आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 44
आप्ग्स्-तात्_14.1:
सामन्तोन्नयनमित् कर्मनामधेयम्, यस्मिन् कर्मणि गर्भिण्यास्सीमन्त उन्नीयते तत् व्याख्यास्याम इति शेष- ।
तच्च प्रथमे गर्भे; न तु गर्भे गर्भे ।
गर्भार्थमेवाधारस्त्रूसंस्कारः ।
स्त्रीसंस्कारत्वात् सकृदेव कृतस्सीमन्तस्सर्वानेव गर्बान् संस्करोति ।
चतिर्थे मासि चतुर्थे मासे ।
अल्लोपश्छान्दसः, ऽछन्दोवत्सूत्राणि भवन्तिऽइति स्मृतेः
2 तत्र प्रधानहोमा, जयादयश्च ।
ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.2:
तत्र पूर्वेद्युर्नान्दीश्राद्धम् ।
अथ तस्मिन्नहनि ब्राह्मणान् भोजयित्वा तैर्भुक्तवद्भिः आशिषो वाचयित्वा अग्नेरुपसमाधानादि प्रतिपद्यते सकृत्पात्राणि शलल्यादयश्च सह शम्यः
अष्टौ प्रधानाहुतयो ऽधाता ददातु नो रयिऽमिति चतस्रो ऽयस्त्वाहृदा कीरिणेऽति चतस्रः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0