भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 4

4.2

आप्ग्स्-तात्_2.2:
विवाहादिषु कर्मसु परिध्यर्थे परिधानां कार्ये परिधीनां स्थान इति यावत्, शम्याः युगकीलका भवन्ति ।
ताश्च पलाशादीनामन्यतमेन कॢप्ताः परिधिस्थौल्यायामाः, तत्स्थानापन्नत्वात् ।
युक्तं चैतत्, यस्मादेवैविधेविषयै वार्तिककारपादैरुक्तम्--
ऽसम्भवन्ती खलेवाली खादिरी किन्नु ब्ध्यते ।
इति ॥
अत्र विवाहशब्देन स्थालीपाकवर्जितः साङ्गो विवाहो गृह्यते ।
तद्वर्जनकारणं पार्वणैनेत्यत्र वक्ष्यामः ।
सीमन्ते शम्याविधानादेव तद्विकारे चौले चौलविकारे च गोदाने सम्याप्राप्तावपि तयोर्ग्रहणं सीमन्तविकारे ऽपि पुंसवने तासां निवृत्त्यर्थम् ।
प्रायश्चित्तं च ऽअगारस्थूणाविरोहणेऽ(आप.गृ.23-9) इत्यादिना विहितम् ।
अत्र च ऽपलाशकार्र्ष्मयऽ(आप.श्रौ1-5-8)इत्यादिसूत्रोक्तगुणयुक्तांस्त्रीन् परिधीन् संस्पृष्टान् ।
ऽपरिधीन् परिदधारिऽ(तै.ब्रा.3-3-7) इत्यादि विधानात् तूष्णीं परिदध्यादिति सूत्रकारस्याभिप्राय-, ऽशम्या- परिध्यर्थेऽइति सिद्धवत्परिधीनङ्गीकृत्य तत्स्थाने सम्याविधानात्, आचाराच्च

4.3

8 अग्नेः पूर्व परिषेचनम् ।
अग्निं परिषिञ्चत्यदिते ऽनुमन्यस्वे ति दक्षिणतः प्रचीन मनुमते ऽनुमन्यस्वेति पश्चादुदीचीनं सरस्वते ऽनुमन्यस्वे त्युत्तरतः प्राचीनं देव सवितः प्रसुवे ति समन्तम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.3:
परिषेचनमुदकेन पर्युक्षणम् ।
अग्निग्रहणं परिध्यधिकाराद्बहीःपरिधिर्माभूदिति ।
प्राचीनमुदीचानमित्युच्यते प्रागुदग्वा(ग्चा) यतं परिषेचनकर्म यथा#अदिति ।
तथापवर्गस्तु परिभाषासिद्ध एव ।
ऽदेव सवितः प्रसुवेऽत् एतावान् मन्त्रः कल्पान्तरेषु भूयस्सु तथा दर्शनात् ।
बोधायनीये च विस्पष्टमेतत् ऽअन्वमंस्थाः प्रासावीरित् मन्त्रान्तान् सन्नमयतीऽ(बौ.गृ.1-4.7) ति ।
छन्दोगानामेव त्वयं मन्त्रादिः ।
समन्तं सम इत्यर्थः ।
तत्र पुरस्तादुपक्रम्य प्रदक्षिणं सर्वत्र प्रतिमन्त्रमुदकदानम्

4.3

आप्ग्स्-तात्_2.3:
अग्निमेवोदकेन परिषिञ्चति न परिध्याङ्गमपि ।
तद्विधिमाह- आदिते ऽनुमन्यस्वेत्यादिना ।
प्राचीनं प्रागायतम् ।
उदीचानमुदगायतम् ।
समन्तं सर्वतः ।
अत्र ऽदेव सवितः प्रसुवऽइत्येतावानेव मन्त्रः, नर्च आदिप्रदेशः ।
तथा नोत्तरे परिषेचने ऽप्रासावीऽरिति प्रसुवपदस्योहः ।
वैश्वदेवकाण्डे एकाग्निविधावेवमोवाम्नातानां ऽअदिते ऽनिमन्यस्वऽइत्यादानामष्टानां यजुषां पूर्वोत्तरपरिषेचनस्थेष्वष्टसु व्यापारेषु श्रुतिस्थानाभ्यां विनियोगात्, वाजपेयप्रकरणस्थाया ऋचः स्वतो ऽत्रापि विनियोगायोग्यत्वात्, आदिप्रदेशे समुदायलक्षणापत्तेः, यजु प्राये मन्त्राष्टके ऋचो ऽप्रतीतत्वात्, ऊहपक्षे आर्षपाठबाधप्रसङ्गात्, ऽतस्मादृचं नोहेत्ऽइति बह्वृचश्रुतिविप्रतिषिद्धस्य ग्रहणप्रसङ्गात्, अस्मदीयानामाचाराच्च ।
विस्पष्टं चैतत् बोधायनानां, ऽश्रन्वमंस्थाः प्रासावीरिति मन्त्रान्तान् सन्नमयतिऽ(बौ.गृ.1-4-37) इति ।
एवं चोत्तरपरिषेचने ऽअन्वमंस्थाः प्रासावीः ऽइति पूर्वमन्त्रेभ्यो विशेषमात्रस्य पाठः न पुनरबहः ।
यथाग्नौ ऽएतेनैव त्रैष्टुभेनछन्दसाहरिष्टकामुपदधेऽ; इति ।
सन्नामशब्दश्चात्र गौणः ।
अत एवैते मन्त्राः वैश्वदेवकाण्डमुपाकृत्य प्रागुत्सर्जनादध्येतव्याः, ब्राह्मयज्ञपारायणयोश्च

4.4

पैतृकेषु समन्तमेव तूष्णीम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.4:
अक्रियमाण एवकारे समन्तपरिषेचने मन्त्रप्रतिषेधार्थमेतत् स्यात् ।
एवकारात्तु दक्षिणतः प्राचीनमित्यादे- त्रयस्य निवृत्तिः

4.4

आप्ग्स्-तात्_2.4:
पैतृकेषु कर्मसु समन्तमेव परिषिञ्चति, न दक्षिणत- प्राचीनम्ऽइत्यादि ।
तच्च तूष्णीम्

4.4

9 इध्माधानं, आघारहोमश्च ।
इध्ममाधायाघारावाघारयति दर्शपूर्णमासवत्तूष्णीम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.5:
इध्म इति समुदायस्योपदेशात् पञ्चदशादारुमिध्मं सकृदेवादधाति ।
ऽअभिघार्येऽति कल्पान्तरं दर्शपूर्णमासवदित्त्युत्तरं परिधिसन्धिमन्ववहृत्य दक्षिणं परिधिसन्धिमन्ववहृत्येत्येवमादिता विधाने तूष्णीमिति मन्त्रोच्चारणप्रतिषैध- ।
तेन"प्रजापतिं मनसा झ्याय"न्नित्यैतदपि न भवति ।
मनसा मन्त्रोच्चारणं तत्र विधीयत इति कृत्वा काम्यानामाधारकल्पानामिहाप्रवृत्तिः प्रकृतिविषयत्वात्तेषाम् ।
केचित् स्रुवेण पूर्वमाघारमिच्छन्ति ।
अन्ये पुनः उभावपि दर्व्यैव वेदोपभृतोरभावात् उपयमनमपि न भवति ।
आसीन एव चोतरमप्याधारं जुहोति ।
न चाभिप्राणिति ।
अत्र प्रमाणमुपरिष्टाद्वक्ष्यामः

