आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 32
आप्ग्स्-तात्_11.1:
व्यक्तम्
प्रष्टं परस्य प्रतिवचनं कुमारस्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_11.2:
ऽको नामासीऽत्येवमादयः चत्वारो मन्त्राः पृष्टप्रतिवचनार्थाः ।
तत्र यत्र पृष्टं तत आरभ्य कर्म्चार्स्येत्यर्थः ।
प्रष्टमिति संप्रसा रणाभावश्छान्दसः, अपपाठो वा ।
यत् प्रतिवचनं तत् कुमारस्य ।
असौशब्देषु नाम निर्दिशति कुमारः प्रथमया ।
आचार्यः संबुध्या कुमारस्य नाम ।
तत्र को नामासीत्याचार्यः ।
यज्ञशर्मनामास्मीति कुमारः ।
कस्य ब्रह्मचार्यसि श्रीयज्ञशर्मन् इत्याचार्यः, प्राणस्य ब्रह्मचार्यस्मि यज्ञशर्मेति कुमारः ।
आहेत्यनुवृत्तेरुच्चैः प्रयोगः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0