भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 47

47.1

आप्ग्स्-तात्_15.1:
जातं जातमात्रम्, प्राङ्नाभिवर्धनात् पुंसो जातकर्म विधीयते ॥
(मनु.2-29) इति वचनात् ।
एतच्चोपरिशोध्यते ।
जात कुमारं पिता वात्सप्रेण ऽदिवस्परिऽ(तै.सं4-2-2) इत्यनुवाकेन अन्ते सकृदभिमृश्य ऽअस्मिन्नहम्ऽइत्यनेन यजुषा स्वस्योपस्थे तमाधाय, उत्तराभ्यां ऽअङ्गादङ्गात्ऽऽअश्मा भवऽइति द्वाभ्यां तस्याभिमन्त्रणं कर्तव्यम्, तथैव ताभ्यामेव मूर्धन्यवघ्राणम्, एतयोरेवर्चोः दक्षिणे कर्णे जापो जप इत्यर्थः ।
वचनबलाच्च जपाभिमन्त्रणयोरवघ्राणलिङ्गबाधः ।
अभिधानं तु जातसंस्कारक्रियासामान्यात् ।
एतच्च ऽतर्धिस्थाणुचतुष्पथव्यतिक्रमेऽ; (आप.गृ.5-16) इत्यत्रोपपादितम् ।
केचित्-उत्तराभिरिति पाठो, नोत्तराभ्यामिति ।
तेन ऽअङ्गादङ्गात्ऽइत्यभिमन्त्रणम् ।
ऽअश्मा भवऽइत्यवघ्राणम् ।
ऽमेधां ते देवःऽइति जपः ।
अत एवाश्वलायनः -"कर्णयोरुपनिधाय मे धाजननं जपतिऽमेधां ते देवस्सविताऽइति" ।
मधुघृतप्राशनं तु ऽत्वयि मेधाम्ऽ; इति यजुर्भिरेव त्रिभिरिति ।
तन्न;अनधीयमानपाठाङ्गीकारे अतिप्रसङ्गात्

47.2

2 नक्षत्रनामनिर्देशः ।
नक्षत्रनाम च निर्दिशति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.2:
अभिजिघ्राम्यसौ इत्यत्रासौशब्दस्य स्थाने नक्षत्रनामनिर्देशः ।
तत्संबुध्या निर्दिशेत्-पशूनां त्वा हिंकारेणाभिझिघ्राम्याश्वयुजेत्यादि ।
तत्र नक्षत्रशब्देषु जातार्थे रूपनिर्णयार्थः श्लोकः --
आप्ग्स्-तात्_15.2:
रोरेममृज्येचिषु वृद्धिरादौष्ठात्पे च वान्त्यश्रवशाश्वयुक्षु ।
शेषेषु नाम्वोः कप्रस्स्वरोषन्त्यः स्वाप्वोरदीर्घस्साविसर्ग इष्टः ॥
अस्यार्थः-रोहिणी रेवती मघा मृगशीर्षा ज्येष्ठा तित्रा-इत्येतेषु आद्यक्षरनिर्दिष्टेषु आदौ वृद्धिर्बवति, ऽनक्षत्रेभ्यो बहुलम्, (पा.सू.4-3-37)इति बहुलग्रहणाज्जातार्थप्रत्ययस्य च लुगभावः ।
रूपं च रौहिणः रैवतः माघः मार्गशीर्षः ज्यैष्ठः चैत्रः इति ।
ष्ठात्पे च, प्रोष्ठपदेत्यत्र ष्ठकारात्परे पकारे च वृद्धिः ।
"जे प्रोष्ठपदानाम्ऽ(पा.सु.7-3-18)इत्युत्तरपदवृद्धिरित्यर्थः ।
पूर्ववच्च लुगभावः प्रोष्ठपादः ।
वान्त्यश्रवशाश्वयुक्षु ।
अन्त्यमाम्नानतः अपभरणीरित्यर्थः ।
श्रवः श्रवणं श-शतभिषक् अश्वयुक् इत्येतेषु चतुर्षु वा विकल्पेन वृद्धिः ।
अत्र च श्रवणापभरण्योः बहुलग्रहणादेव लुको विकल्पः ।
अश्वयुक्छतभिषजोस्तु ऽवत्सशालाभिजिदश्वयुक्छ- तभिषजो वाऽ(पा.सू.4-3-36)
इति सूत्रेण ।
अपभरणः आपभरणः ।
श्रवणः श्रावणः ।
शतभिषक् शातभिषजः ।
अश्वयुक् आश्वयुजः ।
शेषेषु न उक्तादन्येषु नक्षत्रेषु न वृद्धिः यतो ऽत्र ऽश्रविष्ठाफल्गुन्यनूराधास्वातितिष्यपुनर्वसुहस्त विशाखाषाढाबहुलाल्लुक्ऽ; (पा.सू.4-3-34) इत्यनेन, नक्षत्रेभ्यो बहुलम्ऽइत्यनेन च लुग्व भवति ।
ऽलुक्तद्धितलुकिऽ(पा.सू1-2-49) इति स्त्रीप्रत्ययनिवृत्तिः कृत्तिकः तिष्यः आश्रेषः फाल्गुनः हस्तः विशाखः अनूराधः आषाढः श्रविष्ठः ।
आम्वोः कपरः स्वरो ऽन्त्यः, आर्द्रमूलयोरन्त्यः स्वरः कशब्दपरो भवति ।
पूर्वाङ्णापरोह्णार्द्रअमूलाऽइत्यादिना वुन्प्रत्यय इत्यर्थः ।
आर्द्रकः मूलकः ।
स्वाप्वोरदीर्घस्साविसर्ग इष्टः, स्वाप्वोः स्वातीपुनर्वस्वोरन्त्यस्वरो ऽदीर्घस्सविसर्गश्चेष्टः ।
ऽश्रविष्ठाफल्गुनीऽइत्यादिना लुक् ।
सविसर्गत्वं च पूर्वस्य स्त्रीप्रत्ययस्यनिवृत्तौ हल्ङ्यादिलोपाभावात् ।
उत्तरस्यतु तनुवदुकारान्तत्वात् ।
स्वातिः पुनर्वसुः ।
एवं सर्वेषां नक्षत्रनाम्नां प्रथमया निर्देशः सूक्तवाके ।
जातकर्मणि पुनस्सम्बुद्ध्या

47.3

तद्रहस्यं भवति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.3:
नक्षत्रनाम रहस्यं भवति ।
यथा परे न जानन्ति तथा वक्तव्यमित्यर्थः सूक्तवाकादिष्वप्येवमेव

47.3

आप्ग्स्-तात्_15.3:
नक्षत्रनाम च रहस्यं निर्दिशतीति सूत्रे प्रणेतव्ये सूत्रान्तरकरणात् यत् नामनक्षत्रनिबन्धनं, यच्च दशम्यां कृतं तदुभयं जातकर्म सूक्तवाकान्नप्राशनाभिवादनादिषु नित्यं रहस्यमेव निर्देश्यं भवति

47.4

3 कुमारस्य मधुघृतप्राशनम्, दधिघृतप्राशनं च ।
मधु, घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्य बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्गारचतुर्थाभिः कुमारं प्राशयित्वाद्भिश्शेषं संसृज्य गोष्ठे निनयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.4:
मधुघृतमित्येतद्वयं विषमपरिमाणं कास्यपात्रे संसृज्य तस्मिन् हिरण्यं दर्भेण, निष्टर्क्य बध्वाऽदधाति ।
निष्टर्क्यमिति बन्धनविशेषो लोकप्रसिद्धः ।
तथा बद्धेन हिरण्येन तद्रसद्वयमादाय तेनैव कुमारं प्राशयेत् ।
उत्तरैस्त्रिभिः ऽत्वयि मेधाऽमित्यादिभिः प्रतिमन्त्रं प्राशनम् ।
तत उत्तराभिः पञ्चभिः ऋग्भिः ऽक्षेत्रियै त्वेऽत्यादिभिः प्रतिमन्त्रं स्ना#उयति ।
ततो ऽन्यस्मिन् कांस्यपात्रे दधि घृतञ्च संसृड्य तत्पृषदाड्यं तेनैव कांस्येन प्राशयति ।
व्याहृतीभिरेङ्कारचतुर्थाभिः भूः स्वाहेत्यादिभिः प्रतिमन्त्रम् ।
ततश् शेषद्वयमद्भिस्संसृड्य गेष्ठे निनयेत् ।
कुमारग्रहणं असमर्थस्यापि कुमारस्यैव प्राशनमुपायेन यथा स्यादिति ।
तेन यत्नाभावे"धानाः कुमारान् प्राशयन्ति""क्षैत्रपत्त्यं च प्राशयन्ति"इत्यादौ प्राशनमसमर्थानां न भवति

47.4

आप्ग्स्-तात्_15.4:
निष्टकर्य शिखाबन्धनवत् सरन्ध्रेण ग्रन्थिना निष्टर्क्य बध्नाति;प्रजानां प्रडननायऽइति लिङ्गात् ।
उत्तरैर्मन्त्रैः ऽमेधां ते देवस्सविताऽइत्यृचा, ऽत्वयि मेधान्ऽइति त्रभिर्यजुर्भिः ।
प्राशनं चतुर्णामन्ते सकृदेव हिरण्येन गृहात्वा ।
"मन्त्रवत्प्राशनं चास्य हिरण्यमधुसर्पिषाम्ऽ; ।
(मनु.2-29)
इति मनुवचनात् ।
उत्तराभिः पञ्चभिः ऽक्षेत्रियै त्वा निऋत्यै त्वाऽइत्यादिभिः ।
स्नापनमपि पञ्चानामन्ते सकृदेव ।
दधि धृतमितिव समसृष्टं पृषदा ज्यं ।
तच्च यस्मिन् कांस्ये संसृज्यते तेनैव प्राशयेन्न हस्तेन ।
व्याहृती भिरोघ्कारचतुर्थाभिः ऽभूः स्वाहाऽ; इत्यादिभिः ।
अत्राप्यन्ते सकृत्प्राशनम् ।
प्राशित शेषमद्भिस्संसृज्य गेष्ठे अधिकरणे ऽन्यो निनयेत् ।
केचित्-मधृघृतसंसर्गो ऽपि कास्ये नियतः ।
प्राशनद्वयं स्नापनं च प्रितिमन्त्रमिति

47.5

4 दक्षिणस्तनदापनम् ।
उत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.5:
अथ तं कुमारं ऽमा ते कुमारऽमित्येतया मातुरुपस्थ आदधाति ।
एतावन्तं कालं स्वोपस्थे ।
तस्मात् शेषनिनयनम- प्यन्येन कारायितव्यम् ।
तत उत्तरयर्चा ऽअयं कुमारऽइत्येतया दक्षिणं स्तनं प्रतिधाप्य तत उ त्तराभ्यां ऋग्भ्यां ऽयद्भूमेर्हृदयऽमित्येताभ्यां प्रतिमन्त्रं पृथिवीमभिमृशति ।
ततः तं कुमारं अभिमृषाटायां भूमौ संवेशयति माता ।
तं संविष्टमुत्तरेण यजुषा ऽनामयति न रुदतीऽत्यनेनाभिमृशति

47.5

आप्ग्स्-तात्_15.5:
उत्तरया ऽमा ते कुमारम्ऽइत्येतया कुमारं मातुरुपस्थ आदधाति ।
इह च मातृग्रहणादितः पूर्व स्वोपस्थ एव ।
अत एव च शेषनिनयनमन्यकर्तृकम् ।
उत्तरया ऽअयं कमारः इत्येतया धक्षिणं स्तनं प्रतिधापयति पाययति ।
इदं च मन्त्रस्तन- नियमयोर्विधानं प्रथमस्तनपानविषयम्, प्रथमातिक्रमे कारणाभावात् ।
ततश्च जातोष्टिः, ऽवैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते यदष्टकपालो भवति गायत्रियैवैनं ब्रह्मवर्चसेन पुनातिऽ(तै.सं.2-2-5) इत्यादिना यद्यपि पुत्रजन्माख्यानिमित्तसंयोगेन श्रुता तथापि क्षामवत्यादिवन्न निमित्तादनन्तरं कर्तव्या ।
कुत एतत्?रात्रिसत्रन्यायेन आर्थवादिकपुत्रगतब्रह्मवर्चसादिकामनासंवलितस्यैव जन्मनो ऽधिकारहेतुत्वाभ्युपगमात्
जातेष्ठिप्रवृत्तेश्चोत्कटजीवत्पुत्रगतपूततादिफलरागाधीनत्वात् दीर्घकालसमाप्यायां चेष्टौ कृतायां पश्चाद्वैधस्तनमाने सति कुमार एव शेषी शिष्कण्ठतया न जीवेत् ।
ततश्चेष्टेयां रागाधीनायां प्रवृत्तिरेव न स्यात् ।
तस्मात् जननानन्तरमेव संशासनान्तं जातकर्मैव कर्तव्यम् ।
इष्टिस्तूक्तेन न्यायेन निमित्तस्वारस्यभङ्गस्य दुर्निवारत्वात् चोदकानुग्रहाच्चाशौचे ऽपगते पर्वण्येव कर्तव्या ।
उत्तराभ्यां ऽयद्भूमेर्हृदयंऽइत्येताभ्यां पृथिवीं सकृद भिमृशति, यत्र कुमारश्शतं संविष्टं ऽ नामयति न रुदतिऽइति यजुषा भिमृशति

47.6

5 फलीकरणहोमाः ।
उत्तरेण यजुषा शिरस्त उद्कुम्भं निधाय सर्षपान् फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिः प्रतिस्वाहाकारं हुत्वा संशास्ति -प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.6:
ततस्तस्य शिरस्समीपे उत्तरेण यजुषा ऽआपस्सुप्तेष्विऽत्यनेन उदकुम्भं निदधाति ।
ततस्सर्षपान् फलीकरणमिश्रानञ्जलि- ना जुहोति उत्तरैर्मन्त्रैः अष्टाभिः ऽअयं कलिऽमित्यादिभिः ।
तत्र च प्रतिस्वाहाकारं त्रिर्होमः ।
सकृन्मन्त्रेण द्विस्तूष्णीम् ।
द्रव्यं च पुनः पुनरादेयम् ।
केचित्तु सकृदुपात्तेनैव त्रिर्जुह्वति ।
उत्तरयोश्च होमयोः स्वाहाकारमात्रमावर्तयन्ति ।
होमश्चायमपूर्वः तन्त्रस्याविधा- नात्
परिस्तरणं तु भवति ।
परिषेटनं समन्तमुभयतः ।
हुत्वा ततस्संशास्ति ।
कान् !ये सूतिकागारं प्रविशन्ति ।
तत्र संशासने एवकारः
एवमित्यस्यार्थे ।
एतदुक्तं भवति-अस्य सूतिकागारस्य यदा यदा प्रवेशो युष्माभिः क्रियते तदा तदा सर्षपान् फलीकरण-
मिश्रनस्मिन्नग्नावेवं तूष्णीमावपत यथा मयोप्ताः अञ्जलिना त्रिल्त्रिश्चेति ।
तत्र तूष्णीमित्यतिदेशप्राप्तस्य मन्त्रस्य प्रतिषेधः ।
यथासंप्रैषं ते
कुर्वन्ति ।
होमश्चायं कुमारस्य रक्षार्थः संस्कारः, न मातुः, प्रकरणात् ।
तेन यद्यपिऽयस्यै विजातायां मनऽइति मातुरपि रक्षा प्रतीयते तथापि
तदर्थो होमो न भवति ।
ततश्च स्त्रीप्रसवे दशाहमध्ये पुत्रमृतौ च न भवति

47.6

आप्ग्स्-तात्_15.6:
उत्तरेण ऽआपस्सुप्तेषुऽइत्यनेन यजुषा कुमारस्य शिरस्समीपे उदकस्य पूर्णकुम्भं निधाय अथ ऽयत्र क्व ताग्निम्ऽ; (आय.ध.2-1-23) इत्यादिविधिना श्रोत्रियागारादग्निमाहृत्य तमुपनिधाय फलीकरणमिश्रान् सर्षपान् उत्तरैः ऽअयं कलिम्ऽइत्यादिभिरष्टभिर्मन्त्रैः अञ्जलिना प्रतिमन्त्रं त्रिस्रिर्जुहोति ।
तत्र तु द्विस्तूष्णीम् ।
तूष्णीकेष्वपि स्वाहाकारो भवति, प्रतिमन्त्रमिति सिद्धे प्रतिस्वाहाकारमित्यधिकाक्षरात् ।
अथ सूतिकागृहपालान् समशास्ति-प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति ।
सम्प्रैषस्य चायं विवक्षितोर्ऽथः-- प्रतिप्रवेशं तदनन्तरमेव सर्षपान् फलीकरणमिश्रान् अञ्जलिना अस्मिन्नेवाग्नौ तूष्णीं वाग्यता एव आवपतेति ।
एव काराच्च प्रवेशावापयोर्मध्ये त्रुटिमात्रस्यापि कालस्य न क्षेपः ।
सर्षपाणामेवाञ्जलिना आवापः;प्रकृतत्वात् ।
केचित्- एवकार एवमित्यर्थे ।
तूष्णीमिति चातिदेशप्राप्तमन्त्रप्रतिषेधार्थमिति

47.7

(प.6.,खं.15-7)
एवमहरहरानिर्दशतायाः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.7:
विजननप्रभृति यावत् दशाहानि न निर्गच्छन्ति तावदेव होमः कर्तव्यः संशानञ्चेत्यर्थः ।
सकृच्चहोमाः, न शायम् ।
यद्यपि संशासनमनन्तरं तथापि तावन्मात्रस्यायमतिदेशो न भवति ।
तस्य होमाशेषत्वात् ।
नापि वात्सप्रादेः ।
कृत्स्नस्य कल्पान्तरेषु सर्वेष्वप्रसिद्धत्वात्

47.7

आप्ग्स्-तात्_15.7:
यथैतदनन्करोक्तं तूष्णीमावपनं एवमहरहः अनिर्दशतायास्सूतिकागृहपालैः कर्तव्यम् ।
आङ्मर्यादायाम् ।
निर्दशा निर्गता दशभ्यो ऽहोरात्रेभ्यो या रात्रिस्सा ।
आदशम्या रात्रेरित्यर्तः

47.8

एवं जातकर्मोत्त्क्वा क्रमप्राप्तं नामकरणमाह--
13 नामकरणम् -
6 तस्य कालः ।
(प.6.,खं.15-8)
दशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.8:
उत्थानं नाम सूतिकालिङ्गानामग्न्युदकुम्भादीनामपनयनम् ।
भर्तुश्च नापितकर्म ।
यच्चन्यत् स्त्रियो विदुः तच्च सर्ववर्मानां दशमे ऽहनि भवति ।
दशमीशब्देन न रात्रिरुच्यते किं तर्हि ?अहोरात्रसमुदायः यथा"तस्मात् सदृशीनां रात्रीणा"मिति ।
तत्र परिभाषावशादहन्येव कर्म स्नानं च सति सम्भवे तस्मिन्नेवाहनि नियमेन भवति ।
प्रकारणादेव सिद्धे पुत्रस्येति वचनं वक्ष्यमाणो ऽनाम्नो लक्षणविशेषःऽतस्यैव यथा स्यात् ।
तेन कुमार्याः ऽअयुजाक्षरं कुमार्याःऽ(आप.गृ.15-11) इत्येतावदेव भवति ।
न ऽनाम- पूर्वमाख्यातोत्तरऽमित्यादि ।
पिता मातेति ता च ददतुर्यदग्रे"(तै.सं.1-5-10) इति ।
तत्र प्रयोगः शुचीन् मन्त्रवतस्सर्वकृत्येषु भोजये (आप.घ.2-15-11) दिति ब्राह्मणान् भोजयित्वा पितामाता च नामाग्रे ऽभिव्याहृत्याशीर्वचनं ब्राह्मणैरभिव्याहारयेताम् ।
अमुष्मै स्वस्तीति कल्पान्तरे दर्शनात् ।
केचित् नाम करिष्याव सङ्कल्पमिच्छन्ति

47.8

आप्ग्स्-तात्_15.8:
दशम्यां रात्रौ दशमे ऽहनि ।
उत्थितायां सूतिकागृहान्निष्क्रान्तायां प्रसूतिकायां स्नातायां च सत्याम् ।
एवं वदता दशमे ऽहनि निष्क्रम्य स्नातव्यमित्युक्तं भवति ।
पुत्रस्य पिता नाम दधातिव व्यावस्थापयति;न तु करोति;शब्दार्थयोस्सम्बन्धस्य नित्यत्वात् ।
माता च ।
इतिशब्दश्चार्थे, मातापितरौ सहितौ नाम धत्त इति ।
इममर्थ मन्त्रवर्णे ऽप्याह"मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे" (तै.सं.1-5-100 इति

47.9

7 नामनि पुंसो ऽक्षरसंख्या ।
(प.6.,खं.15-9)
द्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.9:
अथ नाम्नो लक्षणविशेषः ।
सव्यञ्जनो निर्व्यञ्जनो वा स्वरो ऽक्षरं नाम द्रव्यप्रधानं, तत्पूर्वपदं यत्र तत् नामपूर्व क्रियानिमित्तमाख्यातं, तदुत्तरपदं यत्र तत् आख्यातोत्तरं दीर्घात्परो ऽभिनिष्ठानो विसर्जनीयो ऽन्ते यस्य तत् दीर्घाभिनिष्ठानान्तम् तथा घोषवद्व्याञ्जनमादिभूतं यस्य तत् घोषवदादि अन्तर्मध्ये अन्तस्था यस्य तत् अन्तरन्तस्थम् वर्गाणां तृतीयचतुर्थौ इकारश्च घोषवन्तः ।
यरलवा अन्तस्थाः ।
दिवं नयतीति द्युतिः ।
गाः श्रयते इति गोश्रिः ।
गां प्रीणतीति गोप्तीः ।
हिरण्यः ददातीति हिरण्यदाः
भूरिदाः हरदत्त इत्यादीन्युदाहरणानि ।
"ऋष्यणूकं देवाताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्यु"रिति (बौ.गृ.2 -2-28,29) बौधायनः ।
ऋष्यणूकं ऋष्यभिधीयि वसिष्ठो जमदग्निरिति ।
देवताणूकं देवताभिधायि रुद्रो विष्णुरिति ।
पूर्वपुरुषाः पित्रादयः

47.9

आप्ग्स्-तात्_15.9:
अथ व्यवस्थापनीयस्य नाम्नो लक्षणमुच्यते- द्व्यक्षरं चतुरक्षरं वेति समासे ऽभिप्रेतः, न तु रूढिः ऽनामपूर्वमाख्यातेत्तरम्ऽइति पूर्वोत्तरखण्डव्यवस्थापनात् ।
नापि वाक्यम्;तस्य द्रव्यवाचकत्वाभावात् ।
कुतः पुनर्वाक्यसमासयोरर्तवत्समुदायत्वाविशेषेऽपि समास एव द्रव्यवाचको न वाक्यम्?इति चेत्;ऽकृत्तद्धितमासाश्चऽ(पा,सू.1-2-46) इति समासग्रहणस्य नियमार्थत्वात् ।
नामपूर्व, द्रव्यवाचकं सुबन्तं पदं नाम, तत्पूर्व यस्य तन्नामपूर्वम् ।
तथा आख्यातमुत्तरं पदं यस्य नाम्नस्तदाख्यातोत्तरम् ।
आप्ग्स्-तात्_15.9:
ननु-ऽसुप्सुपाऽइति समासनियमात् आख्यातेन तिङन्तेन नैव समासः?सत्यम्;अत एवात्र आख्यातशब्देन आख्यात सदृशं क्विबन्तं सुबन्तमेव विवक्षितम् ।
सादृश्यं च क्रियाप्राधान्याभावे ऽपि क्रियावाचित्वमात्रात्, ऽक्विबन्तो धातुत्वं न जहातिऽइति धातुसंज्ञत्वाच्च ।
दीर्घाभिनिष्ठानान्तं दीर्घश्चाभिनिष्ठानश्चान्ते यस्य नाम्नस्तत्तथोक्तम् ।
अभिनिष्ठान इति विसर्जनीयस्य पूर्वाचार्याणां संज्ञा ।
घोषवान् वर्ण आदिर्यस्य नाम्नस्तत् घोषवदादि ।
घेषवर्णाश्च प्रातिसाख्यसूत्रे प्रसिद्दाः, ऽऊष्मविसर्जनीयप्रथमद्वितीया अघोषाः
न हकारः ।
व्यञ्जनशेषो घोषवान्ऽइति ।
अन्तरन्तस्थं अन्तः मध्ये यस्य नाम्नो ऽन्तस्थाः यरलवास्तत्तथोक्तम् ।
द्व्यक्षरस्योदा- हरणं-वार्दाः
वाः उदकं ददातीति वार्दाः, गिरं ददातीति गीर्दाः इत्यादि ।
चतुरक्षरस्य तु भाष्योक्तं ऽद्रविणोदाः वरिवोदाःऽइति ।
एतद्द्वयमपि छान्दसम् ।
अन्यदपि हिरण्यदा युवतिदाइत्यादि

47.10

8 ऽसु ऽशब्दघटितस्य नाम्नः प्राशस्त्यम् ।
(प.6.,खं.15-10)
अपि वा यस्मिन् स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.10:
अपि वा अयमपि पक्षःयस्मिन्नाम्नि ऽसुऽइत्ययमुपसर्गः स्यात् देवतत्र लक्षणम् ।
नान्यद्व्यक्षरत्वादि ।
तद्धि प्रतिष्टिताम् ।
हि शब्दो ऽतिशये ।
पूर्वस्मादप्यतिशयेन प्रतिष्ठितं, तेन पूर्वमपि द्व्यक्षरादि प्रतिष्ठितम् ।
तथाच पूर्वास्मिन्नेव लक्षणे स्थित्वा भरद्वाज आह-द्व्यक्षरं चतुरक्षरं वा घोषवदाद्यन्तरन्तस्थं दीर्घाभिनिष्ठानान्तं तद्धि प्रसिद्धमिति विज्ञायते इति ।
प्रतिष्ठितमिति ।
ध्रुवमविनाश्या युष्यमित्यर्थः ।
सुभद्रस्सुमुख इत्याद्युदाहरणम् ।
उपसर्ग इति वचनात्सोमसुदित्यादि प्रतिष्ठितं न भवति

47.10

आप्ग्स्-तात्_15.10:
अपि वा यस्मिन्नाम्नि ऽसुऽइत्ययुमुपसर्गस्स्यात् तन्नाम प्रतिष्ठितं आयुष्मद्यज्ञादिक्रियाच्च भवति;यथा-सुजातः सुदर्शन इत्यादि ।
इह ब्राह्मणग्रहणात् द्व्यक्षरादिविशेषणैः स्विति विशेषणं विकल्प्यते ।
हिशब्दो ऽनर्थको निपातः, अनर्थको मिताक्षरेषुऽइति वचनात् ।
उपसर्गग्रहणमुसर्गप्रतिरूपकाणां सुपसोमेत्यादीनां व्युदासार्थम् ।
अत्र बोधायनो विकल्पान्तराण्याह-ऽऋष्यणूकं देवताणूकं वा यथा वैषां पूर्वपुरुषाणां नामानि स्युःऽइति ।
अणूकमभिधायकं, प्रकरणात् ।
ऋष्यणूकं वसिष्ठः नारदः इत्यादि ।
देवताणूकं विष्णुः शिवः इति ।
पूर्वपुरुषाणां पितृपितामहादीनां वा नामानि यज्ञशर्मा, सोमशर्मा इत्यादिमि

47.11

9 कुमार्या नामकरणम् ।
अयुजाक्षरं कुमार्याः ॥ आ
(प.6,खं.15-11)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.11:
या स्ख्या अर्थविमितुं न शक्यते सा अयुक् संख्या ।
अयुञ्जि अक्षराणि यत्र तत् अयुजाक्षरम्-एकाक्षरं त्र्यक्षरमित्यादि ।
एतावदेव कुमार्या नामलणम्-गौः, वाक्, पृथिवि, पार्वतीति

47.11

आप्ग्स्-तात्_15.11:
अयुगक्षरं विषमाक्षरं कुमार्या नाम भवति ।
अयुजाक्षरमिति छान्दसः ।
अयुगक्षरत्वमेकमेवात्र विशेषणम्, द्व्यक्षरादीनामनेन निर्वतितत्वात् ।
तद्व्यथा-श्रीः, गौः, भारती, कमला, पतिवल्लभा, कमलेक्षणा, इत्यादि ।
कुमार्या अपि जातकादयश्चौलान्ताः देहंसस्कारार्थाः क्रियास्तूष्णीं कर्तव्या एव ।
"अमन्त्रिका तु कार्येयं स्त्रीणामावृदशेषतः ॥
संस्कारार्थ शरीरस्य यथाकालं यथाक्रमम्" ॥
(म.स्मृ.2-66)
इति मनुवचनात् ।
इह च द्रव्यनिष्ठा भावार्थाः प्राशनवपनादय एव निष्कृष्य कर्तव्याः, न तु होमाः;एवमेव शिष्टाचारात्, स्मृत्यर्तसारे दृष्टत्वाच्च

47.12

10 प्रवासादेत्य पित्रा पुत्रस्य मूर्धावघ्राणादि ।
प्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान् मन्त्रान् जपेत् ॥ आ
(प.6.,खं.15-12)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.12:
प्रवासादागत्य तु उत्तराभ्यामभिमन्त्रणमवघ्राणं च क्रमेण कर्तव्यम् ।
अङ्गादङ्गादित्यभिमन्त्रणं, ऽअश्मा भवेऽत्यवघ्राणम् ।
नामनिर्देशश्चाऽभिजिघ्रामि यज्ञशर्मऽन्निति ।
मन्त्रलिङ्गात् कुमार्या अभिमन्त्रणान्तरोपदेशाच्च सिद्धे पुत्रग्रहणं मूर्धन्यवघ्राणं दक्षिणं कर्णे जापश्च कुमार्या मा भूत् ।
अन्यथा लिङ्गविरोधाभावात् उभयं कुमार्या अपि स्यात् ।
तस्या अपि प्रकृतत्वात् ।
कुमारीमुत्तरेणेत्ययं च अभिमन्त्रणस्यैव प्रत्याम्नायः स्यात्, नेतरयोः ।
उत्तरे मन्त्राः ऽअग्निरायुष्मानिति पञ्चेऽत्यादिष्टाः तान् पुत्रस्य दक्षिणे कर्णे जपेत् ।
मन्त्रग्रहणं क्रियते ऽअग्निरायुष्मानिति पञ्चेऽत्यस्य पञ्चशब्दस्य मन्त्रेषु वृत्तिरिति प्रज्ञापनार्थम्

47.12

आप्ग्स्-तात्_15.12:
प्रवासादागत्योत्तराभ्यां ऽअङ्गादङ्गात्ऽअश्मा भवऽइत्येताभ्यां पुत्रस्याभिमन्त्रणं कर्तव्यम् ।
तथैताभ्यामेव मूर्धन्यवघ्राणम् ।
असावित्यस्य स्थाने दशम्यां कृतं नाम सम्बुद्ध्या गृह्णाति ।
केचित्-ऽअङ्गादङ्गादित्यभिमन्त्रणम् ।
ऽऽअश्मा भवेऽत्यवघ्राणमिति ।
तथा सति एवं विभज्यैव विनियुञ्जीत, क्रमेणेति वा ब्रूयात् ।
ततः पुत्रस्य दक्षिणे कर्णे उत्तरान् ऽअग्निरायुष्मान् स वनस्पतिभिःऽइत्यादिकान् सानुषङ्गान् पञ्च मन्त्रान् जपेत् ।
एतच्च त्रयं प्रतिपुत्रमावर्तते

47.13

11 एवं कुमार्या अपि ।
कुमारीमुत्तरेण यजुषाभिमन्त्रयते ॥ आ
(प.6.,खं.15-13)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.13:
प्रवासादेत्य कुमारी स्त्रीप्रजां उत्तरेण यजुषा ऽसर्वस्मादात्मनः सम्भूतासीऽत्यनेन अभ्मन्त्रयते ।
दुहितरमिति कर्तव्ये कुमारीमिति वचनं प्रदानादूर्ध्व माभूदिति ।
पुत्रस्य तु यावज्जीवं भवति पुत्रे ऽपि प्रोषितागते अभिमन्त्रणादित्रयं भवति न्यायस्य तुल्यस्य तुल्यत्वात्

47.13

आप्ग्स्-तात्_15.13:
प्रवासादेत्येत्यनुवर्तते ।
उत्तरेण ऽसर्वस्मादात्मनःऽइत्यनेन यजुषा कुमारीं कन्यामप्रत्ता मभिमन्त्रयते ।
कुमार्यस्त्वेतावदेव, न त्ववघ्राणजपौ;अवचनात्, तत्र पुत्रस्येति ग्रहणान्मन्त्रस्थपुल्लिङ्गविरोधाच्च

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc