भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 34

34.1

अथ पालाशकर्मभाष्यं लिख्यते-
केचित् स्मृत्यन्तरोपसंहारेण पलाशवृक्षसमीपे पालाशं कर्म कुर्वते समानम् ।
अन्येषां च श्रद्धधानानां हितार्थ पालाशकर्मणो विधिरुच्यते-त्रीण्यहानि प्रत्यहमाममैक्षमाचरेत् ।
चतुर्थऽहन्यन्नसंस्कारेण संस्कृत्याचार्येण सह प्राचीमूदीचीं वा दिशमुपनिष्क्रम्य पूर्वेणोत्तरेण वा पलाशवृक्षं त्रीण्युदगपवर्गाणि स्थण्डिलानि कल्पयित्वा तेषु यथाक्रमं प्रत्यङ्मुखः प्रणवश्रद्धामेधाभ्योर्ऽघ्यपाद्याचमनस्नानवस्त्रगन्धमाल्यधूपदीपबलींश्च दत्वाथोपतिष्ठते ।
ऽयश्छन्ददसाम्ऽइत्यनेन ऽश्रुतं मे गोपायऽ(तै.उ.1-4) इत्यन्तेन प्रणवम् ।
ऽश्रद्धयाग्निः समिध्यतेऽ(तै.ब्रा.2-8-8) इति सूक्तेन श्रद्धाम् ।
ऽमेधा देवीऽ(तै.उ.4-41) इत्यनुवाकेन मेधाम् ।
ततः पलाशमूले दण्डं विसृज्य अन्यदण्डमादाय सहाचार्यो गृहमागच्छतीति ॥
चतुर्थे पटलेपीत्थं यथाभाष्यं यथामति ।
कृतं सुदर्शनार्येण गृह्यतातपर्यदर्शनम् ॥
सुबद्धं दुर्लभं भाष्यं भाष्यार्थश्च सुदुर्ग्रहः ।
अतो ऽनुकम्ब्या विद्वद्भिः मन्दबुद्धिश्रुता वयम् ॥
इति श्रूसुदर्शनाचार्यकृतौ गृह्यसूत्रतात्पर्यदर्शने एकादशः खण्डः ॥
समाप्तश्चतुर्थः पटलः ॥
====================================================================================
अथोपाकर्मोत्सर्जनपटलः
7 उपाकर्मोत्सर्जनप्रकरणम् -
1 उपाकर्मकालविधानम् ।
अथात उपाकरणोत्सर्जने व्याख्यास्यामः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc