आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 45
आप्ग्स्-तात्_14.2:
इह ब्राह्मणभोजनाशीर्वचनयोर्विधानं उपनयनवत् क्रमार्थम् ।
पात्रासादनकाले तु यथार्थ शलल्यादीनि सकृदेवासाद्यानि ।
शम्याश्च परिध्यर्थे ।
उत्तराः ऽधाता ददातु नो रयिम्ऽइति चतस्रो ऽयस्त्वा हृदा कीरिणाऽइति चतस्र इत्यष्टौ ।
शेषं सुगमम्
3 त्रेण्या शलल्या सीमन्तोन्नयनम् ।
परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्व सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.3:
प्राचीं प्राङ्मुखीं स्वयं प्रत्यङ्मुखः ।
त्रिषु प्रदेशेषु एनी श्वेती त्रेणी ।
इकारलोपश्छान्दशः ।
णत्वं च ।
शलली शल्यकस्य रोमसूची ।
सविशाखा नाडी पुञ्जील मित्युच्यते ।
दर्भस्य पुञ्जीलानि त्रीणि भवन्ति ।
उदुम्बरस्य फलसङ्घातविशेषस्तरुणः शलालुग्लप्स इत्युच्यते ।
पिशाचोदुम्बरस्येत्यन्ये ।
एतानि द्रव्याणि युगपद्गृहीत्वा तैस्सीमन्तमुन्नयति ऊ र्ध्वमुदूहति भूर्भुवस्सुवरित्ये- ताभिः
उत्तराभ्यां च ऽराकामहं, ऽयास्तेराकऽइत्येताभ्याम् ।
त्रयाणामन्ते सकृदुन्नयनम् ।
इह मन्त्रसमाम्नाये व्याहृतीनां पाठो न कर्तव्यः ।
व्याहृतिभिरित्येतेनैव सिद्धस्सम्प्रत्ययः ।
यथा व्याहृतीश्च जपित्वा, व्याहृतीर्विहृताः, इत्यादौ ।
एवं सिद्धे व्याहृतीनां पाठः समाम्नायार्थम् ।
किञ्चासति पाठे व्याहृतिभिरुत्तराभ्याञ्चेत्युच्यमाने याजमानसमाम्नायात् ग्रहणं प्राप्नोति-व्याहृतिभिरुत्तराभ्याञ्च मन्त्राभ्यां ऽउच्छुष्मो अग्नऽ; इत्येताभ्यामिति ।
तत्र पाठस्य प्रसिद्धत्वात् ।
ऽराकामहंऽऽयास्ते राकेऽइत्येतयोश्च प्रधानाहुतित्वं विज्ञायेत, विशेषाभावात् ।
तस्मादस्मादेव समाम्नायद्ग्रहणं यथा स्यादिति व्याहृतीनामिह पाठः
आप्ग्स्-तात्_14.3:
प्राचीं प्राङ्मुखीं ।
स्वयं तु प्रत्यङ्मुखः ।
त्रेणी त्रीण्येतानि शुक्लानि यस्यास्सा ।
यद्वा त्रिषु प्रदेशेषु एनी श्वेता ।
त्रेणीति च रूपं छान्दसम् ।
शल्ली सूच्याकारं शल्यलोम ।
त्रेणीति शलल्या विशेषणम् ।
दर्भपुञ्जीलं सविशाखा नाडी ।
शलालुर्गो ष्ठोदुम्बरः, करपत्रोदुम्बरः, पिशाचोदुम्बरैत्यनर्थान्तरम् ।
ग्लप्सः स्तबकः;पिशाचोदुम्बरस्य तरुणफलसङ्घातविशेष इत्यर्थः ।
इत्येतैर्द्रव्यैर्युगपद्गृहीतैरूर्ध्व सीमन्तमुन्नयति शिरसि मध्ये रेखामुदूहति ।
कैर्मन्त्रैः?ऽभूर्भुवस्सुवःऽऽराकामहं सुहवाम्ऽऽयास्ते राके सुमतयःऽ; इत्येतैर्मन्त्रैः ।
चकारो बहुमन्त्रज्ञापनार्थः
4 वीणागाथिभ्यां वीणागानार्थ संशासनम् ।
गायतमिति वीणागाथिनौ संशास्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.4:
वीणया यो गाथां गायति स वीणगाथी ।
तावुभौ प्रागेवानीतौ भवतः ।
तौ संशास्ति संप्रेष्येति- गायतमिति ।
तौ गायतः ।
तत्रऋङ्नियमः
आप्ग्स्-तात्_14.4:
वीणया गाथां गायत इति वीणागाथिनौ ।
गायतमिति संशास्ति संप्रेष्यति
उत्तरयोः पूर्वा साल्वानां ब्राह्मणानामितरा ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.5:
उत्तरयोः ऋचोः या पूर्वा ऽयौगन्धरिऽत्येषा ।
सा साल्वानां सीमन्तकर्मणि गाथा साल्वदेशनिवासिनां अस्यामृचि गानं कर्तव्यमित्यर्थः ।
स देशो यमुनातीरे भवति ।
वैश्याश्च तत्र भूयिष्ठं भवन्ति ।
तेषामेव राजा यौगन्धरिः
इतरा ऽसोम एव नो राजेऽत्येषा ।
न सर्वेषां ब्राह्मणानामपि तु साल्वानाम्
आप्ग्स्-तात्_14.5:
उत्तरयोः ऋचोः वीणागाथिनौ गायेताम् ।
केषां कतरा गाथा?इत्यत आह- पूर्वेति ।
पूर्वा ऽयौगन्धरिः"इत्येषा ।
साल्वदेशीयानां त्रयाणां वर्णानामपि गाथा;ऽसालवीःऽइत्यविशेषलिङ्गात् ।
अन्यदेशवासिनां ब्राह्मणानामितरा ऽसोम एव नो राजाऽइत्येषा ।
क्षत्रियवैश्यानां तु ऽसोमोमएव नो राजावतु मानुषीः प्रजाः (आश्व.गृ.1-12-7) इत्याश्वलायनीये दृष्टायां सार्ववर्णीक्या- मृचि गानं कर्तव्यम् ।
न तु गानाभावः ।
गायतमित्यविशेषेण संशासनविधानात् ।
केचित्-साल्वानामपि ब्राह्मणानामितरेति
5 गाने निकटवर्तिन्या नद्या नामनिर्देशः ।
नदीनिर्देशश्च यस्यां वसन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.6:
द्वितीये मन्त्रे असौ शब्दस्य स्थाने नद्या नाम संबुध्या निर्देष्टव्यम् ।
यस्यां वसन्ति यामुपजीवन्तीत्य4थः ।
यथा-तीरेण कावेरि तवेति ।
क्षत्रियाणां तु सर्वेषां कल्पान्तरदृष्टायां सार्ववर्णिक्यामृचि गानं भवति ।
"सोम एव नो राजेत्याहुर्मानुषीः प्रजाः ।
विवृत्तचक्रा आसीना" इति ।
अत्रापि नदीनिर्देशस्सम्बुध्या
आप्ग्स्-तात्_14.6:
ऽसोम एव नो राजाऽइत्यस्वां असावित्यस्य स्थाने ऽकावेरिऽऽवेगवतिऽइति सम्बुध्या नदीनिर्देसश्च भवति ।
कस्या नद्याः?इति चेत् ऽ यस्यां वसन्तिऽ समीपसप्तमी चेयम् ।
यस्यास्समीपे वसन्ति तस्या निर्देश इत्यर्थः
6 यवाङ्कराबन्धनम्, ततो वाग्यमश्च ।
यवान् विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.7:
विरूढात् अङ्कुरितान् सूत्रबद्धानाबध्नाति शिरसि वध्वाः ।
सैव वाचं यच्छति ।
एवमुपदेशो भोजनञ्चास्यास्मिन्नहनि नेच्छन्ति ।
यवाश्च प्रागेव वप्तव्याः यथास्मिन् काले विरूढा भवन्ति
आप्ग्स्-तात्_14.7:
अङ्कुरितान् सूत्रग्रथितान् यवान् वध्वाशिशरस्याबध्नाति ।
शिरसीति कुतः?आचारात्
7 नक्षत्रोदयानन्तरं वक्सान्वारम्भणं, वाग्विसर्गश्च ।
उदुतेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.8:
वत्सः पुमान् गौश्च भवति ।
व्याहृतयस्समस्ताः याजमानसमाम्नायात् प्रत्येतव्याः
आप्ग्स्-तात्_14.8:
विस्पष्टार्थम् ।
इह केचिदध्येतारो ऽयच्छतोऽऽविसृजतऽइति द्विवचने पठन्ति ।
तस्मिन् पक्षे वाग्यमनादिपदार्थपञ्चकमुभौ जायापती कुरुतः ।
केचित् यवाबन्धनादि सर्व वधूरेव;न पतिरिति
11 पुंसुवनम् -
1 तस्य कालः ।
पुंसुवनं व्यक्ते गर्भे तिष्येण ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.9:
पुमान् येन सूयते तत्पुंसुवनं नाम कर्म ।
उवङादेशश्छान्दसः ।
मन्त्रदर्शनात् पुंसुवनमसीति ।
आश्वलायनस्तु गुणमेव प्रायुङ्क्त ।
तत्, व्यक्ते गर्भे कर्तव्यम् ।
गर्भव्यक्तिश्च तृतीये चतुर्थे वा मासि ।
यदापि चतुर्थे तदा सीमन्तात् पूर्वमेव पुंसवनम् ।
निमित्तस्य पूर्वत्वात् ।
पश्चादुपदेशस्य तु प्रयोजनं वक्ष्यामः ।
तिष्येण तच्च तिष्ये कर्तव्यम् ।
ऽनक्षत्रे च लुपीऽति अधिकरणे तृतीया
आप्ग्स्-तात्_14.9:
पुंसुवनमित्यपि कर्मनामधेयम्, येन कर्मणा निमित्तेन गर्भिणि पुमांसमेव सूते तत्पुंसवनम् ।
व्याख्यायत इति शेषः ।
अत्र चोवङादेशश्छान्दसः ।
आश्वलायनस्तु ऽपुंसवनम्ऽइति सगुणमेव प्रायुङ्क्त ।
व्यक्ते गर्भे अस्ति गर्भ इति निश्चिते ।
व्यक्तिश्च तृतीये चतुर्थे वा मासे;बहुचादिषु स्मृत्यन्तरेषूभयथा दर्शनात् . यदि पुंसवनं चतुर्थे स्यात्तदा पूर्व सीमन्तं कृत्वैव ।
कुत एतत्? पुंसवने पश्चात्क्रियमाणे ऽपि चोदितकालानतिक्रमात्, पश्चान्मन्त्राम्नानसूत्रोपदेशयोरेवंक्रमार्थत्वाच्च ।
केचित्-तृतीयवच्चतुर्थे ऽपि सीमन्तात्पूर्व निमित्तस्य पूर्वत्वादिति ।
इदमपि सीमन्तवत्प्रथमगर्भ एव, न तु प्रतिगर्भम्;पिष्टपेषणन्या- यदेव ।
एतच्च पुमांसं जनयतीत्यत्र विवेचयिष्यते ।
तिष्येण तिष्यनक्षत्रे पुंस वनं कर्तव्ययमिति व्यवाहितेन सम्बन्धः;ऽप्रकरणात् प्रधानस्यऽइति न्ययात् ।
शुङ्गाहरणे त्वनियमः ॥
2 न्यग्रोधवृक्षात् फलविशिष्टाग्राङ्कुरानयनम्, सीमन्तवत्प्रधानाहुतयो जयादयश्च ।
न्यग्रोधस्य या प्राच्युदीचीं वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.10:
न्यग्रोधस्य वृक्षस्य या प्राची शाखोदीची वा तस्याः शुङ्गामग्राङ्कुरं सवृषणां फलं वृषणमिति व्यपदिश्यते सादृश्यादेव ।
तद्वतीं शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि परिषेचनान्तं कर्म प्रतिपद्यते ।
अग्नेरुपसमाधानादिवचनात् ततः पूर्व ब्राह्मणभोजनमाशीर्वचनं च न भवति ।
अन्ते तु भवति"शुचीन्मन्त्रवतस्सर्वकृत्येषु भोजये"दिति ।
तथा यत् परिषेचनादीर्ध्व संशासनादि तदपि न भवति ।
अपरेणाग्निं प्राचीमिति पुनरिहोपदेशात् ।
तत्रप्रयोगः-पूर्वद्युर्नान्दीश्राद्धम् ।
अपरेज्युरग्नेरुपसमाधानादि सकृत्पात्रप्रयोगः ।
शुङ्गया सह परिधय एव, न शम्याः ।
आज्यभागान्ते ऽन्वारब्धायां धाता ददातु नो रयिऽमिति चतस्रो यस्त्वा हृदा कीरिणेति चतस्रः जयादि प्रतिपद्यते ।
परिषेचनान्ते ततो वक्ष्यमाणं कर्म
आप्ग्स्-तात्_14.10:
सवृषणां वृषणाकृतिकेन फलद्वर्येन संयुक्तां, शुङ्गां अग्रङ्कुरम् ।
व्यक्तमन्यत् ।
अत्र च सीमन्तवदग्नेरुपसमाधानादीत्यतिदेशात् ब्राह्मणभोजनमाशीर्वचनं च तन्त्रात् पुरस्तान्निवर्तते ।
कर्मान्ते तु भवत एव ।
शुचीन् मन्त्रवतर्स्सवकृत्येषु भोजयेन ।
(आप.ध.2-15-11) इति सामान्यवचनात्,ऽलोके च भूतिकर्मस्वेतदादीन्येव वाक्यानि स्युर्यथापुण्याहं स्वस्तिऋद्विमिति वाचयित्वा (आप.ध.1-13-9) इति वचनाच्च ।
पात्रप्रयेगे च शुङ्गादीनां कर्मोपयुक्तानां सकृदेव सादनम् ।
तथात्र परिधय एव, न तु शम्याः ऽशम्याः परिध्यर्थेऽइति अत्र चौलगोदानग्रहणात् ।
तथैव ऽसीमन्तवदग्नेरुपसमाधानादिऽइत्यादिना परिषेचनान्तकल्पातिदेशस्य विवक्षितत्वादिहापि त एवाष्टौ प्रधानहोमाः
अथ समाप्ते तन्त्रशेषे कर्तव्यमाह--
3 तानङ्कुराननृतुमत्या कुमार्या पेषयित्वोत्तानं शायिताया गर्भिण्या दक्षिणनासायां निषेचनम् ।
अनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रे ऽपिनयति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.11:
यस्याः प्रादुर्भीतं रजः सा अवस्नाता ।
तद्विपरीता अनवस्नाता ।
एवंभूता कन्या कर्त्री पेषणस्य ।
प्रयोजकः पतिः ।
उपलोदृषत्पुत्रः ।
दृषदर्थे ऽपि दृषत्पुत्र एव ।
तत्र शुङ्गां पेषयित्वा वस्त्रेण परिप्लाव्य अपरेणाग्निं प्राचीं प्राङ्मुखीं उत्तानां ऊर्ध्वमुखीं, निपात्य शाययित्वा उत्तरेण यजुषा ऽपुंसुवनमसीऽत्यनेन तं रसं अङ्गुष्ठेन तस्या नासिकाच्छिद्रे दक्षिणे अपिनयति अपिगमयति ।
प्राङ्मुख एव ।
(पिधाय नयनं स्वयं च प्राङ्मुखः)
आप्ग्स्-तात्_14.11:
स्नाननिमित्तस्य रजसो ऽनुत्पन्नत्वात् या न स्नाता तया अनवस्नातया कन्यया दृषदर्थापन्ने दुषत्पुत्रे शुङ्गां निधाप्य दृषत्पुत्रान्तरेण पेषयित्वा तद्रसंवस्त्रेण प्लावयित्वा ततो जायामपरेणाग्निं प्राचीं प्राक्छिरसं उत्ता नामूर्ध्वमूखीं, निपात्य शाययित्वा ।
ऽपुंसुवनमसिऽइति यजुषा दक्षिण नासिकाछिद्रे अङ्गुष्ठेन करणभूतेन तद्रसमपिनयति गर्भ प्रापयति ।
सा रसं न निष्ठीवेदित्यर्थः
4 तत्फलकथनम् ।
पुमांसं जनयति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.12:
एवमनेन कर्मणा संस्कृता स्त्री पुमासं जनयति ।
केचिदर्थवादमिदं मन्यन्ते ।
फलविधौ कामसंयोगेन क्रियाया अनित्यत्वप्रसङ्गात् ।
यद्यर्थवादः प्रतिगर्भमावृत्तिप्रसङ्गः ।
एवं तर्हि प्रथमे गर्भे इत्यनुवर्तते ।
एवमर्थमेव चास्य पश्चादुपदेशः ।
व्यक्तं चैतत्
छन्दोगानां-प्रथमे गर्भे तृतीय मासि पुंसवनमिति ।
अन्ये फलविधिं मन्यन्ते ।
तत्र च"एषवा अनृणो यः पुत्री"ति (तै.सं-6-3-10) वचनात् पुत्रस्य सकृदुत्पादनं नित्यमिति यावदेकः पुत्र उत्पद्येत तावदूगर्भेषु भवति ।
ऊर्ध्व तु पुत्रेच्छायां सत्यां भवति दुहितुरीप्सायां न भवति ।
प्रथमग्रहणं च नानुवर्तते, पुनर्र्गभग्रहणात् ।
पुंसुवनस्य तु पश्चादुपदेशो यथा चतुर्थे मासि तत्क्रियते तस्य पश्चात् प्रयोगार्थ इति
आप्ग्स्-तात्_14.12:
कर्मणीनेन संस्कृता अन्तर्वत्नी पुमांसं जनयतीत्य र्थवादः नित्यत्वात्पुंसुवनस्य ।
एथवा फलम्;
सूत्रकारेणोपदिष्टत्वात्;यथा
ऽसहस्रं तेन कामदुघो ऽवरुन्धेऽइति ।
फलमक्षे ऽपि ऽएष वा अनृणो यः पुत्रीऽइत्यादिव चनैस्सकृदपि पुत्रोत्पादनस्य अवश्यक- र्तव्यत्वात् तदङ्गं पुंसुवनं प्रथमे गर्भे कर्तव्यमेव ।
तत ऊर्ध्व तु यत्र यत्र गर्भे पुत्रेप्सा तत्र तत्र कर्तव्यं नान्यत्र ।
यस्त्वतिक्रान्त- चोदनः स्त्रीरेव जनयेयमिति कामयते तस्य सकृदपि न भवति ।
अन्ये तु-पुमांसं जनयतीत्येतद्वचनं गर्भे गर्भे ऽस्य कर्तव्यतापरमिति
5 क्षिप्रसुवनं कर्म ।
क्षिप्रं सुवनम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.13:
येन कर्मणा क्षिप्रं सूयते तत् क्षिप्रंसुवनं नाम कर्मोच्यते
आप्ग्स्-तात्_14.13:
येन क्षिप्रं शीघ्रं सूते ऽन्तर्वत्नी न चिरं कालं पीड्यते तत् क्षिप्रंसुवनं नाम इति कर्मोपदिश्यते
अनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.14:
अनाप्रीतेना स्पृष्टोदकेनानुस्रोतसं उदकस्य प्रस्नवतो न प्रतीपं ।
पत्तः पादयोरधस्तात् यस्याः श्वेतोपमानि पत्राणि पीतोप- मानि पुष्पाणि या च मध्याङ्णे पुष्यति सा तीर्यन्ती वनेषु जायते ।
वेणुपत्रोपमानि च यस्याः पत्रीणि रक्तोपमानि च पुष्पाणि यां चाग्निशिखेत्याहुः ।
सा शोष्यन्ती तत् ओषधिद्वयं समूलपत्रमादाय सुष्लिष्टं निदधाति ।
मुर्धन् मुर्धनीत्यर्थः ।
अपरे पिष्टिवा आलिम्पन्ति ।
अथ तामुत्तरेण यजुषा ऽ आभिष्ट्वाहं दशभिरभिमृशामिऽइत्यनेनाभिमृशति ।
दशभिरिति लिङ्गादुभाभ्यां पाणिभ्यामभिमर्शनम् अनुलोमं मुखादारभ्य तत एताभिराहृताभिरेवाद्भिस्तामवोक्षेत् ।
उत्तराभिस्तिसृभिः ऋग्भिःऽयथैव सोमः पवतऽइत्येताभिः प्रतिमन्त्र मवोक्षणम्
आप्ग्स्-तात्_14.14:
अनाप्रीतेन अनुदकलिप्तेन अस्पृष्टोदकेनेत्यर्थः ।
तथाभूतेन शरावेण ।
अनुस्रोतसं स्रोतोषनुलोभं न प्रतीपं गृहीतमुदमाहृत्य ।
पत्तस्तस्याः पादयोः तूर्यन्तीं अधःपुष्पिताख्यामोषधिं निधाय ।
शोष्यन्तीं प्रसवपीडया शुष्यमाणां स्त्रियं ऽआभिष्ट्वाहं दशभिरभिभूमृशामिऽइति यजुषोभाभ्यां हस्ताभ्याम् ।
वमूर्धन् मूर्धन्यभिमृश्य ।
एताभिराहताभिरद्भिः उत्तराभिः ऽयथैव सोमः पवतेऽ; इत्यादिभिस्तिसृभिस्तां सकृदेवावोक्षेत् ।
केचित् प्रतिमन्त्रम्;दृष्टोपकारत्वादिति ।
तत्र प्रथमाया ऋचः ऽप्रतितिष्ठतुऽइत्यवसानम् ।
द्वितीयायाः ऽता कृतम्ऽइति ।
तृतीयायाः ऽसरस्वतीःऽइति ।
अन्ये तु-शोष्यन्तीति चौषधिः ।
तां मूर्ध्निं निधाय स्त्रियं यत्र क्वचाभिमृशेदिति ।
तन्न;शोष्यन्तीसंज्ञाया ओषधेरप्रसिद्धत्वात् ।
केचित्-शोष्यन्तीनामौषधिः या वनेषु जायते, वेणुपत्रोपमानि च यस्याः पत्राणि, पुष्पाणि च रक्तोपमानि, यां चाग्निशिखेत्याहुरिति ।
तन्न;यतो वाच्यवाचकभावो नेपद्शगम्यः, यथादुर्वार्तिककारपादाः-
ऽवाच्यवाचकभावो हि नाचार्यैरुपदिश्यते ।
अन्यथानुपपत्त्या तु व्यवहारात्स गम्यते ॥
(तं.वा.1-3-9) इति ।
इह तु व्यवहाराभावादेव विप्रतिपत्तिः ।
सा भाष्यकारादप्याप्ततमप्रणीताभिधानकोशेषु शोष्यन्तीशब्दस्याग्निशिखापरपर्यायतया पाठाच्छाम्यति ।
न च तथा दृश्यते ।
तस्माद्वरं पूर्वोक्तमेव व्याख्यानमिति
अथान्यद्भैषज्यमाह-
6 जरायुपतनार्थ कर्म ।
यदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.15:
जरायु गर्भावेष्ठनं, तद्यदि न पतेत्, तत उत्तरो विधिः कर्तव्यः ।
कः पुनरसौ?क्षिप्रंसुवने यो विधिश्चोदितः ऽअनाप्रीतेन शरावेणेऽत्यादि ( एवं विहिताभिरद्भिः उत्तराभ्यां मन्त्राभ्यां"तिसदेव पद्यस्व, निरै तु पृश्नि शेवलऽमित्येताभ्यां प्रतिमन्त्रमवोक्षेत् ।
एते च कर्मणी स्वभार्याविषयौ)यक्ष्मगृहीतामन्यां वेति कर्मान्तरे यत्नकरणात् ।
अन्ये पुनरविशेषेणेच्छन्ति
आप्ग्स्-तात्_14.15:
यदि प्रसूतायास्तस्या जरायु गर्भप्रावरणं न पतेत्तदा ऽअनाप्रीतेन शरावेणऽइत्यादिविधिनाऽहृताभिरद्भिः ऐतु गर्भौ अक्षितःऽ
इत्येताभ्यामृग्भ्यां तामवोक्षेत् ।
केचित्-प्रतिमन्त्रम् ।
तथा पूर्वस्मिन्नवोक्षणे षडवसानास्तिस्र ऋचः ।
इह तु ऽतिलदेव पद्यदेव पद्यस्वऽइत्येका ऋक्;ऽनिरैतु पृश्निऽइत्यपरं यजुरिति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0