भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 50

50.2

आप्ग्स्-तात्_16.2:
व्यक्तार्थमेतत्

50.3

15 चौलम्-
1 तस्य कालः ।
जन्मनो ऽधि तृतीये वर्षे चौलं पुनर्वस्वोः ॥ आ
(प.6.,खं.16-3)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.3:
अथ चौसविधिः -यस्मिन् कर्मणि केशाः प्रथमं खण्ड्यते तत् चौलं ।
चूडा प्रयोजनमस्येति ।
डलयोरविशेषः ।
तत्
जन्मनः प्रभृति तृतीये वर्षे पुनर्वसेवोर्नक्षत्रे कर्तव्यम् ।
कुमारं प्राशयेदिति विहितत्वात् पुंस एवेदं विधिवच्चौलम् ।
कुमार्यास्त्वावृतैव ।
एवञ्चेत्कृत्वा अपरेणाग्निं प्राञ्चमिति पुंलिङ्गमुपपद्यते ।
जन्मग्रहणं गर्भादारभ्य तृतीये वर्षे मा भूदिति

50.3

आप्ग्स्-तात्_16.3:
जन्मनो ऽधीति पूर्ववत् ।
ततश्च ऽगर्भादिस्सङ्खया वर्षाणांऽइति गर्भवर्ष न गण्यते ।
चौलमिति कर्मनामधेयम् ।
यस्मिन् कर्मणि चूडासन्निधानं तच्चौलं; पुनर्वस्वोः; कर्तव्यमिति शेषः

50.4

2 उपनयनवन्नान्दीश्राद्वम् ।
ब्राह्मणानां भोजनमुपायनवत् ॥ आ
(प.6,खं.16-4)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.4:
उपनयने ब्राह्मणभोजने विशेषाभावात् आदिपदलोपो ऽत्र द्रष्टव्यः ।
ब्राह्मणभोजनादीति ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वेत्येतावदिह द्रष्टव्यम् ।
अनुवाकस्य प्रथमेनेत्यादिपरस्तादतिदेक्ष्यते

50.4

आप्ग्स्-तात्_16.4:
अत्र च ऽ ब्राह्मणानां भोजनम्ऽ इति ग्रहणमाशीर्वचनकुमारभोजनयोरपि प्रदर्शनार्थम् ।
भोजनादीत्यादिशब्दो वा द्रष्टव्यः; उपायनवदिति वचनात् ।
उपनयनमेवोपायनम्

50.5

सीमन्तवदग्नेरुपसमाधानादि ॥ आ
(प.6.,खं.16-5)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.5:
अग्नेरुपसमाधानादिपरिषेचनान्तं सीमन्तवत् कर्तव्यम् ।
पूर्वेद्युर्नान्दीश्राद्धं, सकृत्पात्राणि, शलल्यादिभिस्सह शम्याः ।
अन्वारब्धायां इत्यत्र च कुमारस्यान्वारम्भः ।
परिषेचनान्तस्य चादिदेशः ।
यत्तु ऽगायतमिति वीणाथिनौऽइत्यादि न तस्यात्रातिदेशः ।
अपरेणाग्निं प्राञ्चमिति विधानात् पुनरुपवेशस्य

50.5

आप्ग्स्-तात्_16.5:
अग्नेरुपसमाधानादि तन्त्रं सप्रधानहोमं परिषेचनान्तमिह सीमन्तदिति ।
ततश्चान्वारब्धे कुमारे प्रधानहोमाः ।
पात्रप्रयोग काले शललल्यादीनां सकृदेव सादनम्

50.6

3 कुमारस्य केशानां विनयनम्, शिखानिधानं च ।
केशान् विनीय यथर्षि शिखा निदधाति ॥ आ
(प.6.,खं.16-6)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.6:
विनयनं पृथक्करणं वप्तव्यानां शिखार्थानाञ्च ।
तूष्णीमिति वाग्यमनार्थ न मन्त्रप्रतिषेधार्थम्, प्राप्त्यभावात् ।
यथार्षि यावन्त ऋषयो यस्य प्रवरे तावतीश्शिखाः करोति-त्र्यार्षेयस्य तिस्नः पञ्चार्षेयस्य पञ्चेति

50.6

आप्ग्स्-तात्_16.6:
प्राञ्चं प्राङ्मुखम् ।
वतूष्णीं वाग्यतः ।
केसान् विनीय विविधं नीत्वा;वप्तव्यान् शिखार्थाश्च पृथक्पृथक्कृत्वेत्यर्थः ॥
यथार्षियावन्त ऋषयस्स्प्रवरे तावती श्शिखा निदधाति ।
एकार्षेयस्यैका शिखा द्व्यार्षेयस्य द्वे इत्यादि

50.7

यथा वैषां कुलधर्मः स्यात् ॥ आ
(प.6.,खं16-7)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.7:
अथवा यथा येन प्रकारेण एषां कुमारस्य कुलजानां कुलधर्मः प्रवर्तते तथा शिखां करोति ।
एषां इति वचनं कर्तुः कुलधर्मो मा भूदिति ।
तेनास्मिन् कर्मणि पितैव कर्तेति नियमो नास्ति ।
अन्यत्र तु सति सम्भवे कुमारकर्मसु तस्यैव नियमः

50.7

आप्ग्स्-तात्_16.7:
अथवा-यथा येन प्रकारेण एषां कुलजानां कुलधर्मः प्रवर्तते, तथा शिखा कर्तव्या ।
केचित् एषामिति वचनात् पितुरन्यो ऽपि चौलकर्तेति

50.8

(प.6.,खं.16-8)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.7:
ऽउष्णाश्शीतास्वानीयेऽत्यादि ऽदर्भस्तम्बे वा निदधातीऽत्येवमन्तं उपनयनवत् कर्तव्यमित्यर्थः

50.8

4 उपनयनवत् दिग्वपनादि ।
अपां संसर्जनाद्याकेशनिधानात्समानम् ॥ आ
आप्ग्स्-तात्_16.8:
व्याख्यातमेवैतत्समावर्तने

50.9

क्षुरं प्रक्षाल्य निदधाति ॥ आ
(प.6.,खं.16-9)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.9:
क्षुरस्य प्रक्षालनंविधीयते ।
निधानमर्थप्राप्तम् ।
यदा निदधाति तदा प्रक्षाल्येति

50.9

आप्ग्स्-तात्_16.9:
अत्र प्रक्षालनमेव विधीयत्;निधानं त्वर्थप्राप्तम्

50.10

5 वपने उपयुक्तेन क्षुरेण त्रिरात्रपर्यन्तं कर्माकरणम् ।
तेन त्र्यहं कर्मनिवृत्तिः ॥ आ
(प.6,खं.13-10)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.10:
तेन क्षुरेण त्रिष्वहोरात्रेषु नापितकर्म न कर्तव्यम्

50.10

आप्ग्स्-तात्_16.10:
तेन क्षुरेण त्र्यहं नापितकर्मनिष्टवृत्तिस्स्यात्

50.11

वरं ददाति ॥ आ
(प.6.,खं.16-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.11:
अस्मिन्कर्मणि समाप्ते कुमारस्य पिता ब्रह्मणे वरं ददाति ।
ऽगौर्वै वरऽइत्त्युक्तम्

50.11

आप्ग्स्-तात्_16.11:
वरं गां पिता ददाति दक्षिणत असीनाय ब्राह्मणाय ।
यद्यन्यश्चौलकर्ता तदा तस्मै

50.12

1 गोदानव्रतं, तत्कालश्च ।
एवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे ॥ आ
(प.6खं.,16-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.12:
यथा चौलं एवमस्य गोदानाख्यमपि कर्म कर्तव्यम् ।
तत्र तृतीयस्य वर्षस्यापवादः षोडशे वर्षे इति ।
अन्यस्मिन्नपि नक्षत्रे पुण्याह एव ।
पुनर्वसु नियमस्यापवादः

50.12

आप्ग्स्-तात्_16.12:
गोदानमिति कर्मनामधेयम्;यस्मिन्कर्मण्यङ्गभूतं गोदानयोश्शिरःप्रदेशाविशेषयोर्वपनम् ।
यत्रापि पक्षे शिखावर्जित सर्वकेशवपनं, यथर्षि च शिखाः;तत्रापि गोदानयोर्वपनं कर्मनामधेयप्रवृत्तिनिमित्तं विद्यत एव ।
तद्गोदानाख्यं कर्म ।
एवं यथाचौलम् ब्राह्मणभोजनादि वरदानान्तं कर्तव्यम् ।
तच्चन्य स्मिन्नपि नक्षत्रे रोहिण्यादौ, वर्ष च षोडशे भवति

50.13

अत्र पक्षान्तरमाह--
अग्निगोदानो वा स्यात् ॥ आ
(प.6.,खं.16-13)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.13:
अग्निर्देवता यत्र गोदाने तदग्निगोदानं यस्य वसो ऽग्निगोदानः ।
(अग्निशब्देन तद्दैवत्यं गोदानं लक्ष्यते ।
अग्निर्गोदानमस्येति विग्रहः) ।
एकस्य गोदानशब्दस्य लोपः, उष्ट्रमुखवत् ।
तत्र बौधायनः-षोडशे वर्षे गोदानम् ।
तस्य चौलवत् तूष्णीं प्रतिपत्तिरवसानं च ।
.....अग्नि गोदानो वा भवति ।
तस्य काण्डोपाकरकाण्डसमापनाभ्यां प्रतिपत्तिरवशानं च ।
(बौ.गृ.3-2-52-58) इति ।
किमुक्तं भवति?आग्नेयानां काण्डानां उपाकरणसमापनयोर्यः कल्पः तत्र चौलधर्माः प्रवर्तन्त इति ।
षोडशे वर्षे भवति ।
सकृत् पात्राणि न शमयाः ।
अस्यास्मिन् गृह्ये ऽनुपदिष्टत्वात् यत् गोदानमुपदिष्टं तत्रैव शम्याविधिः ।
तत्र प्रयोगः ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा तूष्णीं केशश्मश्रु वापयित्वाग्नेरुपसमाधानादि परिषेचनान्तानि आग्नियकाण्डोपाकरणवत् कृत्वा शुक्रियवद्देवतोपस्थानं ऽअग्ने व्रतपते व्रतं चरिष्यामि"इति ।
अन्ये संवत्सरे व्रतचर्या ।
अन्ते विसर्गः ।
एवमेवाचारिषमित्यादि विकारः शुक्रियवत् दैवतम् ।
केशश्मश्रुवपनम् ।
अन्ते ब्राह्मणभोजनम् ।
उभयत्र नान्दीमुखश्राद्धं केचित् कुर्वन्ति ।
अपरे न

