आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 42
आप्ग्स्-तात्_13.2:
यत्र यस्मिन् स्वधर्मयुक्तस्य कुटुम्बिनो गृहे आतिथ्यार्थमागतायास्मै स्नातकायापचितिं पूजां मधुपर्कअख्यां कुर्वते कुटुम्बिनः ।
बहुवचनं चानुपादेयगतत्वादविवक्षितम् ।
अत एवोत्तरत्र प्राहैत्येकवचनम् ।
तत् तत्र गृहे तैर्दत्ते कूर्च उपविशति ।
यथापुरस्तात् उपनयने आचार्यः ऽराष्ट्रभृदसिऽइति यजुषा उपविशति तथा उपविशेदित्यर्थः
2 राजस्थपत्योरुपवेशनमन्त्रः ।
एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.3:
एवंराजा स्थपतिश्च यथा ब्राह्मणः स्नातकः कूर्चे उपविशति ।
यथालिङ्गमाचार्यासन्दीति ।
एवं राजा स्थपतिश्च पूज्य मानौ उत्तराभ्यां यजुर्भ्या यथालिङ्गमुपविशतः ।
तत्र क्षत्रियो राष्ठ्राधिपतिरभिष्क्तो राज्याय साम्राज्यं तस्य लिङ्गम् ।
स एव जनाधिपतिः ।
स्थापत्त्यायाभिषिक्तः स्थपतिः ।
आधिपत्यं तस्य लिङ्गम् ।
उत्तराभ्यां राजा स्थपतिश्चेत्येव सिद्धे ऽएवंऽऽयथालिङ्गऽ; मित्युच्यते-यथा प्रथमस्य मन्त्रस्य लिङ्गात् विनियोगः एवमुत्तरयोरपि प्रज्ञापनार्थम् ।
तेन प्रथमो मन्त्रो ब्राह्मणस्यैव भवति ।
आचार्या सन्दीति लिङ्गात् ।
ब्राह्मण आचार्यः स्मर्यत इतिचोक्तत्वात् ।
तेन क्षत्रियवैश्ययोः तूष्णीमुपवेशनम् ।
तत्रा"चार्यायर्त्विजे श्वशुराय राज्ञ"इति रज्ञो ऽपचितिः ।
अधिपतेस्तु श्वशुरत्वेनापचितिः
आप्ग्स्-तात्_13.3:
यथा ब्राह्मणः पूज्यो मन्त्रेणोपविष्टः, एवं राजा स्थपतिश्चोत्तराभ्यां यथालिङ्गं ऽराष्ट्रभृदसि सम्राडासन्दीऽइति राजा, ऽ; राष्ट्रभृदस्याधिपत्न्यासन्दीऽइति स्थपतिश्चोपविशेदित्यर्थः ।
राजा च क्षत्रिय एव, न तु प्रजापालनकर्तान्यवर्णो ऽपि ।
ननु क्षत्रिये राजशब्दप्रयोग आन्ध्राणां, भार्याणां तु प्रजापालनादिकर्र्तयेव, तत्कथं बलवदार्यप्रयोगबाधेन राजा क्षत्रिय एवेति?मैवम् ।
आर्यवरस्य भगवतः पाणिनेः गणपाठे ऽराजासेऽइति विशेषस्मरणस्यान्ध्रप्रयोगमूलत्वमेव युक्तमिति अवेष्ट्यधिकरणे साधितत्वात् ।
स्थपतिश्च महदाधिपत्यं प्राप्तो ऽन्यवर्णो ऽपि ।
अन्ये-वैश्यः स्थपतिरिति ।
केचित्तु-क्षत्रिय एव राज्याभिषिक्त इति
3 पद्यनिवेदनम् ।
आपः पाद्या ऽइति प्राह ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.4:
अथ मधुपर्कप्रदाता पादप्रक्षालनार्थ अप उपसंगृह्य ऽ आपः पाद्याऽ इति प्राह
आप्ग्स्-तात्_13.4:
अथ अपचेता पादप्रक्षालनार्था अप उपसङ्गृह्य ऽआपः पाद्याःऽइति प्राह ।
एतच्च सम्वादवचनं अनन्तरं यत्कर्तव्यं तत्कुर्वित्येवमर्थम् ।
एवमेव प्रयोजनं ऽअर्हणीया आपःऽइत्यादिष्वपि
4 प्रक्षालयित्रे पादप्रसारणम् ।
उत्तरयाभिमन्त्र्य दक्षिणं पादं ब्राह्मणाय प्रयच्छेत्सव्यं शूद्राय ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.5:
