आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 39
आप्ग्स्-तात्_12.2:
अस्मिन्नहनि यावदस्तमयं मूत्रपुरीषोत्सर्जनार्थमप्यसौ मण्डपाद्बहिर्न निर्गच्छेत् इत्यर्थः
2 वपनमुपनयनवत् ।
मध्यन्दिने ऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात् समानम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.3:
अथ तस्मिन्नहनि मध्यन्दिने कर्म प्रतिपद्यते ।
अग्नेरुपसमाधानादि ।
शम्याः ।
सकृत्पाभाणि क्षुरादिभिस्सह ।
स्वयमेव कर्ता नाचार्यः ।
आज्यभागान्तवचनं समिदाधानादेरुत्तरस्य कर्मणः कालोपदेशार्थम् ।
अनेनैव तन्त्रप्राप्तावपि सिद्धायां अघ्नेरुपसमाधानादिवचनं तन्त्रारम्भसेयैव मध्यन्दिननियमः, न कृत्स्नस्य कर्मणः ।
उत्तरयर्चा ऽइमं स्तोमऽमित्येतया ।
न स्वाहाकारः, जुहोतिचोदनाभावात् ।
कटः प्रसिद्धः एरका तत्प्रकृतिभूतं तृणम् ।
कशिप्वित्यन्ये ।
उत्तरयर्चाऽ त्र्यायुषऽमित्येतया ।
क्षुरमभिमन्त्र्य ।
उत्तरेण यजुषा ऽ शिवो नामासीऽत्यनेन ।
वप्ता नापितः नाचार्यः ।
तस्मै क्षुरं प्रदाय ततः ऽउष्णाः शीतास्वानीयेऽत्यादि यदपां संसर्जनादि कर्म केशनिधानान्तं तदुपनयनेन समानम् ।
किं? कार यतीत्यधायाहारः ।
केन कारयति?आचार्येण यद्यप्याचार्यकुलादयं निवृत्तः, तथापि स्नान काले विवाहकाले च समवैत्याचार्यः ।
समानवचनसामर्थ्यात् ।
यो ऽस्यापचितस्तमितरया (आप.गृ.3-9) इति च दर्शनात् ।
स्पष्टं चाश्वलायनके-अथैतान्युपकल्पयति समावर्तमानर्ः (त्यमाने) (आश्व.गृ.3-7-1) इत्यादि ।
अन्ये त्वाचार्यकुल एव समावर्तमिच्छन्ति ।
तत्राचार्यस्संसर्जनोन्दने कृत्वा क्षुरं नापितादपादाय प्रतिदिशं प्रवाप्य पुनस्तस्मै प्रदाय तं च वपन्तमुत्तरयानुमन्त्रयते ।
एवमन्तमाचार्यकर्म
आप्ग्स्-तात्_12.3:
यथा मध्यन्दिने प्रधानहेमा भवन्ति तथा कर्म कुर्यात् ।
अत्र तु तन्त्रोपदेशो ऽस्याज्यप्रधान हविष्ट्वात् ।
ऽआज्यभागान्तेऽइति च क्रमार्थम् ।
आज्यभागान्ते कृते समिदाधानमेव, न पुनरर्थकृत्यमपीति ।
अत्र च पात्रप्रयेगे दर्व्यादीनि द्वन्द्वम्, क्षुरकटादीनि सकृदेव, शम्याश्च परिध्यर्थे ।
केचित्-दर्व्यादीन्यपि सकृदेवेति ।
पालाशी पला शवृक्षावयवभूताम् उत्तरया ऽइमं स्तोमम्ऽइत्येतया ।
कटः प्रसिद्धस्तृणमयः ।
एरका कटप्रकृतिभूतं पङ्क्तिकटाख्यं तृणम् ।
केचित्-कशिप्विति ।
उत्तरयार् त्र्कयायुषम् इत्येतया उत्तरेण यजुषा ऽशिवो नामासिऽइत्यनेन ।
वप्त्रे वपनकर्त्रे कस्मैचिन्मन्त्रविदे ब्राह्मणाय तत् क्षुरं प्रयच्छति ।
केचित्- इहाप्याचार्यो वपनं प्रारभते, नापितस्तु वप्ता अस्मै प्रयच्छतीति ।
तदयुक्तम्;इहाचार्यस्यैवाभावात्, नापितस्यामन्त्रज्ञत्वाच्च ।
अथानुवाकस्य प्रथमेन यजुषाऽइत्यारभ्य ऽतस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधातिऽ(आप.गृ.10-8)
इत्येवमन्तमुपनयनेन समानं, भवतीति शेषः
3 मेखलाया ब्रह्मचारिणे दानम् ।
जघनार्धे व्रजस्योपविश्य विस्त्रस्य मेखलां ब्रह्मचारिणे प्रयच्छति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.4:
अथोप्तकेशश्मश्रुनखो व्रजस्य जघनार्धे पश्चार्धे उपविश्य मेखला विस्रस्य विमुच्य, कस्मैचित्ब्रह्मचारिणे प्रयच्छति
आप्ग्स्-तात्_12.4:
अथोप्तकेशादिको व्रजस्य जघनार्धे पश्चार्धे उपविश्येत्यादि करोति
4 तेन तस्याः दर्भस्तम्बे निधानम् ।
तां स उत्तरेण यजुषोदुम्बरमूले दर्भस्तम्बे वोपगूहति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.5:
प्रच्छादयति ।
उत्तरेण यजुषा ऽइदमहममुष्यामुष्येऽत्यादिना तत्रादश्सब्देषु नामग्रहणम्-इदमहं यज्ञशर्मणो गार्ग्यस्य पाप्मानमपगूहाम्युत्तरो यज्ञशर्मा द्विषद्भ्य इति ।
अथ यदि वा स्यात् यज्ञशर्मणो गार्ग्यायणेति ।
दण्डाजिनयोरप्यस्मिन् काले त्यागः ।
आप्ग्स्-तात्_12.5:
स तु ब्रह्मचारी तां मेखलां सूत्रोक्तदेशे उपगूहति अप्रकाशां करोति ऽइदमहं विष्णुशर्मणो गौतमस्य पाप्मानमुपगूहाम्युत्तरो विष्णुशर्मा द्विषद्भ्यःऽइत्यनेन यजुषा ।
अत्र च स्नातुर्नामगोत्रे ग्राह्ये
5 स्नानं उदुम्बरकाष्ठेन दन्तधावनं च ।
एवं विहिताभिरेवाद्भिरुत्तराभिष्षङ्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.6:
एवंविहिताभिः पूर्ववत्संसृष्टाभिः शीतोष्णाभिरित्यर्थः ।
तत्र संसर्जने मन्त्रस्य लोपः ऋग्भिः आपोहिष्ठीयाभिः हिरण्यवर्णी याभिश्च ।
तत्र ऽयासु जातऽइत्यासां ग्रहणम् ।
प्रतिमन्त्रं चाभिषेकः ।
दतो धावते दन्तेभ्यो मलमपनयति ।
उत्तरयर्चा ऽअन्नाद्याय व्यूहध्वऽमित्येतया
आप्ग्स्-तात्_12.6:
एवंविहिताभिस्तूष्णीं मिश्रिताभिश्शी तोष्णाभिरद्भिः ।
ऽकेशान् वपतुऽइति मन्त्रलिङ्गविरोधात् एवकाराच्च न मिश्रणमन्त्रः ।
उत्तराभिष्षङ्भिः ऽआपो हि ष्ठा इति तिसृभिश्च ।
स्नाति अभिषिञ्चति ।
एतच्च षण्णामन्ते सकृदेव ।
केचित्-प्रत्यृचमिति ।
तन्न ;गुणार्थ प्रधानाभ्यासकल्पनमयुक्तमित्युक्त्वात् ।
अथोदिम्बरेण काष्ठेन दन्तेभ्यो मलं ऽअन्नाद्याय व्यूहध्वम्ऽइत्यनया अपनयति
6 स्नानीयद्रव्यैराच्छाद्य पुनः स्नानं, अहतस्यान्तरस्य वाससः परिधानं, चन्दनानुलेपनं, ग्रीवासु मणेराबन्धनं, बादरमणेस्सव्यपाणावाबन्धनं, उत्तरस्य वाससः परिधानञ्च ।
स्नानीयोच्छादितस्स्नातः ॥ आ
उत्तरेण यजुषाहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देवताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवस्वाबध्यैवमेव बादरं मणिं मन्त्रवर्ज सव्ये पाणावाबध्याहतमुत्तरं वासो ऽरेवतीस्त्वेतिऽसमानम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.8:
ततः स्नानीयैः स्नानार्हऐः क्लीतकादिभिः उच्छादितः उद्वर्तितः अपकृष्टमलः पुनरपि तभिरेवाद्भिः स्नातः उत्तरेण यजुषा ऽसोमस्य तनूरसिऽइत्यनेन अहतमन्तरं वासः येन कटिः प्रच्छद्यते तदन्तरमित्युच्यते ।
येन बहिर्नीवि प्रच्छादनं उपवीतं वा क्रियते तदित्तरमिति ।
तयोरन्तरं वासः परिधाय चतुर्थ्यानुलेपनं करोति ।
केन?चन्दनेन ।
कीदृशेन ? ।
सर्वसुरभिणा सर्वाणि सुरभि- द्रव्याणि यत्र भवन्ति तत् सर्वसुरभि ।
सार्वसुरभिणेति पाठे रूपसिद्धिर्मृग्या ।
तत्र पूर्वमुत्तरैर्मन्त्रैस्त्रिभिर्देवताभ्यः प्रयच्छति ऽनमो ग्रहायऽचेत्येवमादिभिः ।
तत उत्तरया ऽअप्सरस्सुयो गन्धःऽइत्येतया आत्मनो ऽनुलेपनम् ।
ऽमुखमग्रे ब्राह्मणो ऽनुलिम्पेत् बाहू राजन्य-, उदरंवैश्यः, (आश्व.गृ.3-7-10-12) इत्याश्वलायनः ।
अथ मणिमाबध्नाति ग्रीवासु प्रतिमुञ्चति ।
स च मणिः सौवर्णो भवति ।
उपदानेन च वैडूर्यादिनोपहितः ।
सूत्रोतः सूत्रेणोतः ।
सपाश इत्यर्थः ।
तं मणिं उत्तरयर्चा ऽइयमोषधेऽऽत्येतया उदपात्रे त्रिः परिप्लावयति ।
सकृदेव मन्त्रः ।
अथ तं उत्तरयर्चा ऽअपाशो ऽस्युरऽइत्येतया ग्रीवास्वाबध्नाति ।
ग्रीवाशब्दो ऽयं धमनिवचनः बहुवचान्तः तध्योगात् कण्ठे प्रयुज्यते ।
अस्यामृचि पृथिवी स्तूयते ।
तस्मादियमोषधिस्त्रायमाणेति भवितव्यम् ।
सकारलोपच्छान्दसः ।
अथ बादरं बदुरीबीजेन कल्पितमेवमेव सूत्रोतमुदपात्रे त्रिः प्रदक्षिणं परिप्लाव्य सव्ये पाणावाबध्नाति ।
तूष्णामेव परिप्लावने च बन्धने च मन्त्रप्रतिषेधः ।
पुनर्मणिग्रहणादुपधानमस्य न भवति ।
सूत्रोतस्तु भवति ।
आबध्य मणिं तत उत्तरं वासः करोति आहतमेव ।
तत्र रेवतीस्त्वेत्येवमादि कर्म समानमुपनयनेनैव प्रत्येतव्यम् ।
रेवतीस्त्वेत्येताभिरिति वा उत्तराभिरित्येव वा सिद्धे समानवचनमुपनयनवते प्रयोगार्थम् ।
तेन उत्तराभ्यामभिमन्त्रेयोत्यादि परिहितानुमन्त्रणान्तं गुरोः कर्म
आप्ग्स्-तात्_12.8:
स्नानोपकरणैः क्लीतकमधूकचूर्णादिभिः उद्वर्तितदेहः आमल कपिष्टादिभिः स्नानीयैस्स्नातश्च भवति
ऽसोमस्य तनूरसिऽइत्यनेन यजुषा अहतमन्तरं वासः अन्तर्वासो ऽन्तरीयमित्यर्थः ।
तत् परिदधाति ।
अनेन सूत्रेणात ऊर्ध्व स्नातकस्य नित्यमन्तर्वासो विधीयते ।
यजुः पुनः कर्मार्थमेव, मकारणाम्नानात् ।
ततस्सार्वसुरभिणा सर्वैः कस्तूरिकादिभिर्गम्धद्रव्यैर्वासितेन चन्दनेन अनुलिम्पतीति व्यवहितेन सम्बन्धः ।
कथमनुलिम्पति ?इत्यत्राह-उत्तरैरित्यादि ।
ऽनमो ग्रहाय चऽ; इत्यादिभिस्त्रिभिर्मन्त्रैः देवताभ्यश्चन्दनं पूर्व प्रदाय, पश्चात् ऽअप्सरस्सु यो गन्धःऽइत्यनया आत्मान मनुलिम्पति ।
मुखस्य चाग्रे ऽनुलेपः, ऽमुखमग्रे ब्राह्मणो लिम्पेत्ऽ(आश्व.गृ.3-7-10) इत्याश्वलायनगृह्यात् . देवताभ्यः प्रदानं च नमश्सब्देन, न तु मन्त्रान्तेन;नमस्कारस्यापि प्रदानार्थत्वात् ।
मणिं कीदृशं? सौवर्ण सुवर्णविकारम् ।
सोपधानं वज्रवैडूर्यादिना उभयतः परिगृहीतम् ।
सीत्रोतं सूत्रप्रोतम् ऽइयमोषधे त्रायमाणाऽइत्येतया सकृदुच्चरितया उदपात्रे प्रदक्षिण मविरतं त्रिः परिप्लाव्य, उत्तरया ऽअपाशो ऽस्युरो मेऽइत्यादिकया ऽपुण्यायऽइत्यन्तया त्र्यवसानया तं मणिं ग्रीवसु कण्ठे आबध्य, बदरीबीजमयं बादरं सूत्रोतमेव मणिमेवमेवोदपात्रे त्रिः प्रदक्षिणं तूष्णीं परिप्लाव्य, तूष्णीमेव सव्ये पाणावाबध्नाति ।
अहतमुत्तरं वासः परिधानीयमेव, न तु उत्तरीयम् ।
तदुपनयनेन समानम् ।
स्वयं परिदधाति, इहाचार्याभावात् ।
ततश्च ऽरेवतीस्त्वाऽ; इति द्वाभ्यां परिधानीयं वासो ऽभिमन्त्र्य ऽया अकृन्तन्ऽइति तिसृभिः परिधाय ऽपरीदं वासःऽइत्यनुमन्त्रयते ।
ऽरेवतीस्त्वे ति समानम्ऽइति वचनबलाच्च मन्त्रस्थयुष्मदर्थलिङ्गबाध एव ।
यद्वा अन्यो विद्वान् ब्राह्मणः रेवतीस्त्वेति समानं करोति ।
कुतः पुनः ऽअहतमुत्तरं वासःऽइत्यनेनापि परिधानमेवोच्यते नोत्तरीयम्?उच्यते-रोवतीस्त्वेति समानमुपनयनेनेति वचनात् उपनयने च ऽतिसृभिः परिधाप्य परिह्तमुत्तरया, (आप.गृ.10-10)इति परिधानार्थवासो ऽवगमात् ।
पूर्वस्य ऽअहतमन्तरं वासःऽइति चोदितत्वाच्च ।
उत्तरीयं तु ऽनित्यमुत्तरं कार्यम् (आप.ध.2-4-21) इत्यादिधर्मशास्त्रवचनादत्रापि सिद्धमेव वासः ।
केचित् इहोत्तरीयं विधीयते नैव परिधानीयम्;उत्तरमिति वचनात् ।
तथा आचार्य एव ऽरेवतास्त्वा इत्याद्युपनयनेन समानं करोतीति ।
तन्न;परिधाप्य,परिहितम्ऽइत्यनुपपत्तेरेव ।
तथा आचार्यकुलान्निवृत्तेनेदं स्नानं क्रियते ।
तत्राचार्यकर्तृकत्वा प्रसक्तिरेव
7 वाससो ऽन्ते कुण्डले बध्वा तद्विशिष्टया दर्व्या प्रधानहोमाः, जयादयश्च ।
तस्य दशायां प्रवृर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.9:
तस्यो त्तरस्य वाससो दशायां प्रवर्तौ कर्णालङ्कारौ सौवर्णौ प्रबध्य दर्व्यामाधायाज्येन उत्तरा अष्टौ प्रधानाहुतिः जुहोति ।
अभ्यानायन् प्रवर्तयोरुपर्याज्येनानयनं कारयन्नित्यर्थः ।
अभ्यानयन् इति वा पाठः ।
अस्मिन् पक्षे सव्येन पाणिनाभ्या- नयनम् ।
अभ्यानायमिति णमुलन्तस्य युक्तः ।
अब्यानीयाभ्यानीयेत्यर्थः ।
सर्वथा प्रवर्तयोरुपर्यासिक्तेनाज्येन प्रधानहोमः ।
जयादिनचनं प्रवर्तावपनीय यतासिद्धं प्रतिपद्येतेत्येवमर्थम्
आप्ग्स्-तात्_12.9:
तस्य अनन्तरप्रकृतस्य वाससो दशायां प्रवृर्तौ कुण्डले सौवर्णे प्रबध्य तावुपायेन दर्व्या अग्रे स्थापयित्वा ।
आज्येने- ति परिभाषाप्राप्तानुवादोभ्यानयनाविधानार्थः ।
अभ्यानायमिति णमुलन्तोर्ऽथपाठः ।
ततश्च स्वयमेव सव्येन हस्तेन स्थापितयोः प्रवर्तयोरुपरि
आज्यमानीय तेनैवाज्येन उत्तराः ऽआयुष्यं वर्चस्यम्ऽइत्याद्या अष्टौ प्राधानाहुतीर्हुत्वा, ततो दर्व्या अग्रात्तावपनीय यथाप्रसिद्धं जयादि प्रतिपद्यते ।
सूचनात्सूत्रमिति निर्वचनाच्च सूत्रे सर्वत्रानेकार्थविधिनिबन्धनो ।
वाक्यभेदो ऽपि नैव दोष इत्युक्तम् ऽअग्निमिध्वाऽ(आप.गृ.1-12) इत्यत्र ।
केचित् सव्येन हस्तेन अभ्यानायन्नन्येन वाभ्यानायन्निति पाठेन भवितव्यमित्याचक्षते
8 तयोः कर्णयोराबन्धनम् ।
परिषेचनान्तं कृत्वैताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.10:
परिषेचनान्तवचनमानन्तर्यार्थम् ।
तेनास्याहनि भोजनं न भवति ।
एताभिरेवाहुतिभिः आहुत्यर्थैर्मन्त्रैरित्यर्थः ।
वचनादेकं कर्म बहुमन्त्रं स्वाहाकारवांश्च मन्त्रः प्रयोज्यः ।
सव्ये चेत्युच्माने म्नत्राणां विभज्य विनियोगः स्यात् ।
तस्मात् पुनरेताभिरित्त्युक्तम्
आप्ग्स्-तात्_12.10:
परिषेचनान्तरमेव एताभिरेव ऽआयुष्यं वर्चस्यम्ऽइत्यष्टाभिरेव दक्षिणे कर्णे प्रवर्तयोरेकं आबध्रीत प्रतिमुञ्चेत् ।
तथान्य-
मेताभिरेव सव्ये कर्णे ।
अत्र च होममन्त्राणामेव आबन्धनकरणत्वेन सूत्रवाक्यसादृश्यानुमितया श्रुत्यैव चोदितत्वात्तैराबन्धनमपि गौण्या वृत्त्या प्रकाश्य मैन्द्रीवत् ।
तथैताभिरिति स्त्रीलिङ्गनिर्देशो बहुत्वादृचां ब्राह्मणग्रामवत् ।
न चात्र होमार्थानामेव आबन्धनार्थत्वेनापि विनियोगे देवदत्तीयेयं गौर्यज्ञदत्तीयेतिवद्विरोध- ।
ऽपुरोडाशकपालेन तुषानुपवपतिऽइत्यादिवदधिष्ठानलक्षणया विनियुक्ताकारमतिरोधायापि विनियोगोपपत्तेः, ऋङ्मन्त्रविषये त्वनेकार्थत्वमपि नायुक्तमित्याग्नेय्यधिकरणे उक्तत्वाच्च ।
केचित्-एताभिरित्यनेन प्रकृताहुतिपरामर्शादाहुत्यर्था मन्त्रा लक्ष्यन्ते ऽपितॄणां याज्यानुवाक्याभिरुपतिष्ठतेऽइतिवदिति ।
मैवम्;यतः पूर्वत्रोत्तराहुतीरिति लक्षणया प्रकृतानां मन्त्राणामपि परामर्शो वरम्;नत्विहापि वाक्ये लक्षणा
9 शिरसि स्रजो धारणं, अक्ष्णोरञ्जनं, आदर्शावेक्षणं, उपानहोरुपमुञ्चनं, छत्रदण्योर्धारणं च ।
एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शवेक्षणमुपानहौ छत्रं दण्डमिति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.11:
एवमुत्तरैरपि मन्त्रैर्यथालिङ्गं स्नागादीनि षट् द्रव्याण्युपयुञ्जीत यथार्हम् ।
तत्र ऽशुभिके शिरऽइति द्वाभ्यां स्रजश्शिरसि बन्धनम् ।
यथालिङ्गवचनात् द्वाभ्यामिमां तामपिनह्येऽइति)स्रज इति षष्ठ्येकवचनम्, न प्रथमाया द्वितीयाया वा बहुवचनम् ।
इमां तामित्यकेवचनात् ।
शिरसीति वचनात् असयोर्न भवति ।
"न मालोक्ताम् ।
माले चेत् ब्रूयुः, स्रगित्यभिधापयीत"(आश्व.गृ.3.8-12) इत्याश्वलायनः ।
अथ ऽयदाञ्जनं त्रैककुदऽमिति द्वाभ्यामञ्जनं अक्ष्णोरुपयुञ्जीत ।
तत्र द्वाभ्यामपि मन्त्राभ्यां पूर्व दक्षिणस्याञ्जनम् ।
अथ ताभ्यामेव सव्यस्य ।
यद्यपि ऽतेन वामाञ्जेऽइति मन्त्रे द्विवचनं भवति ।
तथापि एवमित्यतिदेशसामर्थ्यात् प्रवर्तयोराबन्धनवत् क्रियाभ्यावृत्तिः
मन्त्राभ्यावृत्तिश्च भवति ।
तत्र सान्नाय्यकुमभीवत् द्विवचनं, यथा"अप्रस्नसंसाययज्ञस्योखे उपदधाम्यह"मिति ।
अथादर्शस्यावेक्षणं ऽयन्मे वर्चऽइत्येतया ।
अवेक्षणमित्यनुच्यमाने आदानमेव स्यादस्मिन् काले;ऽइदं तत्पुनराददऽ; इतिलिङ्गात् तस्मादवेक्षणग्रहणम् ।
ततः उपानहावुपमुञ्चते ऽप्रतिष्टे स्थऽइति यजुषा ।
आञ्जनवत् क्रियावृत्तिर्मन्त्रस्यावृत्तिश्च भवति ।
ततश्छत्रमादायात्मानमाच्छादयति ऽप्रजापतेश्शरणमसीऽति यजुषा ।
देवस्य त्वेति यजुषा दण्डमादत्ते ।
वैणवमित्याश्वलायनः ॥
(आश्व.गृ.3-7-15)
आप्ग्स्-तात्_12.11:
यथा कर्ममध्ये समन्त्रकं प्रवर्तौ हि बद्धौ, एवमुत्तरैर्मन्त्रैर्यथालिङ्गं मन्त्रलिङ्गानुसारेण स्रगादिषट्कं आबध्नीत कर्तव्यम् इत्यादि यथार्ह वाक्यशेषः ।
तत्र ऽशुभिके शिरःऽइत्यनयैकयैव शिरसि स्रजमाबध्नीत ।
ऽयामाहरत्ऽइत्येषा विकल्पार्था;ऽएकमन्त्रणि कर्माणिऽ; ।
ऽअवशिष्टा विकल्पार्थाःऽ(आप.प.1-41;4-12) इति परिभाषावचनात् ।
स्रज इति द्वितीयैकवचनार्थे;ऽशुभिके शिर आरोहऽ; ऽयामाहरत्ऽ; इत्याद्येकवचनलिङ्गात् ।
षष्ठ्येकवचनं वा ।
तथा सति, स्रज आबन्धनं कर्तव्यमिति शेषः ।
तथा ऽयदाञ्जनं त्रैककुदम्ऽइत्येकयैव सकृदुच्चरितया त्रिककुत्पवर्तजाताञ्जनेन युगपदक्ष्णोरञ्जनं कर्तव्यम् ।
अत्रापि ऽमयि पर्वतऽइत्यादीनि चत्वारि यजूषि विकल्पार्थान्येव ।
न चाक्ष्णोः पर्यायेणाञ्जनम्;ऽतेन वाम्ऽइति द्विवचनलिङ्गविरोधात् ।
तथैव ऽयन्मे वर्चः परागतम्ऽइत्येतया आदर्शावेक्षणं कर्तव्यम् ।
तथैव ऽप्रतिष्ठे स्थःऽइत्यनेन यजुषोपानहौ युगपदुपमुञ्चते;ऽप्रतिष्ठे स्थःऽइति द्विवचनलिङ्गात् ।
तथैव तूष्णीं छत्रमादाय ऽप्रजापतेः शरणमसिऽइति यजुषा आत्मानमभिच्छादयति ।
तथैव दण्डं वैणवं ऽदेवस्य त्वाऽइत्यादियजुषा आदत्ते ।
इति एतानि षट्द्रव्याणीत्यर्थः ।
केचित्-ऽशुभिके शिर आरोहऽऽयामाहरत्ऽइति द्वाभ्यामपि स्रज आबन्धनम् ।
तथा ऽयदाञ्जनंऽऽमयि पर्वत पूरुषम्ऽइति द्वाभ्याम् अप्यावृत्ताभ्यां दक्षिणसव्ययोरक्षणोः क्रमेणाञ्जनम्;ऽएवमुत्तरैर्यथालिङ्गम्ऽइति वचनबलात् ।
ततश्च ऽतेन वाम्ऽइति लिङ्गमपि विधिबलाद्वाध्यमेव ।
यथैकस्यां सान्नाय्यकुम्भ्यां ऽउखे उपधाम्यहम्ऽइति द्विवचनलिङ्गम् ।
उपानहोरुपमोचने ऽप्यञ्जनवदेव व्याख्येति ।
तदसत्, ऽएकमन्त्राणिऽ(आप.प.1-41) इत्यादिपरिभाषाविरुद्धत्वात् ।
ऽएवमुत्तरैर्यथालिङ्गम्ऽइत्यस्य च पूर्वव्याख्याने ऽप्युपपत्तेः ।
ऽमयि पर्वत पूरुषम्ऽइत्यत्र पाठे प्रश्लिष्टे ऽपि विभागे निराकाङ्क्षत्वात्, वाक्यभेदावगतेश्च
10 वाग्यमः, दिगुपस्थानं, नक्षत्राणां चन्द्रमसश्चोपस्थानम् ।
वाचं यच्छत्यानक्षत्रेभ्यः ॥ आ
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्र्धचेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.13:
ततः उत्तरेणार्दर्चेन ऽदेवीष्षडुर्वीऽरित्यनेन प्राङ्मुख- प्राञ्जलिः सर्वा दिशो मनसि कृत्वा मन्त्रान्तेन प्रदक्षिणमावृत्य समनुवीक्षते ।
षडेव दिशः ,डुर्वीरिति लिङ्गात् ।
प्राच्याद्याश्चतस्रः ऊर्ध्वा अधरा चेति ।
तत डत्तरेणार्र्धचेन ऽमा हास्महीऽत्यनेन नक्षत्राणि चन्द्रमसं च सहोपतिष्ठते
आप्ग्स्-तात्_12.13:
इदं च व्याख्यातम्
उ त्तरेणार्र्धचेन ऽदेवाष्षडुर्वीः इत्यनेन दिशः अवाचीषष्ठा उपस्थाय, उत्तरेण ऽमा हास्महिऽइत्यर्र्धचेन नक्षत्राणि चन्द्रमसं चोपतिष्ठते ।
श्रुतिबलाच्च ऽमा हास्महिऽइत्यत्र नक्षत्राणीत्यध्याहृत्य तानि प्रकाश्यान्येव
11 मित्रेण सम्भाषणं, यथेष्टगमनं च ।
रातिना सम्भाष्य यथार्थ गच्छति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.14:
रातिना बन्धुना संभाष्य किं मया कर्तव्यम्?क आश्रमः प्रतिपत्तव्यः?इति संभाषणं कृत्वा तेन रातिना सह गच्छति अनधृतमाश्रमं प्रतिनद्यत इत्यर्थ- ।
ऽबुध्वा कर्माणि यत् कामयेत तदारभेतेऽ(आप.ध.2-21-5) त्यनेनैव सिद्धे पुनर्वचनं प्रव्रजते ऽपि संभाषणान्तं स्नानकर्म यथा स्यादिति
आप्ग्स्-तात्_12.14:
रातिः मित्रं रमयतीति व्युत्पत्या ।
तेन सह विस्रब्धस्सम्भाष्य आत्मशक्त्याद्यनुरूपं धर्मादिकं विचार्य निश्चित्य ।
यथार्थ गच्छति तेन रातिना सह योर्ऽथो धर्मो मोक्षो वा साध्यत्वेनावधृत-, तदनुरूपमाश्रमं गार्हस्थयं मौनं वा प्रतिपद्यते ।
एवं च ब्रह्मचर्यादेव प्रव्रजतो ऽपि सम्भाषणान्तं स्नानं कृत्वैव प्रव्रज्यात्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0