आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 48
इति श्रीसुदर्षनार्यविरचिते गृह्यतात्पर्यपदर्शने पञ्चदशः खण्डः ॥
षोडशः खण्डः ।
14 अन्नप्राशनम् -
1 तत्र कुमारस्य दध्यादिप्राशनम् ।
जन्मनो ऽधि षष्ठे मासि ब्राह्मणान् भोजयित्वाऽशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत् ॥ आ
(प.6.,खं.16-1)
चोम्मेन्तरिएस्:
आप्ग्स्-अना_16.1:
अथ कुमारस्यान्नप्राशनम् ।
तत् जन्मनो ऽधि जननदित्वसादारभ्य षष्ठे मासि कर्तव्यम् ।
मासाश्च सौरचान्दामासादयः ।
तत्करिष्यन् ब्राह्मणान् भोजयित्वा युग्मान् तैराशिषो वाचयति-पुण्याहं स्वस्ति ऋद्धिमिति ।
नात्र पूर्वेद्युरभ्युदयश्राद्धं, देवेज्याभावात् ।
यत्रापगेद्युः देवेज्या तत्र पूर्वेद्युः पितृभ्यः क्रियते ।
ऽतस्मात् पितृभ्यः पूर्वेद्युः क्रियते ।
उत्तरमहर्देवान् यजते, इति वचनात् ।
वाचयित्वाऽशिषः दध्यादि चतुष्टयं संसृज्य तेन कुमारं प्राशयेत् ।
उत्तरैर्मन्त्रैश्चतुर्भिः ऽभूरपांत्वेऽत्यादिभिः ।
त्वौषधीनामिति मध्यमयोरनुषजति ।
अपामित्यस्य तु पाठो मन्त्रचतुष्टयप्रज्ञापनार्थः ।
असावित्यत्र मानग्रहणं सम्बुध्या-ऽओषझयस्सन्तु यज्ञशर्मऽन्निति ।
प्रतिमन्त्रं प्राशनम् ।
सर्वान्त इत्यन्ये ।
कुमारं इति चनात् कुमार्या विधिवदन्नप्राशनं न भवति-आवृतैव कुमार्या (आश्व.गृ.1-14-7)
इत्याश्वलायनवचनात्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0