आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 33
आप्ग्स्-तात्_11.2:
प्रष्टं प्रश्न इत्यर्थः ।
रूपं तु छान्दसम् ।
ऽको नामासीऽत्यादिषु प्रश्नप्रतिवचनार्थेषु चतुर्षु मन्त्रेषु प्रष्टं परस्याचार्यस्य, प्रतिवचनं तु कुमारस्य ।
ततश्चैवं प्रयोगः -ऽको नामासि?इत्याचार्यः पृच्छति ।
विष्णुशर्मा नामासिऽइति कुमारः प्रतिब्रूयात् ।
तथा
ऽकस्य ब्रह्मचार्यसि विष्णुशर्मन्?ऽइत्याचार्यः ।
ऽप्राणस्य ब्रह्मचार्यस्मिऽइति कुमारः
शेषं परो जपति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.3:
पृष्टप्रतिवचनादूर्ध्व अनुवाकस्य यश्शेषः तं ऽएष ते द्व सूर्येऽत्यादिकं पर आचार्यो जपति
आप्ग्स्-तात्_11.3:
शेषमनुवाकशेषैकदेशं ऽविष्णुशर्मैष ते देवऽइत्यादि ऽअनुसञ्चर विष्णुशर्मन्ऽइत्येवमन्तमाचार्यो जपति ।
ऽअध्वनामध्व पतेऽइत्यस्य प्रत्यगाशिषो वाचनविधानात्
9 प्रत्यगाशिषां मन्त्राणां कुमारेण वाचनम् ।
प्रत्यगाशिषं चैनं वाचयति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.4:
तत्रैव शेषे या प्रत्यगाशीः ऽअध्वनामध्वपतऽऽइत्येवमाद्याऽतामेनं कुमारंवाचयति
आप्ग्स्-तात्_11.4:
आत्मगाम्याशीःफलं यस्मिन् मन्त्रे स प्रत्यगाशीः ।
जात्यभिप्रायमेकवचनम् ।
अध्वनामित्यारभ्य आ उपनयनसमाप्तेर्ये प्रत्यगाशिषो मन्त्राः ऽयोगेऽइत्यादयः, तान् सर्वान् कुमारं वाचयति
10 उपनयनप्रधानहोमाः जयादयश्च ।
उक्तमाज्यभागान्तम् ॥ आ
अत्रैनमुत्तरा आहुतीर्हअवयित्वा जयादि प्रतिपद्यते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.6:
आज्यभागान्तं तन्त्रं प्रागेवोक्तम् ।
अत्रेदानीमेनं कुमारं उत्तरा एकादश प्रधानाहुती र्हअवयति ऽयोगे योगेऽइत्येवमाद्याः ।
उत्तरैर्मन्त्रैः कुमारो जुहोति ।
तमाचार्यः प्रयुङ्के मन्त्रवाचनेन ।
द्वितीयचतुर्थयोरपि मन्त्रयोः कुमार एव वक्ता, देवताभिधानार्तत्वात् ।
अपर आह-लिङ्गविरोधादाचार्यो वक्ता कुमारस्तु होतेति ।
प्रधानहोमेषु हावयित्वेति वचनात् उपहोमेष्वाचार्य एव कर्ता
आप्ग्स्-तात्_11.6:
इदमनुवादमात्रं मा भूदिति साध्याहारं व्याख्यायते ।
न केवलमध्वनामित्यारभ्य प्रत्यगाशिषो मन्त्रान् वाचयति ।
आज्यभा गान्तमुक्त्वा ये पश्चात् प्रत्यगाशिषो मन्त्राः मेखलापरिव्ययणादिषूक्ताः ऽइयं दुरुक्तात्ऽइत्याद्यास्तानपि स्वयमुक्तवा वाचयति ।
उक्तमिति जात्यभिप्रायम् ।
इदं त्विह वक्तव्यम् यासु मेखलापरिव्ययणादिषु कुमारप्रधानासु संस्कारक्रियासु ये प्रत्यगाशिषो मन्त्राः, तच्चोदकैराख्यातैः करणत्वेन चोदिताः क्रियाः तैर्मन्त्रैः कृत्वा पश्चाद्वाचयति ।
स्वतः करणमन्त्राणां क्रियागुणभूतैः कर्तभिरेवोच्चर्यत्वात् ।
कुमारस्य चात्र संस्कार्यत्वेन प्राधान्यात् ।
यत्र पुनर्होमादिषु गुणभाव एव, न संस्कार्यत्वं, तत्र तान् प्रत्यगाशिषो वाचयत्येव ।
केचित्--परिव्ययणादिष्वपि कुमारस्यैव मन्त्रः, परस्तु वाचयत्येवेति
अत्र अस्मिन् क्रमे, न तु ऽयथोपदेशं प्रधानाहुतीःऽइति सामान्यवचनादाज्यभागानन्तरमेव ।
एनं कुमारम् ।
उत्तराः ऽयोगे योगेऽ; इत्येकादर्शचः प्रत्यगाशिषो वाचयन् हस्ते गृहीत्वा प्रतिमन्त्रं हावयति ।
तत्र द्वितीयचतुर्थौ ऽइममग्न आयुषेऽऽअग्निष्ट आयुः प्रतराम्ऽइति लिङ्गविरोधात् ऽआयुर्दा देव जरसम्ऽइतिवत् स्वयमेव ब्रूयात्, नैनं वाचयति ।
केचित्---एतयोरपि द्वताभिधानार्थत्वात् कुमारस्यैवोच्चारणमिति ।
ततो ऽजयाभ्यातानान् राष्ट्रभृतऽइति सामान्यविधिप्रसिद्धमेवाचार्यो जयदि प्रतिपद्यते ।
ततश्च अग्निर्भूतानामधिपरिस्समावतुऽइत्यादीनां प्रत्यगाशिषामपि वाचनं न भवति ।
नैव च हावनम्
11 उपनेतुः कूर्च उपवेशः ।
परिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्च निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.7:
उत्तरेण यजुषा राष्ट्रभृदसीत्येन ।
परिषेचनान्तवचनमानन्तर्यार्थम् ।
केचित् सावित्रं नाम व्रतमस्मिन् काल उपाकुर्वन्ति केचित् त्रिरात्रान्ते सावित्रीमनुब्रुवते ।
तदुभयमप्यनिष्टमाचार्यस्य ।
निधायेति वचनादाचार्य एव निधाने कर्ता, न माणवकः ।
अधिकारादेव सिद्धे उपनेतेति वचनमुत्तरार्थम् ।
पुरस्तात् प्रत्यङ्ङासीन इत्यत्र उपनेतुः पुरस्तात् यथा स्यात् अग्नेः पिरस्तात् मा भूत् इति ।
तथा दक्षिणेन पाणिना दक्षिणं पादमित्यत्रोपनेतुः पादो न माणवकस्य
आप्ग्स्-तात्_11.7:
कूर्च दर्भमयामासनम् ।
उत्तरेण यजुषा ऽराष्ट्रभृदसिऽइत्यनेन ।
उपनेता आचार्यः ।
शेषं व्यक्तम्
12 गायत्र्युपदेशार्थ कुमारेणाचार्यप्रार्थनम् ।
पुरस्तात् प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह ऽसावित्रीं भो अनुब्रूहिऽइति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.8:
दर्भेष्वासीन इति गृह्मान्तरे ।
दक्षिणेनेति वचनमुभाभ्यामेवोभावित्ययं पक्षो ऽत्र मा भूदिति ।
तेन सकुष्ठिकमुपसंगृह्णीया दित्ययं विशेषः प्रवर्तते
आप्ग्स्-तात्_11.8:
उपनेतुः पुरस्तात् प्रयङ्मुखः आसीनः कुमारो दक्षिणेन पाणिना उपनेतुर्दक्षिणं पादं अन्वारभ्य उपसंगृह्य ऽ सावित्रीं भो ।
अनुब्रूहिऽ इति प्रार्थयते
13 गायत्र्युपदेशः
तस्मा अन्वाह ऽतत्सवितुऽरिति ॥ आ
पच्छोर्र्ऽधचशस्ततस्सर्वाम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.10:
तस्मा इति वचनात् कुमारस्य ग्रहणार्थमनुवचनम् ।
तेन त्रिष्वपि वचनेषु कुमारस्यानुग्रहणं भवति ।
अनुशब्दो ऽनुग्रह- द्योतनार्थः ।
अनुग्रहेणाह अन्वाहेति ।
तेन यद्यसमर्थः कुमारः तावत् वक्तुं ततो यथाशक्ति वाचयति ।
स्वयं विधिवत् पूर्वमुक्त्वा प्रथमं पच्छः पादेपादे ऽवसानम् ।
द्वितीयमर्र्धचशः, ततस्सर्वामन्वाहेति ।
उत्तरमिति वक्तव्यं तत्सवितुरिति निर्देशः सावित्रीप्रदेशोषु सावित्र्या समित्सहस्रमादध्या(आप.ध.1-27-1)दित्यादिषु अस्या एव ग्रहणं यथा स्यात् ।
यस्याः कस्याश्चित् सवितृदेवत्याया मा भूदित्येवमर्थम् ।
तत इति वचनादेतावदेवास्मिन्नहन्यनुवचनम् ।
एतैर्वचनैरग्रहणे कालान्तरे ऽध्यापनम्
आप्ग्स्-तात्_11.10:
तस्मै कुमाराय ग्रहणार्थ ऽतत्सवितुर्वरेण्यम्ऽइत्येतामृचमाचार्यो ऽन्वाह ।
तत्रच सवितृदेवत्यामृचमनुब्रूहीत्यविशेषेण प्रार्थना यां कृतायामपि योयं ऽतत्सवितुरित्यन्वाहऽइति नियमः स ज्ञापयति-धेनुपङ्कजादिशब्दवत् सावित्रीशब्दस्य यौगिकस्यापि ऽतत्सवितुर्वरेण्यम्ऽ; इत्यस्यामेव प्रयोगो नियतः, न तु ऽआसत्येन रजसाऽइत्यादिष्वपीति ।
ततश्च धर्मशास्त्रे ऽसावित्रीं प्राणायामशःऽ(आप.घ.1-26-15) सावित्र्या समित्सहस्रमादध्यात्ऽ(आप.ध.1-27-1) इत्यादिष्वस्या एवर्चस्सम्प्रत्ययो नान्यस्या अपीति
खथमन्वाह? इत्यत्राह--
पच्छः पादे पादे अवसाय ।
अर्र्धचशः अर्र्धचे अवसाय ।
ततः सर्वा समस्तां अनवसानामित्यर्थः ।
अत्र च सर्वानुवचनस्यादृष्टार्थत्वात्, ग्रहीतुमसमर्थस्यामि कुमारस्य सर्वा निगद्यते
अथ तस्मिन्नेवानुवचने विशेषमाह-
व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्र्धचयोरुत्तमां कृत्स्नायाम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.11:
तत्रावानुवचने विशेषः प्रथमे वचने पादानां त्रयाणां आदिष्वन्तेषु वा तिस्त्रो व्याहृतयः क्रमेण वक्तव्याः
द्वितीय वचने अर्र्धचयोरादितः अन्ततो वा द्वे व्याहृती क्रमेण वक्तव्ये ।
तत उत्तमा शिष्यते सुवरिति ।
ता मुत्तमां कृत्सनायां वचने ऽनुब्रूयादिति ।
तत्र प्रयोगः -प्रणवो ऽग्रे वक्तव्यः ।
"ओंकारः स्वगीद्वारम्, तस्मात् ब्रह्माध्येष्यमाणःऽ(आप-ध-1-13-6) इति वचनात् ।
ओंभूः तत्सवितुर्वरेण्यम् ।
ओंभुवः भर्गो देवस्य धीमहि ।
ओंसुवः धियो यो नः प्रचोदयात् ।
ओंभूः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
ओंभुवः धियो यो नः प्रचोदयात् ।
ओंसिवः तत्सवितुर्वेण्यं भर्गो देवस्य धामहि धियो यो नः प्रचोदयात् ॥
आप्ग्स्-तात्_11.11:
विहृताः व्याहृतीः त्रिष्वपि पादादिष्वेकैकामन्वाह ।
अथवा पादानामन्तेषु ।
तथार्र्धचे ऽवसाय प्रयोगे ऽपि प्रत्यर्र्धचमादावन्ते वैवैकामन्वाह ।
अविशिष्टां तूत्तमां व्याहृतिं कृत्स्नाया मादावन्तेवा ।
कृत्स्नायामिति षष्ठ्यार्थपाठः ।
प्रयोगस्तु-प्रथमं प्रणवमन्वाह;ओमिति ब्राह्मणः प्रवक्ष्यन्नाह (तै.उ-1-8) इति श्रुतेः, ऽओंकारस्स्वर्गद्वारं तस्माद्ब्रह्माध्येष्यमाण एतदादि प्रतिपद्येतऽ(1.136) इति धर्मशास्त्रवचनाच्च ।
ओं भूः तत्सवितुर्वरेण्यम् ।
ओं भूः भर्गो देवस्य धीमहि ।
ओंसुवः धियो यो नः प्रचोदयात् ॥
ओंभुवः तत्सविदुर्वरेण्यं भर्गो देवस्य धीमहि ।
ओंभुवः धियो यो नः प्रचोदयात् ॥
ओंसुवः तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयात् ऽ; ।
अन्तेषु वेति पक्षे प्रयोगः-ऽओं तत्सवितुर्वरेण्यं भूः ।
ओं भर्गो देवस्य धीमहि भुवः ।
ओं धियो यो नः प्रचोदयात् सुवः ॥
ओं तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि भूः ।
ओंधियो यो नः प्रचोदयात् भुवः ॥
ओंतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् सुवः ऽइति
कुमार उत्तरेण मन्त्रेणोत्तरमोष्ठमुपस्पृशते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.12:
अथ तत्रैवासीनः कुमारः उत्तरेण मन्त्रेण ऽवृधमसौ सोभ्येऽत्यनेन स्वय मुत्तरमोष्ठमुपस्पृशते ।
अप उपस्पृशति ।
ओष्ठयो र्द्वित्वात् उत्तरमिति विशेषणम् ।
मन्त्रग्रहणमुत्तरशब्दस्य दिग्वाचिताशङ्का मा भूदित्येवमर्थम् ।
मन्त्रे असावित्यनेन प्राणो ऽभिधीयते नाचार्यो नापि माणवकः ।
तेन नामनिर्देशो न कर्त्तव्यः
आप्ग्स्-तात्_11.12:
आचार्यवाचितेन ऽअवृधमसौ सौम्यऽइत्यनेन मन्त्रेण कुमारः स्वीयत्तमोष्ठ मुपस्पृशति ।
छान्दसमात्मनेपदम् ।
असावि- त्यत्र च नास्ति नामग्रहणम्, प्राणाभिधानत्वात् ।
ऽश्यावान्तपर्यन्तावोष्ठावुपस्पृश्याचामेत् ऽ(आप.ध.1-16-10.) इति वचनात्
आचमनं तु कर्तव्यम्
कर्णावुत्तरेण ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.13:
उत्तरेण मन्त्रेण"ब्रह्मण आणी स्थ"इत्यनेन ।
सकृन्मन्त्रः ।
कर्णाविति द्विवचनयोगात् क्रमेणोपस्पर्शनम्
आप्ग्स्-तात्_11.13:
स एव युगपद्धस्तद्वयेन स्वीयौ कर्णौ स्पृशति ।
उत्तरेण ऽब्रह्मण आणी स्थःऽइति द्विवचनलिङ्गेन
14 दण्डग्रहणम् ।
दण्डमुत्तरेणाऽदत्ते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.14:
उत्तरेण मन्त्रेण ऽसुश्रवस्सुश्रवसऽमित्यनेन
आप्ग्स्-तात्_11.14:
उत्तरेण ऽसुश्रवःऽइत्यनेन
अथ वर्णक्रमेण त्रिभिस्सूत्रैर्दण्डानां गुणविधिमाह--
15 वर्णविशेषपुरस्कारेण दण्डविशेषविधानम् ।
पालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजो ऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.15:
राजन्यवैश्ययोः विशेषविधानादेव सिद्धे ब्राह्मणग्रहणं अयमपि विधिर्र्वणसंयुक्तौ यथा स्यादिति ।
तेन ऽवार्क्षो दण्डऽइत्ययं विकल्पो ब्राह्मणस्यापि भवति ।
इतरथा राजन्यवैश्ययोरेव स्यात् तयोरेव वर्णसंयुक्तं विधानमिति कृत्वा
न्यग्रोधस्य विकारो नैय्यग्रोधः ।
स्कन्धे जातः स्कन्धजः ।
अवाचीनाग्रः अवाङग्रः ।
ङ्कारपाठश्छान्दसः
बदर्या विकारो बादरः वृक्षप्रकरमात् उदुम्बरो वृक्षः, न ताम्रम्
आप्ग्स्-तात्_11.15:
पालाशः पलाशवृक्षस्य विकारः ।
एवमुत्तरेष्वपि विग्रहः ।
स्कन्धे जातः स्कन्धजः ।
अवाङ्ग्रः अवाचीनमग्रं यस्य दण्डस्य
वार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.16:
वृक्षस्य विकारो वार्क्षः ।
यज्ञियस्य वृक्षस्य इति कल्पान्तरे ।
पूर्वो विधिर्र्वणसंयुक्तः, अयं तु सर्वसाधारणो न केनचित्
वर्णविशेषेण संयुज्यते ।
अत्र च सामयाचारिक एव दण्डविधिस्सर्वचरणार्थः सन्निहानूद्यते नैय्यग्रोधादिषु मन्त्रप्रापणार्थम् ।
अन्यथा पालाशस्यैव मन्त्रेणादानं स्यात् तूष्णीमन्येषाम् ।
ऽसुश्रवःऽइत्यस्य पालाशाभिधानत्वात् ।
"देवा वै ब्रह्मन्नवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नामेति"(तै.सं.35-7) वार्क्षो दण्ड इत्वेतावतैव सिद्धे अवर्णसंयोगेनेति वचने कल्पान्तरयोरसंभेददर्शनार्थम्-यदि वर्णसंयुक्तः कल्पः प्रक्रान्तः स एवासमावर्तनात् कर्तव्य इति
आप्ग्स्-तात्_11.16:
वार्क्षः वृक्षस्य माज्ञियस्य विकारः, न तु वेणुवेत्रादेः ।
अवर्णसंयोगेन सर्ववर्णानामविशेषेणेत्योक उपदिशन्ति ।
अत्र यद्यपि ऽतत् पर्ण उपाश्रृणोत्सुश्रवा वै नामऽ(तै.सं.3-5-7) इत्यर्थवादेन मन्त्रस्थसुश्रवश्शब्दस्य पालाशाभिधानलिङ्गत्वात् अनेन मन्त्रेण नैय्यग्रोधादिदण्डानामप्युपादने लिङ्गविरोधः तथापि ऽदण्डमुत्तरेणादत्तेऽइति श्रुतिप्राबल्यात् लिङ्गं बाधित्वानेनैव सर्वदण्डानामुपादानम् ।
धर्मशास्त्रे ऽपालासो दण्डो ब्राह्मणस्यऽ(आप.ध.1.2.38)इत्यादि पुनर्विधानं च ऽत्रैविद्यकं ब्रह्मचर्य चरेत्ऽ; (आप.ध.1.1.28) इत्युपनयनकालातिपत्तिप्रायश्चित्तानुष्ठाने ऽपि तत्तद्वर्णेन तत्तद्दण्डधारणार्थम् ।
केचित् -तत्रैव सर्वचरणार्थ विहितानां दण्डानां गृह्ये ऽनुवादः सर्वेषामुपादाने ऽपि श्रुत्यैतन्मन्त्रविधानार्थ इति
16 स्मृतवाचनादि, आदित्योपस्थानं च ।
स्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.17:
अथ दण्डमादाय तत्रैवासीनः कुमारः स्मृतञ्च म इत्येतत् व्रतसंकीर्तनमाह ।
ततो गुरवे वरं ददाति ।
तत उदायुषेति मन्त्रेणोत्तिष्ठेत् उत्तरैर्मन्त्रैरादित्यमुपतिष्ठते ऽ तच्छक्षुऽरित्यादिभिः ऽसूर्य दृशेऽइत्यवमन्तैः ।
व्रतसंकीर्तनादि पदार्थचतुष्टयस्य कुमार एव कर्ता ।
हेत्वभिधानं तूभयत्राविवक्षितं-वाचयित्वोत्थाप्येति च ।
विवक्षिते तु तस्मिन् वरदाने उपस्थाने चाऽचार्य एव कर्ता स्यात् ।
तस्मादर्थप्राप्तस्य हेतुव्यापारस्यानुवादः
आप्ग्स्-तात्_11.17:
अथाचार्यः ऽस्मतं च मेऽइत्येतन्मन्त्रजातं कुमारं वाचयति ।
तत्राष्टौ मन्त्रास्समानोदर्कअश्शेषो नवमः ।
तेषां प्रत्यगाशिष्ट्वादेव वाचने प्राप्ते वाचयित्वेति पुनर्वचनं वाचनवरदानयोः नैरन्तर्यार्थम् ।
अथ गुरवे आचार्याय कुमारो वरं गां ऽगुरो!वरं ते ददामिऽइति ददाति ।
अग्न्याधाने ऽगौर्वै वरःऽ(आप.श्रौ.4-11-4) इत्युक्तत्वात् ।
आचार्यस्तु सप्तदशकृत्वो ऽपान्य होतॄणां दशमानुवाकस्य ऽदेवस्य वाऽ; इत्यादित आरभ्य ऽदेवि दक्षिणेऽइत्येवमन्तमुक्त्वा ऽरुद्राय गां तेनामृतत्वमश्याम्ऽइत्यादि सन्धाय ऽउत्तानस्त्वाङ्गीरसः प्रतिगृह्णातुऽ(तै.आ.3-10) इत्येवमन्तेन श्रौतवत् प्रतिगृह्णाति;उपनयनं विद्यार्थस्य श्रुतितस्संस्कारःऽ(आप.ध.1-1 -9)
इति धर्मशास्त्रवचनात् ।
ततः कुमारं ऽउदायुषाऽइत्युत्थाप्य इदं च वाचयति ।
अथ कुमारः ऽतच्चक्षुर्देव हितम्ऽइत्यादिभिराचार्यवाचितैर्दशभिर्मन्त्रैरादित्यमुपतिष्ठते ।
अत्र वाचयित्वेत्यादेः क्त्वाप्रत्ययस्य, क्रियाविधानमात्रे तात्पर्य, न तु समानकर्तृकत्वे ऽपि ।
ज्ञापितं चैत् ऽयोक्त्रं विमुच्य तां ततः प्र वा वाहयेत्ऽ(आप.गृ.5-13) इत्यत्र अथवा व्यवधानेन सम्बन्धः;आचार्यस्स्मृतादि वाचयित्वा ऽउदायुषाऽइत्युत्थाप्य ऽयं कामयेतऽइत्यादि कुर्यात् ।
कुमारस्तु गुरवे वरं दत्वोत्तरैरादित्यमुपतिष्ठते ।
केचित्-स्मृतसङ्कीर्तनादि पदार्थचतुष्टयमपि कुमारकर्तृकम् ।
वाचयित्वोत्थाप्येति तु णिजर्थो हे तुरविवक्षितःऽअन्यथा त्वसमानकर्तृकत्वात् वरदानमुपस्थानं चाचार्यकर्तृकं स्यात् तथा गुरुग्रहणं चौलादौ ब्रह्मणे वरदानार्थमिति
अथ काम्यमाह--
17 उपनयने काम्यविधिः ।
यं कामयेत नायम (यं म) च्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.18:
यं किमारं उपनेती कामयेत गुरुः, किमिति?अयं मत्तो न छिद्येत न वियुज्येत मदधीन एव सायादासमावर्थनादिति तमेतस्मिन् काले दक्षिणे हस्ते गृह्णीयात् उत्तरयर्चा ऽयस्मिन् भूतमिऽत्येतया ।
नामनिर्देशः सबुध्या ।
काम्यो ऽयं विधिः न नित्यः ।
एतदेव ज्ञापकमासमावर्तनात् नोपनेतुरेव समीपे वर्तितव्यमिति
आप्ग्स्-तात्_11.18:
यं कुमारं अयमासमावर्तनान्मत्तो न च्छिद्येन न वियुच्येतेति कामयेत, तमुत्तरया ऽयस्मिम् भूतम्ऽइत्यनयर्चा सम्बुध्द्या च नाम गृहीत्वा दक्षिणे हस्ते गृह्णीयात् यद्यमाचार्यश्चतुर्वेदी सर्वशास्त्रवित् अध्यापयितुं व्याख्यातुं च शक्नोति
त्र्यहमेतमग्निं धारयन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.19:
एतमुपनयनाग्निं व्यहं धारयन्ति अविनाशिनं कुर्वन्ति पित्रादयः
आप्ग्स्-तात्_11.19:
स्पष्टमेतत्
18 ब्रह्मचर्यनियमविधिः ।
क्षारलवणवर्जनं च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.20:
क्षारलवणयोर्र्वजनं भवति भोजने त्र्यहम् ।
अस्य ब्रह्मचारिणः सामयाचारिकः प्रतिषेधः सार्वकालिकः ।
अयं तु त्र्यहसम्बन्धः ।
तयोर्विकल्पः ।
मध्वादिप्रतिषेधस्तु सामयाचारिको नित्यमेव भवति
आप्ग्स्-तात्_11.20:
त्र्यहं क्षारलवणयोर्र्वजनं च भवति ।
अत्र च त्र्यहमिति नियमाद्धर्मशास्त्रे ऽयथा क्षारलवणमधुमांसानिऽ(आप.1-4-6) ऽइत्यनेन क्षारलवणयोर्द्वयोर्निषेधः ।
त्र्यहादूर्ध्व पाक्षिकः मध्वादेस्तु नित्यएव
19 समिदाधानम् ।
परि त्वे ति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.21:
तमुपनयनाग्निं ऽपरि त्वे ऽत्यनेन मन्त्रेण परिमृज्य सर्वतो मार्जमुदकेन कृत्वा उत्तरैर्मन्त्रैः ऽअग्नये समिधऽमित्यादिभिः द्वादशभिः प्रतिमन्त्रं समिधो नित्यमादध्यात् ब्रह्मचारी ।
ऽसायं प्रातऽ(आप.ध.14-16) रिति विशेषः सामयाचारिकः प्रत्येतव्यः ।
ऽसायमेवाग्निपूजेत्येकेऽ(आप.ध.1-4-17) इति च ।
अयं तूपदेशो ऽस्मिन् काले प्रारम्भार्थः ।
तेन प्रातरुपक्रमं समिदाधानं सायमपवर्गम्
पक्षान्तरे सायमेवोपक्रमः, नान्यस्मिन् काले ।
तत्र यथाकामी प्रक्रमेत ।
अधिकारादेव सिद्धे तस्मिन्निति वचनं त्र्यहादूर्द्वमपि तस्मिनुपनयनाग्नावेव समिदाधानं यथा स्यादिति ।
तेन नित्यधारणमप्यस्य विकल्पेन साधितं भवति ।
व्याहृतिभिरप्यन्ते चतस्रस्समिध आदधाति ।
तत्त्प्रायश्चित्तत्वेन द्रष्टव्यम्, कल्पान्तरदर्शनाच्च ।
ऽयत्ते अग्ने तेजःऽइत्यादिभिरुपस्थानं समाचाराद्भसित दारणम्
आप्ग्स्-तात्_11.21:
ऽपरित्वाग्नेऽइत्यग्निं परिमृज्य परिसमूह्य, तस्मिन् उपनयनाग्नौ यावद्धारण मुत्तरैर्मन्त्रै र्द्वअदशभिःल ऽअग्नये समिधमाहार्षऽइत्यादिभिः प्रतिमन्त्रमेकैकां समिधमादध्यात् ।
पुनश्चान्ते तूष्णीं परिसमूहनम् ।
अनन्तरमुभयस्तूर्ष्णीं समन्तं परिषेचनं, स्मृत्यन्तरात्
आचाराच्च ।
एतच्च समिदाधानं पूर्व काष्ठैरग्निमिद्ध्वा कार्यम्;धर्मशास्त्रे ऽअग्निमिद्ध्वा परिसमूह्य समिध आदध्यात्ऽ(आप.ध.1-4 -16)
इति वचनात् ।
परिसमबहनस्य ऽपरित्वेति परिमृज्यऽइति विधिः ।
तथा धर्मशास्त्रे तु ऽसमिद्धमग्निं पाणिना परिसमूहेन्न समूहन्याऽ; (आप.ध.1-4-18) इति गुणार्थो ऽनुवादः
एवमग्निपूजापरशब्दं समिदाधानं सविधिकमभिधाय, इदानीं तसेयैवाधिकारसम्बन्धं गुणान्तरं चाह--
एवमन्यस्मिन्नपि सदाऽरण्यादेधानाहृत्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.22:
यथास्योपनयनाग्नेः नित्यधारणपक्षे समिधादानं नित्यत्वेन चेदितं, एवं त्र्यहं धारणपक्षे त्र्यहादूर्ध्व अन्यस्मिन्नप्य ग्नाविदं कर्म कर्तव्यमित्यर्थः
अरण्यग्रहणात् ग्राम्याणां फलवतां वृक्षाणां प्रतिष्धः ।
आहृत्येति वचनात् इन्यैराहृतानां प्रतिषेधः ।
एधाः काष्ठानि ।
एधग्रहणम् अग्नेराहरणशङ्कानिवृत्यर्थम् ।
सामयाचारिकेषु विधिः गुर्र्वथ ब्रह्मचारिणस्समिदाहररणं विधत्ते ।
इदं त्वात्मार्थम्
आप्ग्स्-तात्_11.22:
एवमुक्तेन विधिना सदा उपनयनप्रभृत्यासमावर्तनात् अहरहस्सायं प्रातः, सायमेव वा समिदाधानं कर्तव्यम् ।
एतच्च त्र्यहा दूर्ध्वमन्यस्मिन्नपि लौकिके ऽग्नौ भवति ।
न तूपनयनाग्निर्नष्ट इति नित्यस्य समिदाधानस्य लोपः ।
समिधश्चारण्यादेवाहृत्याधायाः ।
यच्च धर्मशास्त्रे ऽसायं प्रातर्यथोपदेशम्ऽइति ऽसायमेवाग्निपूजेत्येकेऽ(आप.ध.1-4-16,17) इति स विकल्पविध्यर्थो ऽनुवादः ।
केचित्-नित्यस्य समस्समिदाधानस्य अत्रोपदेशो ऽस्मिन् काले प्रारम्भार्थः ।
ततश्चेदं प्रातरुपक्रमं सायमपवर्गम् ।
सायमेवेति पक्षे तु सायमेवोपक्रमो नान्यत्र ।
तत्र यथाकामी प्रक्रमेत ।
तथा तस्मिन्नन्यस्मिन्नपीत्यारम्भात् उपनयनाग्नेस्त्र्यहादूर्ध्वमपि विकल्पेन धारणं, तत्रैव समिदाधानं चेति
उत्तरया संशास्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.23:
अथं तं उत्तरयर्चा ऽब्रह्मचार्यसीऽत्येतया संशास्ति गुरुः संश्क्षयतीत्यर्थः यथापाठामृचा संशासनं अर्त च कथयति ।
ब्रह्मचार्यसि ब्रह्मचर्याश्रमं प्राप्तो ऽसि ।
तस्मात् कामचारवादभक्षो मा भूः ।
बाढमिति प्रतिवचनम् ।
अपो ऽशान, मयाननुज्ञातः
अप एवाशान, नान्यते ।
पूर्ववत् प्रतिवचनं सर्वत्रा कर्म कुरु गुरुशुश्रूषणादि ।
मा सुषुप्थाः दिवा स्वापप्रतिषेधः ।
"दिवा मा स्वाप्सी (आश्व.गृ.1-22-2) तिर्येवाश्वलायनः ।
अपर आह-अथ यः पूर्वोत्थायी जघन्यसंवेशी तमाहुर्न स्वपितीति ।
एवं विधो ऽत्र स्वापाभाव इति ।
भ्क्षाचर्य चरेति नियमेन भैक्षविधिः ।
आचार्याधीनो भव मातापित्रोरपि वशं त्यक्त्वा आचार्यवशे वर्तस्वेत्यर्थः ।
संशासनानन्तरं भिक्षाचरणम् ।
अत्र बोधायनः-"अथास्मा अरिक्तं पात्रं प्रयच्छात्राह मातरमेवाग्रे भिक्षस्वेति" ।
(भौ.गृ.2-7)
आश्वलायनस्तु-"अप्रत्याख्यायिनमग्रे भिक्षेताप्रत्याख्यायिनीं वा"(आश्व.गृ.1-22-7) इति
आप्ग्स्-तात्_11.23:
ऽब्रह्मचार्यसिऽइत्यनया कुमारं संशास्ति शिक्षयति ।
अथ सशासनार्थज्ञापनाय मन्त्रार्थ उत्यते ।
ब्रह्मचार्यसि कामचारवा- दभक्षो माभूः ।
अपो ऽशान मयानुज्ञातो ऽप एव पिब, वभुक्षां तु धारय ।
कर्मकुरु, अस्मदर्थ कर्म मयानुक्तो ऽपि कुरु, मा सुषुप्थाः पूर्वोत्थायी जघन्यसंवेशी भूयाः, ऽतामाहुर्न स्वपितिऽ(आप.1-4-28) इत्युक्तत्वात्, मा दिवा स्वाष्सीरिति वा ।
भिक्षाचर्य चर, निमन्त्रणादिना भुञ्जानो ऽप्यस्मदर्थ भैक्षमाचर ।
आचार्याधीनो भव, मयाननुज्ञातो याजनादिकर्म मा कार्षीरिति ।
अत्र चासीतिछान्दसो लकारः, सुषुप्था इति रूप च ।
संशासनेषु च सर्वेषु कुमारो बाढम्ऽ ऽएवं करोमिऽइति प्रतिवचनं दाप्यः ।
संशासनान्ते च भिक्षाचरणम् ।
अथास्मा अरिक्तं पात्रं प्रयच्छन्नाह-मातरमेवाग्रे भिक्षस्वेति (बौ.गृ.2-5-40) इति बौधायनगृह्यात् ।
20 पालाशकर्म ।
वासश्चतुर्थीमुत्तरयाऽदत्ते ऽन्यत् परिधाप्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.24:
अथ त्रिरात्रे निवृत्ते चतुर्था रात्रिं सप्तम्यर्थेद्वितीया ।
चतुर्थ्यामित्यर्थः ।
तत्र किम्? यद्वासः कुमारस्य धार्य सद्यःकृत्तोतं परिधापितं तदाचार्य आदत्ते उत्तरयर्चा "यस्य ते प्रथमवास्य"मित्येतया ।
अन्यद्वासः परिधाय ।
त्र्यहे तु तस्मिन्नियमेन सद्यःकृत्तोतमेव ।
चतुर्थीमित्यत्र न रात्रिर्विवक्षिता ।
किं तर्हि?अहोरात्रसमुदायः ।
तत्राहन्यवादानं वाससः ऽउदगयनपूर्वपक्षाहःऽइति नियमात् ।
मेखलामजिनं दण्डमुपवीतं कमण्डलुम् ।
अप्सु प्रास्य विनष्टानि धार्याण्यन्यानि मन्त्रवत्
आप्ग्स्-तात्_11.24:
छतुर्थीमिति सप्तम्यर्थे द्वितीया ।
चतुर्थ्या रात्रौ चतुर्थाहोरात्रे अहन्येव ऽउदगयनपूर्वपक्षाहःऽ(आप.गृ.1-2) इति नियमात् ।
वासः
उपनयनकाले यत्परिधापितं तदाचार्यः सप्तशकृत्वो ऽपान्य ऽयस्य ते प्रथमवास्यम्ऽइत्यनयैव स्वीकरोति, न तु सावित्रेण;अत्र विशेषविधेर्बलीयस्त्वात् ।
उपदेशमतं तु ऽदेवा वै वरुणमयाजयन्, (तै.ब्रा.2-2-5) इति लिङ्गादयज्ञेषु न प्रतिग्रहविधिरिति ।
एतच्चान्यद्वासः कुमारं परिधाप्यैव कर्तव्यम् ।
स तु ऽगुरो वासस्ते ददामि, इति दद्यात् ।
एतच्चत्र्यहं मन्त्रवत्परिहितमेव वासः परिधेयम् ।
आपस्तम्बमत्या एतदन्तमुपनयनम्
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0