आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 46
इति श्रीसुदर्शनाचार्यविरचिते गृह्यतात्पर्यदर्शने चतुर्दशः खण्डः समाप्तः ॥
पञ्चदशः खण्डः ।
12 जातकर्म -
1 जातस्य कुमारस्य वात्सप्रेणाभिमन्त्रणम्, मूर्धन्यवघ्राणम्, दक्षिणकर्णजपश्च ।
जातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यमाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_15.1:
जातमिति पुल्लिङ्गस्य विवक्षितत्वात् पुंस एवायं जातकर्माख्यः संस्कारः ।
न स्त्रियाः ।
वत्सप्रीर्नाम ऋषिः ।
तेन दृष्टं वात्सप्रं दिवस्परीत्येषो ऽनुवाकः ।
प्रत्यृचमभिमर्शनम् ।
सर्वान्त इत्यन्ये ।
उत्तरेण यजुषा ऽअस्मिन्नहऽमित्यनेन ।
उत्तरत्र मातुरिति विशेषणादिह स्व उपस्थ आदधाति ।
उत्तराभिरिति पाठः उत्तराभिः तिसृभिः ऋग्भिः अभिमन्त्रणादीनि त्रीणि कर्तव्यानि ।
ऽअङ्गादङ्गाऽदित्यभिम्नत्रणम् ।
ऽअश्मा भवेऽतिमूर्धन्यवघ्राणम् ।
ऽमेधां तऽइति दक्षिणे कर्णे जापः ।
जप इत्यर्थः ।
केचित्तु उत्तराभ्यामिति द्विवचनान्तपाठमाश्रित्य द्वयोर्मन्त्रयोः त्रिष्वपि कर्मसु विनियोगं मन्यन्ते ।
तेषामवघ्राणलिङ्गेनाभिमन्त्रणं कर्णयोर्जपश्च प्राप्नोति ।
आश्वलायनश्चाह-कर्णयोरुपनिधाय मेधाजननं जपति मेधां ते देवस्सवितेति (आश्व.श्रौ.1-13-2)
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0