आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 64
आप्ग्स्-तात्_21.1:
मासिश्राद्धस्य मासे मासे श्रद्धया कर्तव्यस्य ।
अपरपक्षे कृष्णपक्षे ।
यथोपदेशं ऽसर्वेष्वेवापरपक्षस्याहस्सु क्रियमाणे पितॄन् प्रीणाति ।
कर्तुस्तु कालाभिनियमात् फलविशेषःऽ(आप.ध.2-16-7) इत्यादिधर्णशास्त्रसिद्धोपदेशानुसारेण काला भवन्ति ।
ऽअपरपक्षे यथोपदेशं कालाः, इति पुनर्वचनस्य प्रयेजनं ऽअपरपक्षे पित्र्याणिऽ(आप.गृ.1-7) इत्यत्रोक्तम् ।
केचित्-यस्यां तिथौ प्रथममुपक्रमस्तस्यामेवोत्तरे प्रयोग इति नियमो नास्ति;कुन्ति पूर्णे ऽपि मासे अपरपक्ष एव यथोपदेशं तिथ्यन्तरे ऽपि नित्यः काम्यश्च प्रयोग इति
2 भोजनीया ब्राह्मणाः ।
शुचीन् मन्त्रवतो योनिगोत्रमन्त्रासम्बन्धानयुग्मांस्त्र्यवराननर्थावेक्षो भोजयेत् ॥ आ
(प.8.,खं.21-2)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_21.2:
शुचीन् सुद्धान् मन्त्रवतः श्रुताध्ययनसम्पन्नान् ऽशुचीन्मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.2-15-11)
इत्येव सिद्धे पुनर्वचनमादरार्थम् ।
ब्राह्मणान् योनिसम्बन्धाः श्वशुरमातुलादयः, गोत्रसम्बन्धाः समानगोत्राः मन्त्रसम्बन्धाःऽ ऋत्विगाचार्यान्तोवासिनश्च ।
गुणहान्यां तु परेषामिति वक्ष्यति ।
अयुग्मानिति युग्मप्रतिषेधार्थम् ।
त्र्यवरानिति एकप्रतिषेधार्थम् ।
"नत्वेवैकं सर्वेषाम् ।
काममनाद्ये"(आश्व.गृ4-7-3) इतियाश्वलायनः ।
अनाद्ये आमश्राद्धे दुर्भिक्षे वा कुले एकमपि भोजये- दित्यर्थः ।
यद्यपि स्त्रीभ्यो ऽपि पिण्डदानं दृश्यते तथापि ब्राह्मणभोजनमिह तभ्यो न भवति ।
होमाभिमर्शनयोरदर्शनात् ।
विप्रतिषे- धाच्च युग्मवचनस्य ।
तस्मात् पितृपितामहप्रपितामहेभ्य एव त्रिभ्यो ब्राह्मणभोजनम् ।
एकैकस्मै त्रयः पञ्च वा, कल्पान्तरे धर्मशास्त्रेषु च दर्शनात् ।
विश्वेभ्यो देवेभ्यो ब्राह्मणभोजनं युग्मसंख्यया ।
"मातामहानामप्येवं तन्त्रं वा वैश्वदैविक"(या.स्मृ.1-228 मिति या5वल्क्यः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0