आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 38
आप्ग्स्-तात्_12.1:
वेदं मन्त्रब्राह्मणलक्षणम् ।
एकवचनं जात्यभिप्रायम्;ऽवेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम्ऽ; ॥
(म.स्मृ.3-2)
इति मनुवचनात् ।
अधीत्य पाठतश्चार्थतश्चाधिगम्य, सषडङ्गं समीमांसं वेद मधीत्येत्यर्थः ।
अधीत्येति च विधिः ।
ऽवेदं व्रतानि वा पारं नीत्वा ह्यभयमेव वा ।
इत्यस्य प्रदर्शनार्थः ।
स्नास्यन् स्नानाख्यं कर्म करिष्यमाणः प्रागुदयात् प्रागादित्योदयात् ।
व्रजं गोशालां परिश्रितां प्रविश्ये त्त्यादि व्यक्तार्थम्
नैनमेतदहरादित्यो ऽभितपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_12.2:
एनं एतत्कर्म कुर्वाणम् ।
एतदहः एतस्मिन्नहनि कदाचिदपि नाभितपेदादित्यः ।
तेन मूत्रपुरीषादिकमपि तत्रैव व्रजे छायायामपि कर्तव्यम् ।
आदित्यग्रहणादग्नितापस्य न प्रतिषेधः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0