भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 51

51.1

इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने षोडशः खण्डः ॥
षष्ठः पटलस्समाप्तः ॥
====================================================================================
अथ सप्तमः पटलः ॥
सप्तदशः खण्डः ।
16 गृहनिर्माणम्-
1 तत्र खनित्रेणोद्धननोदूहने ।
दक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पालाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति ॥ आ
यज्ञेष्वधिकरिष्यमाणस्य पुरुषस्य देहसंस्कारा व्याख्याताः ।
ते च ऽशालीनस्योदवसायऽइति वचनाभावे गृह एव कर्तव्याः ।
विधिवच्च निर्मिते गृहे ।
विधिवत् प्रवेशादपेक्षितायुर्यज्ञधनादि फलसिद्धिः ।
अतो मन्त्राम्नानक्रमप्राप्तो गृहनिर्माणप्रवेशयोर्विधिर्व्याख्यायते- (प6.,खं.17-1)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_17.1:
अथ गृहसम्मानविधिः ।
गृहसम्मानं च न सर्वयज्ञादिवन्नित्यम् ।
नाप्यद्भुतकर्मप्रायश्चित्तादिवन्नैमित्तिकम् ।
किं तर्हि?काम्यम् ।
अतो ऽक्रियायां न दोषः ।
क्रियायां चोदगयनादिनियमः ।
तत्र यस्मिन् प्रदेशे ऽगारं चिकीर्षितं सो ऽगारावकाशः स दक्षिणाप्रत्यक्प्रवणो भवति ।
दक्षिणा प्रतीच्योरन्तराले निम्ना भवति ।
एवंविधे देशे अगारं कर्तव्यमित्यर्थः ।
तमगारावकाशं उद्धन्ति खनित्रेण खनति यथा पांसव उत्पद्यन्ते ।
उद्धत्य तान् पासून् पालाशेन समीयेन वोदूहेन एतामेव दिशं प्रति उत्तरयर्चाऽयद्भूमेः क्रूरऽमित्येतया उदूहति उन्नतात् प्रदेशात् अवनते प्रापयति ।
उदूह्यते ऽनेनेत्युदूहः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc