आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 3
आप्ग्स्-तात्_2.1:
येन पात्रेण दर्व्या स्रुवेणाञ्जलिना वा जुहोति तदग्नौ प्रतितप्येत्यादि व्यक्तार्थम् ।
दर्व्याश्च होमपात्रत्वं ऽदर्व्यामाधायाज्येनाभ्यानायन्ऽ(आप.गृ.12-9) इत्यन्यपरे वाक्ये सिद्धवद्दर्शनात्, आचाराच्च ।
बोधायनेनतु ऽनिऋतिगृहीता दर्वीऽइति
दर्वीनिन्दा स्नुवविधानार्था, न तु दर्व्या निषेधार्था ।
अतो दर्वीस्नुवयोर्विकल्पः ।
तत्र केवलाज्यहोमेषु एकैव दर्वी स्रुवो वा, उपस्तरणाद्यभावात् ।
चर्वादिहोमेषु तु द्वे दर्व्यौ स्रुवौ वा उपस्तरणाद्यर्थ होमार्थ च ।
उपस्तरणाद्यर्थस्यापि संस्कारः, उपस्तरणादि प्रदानान्तस्य होमपदार्थत्वात्, श्रौते स्रुवस्यापि संस्कारदर्शनात्, आचाराच्च ।
दर्व्यादीनां त्रयाणां तन्त्रवद्धोमेष्वेव संस्कारः, अतन्त्रकेषु तन्त्रान्तर्गतधर्मानुपपत्ते- ।
तेन ऽअनुगतो ऽपि वोत्तरया जुहुयात्ऽ(आप.गृ.5-20)ऽसर्षपान् फलीकरणमिश्रान्ऽ(आप.गृ.15-6) इत्यादिषु न दर्व्यादीनां संस्कार- ।
अत्राग्नौ प्रतितप्याग्नौ प्रहरतीत्यर्थस्द्धाग्निग्रहणमेवनामायं कृत्स्नविधिरिति ज्ञापयितुम् ।
तेन ऽस्रुवमग्रेऽ(तै.ब्रा.3.3-1)
इत्याद्यैष्टिकस्रुक्संमार्जनधर्माणामिहानुपपत्तिप्रसङ्ग एव ।
केचित्-आग्नौ प्रतितप्याग्नौ प्रहरतीति प्रयोजनान्तरशून्यादग्निग्रहणादैष्टिकस्रुक्सम्मार्गधर्मा इहापि भवन्तीति ।
प्रतितपनं त्वस्मिन्नेवाग्नौ ।
इह च सम्मार्गदर्भाणामग्नावेव प्रहरणम्, न पुनर्वैकल्पिकम् ।
तथा ऽयेन जुहोतीऽत्यत्र सामान्यवचनम्
ऽमध्यमेनान्तमेन वा पलाशपर्णेनऽ(आप.गृ.22-4) इत्याद्यतन्त्रके ऽपि कर्मणि आग्निहोत्रिके च विधौ होमार्थपात्रस्यापि संस्कारो यथा स्यादित्येवमर्थम् ।
अञ्जलेस्त्वपूपहोमे अवदानप्राप्त्यर्थेम ऽपार्वणवत्"(आप.गृ.22-1) इति यन्तेनाञ्जलिहोमा अपूर्वा यावदुक्तधर्माण इति
ज्ञापनान्न संस्कार इति
शम्याः परिध्यर्थे विवाहोपनयसमावर्तनसीमन्तचौलगोदानप्रायश्चित्तेषु ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.2:
अथ परिधीन् परिदधाति ।
दर्शपूर्णमासवत्सर्व तूष्णीं तत आधारसमिधौ ।
कुत एतत्?प्रसिद्धवदभ्यानुज्ञानाच्छम्याः परिध्यर्थ इति परिध्यर्थे परिधिकार्य इत्यर्थ- ।
शम्याः लोकप्रसिद्धाः युरप्रान्तयोः छिद्रैषु कीलरूपाः काष्ठाविशेषा- ।
तासां सहेध्मेन सन्नहनम् ।
प्रायश्चित्तं अद्भुतोत्पातप्रायश्चित्तम् ।
विवाहे च हृदयसंसर्गार्थे सर्वत्र शम्याः ।
विवाहादिभ्यो ऽन्यत्र सर्वत्र पार्वणादिषु परिधय एव ।
चौलग्रहणमनर्थकं सीमन्तातिदेशात् सिद्धम् ।
ज्ञापकार्थन्तु, एतत् ज्ञापयति-विवाहादिष्विह संकीर्त्तेष्वेव सम्याः, न तैरतिदिष्टेषु इति ।
तेन सीमन्तादतिदिष्टे पुंसवने परिधय एव ।
पार्वणादिषु च पक्कहोमेषु तथा"एवमत ऊर्ध्व"मिति वैवाहिकेन स्थालीपाकादिति दर्शनात् प्रसङ्गः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0