अथ पूज्यमानस्ता अपः उत्तरयर्चा"आपः पादावनेजनी"रित्ये तयाभिमन्त्र्य प्रक्षालयित्रे ऽ ब्राह्मणाय दक्ष्णं पादं पूर्व प्रयच्छेत् प्रसारयेत् ।
सव्यं शूद्राय क्षत्रियवैश्याभ्यामनियमः ।
पुंलिङ्गस्याविवक्षितत्वात् ।
स्त्रीष्वप्येवम् ।
ऽस्त्री प्रक्षालयति पुमानभिषिञ्चति ।
विपरीतमेकेऽ(बौ.गृ-1-2)इति कल्पान्तरम् ।
पत्नीयजमानौ जङ्घे धावत इति यज्ञे विशेषः ।
आपः पाद्या इति प्रकरणादेव सिद्धे पादग्रहणमुत्तरत्र पादप्रत्ययो माभूदित्येवमर्थम् ।
तेन प्रक्षालयित्रुपस्पर्शन पादे न भवति
आप्ग्स्-तात्_13.5:
अथ पूज्यस्ता अपः ऽआपः पादावनेजनीःऽइत्येतयाभिमन्त्र्य प्रथमं दक्षिणं पादं ब्राह्मणाय प्रक्षालयित्रे प्रयच्छेत् ।
शूद्राय तु पूर्व सव्यम् ।
अत्र ब्राह्मणशूद्रावेव प्रक्षालयितारौ, न तु राजन्यवैश्यौ;तयोरनभिधानात् ।
अन्ये तु-क्षत्रियवैश्याभ्यां अनियमेन पूर्व पादं प्रयच्छेदिति
5 प्रक्षालयितुरुपस्पर्श आत्माभिमर्शश्च ।
प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषाऽत्मानं प्रत्यभिमृशेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.6:
तथा स्वेन हस्तेनावनेक्तुः पाणी संस्पृशे (बौ.गृ-1-2)दिति कल्पान्तरम् ।
उत्तरेण यजुषा ऽमयि महःऽइत्यनेन प्रतीचीन मभिमर्शनम् ।
तच्च हृदयदेशे भवति ।
आत्मनः स्थानं हि तत्
आप्ग्स्-तात्_13.6:
ततः प्रक्षालितपादस्तं प्रक्षालयितारं पाणावुपस्पृश्य ऽमयि महःऽइति यजुषा आत्मानं हृदयदेशे प्रत्यभिमृशेत् प्रतिलोमेन पाणिना स्पृशेत् ।
ततो ऽपामुपस्पर्शनम्
6 अर्ध्यनिवेदनम् ।
कूर्चाभ्यां परिगृह्य मृन्मयेनार् ऽहणीया आप ऽइति प्राह ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.7:
ततः प्रदाता मृण्मये पात्रे उपनीता अपः कूर्चाभ्या मधस्तादुपरिष्टाच्च परिगृह्य ऽअर्हणीया आपऽइति प्राह निवेदयति ।
पुष्पाक्षतैस्संयुक्ता इति कल्पान्तरम्
आप्ग्स्-तात्_13.7:
अथार्हयिता मृन्मये पात्र अर्हणार्थाः पुष्पाक्षतसंयुक्ताः अप आनीय, कूर्चाभ्यामधस्तादुपरिष्टाच्च परिगृह्य ऽअर्हणीया आपःऽइति प्राह
7 तदेकदेशस्य पूज्याञ्जलावानयम् ।
उत्तरयाभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.8:
अर्हणीया अपः निवेदिता उत्तरया ऽआमागऽन्नित्येतया अभिमन्त्रयते ।
पूज्यमानस्ततो ऽञ्जलिं कृत्वा हस्तेन ततस्तस्याञ्जलौ
एतासामेकदेशमानयति प्रदाता ।
तस्मिन्ना नीयमाने उत्तरं यजुः ऽविराजो दोहो ऽसीऽत्येतत् जपेत् पूज्यमानः
आप्ग्स्-तात्_13.8:
अथ पूज्यस्ता अपः ऽआमागन्ऽइत्येतयाभिमन्त्र्य तासामेकदेशे स्तोके स्वाञ्जलौ दात्रा आनीयमाने ऽविराजो दोहीऽसिऽइति यजुर्जपेत्
शेषं पुरस्तान्निनीयमानमुत्तरयानुमन्त्रयते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.9:
अथ तासामपां शेषं पृर्वस्यां दिशि नयति प्रदाता ।
तत् नीयमानं उत्तरयर्चाऽ समुद्रं वऽइत्येतयाभिमन्त्रयते पूज्यमानः मानः ।
एतस्मिन्काले वस्त्रयुगलं कुण्डलयुगं गां स्रजं यच्चान्यदलङ्करणार्थ तत्सर्व दद्यात् ।
भोजनान्त इत्यन्ये ।
तत्सर्वमपचिति-शब्देन चोदितं द्रष्टव्यम्
आप्ग्स्-तात्_13.9:
अथ तासां शेषं दात्रा पुरस्तात् नीयमानं पूज्यः ऽसमुद्रं वःऽइत्येतया अनुमन्त्रयते ।
केचित्-अस्मिन् काले भोजनान्ते वा पूज्याय वस्त्रकुण्डलयुगाद्यालङ्करणं दातव्यम्;अन्यथायं पूजित एव न भवति ।
एतच्चाप- चिति शब्देनास्माकमपि चेदितमेवेति
8 मधुपर्कदानम् ।
दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य ऽमधुपर्क ऽइति प्राह ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.10:
वर्षीयसा बृहता कांस्येन पात्रेण मधुपर्क प्राह ।
कांस्येन वर्षीयसा पिधायेत्येवमपि सम्बन्धः ।
तेनोभयोः पात्रयोः कांम्य नियमः सिद्धो भवति ।
इतिशब्दः प्रकारे-दधि मध्विति वा पयो मध्विति वेति
आप्ग्स्-तात्_13.10:
दधि मध्वित्येतद्द्वयं नियमविधानात् कस्मिश्चित्पात्रे संसृज्य, ततो वर्षीयसा बृहता कांस्येन पात्रेण पिधाय ।
शेषं व्यक्तम् ।
अन्ये तु अपिधानं कांस्यं प्रदर्शनार्थम्, तेनेतरदपि कांस्यमेवेति
9 मधुपर्कद्रव्याणि ।
त्रिवृतमेके घृतं च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.11:
त्रयाणां द्रव्याणां समुदायः त्रिवृत् ।
पूर्वोक्ते द्वे दधि मध्विति वा पयो मध्विति वा,घृतञ्च तृतीयम्
आप्ग्स्-तात्_13.11:
त्रयाणां द्रव्याणां समाहारस्त्रिवृच्छब्देनोच्यते ।
तस्मिन् पक्षे पूर्वोक्ते दधिमधुनी घृतं च संसर्जनीयानि
पाङ्क्तमेके धानास्सक्तूंश्च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.12:
पञ्चानां द्रव्याणां समुदायः पाङ्क्तम् ।
दधि मधु घृतं धानास्सक्तवः इति
आप्ग्स्-तात्_13.12:
इहापि पञ्चानां समुदायः पाङ्क्तः ।
शेषं पूर्ववत्
10 मधुपर्कप्राशनम् ।
उत्तराभ्यामभिन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.13:
अथ तं मधुपर्कमुत्तराभ्यामृग्भ्यां ऽत्रय्यै विद्यायै, ऽआमागन्निऽत्येताभ्यामभिमन्त्र्य पूज्यमानः प्रतिगृह्णाति ।
पाद्यादीनाम्- अभिमन्त्र्य प्रतिग्रहदर्शनात् मधुपर्कस्याभिमन्त्र्य प्रतिग्रहः, न प्रतिगृह्याभिमन्त्रणम् ।
ततस्तं ऽयन्मधुनऽइत्येतया त्रिः प्राश्नाति ।
सकृन्मन्त्रेण द्विस्तूष्णीम् ।
ततः प्राशनस्य पुरस्तादुपरिष्टाच्च यजुर्भ्यामनन्तरपठिताभ्या"ममृतोपस्तरणमस्यमृतोपिधानमसीऽत्येताभ्यां यथाक्रमं अप आचामति ।
तत्र प्रयोगः अमृतोपस्तरणसीत्युपस्तरणीया अप आचम्य मधुपर्क मन्त्रेण प्राश्याचम्य एवं द्विस्तूष्णीं प्राश्यापिधानीया अप आचामति ।
पश्चात् शौचार्थमाचमनम् ।
शेषं मधुपर्कप्राशनशेषं अनुकम्प्याय अनुग्राह्याय पुत्राय भ्रात्रे वा समावृत्तायैव प्रयच्छेत् ।
सो ऽपि तं प्राश्नाति ।
सोमभक्षणे मधुपर्कप्राशने भोजने च मध्ये नोच्छिष्टतेति शिष्टाः स्मरन्ति
आप्ग्स्-तात्_13.13:
अथ पूज्यस्तं मधुपर्क प्रतिगृह्यापिधानपात्रमपनीय ऽत्रय्यै विद्यायैऽऽआमागन् यशशाऽइति द्वाभ्यामभिम्नत्र्य ।
ऽअमृतोपस्तर-णमसिऽ; इति यजुषा पुरस्तात्प्रा शनादपः पिबति ।
तत आचम्य ऽयन्मधुनो मधव्यम्ऽइत्यनया त्रिः प्राश्नाति ।
द्विस्तूष्णीम् ।
ततः ऽअमृतापिधानमसिऽ; इति यजुषा उपरिष्टादप्यपः पिबेत् ।
अताचम्य शेषमनुकम्प्याय अनुग्राह्याय पुत्राशिष्यादये समावृत्तायैव प्राशितुं प्रयच्छेत्; न तु ब्रह्मचारिणे, ऽन चास्मै श्रुतिविप्रतिषिद्धमुच्छिष्टं दद्यात्ऽ(आप.ध.1-4-5) इति निषेधात् ।
नन्विह मध्ये शुद्ध्यर्थमुपस्तरणानन्तरमाचमनं न कर्तव्यम्;अस्माकं वचनाभावात् ।
न्यायते ऽपि नैव;भोजनवदपिधानान्तमेक- कर्मत्वात् ।
अपरथा भोजमे ऽपि प्रतिग्रासमाचमनं प्रसज्येत ।
अथ सर्वदेशकालकर्तृव्याप्ताचारबलात्तत्कर्तव्यमिति चेत्, न;अयमाचार उक्तलक्षणो न वेत्यर्वाचीनानां दुर्निश्चेयत्वात् ।
अत्रोच्यते-नायमाक्षेपः बोधायनादिगृह्येषूपस्तरणानन्तरमाचमनविधिदर्शनेनास्माकमप्याचारः सर्वदेशादिव्यापीति निश्चेतुं सुशकत्वात् ।
उक्तं चैतत्"अथ कर्माण्याचाराद्यानिऽ(अप.गृ.1-1) इत्यत्र गार्ह्यअणीति स्वशब्दं विहाय, आचारादित्युपलक्षणतो व्याख्येयगार्ह्यकर्मनिर्देशात्, गृह्यान्तराद्युपदिष्टविषयो ऽप्यस्मदीयानामाचारो वेदमूल एवेति ।
भोजने तु न प्रतिग्रासमाचमनप्रसक्तिः;क्वचिदपि वचनाभावात्, आचाराभावाच्च ।
सोमपाने पुनः ऽन सोमेनोच्छिष्टा भवन्तिऽइति वचनादन्ते ऽपि नैवाचमनम् ।
अपि चैतदाचमनम्
शिकाबन्धनादिवत् कर्तुः संस्कारकम्, सन्निपाति च अनुक्तमप्यपेक्षितमन्यतो ग्राह्यमिति न्यायविदः ।
तस्मादिहोपस्तरणानन्तमाचमनं कार्यमेव ।
केचित्-बौधायनादिभिरुपस्तरणापिधानयोस्तदर्थानां चापां निवेदनस्य पृथगुपदेशात् उपस्तरणादूर्ध्वमाचमनविधानाच्च उपस्तरणादेः
बहिरङ्गत्वेन कर्मान्तरत्वावगतेर्युक्तं तेषां प्राशनात्त्प्रागप्याचमनम् ।
अस्माकं तु तथाविधोपदेशाभावात्, अन्तरङ्गत्वेन उपस्तरणाद्य- पिधानान्तं भोजनवदेकं कर्मेति मध्ये सुद्ध्यर्थमाचमनं न युक्तमिति ।
मैवम्;यतो ऽस्माकमपि ऽयजुर्भ्यामप आआचामतिऽइति शब्दान्तरेणाचमनयोः पृथगोवोपदेशः ।
अस्मादेव पृथगुपदेशात्तदर्थानामपामावेदनं चाक्षेप्यम् ।
अतो ऽस्माकं तेषां चोपदेशे वैषम्य- भावात्तुल्ययोगक्षेममेवाचमनम्
11 मधुपर्कप्रतिग्रहीता राजा स्थपतिर्वा चेत् तेन तस्य पुरोहिताय दानम् ।
प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.14:
एवकारात् प्राशनमकृत्वा पुरोहिताय प्रदानम् ।
स विधिवत् प्राश्नाति
आप्ग्स्-तात्_13.14:
राजा स्थपतिश्च मधुपर्क प्रतिगृह्यैव पुरोहिताय प्रयच्छेत् ।
एवकारादभिमन्त्रणमकृत्वा ।
अभिमन्त्रणादि तु प्रशनान्तं पुरोहितस्यैव ।
प्राशनान्तं पुरोहितस्यैव ।
पुनश्चोत्तरं कर्म राजादेरेव
12 गोनिवेदनम् ।
गौरिति गां प्राह ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.15:
अथाचाम्योपविष्टाय गां निवेदयते-गौरिति ।
स्त्री च गौर्भवति, गौर्धनुभव्येति दर्शनात् ।
यद्वा पुमानपि भवति ।
श्रूयतोहि
-"तद्यथैवादो मनुष्यराज आगते ऽन्यस्मिन् वार्ऽहति उक्षाणं वेहतं वा क्षदन्ते"इति ।
(ऐ.ब्रा.1-3-4) एवमर्थमेवात्र गामित्युक्तं गोजातिमात्रस्य न्वेदनं यथा स्यात् . अन्यथा गौरिति प्रहेत्येतावता सिद्धं यथा पाद्यदिषु
आप्ग्स्-तात्_13.15:
प्राशने कृते दाता ऽगौःऽ इति गां प्राह कथयति ।
गैश्च स्त्री, ऽगौर्धेनुभव्याऽइति स्त्रीलिङ्गनिर्देशात् ।
एतच्च कथनं, किमियं गौस्संज्ञप्यतामुत्सृज्यतां वा?इति पूज्याभिप्रायनिश्चयार्थम् ।
स च स्वाभिप्रायं दीतुर्ब्रूयात्
13 गोर्वपां श्रपयित्वा तस्याः पलाशपर्णेन होमः ।
उत्तरयाभिमन्त्र्य तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.16:
अनुजानीयदित्यध्याहारः ।
कल्पान्तरे तथा दर्शनात् ।
ओंकुरुत्ति कारयिष्यन् अनुजानीयादिति ।
प्रोक्तायां गवि तां उत्तरया ऽगौरस्यपहतपाप्मेऽत्येतया पूज्यमानो ऽभिमन्त्र्य ।
यद्यस्य आलम्भनमिच्छन् अनुजानीयात् ।
यद्यप्येक एवार्र्धचस्समाम्नायते तथापि स्त्रीलिङ्गनिर्देशादृगेवैषागायत्री ।
तत्रामुष्येत्यस्य स्थाने प्रदातुर्नामनिर्देशः मम च यज्ञशर्मणश्चेति
ततः प्रदाता तेनासम्भने ऽनुज्ञाते लौकिक्याऽवृता तस्या गोरालम्भं कृत्वा वपामुत्खिद्य वपाश्रपणीभ्यां परिगृह्य औपासने पचने वा
श्रपयित्वा तामुपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरयर्चा ऽ ग्निः प्रा श्नात्विऽत्येतया तस्मिन्नेवाग्नौ जुहोति ।
उपस्तीर्याभिघारितामिति उपस्तरणाभिघारणे कृत्वेत्यर्थः ।
हुत्वा ततो मांसं संस्कृत्यान्नेन सह तस्मा उपहरन्ति ।
ऽअविकृतमातिथ्यऽमिति वचनात् उपस्तरणाभिघारणयोरप्रसङ्गे वचनम् ।
पलाशपर्णेनेत्येव सिद्धे मध्यमेनान्तमेनेतिवचनं द्विपर्णस्य पलाशवृन्तस्य पर्णेन होमो मा भूदिति ।
अभावविकल्पार्थ वा पूर्व मध्यमेन तदभावे अन्तमेनेति
आप्ग्स्-तात्_13.16:
यदि प्रतिहीता संज्ञपनमिच्छेत्, तदा ऽगौरस्यपहतपाप्माऽइत्येतयानवसानया गामभिमन्त्रयते ।
अमुष्येत्यस्य स्थाने चार्हयितुर्नाम विष्णुशर्मण इति गृह्णाति ।
ततस्सुकमासीत ।
दातुरेव वपाहोमान्तं कर्म ।
अभिमन्त्र्येति च क्तवाप्रत्ययः क्रियाविधान मात्रार्थ एव, न तु समानकर्तृकत्वार्थः ।
तसायै तस्याः संज्ञपनं कृत्वा, वपामुत्थिद्य, श्रपयित्वा, मध्यमेनान्तमेन वा पलाशपर्णेन लौकिकेनाज्येनोपस्तीर्य कृत्स्नां वपां सकृदेवावदायाभिघार्य ऽअग्निः प्राशनातुऽइत्येतया तेन पर्णेन स्वागेनौ जुहोति ।
तत्र च मध्यमेनान्तमेन वेति वचनं द्विपर्णप्रतिषेधार्थमभावविकल्पार्थ वा ।
शिष्टैश्चावदानैस्संस्कृतैस्सहान्नं भोजयेत् ।
अयं च संज्ञपनपक्षः कलियुगानाचारेषु पठितत्वादिदानीं त्याज्य एव
14 गोरुत्सर्गपक्षे कर्तव्यः प्रकारः ।
यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजते त्युच्चैः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.17:
अथ यदि गामुत्सृजत्ययं पूज्यमानः स गौरिति प्रोक्ते मन्त्रान् उत्तरांश्चतुरो ऽयज्ञे वर्धताऽमित्युपांशु जपति ।
जपित्वा ऽओमुत्सृजतेऽ त्युच्चैः प्रसौति ।
प्रदाता च तामुत्त्सृज्यान्यत् मांसं कल्पयति, ऽनामांसो मधुपर्को भवतीऽ(आश्व.गृ.19-28) तु कल्पान्तरात् ।
तत्र पुङ्गवालम्भे गौर्धनुभव्यामातारुद्राणामेतयोर्लोपः लिङ्गविरोदात्, नेत्यन्ये ।
जपत्वादेव सिद्धे उपांशुवचनं नियमार्थम्-उत्तरे चत्वार एव मन्त्राः
उपांशु वक्ततव्याः ।
न प्रणव इति ।
शास्त्रान्तरदर्शनात् प्रसङ्गः ।
प्रणवद्युच्चैः, ऊर्द्व वा प्रणवात् इति ।
तेन ब्रह्मणः एवैष विकल्पः सिद्धो भवति ।
इहप्रसवांविध्रभावे ऽपि उत्यैरिति वचनादेव प्रसौतिर्द्रष्टव्यः
आप्ग्स्-तात्_13.17:
यदि पूजेयो गामुत्सृज्यमानामिच्छेत् ।
अयं च कामप्रवेदने लिङ् ।
तदोत्तरान् त्रीन् मन्त्रान् ऽयज्ञो वर्धताम्ऽइत्यादिकानु पांशु जपित्वा ऽ ओमुत्सृजतऽ इत्युच्चैः प्रब्रूयादिति शेषः ।
केचित्-यज्ञ इत्यादिकाश्चत्वारो मन्त्रा इति ।
इयं च गौरुत्सर्जनपक्षे ऽपि भोक्तुरेव
15 अन्ननिवेदनम् ।
अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य ओं कल्पयते त्युच्चैः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.18:
अथान्नं सामिषं समाहृत्य तस्मे प्राह-भूतमिति ।
सिद्धे ऽन्ने भूतमिति प्राह (बौ.गृ1-2-55) इति कल्पान्तरम् ।
अस्माकं च वैश्वदेवे ।
तस्मात् भूतमित्येव निवेदनम् ।
तदन्नं पेरोक्तमुत्तरैः पञ्चभिर्मन्त्रैर्भूतमित्यादिभिः भोक्तोपांश्वभिमन्त्र्य ओंकल्पयतेत्युच्चैः प्रसौति ।
प्रसूताः परिवेष्टारः परिवेषन्ति चतुरो नानागोत्रान् ब्राह्मणान् भोजयतेति ब्रूयेत्तोषु भुक्तवात्स्वन्नमस्मा उपाहरन्तीति (बौ.गृ.1-2) कल्पान्तरम्
आप्ग्स्-तात्_13.18:
अथ दाता सिद्धमन्नं ऽभूतंऽइति मन्त्रेण पूज्याय प्रब्रूयान्निवेदेत् ।
कुत एतत् ?ऽसिज्झे ऽन्ने तिष्ठन् भूतमिति स्वामिने प्रब्रूयात्ऽ; (आप.ध.2-3-10) इति वैश्वदेवे दर्शनात् ।
मधुपर्कप्रकरण एव ऽसिद्धेन्ने तिष्ठन् भूतमिति प्राहऽइति कल्पान्तराच्च ।
एवं प्रोक्तमन्नं भोक्ता
उत्तरैर्मन्त्रैः ऽसुभूतम्ऽइत्यादिभिः पञ्चभिरुपांश्वभिमन्त्र्य, ओं कल्पयतेत्युच्चैः ।
अत्राप्यनुजानीयांदिति शेष- ।
ततो भोजनं ;अन्ननिवेदनस्य दृष्टार्थत्वात्, आचाराच्च
16 मधुपर्करहअः ।
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.19:
आचार्यादयः प्रसिद्धाः ।
तेभ्यश्चतुर्भ्यः परिसंवत्सरं विप्रेष्योपतिष्ठद्भ्यः गृहमातिश्येनागतेभ्यः एतदपचित्कर्म कूर्चादि भोजनान्तं कर्तव्यम् ।
केन?गृहस्थेन ।
निवेशे हि वृत्ते नैयमिकानि?श्रूयन्ते अग्निहोत्रमतिथयः इति वचनात् ।
अत्र केचिदाहुः-
आचार्यायर्त्विजे श्वशुराय राज्ञ इत्येतत् कार्यम् ।
इत्येको योगः ।
अथ परिसंवत्सरादुपतिष्ठद्भ्यश्चायं कार्यः इति ।
तेन विवाहाद- नन्तरं आचार्यश्वशुराभ्यां निमन्त्र्यापचितिः कर्तव्या ।
ऋत्विजे च कर्मणि, राज्ञे चाभिषेकानन्तरम् ।
अथ तेभ्य एव संवत्सरं विप्रो ष्योपगतेभ्यश्च कर्तव्यमिति
आप्ग्स्-तात्_13.19:
यदेतदर्हणं कूर्चादि भोजनान्तं गृहस्थेन स्नातकाय स्नानदिवस एवागताय कर्तव्यमिति विहितं, तदाचार्यादिभ्यःपरि संवत्सरात् संवत्सरादूर्ध्व गृहमुपतिष्ठद्भ्यः उपागतेभ्यः पुनः पुनः कार्य;न तु स्नातकवत् सकृत् ।
न चाप्यर्वाक्संवत्सरात् ।
अत्र चेतिशन्दश्चार्थः ।
ननु धर्मशास्त्रे ऽगोमधुपर्करहो वेदाध्यायः ।
आचार्य ऋत्विक् स्नातको राजा वाधर्मयुक्तः ।
आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्यो गौर्मधुप4कश्च ।
दधिमधुसंसृष्टं मधुपर्कः पयो वा मधुसंसृष्टम् ।
अभाव उदकम्, (आप.ध.2-8-5...9) इति स्नातकायाचार्यायर्त्विजे उपाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थगवा सह मधुपर्को विहितः ।
किमर्थमिह पुनर्विधीयते?उत्यते- इह विकल्पेन विहितस्य त्रिवृतः पाङ्क्तस्य च तस्मिन् गोमधुपर्के अवेदाध्यायाय श्वशुराय च दीयमाने च प्राप्त्यर्थम् ।
यत्तु तत्रैव ऽगौर्मधुपर्कश्चऽइति पुनर्वचनं, तदाचार्यर्त्विदाध्यायश्वशुरराजभ्य एव परिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनः कार्यम्, स्नातकवेदाध्यायतिथिभ्यस्तु सकृदेवेत्येवमर्थम्
सकृत्प्रवक्त्रे चित्राय ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.20:
सकृत् न प्रतिवतसरं कलौ गोरालम्भ्स्य न्षेधाद्रौरित्युत्त्का यज्ञो वर्धतामित्यादि जपेत् मध्यमन्त्रलोपः)प्रवक्त्रे वेदस्य वेदार्थस्य च चित्राय प्रसिद्धाय भिन्नसंशयायेत्यर्थः ।
एवं भूतायोपस्थिताय सकृदेतदपचितिकर्म कर्तव्यं, न प्रतिसंवत्सरमिति
________________________
आप्ग्स्-तात्_13.20:
प्रवक्ता यः पदवाक्यप्रमाणाभ्यां प्रकर्षेण वक्ति साधुशब्दानामुच्चारयिता, प्रमाणोपंपन्नं व्याख्याता चेत्यर्थः ।
चित्रः प्रकाशः लोके प्रसिद्ध इत्यर्थः . इदं प्रवक्तुरेव विशेषणम् ।
तस्मै सकृदेवैतत् गार्ह्य गेरहितं कार्यम् ।
अयं च प्रवक्ता न वेदाध्यायः ।
स हि गोमधिपर्करहः ।
यस्सषडङ्गं वेदमधीते, अर्थाश्च जानाति स वेदाध्यायः ।
ननु-सामयाचारिके गोमधुपर्के धर्मा नोपदिष्टाः, स कथं कर्तव्यः?उच्यते-नामधेयं धर्मग्राहकम्ति मीमांसकाः ।
तेन गृह्ये याज्ञिकप्रसिद्ध्या मधुपर्कसंशिके कर्मणि उपदिष्टा एव धर्माः ऽगोमधिपर्करहःऽइत्यत्र मधुपर्कनाम्ना अतिदिश्यन्ते, ऽमासमग्निहेत्रं जुहोतिऽइतिवत् ।
ऽदधिमन्थो मधुमन्थःऽ(मधुपर्कः)(आप. श्रौ.6-32-5) इत्यत्र तु दक्षिणाद्रव्यस्य कर्मवद्धमार्कअङ्क्षा भावान्नातिदेशः ।
अत्र च वेदाध्यायातिथिपूजायाम् अयं विशेषः, ऽदधिमधुसंसृष्टं मधुपर्कःऽइति प्रत्यक्षविधानादतिदेशप्राप्तं त्रिवृत्त्वं पाङ्क्तत्वं च बाध्यत(आप.श्रौ.2-8-8) इति ।
अयमत्र निश्चितोर्ऽथः आचार्यायर्त्विजे वेदाध्यायाय श्वशुराय राज्ञे च दक्षिणार्थाधिकगवा विना गार्ह्यः सामयाचारिको वा मधिपर्कः कार्यः ।
परिसंवत्सरादिपागतेभ्यः पुनः पुनः कार्यः ।
अवेदाध्यायाय श्वशुरायाधिकगवा विना गार्ह्यः
अतिथिवरापचितेभ्यो वेदाध्यायेभ्यः सह गवा धर्मोक्तः ।
अवेदाध्यायाभ्यां तु वरापचिताभ्यां स्नातकाय च स्नानदिन एवागताय गवा विना गृह्योक्तो धर्मोक्तो वा ।
प्रकाशाय च प्रवक्त्रे विना गवा गार्ह्यः ।
आचार्यादिभ्यश्चतुर्भ्यो ऽन्येषां सकृदेवेति ।
केचित् अत्र योगविभागमाहुः ।
आचार्यादिभ्य;चतुर्भ्य एतत्कार्यमित्येको योगः ।
तेन विवाहानन्तरमाचार्यश्वशुराभ्यां निमन्त्र्यापि पूजा कार्या ।
अन्यथा संवत्सरमपि प्रोषिताभ्यां सकृदपि न सिध्येत् ।
ऋत्विजे च कर्मणि कर्मणि पूजा कार्या ।
राज्ञे चाभिषिक्ताय नियमेनैव ।
तथा ऽपरिसंवत्सरादुपतिष्ठद्भ्यः पुनः पुनःऽइत्यन्यो योगः ।
स्पष्टश्चायं सामयाचारिकेषु विभागः, ऽगोमधुपर्करहःऽइति पूर्व विधाय, पश्चात्ऽआचार्यायऽइत्यादिना पुनर्विधानात् ।
पूर्वयोगे च श्वशुरशब्दो निपातयितव्यः ।
न चात्रान्य- तरविध्यारम्भो व्यर्थः ।
सामयाचारिकेषु सर्वाचरणार्थेन विहितायां पूजायां, गार्ह्यस्यास्मदीयानां धर्मातिदेशार्थत्वात् ।
न च नाम्ना धर्मातिदेशः, गोमधुपर्कशब्दयोः ऽमधुमन्थो मधुपर्कःऽ; इतिवत् द्रव्याभिधायकत्वात् ।
अतोर्ऽथभेदात् गृह्ये धर्मे च विध्यारम्भोर्थवान् ।
तथा वेदस्य वेदार्थस्य च प्रवक्त्रे च्त्राय एतत्सकृत्कार्यमिति ।
तच्चिन्त्यम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0