भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 40

40.1

इति श्रीसुदर्शनाचार्याविरचिते गृह्यतात्पर्यदर्शने द्वादशः खण्डः समाप्तः ॥
त्रयोदशः खण्डः ।
9 मधुपर्कः -
1 पूज्येन कूर्चे उपवेशः ।
अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णी समिधमादधाति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_13.1:
व्याख्यातं स्नानकर्म गरीयश्च मुख्यं च ।
अथेदानीमेतदपरं स्नानविधानं लघीयश्च गौणं च व्याख्यायते ।
किं तत्?तूष्णामेव तीर्थे भूमिष्ठे जले स्नाति ।
नोद्धृताभिश्शीताभिः ।
तूष्णींच समिधमादधाति ।
न म्नत्रेण ।
पालाशी समित् ।
एतावदेव- अस्मिन् विधौ कार्यम् ।
नान्यत् किञ्चित् ऽप्रागुदयात् व्रज मित्यादिकम् ।
वपनादि तु लौकिक मधर्मकं भवति ।
तत्र प्रयोगः-केशश्मश्रुनखलोमानि वापयित्वा मे खलादण्डमजिनमित्यपनीय तूष्णीमेव तीर्थे स्नात्वा दन्तझावनमौदुम्बरेण काष्ठेन कृत्वा स्नानीयोच्छादितः पुनः स्नात्वा अहते वाससी परिधायाचम्याग्निमुपसमाधाय संपरिस्तीर्य पालाशीं समिधमग्निं मनसा ध्यायन्नाधाय मणिप्रभृतीन्यलङ्करणानि यथोपपादमुपादत्ते तूष्णीमेव सर्वम्

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc