः ।
अत्र च मन्त्रे यद्यपि ब्राह्मणानामिति बहुवचनं ततापि युगपत् स्पर्सायितुमशक्यत्वात् प्रतिपूरुषं मन्त्रावृत्तिः, यथा-ऽवायवस्स्थऽ(तै. सं-1-1-1) इति मन्त्रः प्रतिवत्सम् ।
एवंविधेषु बहुवचनं प्रयोगसाधुत्वार्थ, एकप्रयोगवचनप्रयोज्यानेकव्यक्त्योभिप्रायं वा
7 भुक्तवतामनुव्रजनम्, पिण्डदानम्, शेषभक्षणं च ।
भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान् दर्भान् संस्तीर्य तेषूत्तरैरपो दत्वोत्तरैर्दक्षिणापवर्गान् पिण्डान्दत्वा पूर्ववदुत्तरैरपो दत्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिःप्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्घ्यमावर्तयित्वा प्रोक्ष्यपात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषा शेषस्य ग्रासवरार्घ्य प्राश्नीयात् ॥ आ
(प.8.खं.,21-9)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.9:
ततस्तान् भुक्तवतो ऽनुव्रज्य प्रदीक्षणीकृत्य प्रत्यावृत्य प्राचीनावीती पिण्डप्रदानदेशे दक्षिणाग्रान् दर्भान्
संस्तृणाति द्वैधं द्वयोः स्थानयोरसंभिन्नानित्यर्थः ।
तत्र पितृभ्यः पुरस्तात् स्तृमाति, मातृभ्यः पश्चात् ।
तथा चाश्वलायनः -कर्षूष्वेके द्वयोष्षट्सु वा, पूर्वासु पितृब्यो दद्यात्, अपरासु स्त्रीभ्यः (आश्व.गृ.1-56,7,8) इति ।
ऽदक्षिणाग्रैः पित्र्येषुऽ(आप.गृ.14) इत्यस्य परिस्तरणीवषयत्वादिह दक्षिणीनीत्युक्तम् ।
संस्तीर्य तेषूत्तरैर्मन्त्रैः ऽमार्जयन्तां मम पितरऽइत्यादिभिरपो ददाति ।
पूर्ववदिति वक्ष्यमाणमन्त्राप्यपकृष्यन्ते ।
पिण्डं पूर्ववत् ददाति पिण्डपितृयज्ञे यत् पिण्डदानं तदित्यर्थः ।
तेन त्रीनुदकाञ्जलीनित्येवमादयोविशेषा इहापि भवन्ति ।
तत्र पितृलिङ्गैः पितृभ्यस्तीर्णेषु, मातृलिङ्गैर्मातृभ्यस्तीर्णेषु ।
एवमपो दत्वा तत उत्तरैर्मन्त्रैः ऽएतत्ते ततासाऽवित्यादिभिस्तेषु दर्भेषूभयेषु दक्षिणापवर्गान् पिण्डान् ददाति यथालिङ्गं पितृभ्यश्च मातृभ्यश्च ।
असावित्यत्र सर्वत्र नामग्रहणं यथालिङ्गम् ।
अत्रापि पूर्ववदित्यस्य सबन्धात् सव्यं जान्वाच्यावाचीनपाणिरित्यादि विधानमिहापि भवति ।
अनेकपितृकस्योह इति पैङ्गिसूत्रम् ।
ऽएतद्वां ततौ यज्ञशर्मविष्णुशर्माणौ ये च युवामनु, ऽएतद्वां पितामहाऽ- वित्यादि ।
एतद्वां मातरावसौ याश्च युवामनुऽइत्यादिदक्षिणापवर्गानित्युच्यते-उभयेषां पिण्डानां पृथक् दक्षिणापवर्गता यथा स्यादिति ।
तेन पितृपिण्डानां दक्षिणतो मातृपिण्डा न भवन्ति ।
किं तर्हि ?पश्चात् ।
एवं पिण्डान् दत्वा पूर्ववदुत्तरैरपो ददाति पितृभ्यश्च मातृभ्यश्च ।
मन्त्रसमाम्नायेऽमार्जन्तां मम पितर इत्येतेऽइति मन्त्राणां पुनरादिष्टत्वात् ऽउत्तरैरपो दत्वाऽइत्येव सिद्धे पूर्ववदित्यतिद्शः पिण्डपितृयज्ञप्रत्यवमर्शनार्थः -पिण्डेषु चोदकाञ्जलिषु च ।
तत उत्तरैर्मन्त्रैः तानुपतिष्ठते यथालिङ्गं ऽये च वो ऽत्रेति पितॄन्, याश्च वे ऽत्रेति मातॄ;ते च वहन्तामिति पितृन्, ताश्च वहन्तानिति मातॄः, तृप्यंतु भव्त इति पितॄन्, तृप्यंतु भवत्यः इति मातॄः, तृप्यत तृप्यत तृप्यत इत्युभयान् ।
तत उत्तरयर्चा ऽपुत्रान् पौत्रानित्येतयात्रिः प्रसव्यमुदपात्रेण पिम्डान् परिषिञ्चति . उभयास्तपर्यन्त्विति ल्ङ्गात् पिण्डानां सहपरिषेचनम् ।
उदपात्रवचनं हस्तेन मा भूदिति ।
प्रसव्यवचनमनुवादः प्रसव्यं त्रिगुणीभूतमेकमेव परिषेचनं सन्ततं यथा स्यात्, न पिण्डपितृयज्ञवत् त्रीणि परिषेचनानि पृथगिति ।
एवं परिषिच्य ततः पात्राणि यान्यत्र प्रकृतानि त्रीण्यर्घ्यपात्राणि परिषेचनपात्रामुदकुम्भः
यस्मिन् पिण्डार्थमन्नमुद्धृतं तच्चेति तानि न्युब्ज्य न्याञ्चि कृत्वा तत उत्तरं यजुः ऽतृप्यत तृप्यत तृप्यतेऽत्येतत् अनवानमनुछ्वसन् त्र्यवरार्ध्य मावर्तयति त्रिरभ्यावृत्तिः अवरा मात्रा यस्यावर्तनस्य तत् त्र्यवरार्ध्यम् ।
यजुर्ग्रहणं ऽतृप्यतेऽत्यस्य त्रिरावृत्तस्य पठितस्यैकयजुष्ट्व्ज्ञापनार्थम् ।
तस्य त्रिरावृत्तौ नवकृत्वो ऽभ्यावृत्तिर्भवति ।
एवमावृत्य न्यक्कृतानि पात्रानि प्रोक्ष्य द्वद्वमभ्युदाहरति उदानयति ।
अभीति वचनात् उत्तरं कर्म प्रत्युदाहरतीत्यर्थः ।
तेनोत्तरस्मिन्नपि श्राद्धकर्मणि तान्येव पात्राणीत्येके ।
नेत्यन्ये ।
एवमभ्युदाहृत्य शेषस्यान्नस्य ग्रासवरार्घ्य ग्रा सो ऽवरार्ध्यो अवमा मात्रा यस्य तत् ग्रासवरार्ध्यम् छान्दसो ह्रस्वः ।
तत्प्राश्नीयात् उत्तरेण यजुषा ऽप्राणे निविष्टो ऽमृतं जुहोमिऽइत्यनेन सर्वतस्सर्वभ्यः श्राद्धशेषेभ्य अन्नशेषेभ्य इत्यर्थः ।
श्राद्धाङ्गमिदं प्राशनं, न नित्यस्याशनस्य नियमविधिः ।
तस्मात् तत्रापि प्राचीनावीतमेव ।
आचमने तु यज्ञोपवीतमनङ्गत्वात् ।
ततः पञ्चमहायज्ञानां प्रवृत्तिः ।
आप्ग्स्-तात्_21.9:
अत भुक्तवतो व्रजतो ब्राह्मणानागृहसीमान्त मनुव्रज्य प्रदक्षिणीकरोति ।
एतयोश्च यज्ञोपवीतम् ।
कथम्?प्रदक्षिणे तावत्
ऽयज्ञोपवीतिना प्रदक्षिणम्ऽइति साहचर्यात् ।
अनुव्रजने ऽप्यनुव्रज्य प्रदक्षिणीकृत्येति प्रदक्षिणसाहचर्यात् ।
तन्त्रेण चैतदुभयं, सम्भवात् ।
यदि तु कारणवशात्तन्त्राभावः, तदा पृथक्पृथक् ।
अथ प्रत्येत्य प्राचीनावीती पिण्डदानदेशे दक्षिणाग्रान् दर्भान्, द्वैधं द्वेघा संस्तृणाति ।
तत्र पुरस्तात्पित्राद्यर्थ, पश्चान्मात्राद्यर्थम्;आश्वलायने दर्शनात्, आचाराच्च ।
ततस्तेषु दर्बेषूत्तरैः ऽमार्जयन्तां मम मातरःऽइत्यादिभिश्च यथार्ह दक्षिणापवर्गमपो दत्वा अनन्तरमुत्तरैः ऽएतत्ते ततासौऽइत्यादिभिः ऽएतत्ते मातसौऽइत्यादिभिश्च यथालिङ्गं त्रींस्त्रीन् दक्षिणापवर्गान् पिण्डान् ददाति ।
पिण्डाश्च हुतशेषात् भुक्तशेषाच्च समवदाय कर्तव्याः ।
अत्र पूर्वेषु त्रिषु मन्त्रेष्वसावि- त्यस्य स्थाने पितृपितामहप्रपितामहानां नामानि सम्बुद्द्या यथाक्रमं गृह्णाति ।
उत्तरेषु तु त्रिषु माथृपितामहाप्रपितामहानाम् ।
ऽदक्षिणतो ऽपवर्गःऽ(आप.गृ.1-20) इति
सामान्यविधिसिद्धस्येह पुनर्वचनं, पिण्डदान एव दक्षिणापवर्गःऽद्वैधं दर्बास्तरणेषु तु पश्चिमापवर्ग इति ज्ञापनार्थम्, तथोभयेषां पिण्डानां प्रत्येकं दक्षिणापवर्गसिद्ध्यर्थ च ।
अथ पूर्ववत् ऽमार्जयन्ताम्ऽइत्यादिभिरेवापो ददाति ।
केचित्-ऽतेषूत्तरैरपो दत्वा उत्तरैर्दक्षिणापवर्गान् पिण्डान् दत्वाऽइत्येतयोरपि ऽपूर्ववत्ऽइति पदमपकृष्य त्रिष्वपि सूत्रेषु चोद्यमानं पूर्ववत् पिण्डपितृयज्ञवत्कर्तव्यमिति व्याचक्षते ।
प्रयोजनं तु"त्रीनुदकाञ्जलीन्निनयति"(आप.श्रौ.1-8-10) ऽसव्यं जान्वाच्यावाचीनपाणिः ऽ(आप.श्रौ.1-9-1) इत्यादिविधानामिहापि भवतीति ।
तन्न;अपकर्षस्यैवायुक्तत्वात्, पूर्ववदित्यस्य पिण्डपितृयज्ञवदित्येवंबुद्ध्यनुदयाच्च ।
यदि त्वाचारबलात् ऽसव्यं जान्वाच्यऽइत्यादीहापि कर्तव्यमेवेत्युच्येत, तदा न कश्चिद्दोषः
अथोत्तरैः ऽये च वो ऽत्रऽइत्यादिभिष्षर्ड्र्भिमन्त्रैर्यथा क्रमं यथालिङ्गं पितॄन् त्रिस्त्रिरुपतिष्ठते ।
तृप्यतेत्यनेन त्रिरावृत्तेन उभयांस्तन्त्रेण ।
केचित् चत्वारो मन्त्राः न षट् ।
तत्र प्रथमो मन्त्रो ऽये च वो ऽत्रऽइत्यादिः ऽताश्च वहन्ताम्ऽइत्यन्तः उभयोषामुपस्थानार्थः ।
ऽतृप्यन्तु भवन्तःऽ; इति पितॄणाम् ।
ऽतृप्यन्तु भवत्यःऽइति मातॄणाम् ।
ऽतृप्यत तृप्यत तृप्यतऽइत्युभयेषामिति ॥
तत उत्तरया ऽपुत्रान्पौत्रान्ऽइत्येतया उभयेषां पिण्डान्युगपदुदपात्रेण त्रिः प्रसव्यमविच्छिन्नं परिषिञ्चति ।
सामान्यविधिसिद्धस्य प्रसव्यस्येह पुनर्वचनं पूर्वत्र"प्रदक्षिणीकृत्य"इति वचनादिहापि प्रादक्षिण्यं स्यादिति शङ्कानिरासार्थम् ।
अनन्तरं पात्राणि होमार्थानि पिण्डदानार्थानि च ।
केचित्-भोजनार्थानि वोददानार्थानि च, न तु होमार्थानीति ।
न्युब्ज्य अधोबिलानि कृत्वा ।
तत उत्तरं यजुः ऽतृप्यत तृप्यत तृप्यतऽइत्याम्नानत एवं त्रिरभ्यस्तम् ।
अनवानं अनुच्छ्वसन् ।
त्र्यवरार्ध्य त्रिरभ्यावृत्तिरवरा मात्रा यस्यावर्तनस्य तत्त्त्र्यवरार्ध्यम् यथा भवति तथावर्तयति ।
ततश्चावमायामपि मात्रायां तृप्यतेति नवकृत्वो ऽभ्यासितव्यं भवति ।
एवमनवानं यावच्छत्त्यावर्त्य, ततः पात्राणि न्यगभूतानि वप्रोक्ष्य, द्वन्द्वमभ्युदाहरति ।
अत्राभ्युपसर्गादुत्तरं कर्म प्रत्युदाहरति ।
तेषां पात्राणां निरिष्टिकदोषो नास्तीति भावः अथ शेषस्यान्नस्य ग्रासवरार्ध्य ग्रासावरार्ध्यम् ।
छान्दसत्वाद्घ्रस्वः ।
उत्तरेण यजुषा ऽप्राणे निविष्टःऽ; इत्यनेन प्राश्नीयात् ।
एतच्च सर्वतस्सर्वेभ्यो ऽन्नशेषेभ्यस्समवदाय कार्यम् ।
इदं च प्राशनं भोजनेच्छायामसत्यामपि ग्रासवरार्ध्यमवश्यं प्राश्यं; कर्माङ्गत्वात् ।
एवं प्राश्य, ततश्शुद्ध्यर्थ यज्ञोपवीत्याचामेत् ॥
अथात्र सूत्राणामपूर्णत्वादन्यतस्सिद्धानपि पदार्थानुपसंहृत्य यथाप्रतिभासं प्रयोग उत्यते-पूर्वेद्युस्सायमौपासनहोमं हुत्वा प्राचीनावीती
कृतप्राणायामः श्वो मासिश्राद्धं कर्तास्मीति सङ्कल्प्य शुचित्वादिगुणसम्पन्नेभ्यः श्वित्रादिदोषवर्जितेभ्यः कृतसायमाह्निकेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
तत्र प्रथमं यज्ञोपवीती भूत्वा ऽश्वो मासिश्राद्धं भविता, तत्र भवद्भिर्विश्वदेवार्थे क्षणः कर्तव्यःऽइति विश्वदेवार्थेभ्यो ब्राह्मणेभ्यो निवेदयेत् ।
ततःप्राचीनामीती ऽपित्रर्थे क्षणः कर्तव्यःऽइति पित्रर्थेभ्यः ।
ऽपितामहार्थे क्षणः कर्तव्यःऽइति पितामहार्थेभ्यः ।
प्रपितामहार्थे क्षणः कर्तव्यः ऽइति प्रपितामहार्थेभ्यः ।
एकब्रह्मणपक्षे तु ऽपितृपितामहप्रपितामहार्थे क्षणः कर्तव्यःऽइति मातामहश्राद्धकारी चेत्, ऊहेन ऽमातामहार्थे क्षणःऽइत्यादिना निवेदयेत् ।
तत्र चाधारयोस्तदर्तसमिधोराज्यभागयोरग्निमुखाहुतौ स्वविष्टकृति प्रायश्चित्ताहुतौ च यज्ञोपवीती तथा विश्वदेवार्थेषु सर्वेषु पदार्थेषु च प्रदक्षिणानुव्रजनयोश्च यज्ञोपवीतमेव ।
एभ्यो ऽन्यत्रासमाप्तेस्सर्वत्र प्राचीनावीतमेव ।
एतच्च प्रागेवोपपादितम् ।
कर्तुश्चात्र सङ्कल्पादारभ्य आसमाप्तेर्ब्रह्मचर्यादिव्रतचर्या अनशनं च भवति ।
भोक्तॄणामपि मनूक्तो ऽक्रोधत्वादिः ।
अथापरेद्युः प्रातस्तान् ब्राह्मणान् गृहमानीय आचान्तानासनेषूपवेश्य पूर्ववद्द्वितायमामन्त्रणम् ।
अत्र त्वद्य श्राद्धं भविष्यतीति भेदः ।
ऽपूर्वेद्युर्निवेदनं अपरेद्युर्द्वितीयं तृतायं चामन्त्रणम्ऽइतिवचनात् ।
अथ तेषां पादान् कुण्डेषु सकूर्चतिलेष्ववनिज्याचमय्य, कृसरताम्बूलादीनि दत्वा अभ्यज्य स्नानार्थ प्रस्थापयेत् ।
ते च स्नायुः ।
ततस्स्वयं च स्नातो ब्राह्मण भोजनार्थादन्नादन्येनान्नेन वैश्वदेवं पञ्चमहायज्ञांश्च कुर्यात् ।
केचित्-समाप्ते श्राद्धे इति ।
ततो ऽपराह्णेप्राचीनावीती ब्राह्मणान् प्रक्षालितपाणिपादानाचान्तानासनेषूपवेशयति ।
तत्र विश्वदेवार्थान् प्राङ्मुखान् प्राक्कूलेषु दर्भेषु पित्राद्यर्थानुदङ्मुखान् द्विगुणभुग्नेषु दक्षिणाग्रेषु दर्भेषु ।
श्राद्धागारं च सुचौ देशे दक्षिणाप्रवणे सर्वतः परिश्रितमुदग्द्वारं च भवति ।
तस्योत्तरपूर्वदेशे ऽग्निरौपासनड- ।
अग्नेदक्षिणतः पिण्डप्रदानार्थ स्थणडिलम् ।
तस्य दक्षिणतः प्त्राद्यर्थानामासनम् ।
पश्चात्तु विश्वेदेवार्थानामासनम् ।
स्थण्डिलेषु यथावकाशं पित्रादिभ्यस्रिषु पात्रेषु एकस्मिन् वा शास्त्रान्तरोक्तविधिनार्घ्यार्थमुदकग्रहणम् ।
विश्वेभ्यो देवेभ्यश्च यथाविधि पात्रान्तरे ।
तानि गन्धादिभिरभ्यर्च्य, दर्भेषु सादयित्वा दर्भैः प्रच्छाद्याथासनगतानां ब्राह्मणानां हस्तेषु स्वस्मात्स्वस्मादुदपात्रात्पात्रान्तरेणाप आदाय ऽविश्व देवाः इदं वो अर्घ्यऽऽपितृपितामहप्रपितामहाइदं वो अर्घ्य ऽइति वार्घ्याणि ददाति ।
इदमेवार्घ्यदानं श्राद्धे स्वधानिनयनमुदपात्रानयनमिति चोच्यते ।
पुरस्तादुपरिष्टाच्चर्घ्यदानाद्धस्तेषु शुद्धोदकदानम् ।
ततो गन्धादिभिर्वासोभिरङ्गुलीयकादिभिश्च यथाविभवं ब्राह्मणानामभ्यर्चनम् ।
ततस्तान् ऽउद्ध्रियतामग्नौ च ग्रियताम्ऽइति प्रतिब्रूयुः ।
ऽउदीच्यवृत्तिस्त्वासनगतानां हस्तेषूदपात्रानयनम् ।
उद्ध्रियतामग्नौ च क्रियता मित्यामन्त्रयते ।
काममुद्धियताकाममग्नौ च क्रियतामित्यतिसृष्ट उद्धरेज्जुहुयाच्चऽ(आप.ध.2-17-17,18,19) इति धर्मशास्त्रवचनात् ।
एतच्छोदपात्रानयनं उद्ध्रियतामित्यामन्त्रणं च पाक्षिकम्, भाष्यकारेणानुक्तत्वात्, उधीच्यवृत्तिरित्यस्य समासस्य उधीच्यानां वृत्तिरुदीच्येशु वृत्तिरित्युभयथापि विग्रहाभ्युपगमाच्च ।
अथ ब्राह्मणभोजनार्थादन्नात् हविष्यमोदनापूपादिकं एकस्मिन् पात्रे समुद्धृत्य अहविष्यं क्षारादिसंसृष्टमन्यस्मिन् पात्रे उद्धृत्याथ हविष्यं प्रतिष्ठतमभिघार् अग्नेरुपसमाधानाद्यग्निमुखान्तं कृत्वा ऽयन्मे माताऽइत्यादिभिस्त्रयोदश प्रधानाहुतीर्हुत्वा स्विष्टकृतं च तत उदीचीनमुष्णं भस्मापोह्य अहविष्यं स्वाहाकारेण हुत्वाथ ऽलेपयोःऽइत्यादि तन्त्रशेषं समाप्य ततः ऽएष ते ततऽइत्यादिभिस्सर्वमन्नमभिमृश्य अथ पृथक्पृथक्तृतीयमामन्त्रणं पूर्ववदेव कृत्वा त्रिष्वपि चामन्त्रणेषु ऽओं तथाऽइति प्रतिवचनं ब्राह्मणानाम् ।
ततः कर्तुः प्रार्थन्ऽइति ।
ततः ऽप्राप्नवानिऽइत्यङ्गीकारो भोक्तॄणाम् ।
अपरे क्रमान्तरमाहुः- वैश्वदेवपञ्चमहायज्ञानन्तरं अपराह्णे प्राचीनावीती अग्नेरुपसमाधानादि करोति ।
तत्र स्वधानिनयनपक्षे पात्रसंसादनकाले स्वधापात्राणामपि सादनम् ।
प्रणीताः प्रणीय विधिवत् स्वधाग्रहणम् ।
ततो ऽब्राह्मणं दक्षिणतो निषाद्यऽ; इत्याद्यग्निमुखान्ते कृतेपादप्रक्षालनादि ।
उद्धियतामित्यामन्त्र्य, अन्नमुद्ध्त्य प्रधानहोमादय इति ।
इहापि पक्षे स्वधानिनयनं पाक्षिकमेव अन्ये तु- मासिश्राद्धे शास्त्रान्तरानुसारान्मन्त्रवन्नियमवद्भोजनदेशसंस्कारं, विश्वेषां देवानां चावाहनं, भोजयित्वोद्वासनं चेच्छन्ति ।
अत्र च पदार्थेषु क्रमे च शिष्टाचारादेव निर्णयः, सूत्रकारभाष्यकाराभ्यामनुक्तत्वात् ॥
अथ प्रकृतमुच्यते-भोजनपात्रकॢप्तानन्नविशेषान् यथास्वं ब्राह्मणानुपस्पर्शयति ऽपृथिवी ते पात्रं, इत्येतया ऽइदं विष्णुर्विचक्रमेऽइत्येतया च ।
तस्याश्चान्ते ऽविष्णो बव्यं रक्षस्वऽइति विश्वेषां देवानां, ऽविष्णो कव्यं रक्षस्वऽइति पित्रादीनाम् ।
एवं स्पर्शयित्वाथ भोजयेत् ।
विभवे सति सर्पिर्मासादीनि विशिष्टानि दद्यात्;अभावे तैलं शाकमिति ।
भुञ्जानान् ब्राह्मणानाहवनीयार्थेन ध्यायेत्, पित्रादीन् देवतात्वेन, अन्नं चामृतत्वेन, आत्मानं ब्रह्मत्वेन ।
भुञ्जनेषु च पराङावृत्त्य राक्षोध्नान् पित्र्यान् वैष्णवानन्यांश्च (ख.ग.पवित्रान्) पावमानमन्त्रान् धर्मशास्त्रमितिहासपुराणानि चामिश्रावयति ।
तृप्तांश्च ज्ञात्वा मधुमतीश्श्रावयति, ऽअक्षन्नमीमदन्तऽइति च ।
अथ भूमावन्नं (ख.ग---प्रकिरति) परिकिरति--
ये अग्निदग्धा ये ऽनग्निदग्धा ये वा जाताः कुले मम ।
भूमौ दत्तेन पिण्डेन तृप्ता यान्तु परां गतिम् ॥
इति ।
अथाचान्तेषु पुनरपो दत्वा ऽस्वदितम्ऽइति पित्राद्यर्थान् वाचयति, ऽरोचयतेऽइति विश्वेदेवार्थान् ।
ततो यथाशक्ति दक्षिणां दत्वाथ सर्वेभ्यो ऽन्नसेषेभ्यः पिण्डार्थ प्राशनार्थ चोद्घृत्य (अन्नशेषैः) अन्नशेषः किं क्रियताम्ऽ?इति शेषं निवेदयेत् ।
ते च ऽइष्टैस्सह भुज्यतांऽइति प्रतिब्रूयुः ।
अथ कर्ता--
दातारो नो ऽभिवर्धन्तां वेदास्सन्ततिरेव नः ।
(ख.ग.-षैः)
श्रद्धा च नो मा व्यपगाद्बहु देयं च नो ऽस्तु ॥
इति प्रर्थयते ।
दातारो वो ऽभिवर्धन्तां वेदास्सन्ततिरेव वः ।
(ख.ग-च)
श्रद्धा च वो मा व्यगमद्बहु देयं च वो ऽस्तु ॥
इति तेषां प्रतिवचनम् ।
अथ, अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नस्सन्तु मा च याचिष्म कञ्चन ॥
इति च प्रार्थयते ।
(ख.ग.झ--अतीर्थींश्च सभध्वम् ।
याचितारश्च वस्सन्तु मा च याचध्वं वञ्चन ।
इत्यधिकम् ) ऽअन्नं च वो बहु भवेत्ऽइत्यबहेनैव प्रतिवचनम् ।
अनन्तरं ऽओं स्वाधाऽइत्याह ।
ऽअस्तु स्वधाऽइति प्रतिवचनम् ।
अथ ब्राह्मणानां पित्राद्यर्थानां पूर्व विसर्जनम् ।
विश्वेषां देवानां पश्चाद्विसर्जनम् ।
पूर्वोक्तेषु निवेदनादिषु सर्वेषु पदार्थेषु दैवपूर्वत्वमेव ।
अथ यज्ञोपवीती भुक्तवतो ऽनुव्रज्य प्रदक्षिणीकृत्य, प्राचीनावीती ऽद्वैधं दक्षिणाग्रान्ऽइत्यादि, ऽशेषस्य ग्रासवरार्ध्य प्राश्नीयात्ऽइत्येवमन्तं यथासूत्रं करोति ॥
अत्र चेदं वक्तव्यम् -ब्राह्मणभोजनं होमः पिण्डदानं च त्रीण्यपि मासिश्राद्धे प्रधानानि ।
अग्न्याधेये (ङ ज-भाष्यकेरेणेत्याधिकम्) ।
धूर्यस्वामिनोक्तत्वात् , वैश्वदेवे विश्वेदेवा इत्यत्र कपर्दिस्वामिनीक्तत्वाच्च ।
केचित् -इह ब्राह्मणभोजनमेव प्रधानम्, हेमः पिण्डदानं च तदङ्गम्, अनर्थावेक्षो भोजयेदिति प्रकृत्य तयोर्विधानात् इति ।
अथास्य मुख्यकल्पासम्भवे आमश्राद्धविधिरनुकल्पतयोच्यते--
आपद्यनग्नौ तीर्थे च चन्द्रसूर्यग्रहे तथा ।
आमश्राद्धं द्विजैः कार्य शूद्रः कुर्यात्सदैव हि ॥
इति (छ-बृहस्पतिवचनात् बृहत्प्रचेतोवचनाच्च ।
ज-वृहस्पतिप्रचेतसोर्वचनात्,) वृहत्प्रचेतोवचनात् ।
अत्र व्यासः--
आवाहनं च कर्तव्यमर्ध्यदानं तथैव च ।
एष एव विधिर्यत्र (ड-अन्न. छ-आम) यत्र श्राद्धं विदीयते ॥
यद्यद्ददाति विप्रभ्यः शृतं वा यदि वाशृतम् ।
तेनाग्नौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥
इति ।
अत्र षट्त्रिंशन्मतमामश्राद्धं यदा कूर्यात् पिण्डदानं कथं भवेत् ।
गृहादाहृत्य पक्वान्नं पिण्डान् जद्यात्तिलैस्सह ॥
इति ।
प्रयोगसंक्षेपस्तु-पूर्वेद्युरपरेद्युर्वा ब्राह्मणान्निमन्त्र्य, पूर्वाह्णे स्नात्वा ब्राह्मणानाहूय, पादप्रक्षालनाद्यर्घ्यदानान्तं कृत्वा, यथाविभवं गन्धवस्त्रादिभिश्च यथार्हमभ्यर्च्य, ऽअग्नौ करिष्यामीऽत्यामन्त्र्य आथाग्निमुखान्ते तण्डुलाद्यमद्रव्येण होमकरणम् ।
ततस्तन्त्रशेषं समाप्य, तण्डुलाद्यामद्रव्यं श्राद्धार्थ ददाति ।
चरोरभावात्तद्धर्माणामभावः ।
भोजनाभावाच्च तत्सम्बन्धिनामब्यणावः ।
ततः पिण्डदानमामेन, गृहादाहृतेन पक्केन वेति ।
अत्यन्तापदि तु ऽअपि ह वा हिरण्येन प्रदानमात्रंऽ, अपि ह वा हिरण्येन (ख.ग--ङ-प्रधानमात्रं एवमुत्तरत्रापि) ।
प्रदानमात्रं अपि वा मूलफलैः प्रदानमात्रम्, इत्यादिबोधायनादिवचनाद्धिरण्यादेर्वा प्रदानमात्रं समस्तधर्मरहितं कुर्यात् ।
एवं सर्वथापि श्राद्धमवश्यं कर्तव्यम् ।
न तु कस्यांचिदप्यवस्थायां लोपः ।
अत्र च श्राद्धविषये यद्यपि, वसवः पितरो ज्ञेयाः रुद्राश्चैव पितामहाः ।
प्रपितामहास्तदित्याश्श्रुतिरेषा समातनी ॥
इत्यादिशास्त्रान्तरसिद्धं बहु वक्तव्यमस्ति;तथापि विस्तरभयादुपरम्यते
एवं प्रकृतिभूतं मासिश्राद्धं व्याख्यायेदानीं तद्विकृतिभूतं प्रतिसंवत्सरमनुष्ठेयं अष्टकाख्यं पाकयज्ञान्तरं व्याख्यास्यन्, तस्य कालविधिमाह--
23 अष्टकाश्राद्धम्
1 तस्य क्रालः ।
या माघ्याः पौर्णमास्या उपरिद्व्यह्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते ॥ आ
(प.8.,ख.21)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.10:
व्याख्यातः श्रद्धविधिः ।
अथाष्टका नाम पाकयज्ञः पित्र्यः संवत्सरे संवत्सरे कर्तव्यः स उपदिश्यते ।
तस्य कालविधिरयं या माधी तस्या उपरिष्टाद्व्याष्टका कृष्णपक्षः तस्यां या अष्टमी तामेकाष्टका इत्याचक्षते सा यदि ज्येष्ठया सम्पद्यते सङ्गच्छते तामप्येकाष्टकेत्याचक्षते इति द्वाविमौ योगौ ।
अन्यथा पौर्णमास्या उपरिष्टादष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षत इत्येतावता सिद्धम् ।
किं व्यष्टकत्वम् ।
द्व्यष्टका ग्रहणस्य प्रयोजनं मृग्यम् ।
किमर्थ ज्येष्ठया सम्पद्यत इति?यदा द्वयोरह्नोरष्टमी तदा ज्येष्ठासंयुक्तायां क्रिया यथा स्यादिदि
आप्ग्स्-तात्_21.10:
माध्याः माघमासस्य सम्बन्धिन्याः पौर्णमास्याः उपसिष्टादूर्ध्व या व्यष्टका कृष्णपक्ष इत्यर्थः ।
तस्यां व्यष्टकायां या अष्टमी तिथिः ज्येष्ठया ज्येष्ठानक्षत्रेण सम्पद्यते सङ्गच्छते तामष्टमीमे काष्टकेत्याचक्षते कथयन्ति ब्रह्मवादिनः ।
तस्यामष्टका कर्तव्येति शेषः ।
एकाष्टकायां वपाहोमादि प्रधानं कर्तव्यमित्यर्थः ।
तामेकाष्टकेत्याचक्षत इति वचनं यान्यन्यान्यप्येकाष्टकायां विहितानि, यथा गवामयनदीक्षा यथा च दीर्घसत्रेषु विज्ञानार्थमपूपेन कक्षस्योपोषणं, यथाव चेखासम्भरणं, तानि च सर्वाणि यथोक्तलक्षणायामेवाष्टम्यां कार्यामीत्येवमर्थम् ।
अत्रायमभिप्रायः- यद्यपि माघमासस्य सर्वा कृष्णपक्षाष्टमी ज्येष्ठया न सम्पद्यते;तथापि तस्यामेकाष्टका कर्तव्यैव;पाकयज्ञत्वेन नित्यत्वात्, ऽव्यष्टका तस्यांऽइत्यधिकग्रहणाच्चेति ।
ज्येष्ठया सम्पद्यत इति तु प्रायिकाभिप्रायम् ।
तेनायुक्तायामपि गवामयनदीक्षादीनि लभ्यन्ते ॥
केचित्- यदा द्वयोरह्नोरष्टमी, यस्मिन्वा संवत्सरे द्वौ माघमासौ, तत्र या अष्टमी ज्येष्ठया सम्पद्यते तस्यामेव नास म्पन्नायामित्येवमभिप्राय इति
तस्यास्सायमौपकार्यम् ॥ आ
(प.8.ख.21)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.11:
उप समीपे क्रियत इत्युपकारः ।
तत्र भवमौपकार्यम् ।
तस्या औपकार्यमित्यन्वयः ।
तस्याः एकाष्टकायाः समीपे यत्कर्म क्रियते पूर्वेद्युस्सप्तम्याम्, तत्र चतुश्शरावमपूपं श्रपयति ।
सायं सप्तम्यामस्तमिते आदित्ये अपूपहविष्कं कर्म कर्तव्यमित्यर्थः ।
तदेवमौपकार्यशब्दः कालाविधानार्थः ।
तस्यास्सायमित्यन्वये अष्टम्यामस्तमिते ऽपूपं प्राप्नोति, नवम्यां पशुः, ऽदशम्यामन्वष्टकाऽ, तच्छास्त्रेष्वप्रसिद्धम् ।
औपकार्यशब्दश्चानर्थकः
आप्ग्स्-तात्_21.11:
त्रिपदमिदं सूत्रम् ।
तस्या अष्टकाया औपकार्यमुपकारकम् ।
उपकारं करोतीति कर्तरि यत्प्रत्ययः छान्दसः ।
अष्टकाया अङ्गभूतं कर्मेत्यर्थः ।
सायं पूर्वेद्युस्सप्तम्याः ।
सोमयागस्याग्नीषोमीयपशुयागवत्तस्या अष्टकाया अङ्गभूतं कर्म पूर्वेद्युस्सप्तम्यास्सायङ्काले कर्तव्यमिति
सूत्रार्थः ।
न त्विह तस्या अष्टकाया इति सम्बन्धः नवम्यां वपाहोमादि प्रधानप्रसङ्गात् ।
न चैतद्युक्तम्; या माध्या इति
कालविधानस्यौपकार्यार्तत्वोपपत्तौ ऽप्रकरणात्प्रधानस्यऽइति न्यायविरोधात्, शास्त्रान्तरेष्वप्रसिद्धत्वाच्च
अथास्यैपकार्यस्य विधिमाह--
व्रीहीणां चतुश्सरावं तूष्णीं निरुप्य पार्वणावत् पत्न्यवहन्तीत्यादिविधिनापूपं श्रपयति ।
अपूपः प्रथितावयवः प्रसिद्धः ।
प्रतिष्ठिताभिघारणान्तं च करोति ॥ आ
2 अपूपवाकः ।
अपूपं चतुश्शरावं श्रपयति
अष्टाकपाल इत्येके ॥ आ
(प.8.,ख.,21)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.13:
सायमपूपाष्टाकपालो हविः इत्येके मन्यन्ते ।
अष्टसु कपालेषु संस्कृतो ऽष्टाकपालः ।
अस्मिन् पक्षे पुरोडाशस्यावृता श्रपणम् ।
पूर्वस्य तु लौकिक्यापूपस्यावृता ।
द्वयोरपि पक्षयोः औपासने श्रपणम् ।
एतच्च पित्र्यस्याङ्गमपि कर्म स्वयं पित्र्यं न भवति, ऽतेन प्राचीनावीतादि न भवति
इति श्रीहगदत्तमिश्रविरचितायां गृह्यसूत्रवृत्तावनाकुलायामेकविंशःखण्डः ॥
आप्ग्स्-तात्_21.13:
अष्टसु कपोलेषु संस्कृतः पुरोडाशो ऽष्टकपालः ।
सः श्रपयितव्य इत्येके ।
पुरोडाश इति च प्रसिद्ध आकृतिविशेषः तेन लौकिकेन प्रकारेण पाक औपासनं एव
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0