50.13

आप्ग्स्-तात्_16.13:
अग्नये गोदानं यस्य सो ऽग्निगोदानो ब्रह्मचारी ।
पुल्लिङ्गनिर्देशाच्चैवं विग्रहः ।
अस्मिन् पक्षे आज्यभागान्ते कृते ऽअग्नये काण्डर्षये स्वाहाऽइत्याज्येनैवैका प्रधानाहुतिः ।
ततो जयादि क्षुरप्रक्षालनान्तम्

50.14

संवत्सरं गोदानव्रतमे (मित्ये) क उपदिशन्ति ॥ आ
(प.6खं.,16-14)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.14:
कृतगोदानस्यापि तच्छेषतया संवत्सरं व्रतचरणमेकं आचार्या उपदिशन्ति ।
चौलगोदाने ऽयं विकल्पः ।
अग्निगोदाने तु काण्डोपाकरणातिदेशात् नित्यमेव यदा व्रतचर्या तदा वरदानादूर्ध्व देवतोपस्थानं पूर्ववदन्ते, विसर्गश्च पूर्ववदेव

50.14

आप्ग्स्-तात्_16.14:
अधीते ऽपि वेदे, अवश्यं संवत्सरं गोदानव्रतं ब्रह्मचर्य चरितव्यमित्येक उपदिशन्ति;वैकल्पिकमित्यर्थः

50.15

उभयोरपि गोदानयोश्चौलाद्विशेषमाह-
2 तत्र वपने विशेषः ।
एतावन्नाना सर्वान् केशान् वापयते ॥ आ
(प.6खं.,16-15)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.15:
अस्मिन् चौलगोदाने तु एतावन्नाना पृथग्भावश्चौलात् ।
अत्र सर्वान् केशान् वापयते सशिखान् ।
चौले तु यथर्षि शिखा निदधात् ।
अन्ये श्मश्त्वादीनां प्राप्त्यर्थ सर्वग्रहणं वर्णयन्ति ।
तेषां केशशब्द- उपलणार्थः ।
तथा चाश्वलायनः-केशश्मश्रुलोमनखान्युदकसंस्थानि संप्रेष्यति ।
(आश्व.गृ.1-18-6) इति

50.15

आप्ग्स्-तात्_16.15:
एतावन्नाना एतावान् भेदः ।
यदपिधानार्थयापि शिखया सद सर्वान् केशान् वापयत इति ।
ततस्चेह विनयनाभावाच्छलल्यादीनां निवृत्तिः ।
अत्र च वापयत इति णिजन्तनिर्देशादाचार्य एव गोदानकर्मणः कर्ता ।
वरदानञ्चाचार्यायैव ।
तथात्र शिखाया अपि वपनं ऽएतावन्नाना सर्वान् केशान्वापयतेऽइत्यस्मादेव वचनात् ;सत्रवत् ।
अन्य आहुः ऽरिक्तो वा एषो ऽनपिहितो यन्मुडस्तस्यैतदपिधानं यच्छिखेति ।
सत्रेषु तु वचनात् वपनं शिखायाःऽ(आप.ध.1-10- -8.9)
इति सत्रेभ्यो ऽन्यत्र शिखाया वपनग्रतिषेधात् इहापि नैव श्खाया वपनमिति

50.16

उदकोपस्पर्शनमिति छन्दोगाः ॥ आ
(प.3.,खं.16-16)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.16:
अस्मिन् गोदानव्रते अहरहरुदकोपस्पर्शनं कर्तव्यमिति छन्दोगा उपदिशन्ति ।
त्रिषवणमिति केचित्

50.16

इति श्रीहरदत्तविरचितायामनाकुलायां गृह्यसूत्रवृत्तौ षोडशः खम्डः ॥
आप्ग्स्-तात्_16.16:
सांवत्सरिकगोदानव्रतपक्षे अहरहरुदकोपस्पर्शनं छन्दोगा उपदिशन्ति;विकल्प इत्यर्थः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc