आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 41
आप्ग्स्-तात्_13.1:
अथापरमेतद्विधानं ।
उच्यते इति शेषः ।
तीर्थे पुण्यनद्यादौ ।
समिधं पालाशीं, अविरोधात् ।
एवकाराच्चास्मिन् विधौ नान्यत्किञ्चिदनुष्ठेयम् ।
ननु-पूर्वस्मिन्नेव विधौ स्नानसमिदाधानयोरन्य- प्रकारो वै कल्पिक इति किमिति नास्थीयते ?उच्यते-एवकारवैयर्थ्यप्रसङ्गात्,स्नान समिदाधानयोरिह व्युत्क्रमेणाभिधानात्, अस्य सूत्रस्य बह्वक्षरत्वाच्च ।
यदि ह्ययं पूर्वस्मिन्नेव विधौ वैकल्पिको ऽभिप्रेतो ऽभविष्यत्, तदा तत्रैव ऽपालाशींऽसमिधमुत्तरयाधाय तूष्णीं वाऽऽएवंविहिताभिरेवाद्भिरुत्तराभिः षड्भिः स्नात्वा तीर्थे वा तूष्णीम्ऽइत्यल्पैरेवाक्षरै- रसूत्रयिष्यत् ।
किञ्च सूत्रकाराणां नैवेयं सैली दृष्टचरी-यदुत साङ्गं प्रधानमुक्त्वा पश्चादथादिना सूत्रेण वैकल्पिकानां प्रकारभेदानाम- भिधानमिति ।
एव मेव ऽअथैतदपरं दघ्न एवाञ्जलिना जुहोति (आप.गृ.22-10) इत्यस्यापि व्याख्यानम् ।
प्रयोगस्तु-ब्रह्मचारिलिङ्गानि मेखलादीनि त्यक्त्वा तीर्थे तूष्णीं स्नात्वा, वासो ऽन्तरपरिधानादि कृत्वा, श्रोत्रियागारादग्निमाहृत्यऽयत्र क्व चाग्निम्ऽइति विधिनोपसमाधाय, तत्र प्रजापतिं मनसा ध्यायन् तूष्णीमेव समिधमादधाति ।
केचित्-केशश्मश्रु वपनादिकमन्यदप्यविरोधि तूष्णीमेव करोतीति
यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.2:
उक्तयोरन्यतरेण स्नातको भवति ।
तस्यास्मिन् काले बन्धुभिरपचितिः कार्या;गोमधुपर्करहो वेदाध्याय इति वचनात् ।
आवेद्यार्घ्य दद्या(बौ.गृ.1-2-1)दिति कल्पान्तरम् ।
साधु व्रतस्नात मर्घयिष्यामो भवन्तमिति निगदेनावेदनं कौषीतकिनस्समामनन्ति ।
"विष्टरं पाद्यमर्घ्यमाचमनीयं मधुपर्को गौरित्येतेषां त्रिस्त्रिरेकैकं वेदयन्ते"(आश्व.गृ.1-21-6) इत्याश्वलायनः ।
तत्र यत्र देशे ऽस्मै अपचितिं कुर्वन्ति बान्धवाः, तत्र तैर्दत्ते कूर्चे उपविशति यथापुरस्तादुपनयने आचार्यः ।
कूर्च प्रत्तमुपादायोदगग्रं निधाय तस्मिन् ऽराष्ट्रभृदसीऽत्यनेनोपविशतीत्यर्थः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0