आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 49
आप्ग्स्-तात्_16.1:
जन्मने ऽधि जन्मन आरभ्य, दिवसगणनया षष्ठे मासि ।
तेन मार्गशीर्ष शुक्ले द्वितीयायां जातस्य न मार्गशीर्षो मासः पूर्णो गण्यते ।
अत एव ज्योतिषे बृहस्पतिः --
ऽपञ्चाशद्दिवसात् त्रिघ्नात्पश्चात्त्रिहतषष्टिकात् ॥
अर्वागेवोत्तमा भुक्तिः"...... इति ।
ब्राह्मणान् भोजयित्वेत्युक्तार्थम् ।
आशीर्वचनानन्तरं दध्यादिचतुष्टयं संसृज्य उत्तरैर्मन्त्रैः ऽ भूरपां त्वौषधीनांऽइत्यादिभिश्चतुर्भिः कुमारं सकृदेव प्राशयोत् ।
सम्बुद्ध्या च नामग्रहणम् ।
द्वितीयतृताययोरपि ऽत्वौषधीनाम्ऽइत्यादेरनुषङ्गः
2 दध्यादिस्थाने तैत्तिरीयमांसविधानम् ।
तैत्तिरेण (रीयेण) मांसेनेत्येके ॥ आ
(प.6.,खं.16-2)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.2:
तित्तिरेः पक्षिणः मांसेन तदन्नप्राशनं कर्तव्यमित्येके आचार्या मन्यन्ते ।
मांसं व्यञ्जनमोदस्य ।
अन्ये तु मांसमेव मन्त्रवत् प्राश्यं मन्यन्ते ।
मांसग्रहणं शोणितादेः प्रतिषेधार्थम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0