भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 43

43.1

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने त्रयोदशः खण्डः ॥
पञ्चमश्च पटलस्समाप्तः ॥
====================================================================================
अथ षष्ठः पटलः ॥
चतुर्दशः खण्डः ।
मन्त्राम्नानक्रमेण विवाहादयस्संस्कारा व्याख्याताः ।
अनन्तरं तत्क्रमेणैव सीमन्तादयो व्याख्यायन्ते-
10 सीमन्तोन्नयनम् -
1 सीमन्तोन्नयनकालः ।
सीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_14.1:
सीमन्तो नाम केशमध्येर् खाविशेषः ।
स उन्नीयते यस्मिन् कर्मणि तत् सामन्तोन्नयनन्नाय कर्म गर्भसंस्कारः ।
तच्चतुर्थे मासि कर्तव्यम् ।
प्रथमनियमादाधारसंस्कारो ऽयम् ।
आधारे च संस्कृते तत्राहिताः सर्व एव गर्भाः संस्कृता भवन्ति

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc