आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 66
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने एकविंशः खण्डः ॥
द्वाविंशः खण्डः ।
3 अञ्जलिनापूपहोमः ।
पार्वणवदाज्यभागान्ते ऽञ्जलिनोत्तरयापूपाज्जुहोति ॥ आ
(प.8.ख.,22-1)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_22.1:
प्रतिष्ठिताभिधारणान्ते कृते अग्नेरुपसमाधाज्यभागान्तं कृत्वा पार्वणवदवदानकल्पेनापूपादुत्तरयर्चा अञ्जलिना जुहोति ऽयां जनाः प्रतिनन्दन्तीऽत्येतया ।
सामर्थ्यादुपस्तरणाभिघारणयोरवदानस्य चान्यः कर्ता ।
आज्यभागान्तवचनं तन्त्रविधानार्थम् ।
एतदेव ज्ञापकं न पित्र्यमेतत्कर्मेति ।
अन्यथा यथा मासिश्राद्धे ऽष्टकायां च यत्नाभावे ऽपि तन्त्रं प्रवर्तते, पित्र्येषु यत्नाभावे ऽपि तन्त्रं प्रवर्ततो इत्युक्तत्वात्, तथात्रापि सिद्धं स्यात् ।
पार्वणवद्वचनं अञ्जलिहोमानामधर्मग्राहकत्वात् अवदानकल्पप्राप्त्यर्थ अञ्जलिनापि जुह्वत् पार्वणवदवदानकल्पेन जुहोतीति ।
सादनप्रोक्षणसं मार्जनान्यञ्जलेर्न भवन्ति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0