4.5

आप्ग्स्-तात्_2.5:
इध्ममग्नावादधाति ।
स च खादिरः पालाशो वा पञ्चदशसङ्ख्याकोर्ऽथलक्षणस्थौल्यायामः, इध्मनामधेयात्, श्रौते दर्शनाच्च ।
युगपच्चाधानम्, ऽइध्मम्ऽइत्येकवचनेन समुदायस्य विवक्षितत्वात् ।
तच्च तूष्णीम्, मन्त्रस्याविधानात् ॥
अन्ये-ऽतूष्णाम्ऽइत्यारभ्येदमेकं सूत्रं क-त्वा हिरण्यकेशिनां योमन्त्रः ऽअयं त इध्मः इति , सः ऽअनुक्तमन्यतो ग्राह्यम् ऽइति न्यायेन नोपसंहर्तव्य इति व्याचक्षते ।
तेषां पैतृकेषु समन्तपरिषेचनं समन्त्रकं स्यात् ।
केचित्-गृह्यान्तरात्, इध्मो ऽभिधार्याधेयः इति ॥
आघारौ आघारनामकौ होमौ द्वौ ।
आघारयति दीर्घधारया जुहोति, दर्शपूर्णमासवत् ।
ऽउत्तरं परिधिसन्धिमन्ववहृत्य... दक्षिणाप्राञ्चं ऋजुं सन्ततं ज्योतिष्मत्याघारमाघारयन् सर्वाणीध्मकाष्ठानि संस्पर्शयक्ति (आप.श्रौ.2-12-7) ऽदक्षिणं परिधिसन्धिमन्ववहृत्यऽ(आप.श्रौ.2-13-11)
ऽप्राञ्चमुदञ्चम्ऽ(आप.श्रौ.2-14-1) इत्यादि ऽऋजू प्राञ्चौ होतव्यौ तिर्यञ्चौ वा व्यतिषक्तावव्यातिषक्तौ वा ऽ(आप.श्रौ.2-12-8) इति वैकल्पिकास्त्रय आघारपक्षा एव दर्शपूर्णमासाभ्यां तुल्यं कर्तव्याः;न पुनर्द्वितीयाघारस्य ऽपूर्वोर्धे मध्ये पश्चार्धे वा जुहुयात्ऽ; (आप.श्रौ.2-14-8) इत्यनाघारपक्षो ऽपि ।
इमौ च द्वावप्यासीनोदर्व्या तूष्णीमाघारयति, दुर्वीहोमानामपूर्वत्वेनैष्टिकाघारधर्माणां मन्त्राणां चाप्राप्तौः ।
तूष्णीमिति ऽतूष्णीं पञ्चाज्याहुतीर्हुत्वाऽ(आप.गृ.22-4) इतिवत् स्वाहाकारस्यापि निवृत्त्यर्थम् ।
अत उभयोरप्याघारयोः प्रजापतिर्देवता ऽयत्तूष्णीं ।
तत्प्राजापत्यम् ।
(तै.ब्रा.2-1-4) इति श्रुते- ।
कथं पुनरिमावजुहोतिचोदनौ दर्वीहोमौ ?उच्यते-यद्यपि जुहोतीत्येवं न चोदनास्ति. तथाप्याघारयतीति दीर्घधा एगुणकजुहोतिचोदनार्थत्वात्, याज्ञिकप्रसिद्धेश्च दर्वीहोमावेव ।
किञ्च अथाज्यभागौ जुहोतिऽ(आप.गृ.2-6) इत्याज्यभागौ स्पष्टमेव दर्वीहोमौ;तत्साहचर्यादाघारावपि तथा ।
यथा अंशोरनारभ्याधीतस्य विनियोगसन्निधेरङावे ऽप्यदाभ्यसाहचर्यात् सोमनियोगसम्बन्धः ।
एवं वा व्याख्यानम्-आधारावाघारयति ।
ऽपुरस्तादुदग्वोपक्रम-ऽ(आप.ग.1-5) इत्येतस्मात्परत्वेन प्रबलां ऽतथापवर्गःऽ(आप.गृ.1-6)
इति गार्ह्यपरिभाषामनुसृत्य प्रागपवर्गाभ्यामुदगपवर्गाभ्यां वा दीर्घधाराभ्यां जुहोति, न तु कोणदिगपवर्गाभ्याम् ।
नाप्यैष्टिकाघारधर्मा मन्त्राश्च, अपूर्वत्वादेव ।
जेवते तु दर्शपूर्णमासवत् प्रथमस्य प्रजापतिः, द्वितीयस्येन्द्र इत्यर्थ- ।
तूष्णीमिति पूर्ववदेव ।
अन्ये तु आघाराविति नामधेयं ऽमासमाग्निहोत्रं जुहोतिऽइतिवत् ऐष्टिकाघारधर्मातिदेशकम् ।
अत्र स्रुवेण ध्रुवाया आज्यमादाय आसीनो ऽन्यमाघारमाघारयन् (आप.श्रौ.2-12-7) ऽजुह्वेहीति जुहूमादत्तेऽ(आप.श्रौ.2-13-2) इत्यादिषु सर्वेषु आघारधर्मेषु तन्मन्त्रेषु च प्राप्तेषु ऽआघारावाघारयतिऽइति परिसङ्ख्याथम् ।
आघारयतीति दीर्घधाराधर्मकावेव होमौकुर्यात्, नान्यधर्मकाविति ।
ऽतूष्णीऽमिति तुधर्मावान्तरभेदानां मन्त्राणां निवृत्त्यर्थम् ।
दर्शपूर्णमासवदिति त्वनर्तकमेवेत्याहुः ।
तन्न;दर्वीहोमयोरपूर्वयोः विशेषतश्चाङ्गभूतयोः-
धर्मातिदेशानपेक्षत्वात्, स्वतश्च नाम्नो धर्मलक्षणाया अयुक्तत्वात्, आघारयतीत्यत्र च सति गत्यन्तरे परिसङ्ख्याया अन्याय्यत्वात्, आघारव्यतिरिक्तधर्मपरिसङ्ख्याने चातिदेशवैफल्यात्, परिसङ्ख्यायाश्च मन्त्रपरिसङ्ख्याने ऽपि सामर्थ्यात् तूष्णींपदस्य वैयर्थ्यापत्तेः ऽदर्शपूर्णमासवद्ऽइति पदं व्यर्थमिति स्वेनैवोक्तत्वात्, ऽआघारावाघारयतिऽति च पदयोरतिदेशपरिसङ्ख्यार्थत्वे होमविधायकशब्दाभावात्, तद्भावाय च परिसङ्ख्यात्यागे सर्वेषामाघारधर्माणां श्ष्टाचारविरुद्धानुष्ठानापातात्, आज्यभागादीनामपीत्थमतिदेशे अभ्युपेये तत्राप्यैष्टिकाज्यभागादिधर्माणां सर्वेषामनुष्ठानप्रसङ्गाच्च ।
तस्मात् पूर्वे एव व्याख्याने सुष्ठु ।
यतो ऽपूर्वावेवाघारौ, यतश्च ऽसमिदभावश्च, अग्निहोत्रवर्जम् (आप.प.3-8,9) इति परिभाषा, अत एव आघारसमिधो र्निवृत्तिः ।
अन्ये कुर्वन्ति ।
तस्मिन् पक्षे परिधिनिधानानन्तरम्;श्रौते तथा दृष्टत्वात् ।
अनूयाजसमित् अनुयादाभावादेव निवृत्ता ।
तेनेध्मसन्नहनं परिधिभिस्सहाष्टादशधा, विशातिधा वा न पुनरेकविंशतिधा

4.6

10 आज्यभागहोमौ ।
अथाज्यभागौ जुहोत्यग्नये स्वाहेत्युत्तरार्धपूर्वार्धे सोमाय स्वाहेति दक्षिणार्धपूर्वार्धे समं पूर्वेण ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.6:
अग्रेरुत्तरभाग उत्तरार्धः, पूर्वभागः पूर्वाधः तयोरन्तरालं उत्तरार्धपूर्वार्धः ।
सममित्नि देशतः ।
समं तौ होतव्यौ न विषमावित्यर्थः ।
उपदेशादाघारानन्तर्ये सिद्धे अथेति वचनं सम्बोधनार्थम् ।
किं सिद्धं भवति ?आघारयोराज्यभागयोश्च साधर्म्य सिद्धं भवति ।
तेन जेयोतिष्मत्यग्नौ होमः ।
आघारयोः प्रसिद्धो धर्मः ।
तस्याज्यभागयोरपि प्रवृत्तिः ।
तथा आज्वभागयोः प्रसिद्धो धर्मः आसीनहोमो ऽप्युच्छ्वासाभावश्च ।
तस्याघारयोरपि प्रवृत्तिः ।
तेन यदुक्तमुत्तरस्मिन्नप्याघारे स्थानाभिप्राणने न भवत इति तदुपपन्नं भवति ।
आज्यभागा वितिहोमयोस्संज्ञा ।
प्रयोजनमग्नेरुपसमाधानाद्याज्यभागान्त इत्येवमादयः

4.6

आप्ग्स्-तात्_2.6:
इथ आघारानन्तरं अर्थकृत्यमप्यकृत्वाऽज्यभागनामकावपूर्वौ होमौ जुहोति ।
तत्र प्रथममग्नये स्वाहेति मन्त्रेणाग्नेरु त्तरार्धपूर्वार्धे, प्रागुदीज्यामित्र्तः ।
द्वितीयं सोमाय स्वाहेति दक्षिणार्धपूर्वोर्धे , दक्षिणपूर्वस्यामित्यर्थः ।
समं पूर्वेण आघारसम्भेदमवधिं कृत्वाक्ष्णया रज्वा यावत्यन्तरे पूर्वो हुतः तावत्यन्तर एवोत्तरं जुहोति, न पुनस्सन्निकृष्टं विप्रकृष्टं वा

4.7

11 प्रधानहोमानन्तरं जयादीनां विधानम् ।
यथोपदेशं प्रधानाहुतीर्हुत्वा जयाभ्यातानान्राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्त्युपजुहोति । यदस्य कर्मणो ऽत्यरीरिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वस्विष्टं सुहुतं करोतु स्वाहेति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.7:
यथोपदेशमिति ।
यस्मिन् यस्मिन् कर्मणि या- प्रधानाहुतय इत्युपद्श्यन्ते, यथा"अन्वारब्धायामुत्तरा आहुती" (आप.गृ.142)रितितास्ता इत्यर्तः ।
जयाः "चित्तञ्च चित्तिश्च"(तै.सं.3-4-4) इत्येवमादयः ।
अभ्यातानाः "अग्निर्भूतानां (तै.सं.3-4-5) इत्यादय- ।
राष्ट्रभृत- "ऋताषाडृतधामे"(तै.सं.3-4-7) त्यादयः ।
प्रजापते न त्वदेतानीत्येषा प्राजापत्या ।
व्याहृतयः प्रसिद्धाः ।
विदृतवचनं समस्तनिवृत्त्यर्थम् ।
एतेषामनुपदेशः सिद्धत्त्वात् ।
सौविष्टकृती अप्रसिद्धत्त्वात् पठिता ।
नन्वेषापि सूत्रे पठिता -"यदस्य कर्मणो ऽत्यरीरिचं यद्वान्यूनमिहाकरम् ।
अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्व स्विष्टं सुहुतं करोतु स्वाहे"ति सर्वप्रायश्चित्तेषु, (आप.श्रौ.3-12-9) एवं तर्हि एतत् ज्ञापयति पाकयज्ञविधिरयं अन्येषामपि केषाञ्चित् साधारण इति ।
दृश्यते च कालगिरेयाणामनेन प्रवृत्ति- विवाहादिषु"कर्मसु"ये होमाश्चोदिताः तेष्वेतस्य प्राप्त्यर्थ तेषां कालोपदेशार्तमिदम् ।
जयादीनां पुरस्तादाज्यभागयोश्चोपरिष्ठात् प्रधानाहुतय इति नार्थः ।
एतदर्थेनानेन तत्रैवोभयोरप्युपदिष्टत्वात् ।
ऽअग्नेरुपसमाधानाद्यज्यभागान्त उत्तराहुतीर्हुत्वाऽइति"स्थालीपाकाज्जुहोति"इत्यतिदेशात् तत्र प्राप्तिः ।
पार्वणे तु तथा आग्नेयस्थालीपाकविधौ वक्ष्यामः ।
अथ येष्वा ऽज्यभागान्तऽइति वा ऽजयादि प्रतिपद्यतऽइति वा वचनं नास्ति यथा पण्यफलीकरणहोमे तत्र प्राप्त्यर्थेमिदमुच्यते ।
विवाहादिषु तत्र विधानमनर्थकं, आज्यभागान्ते जयादि प्रतिपद्यत इति वचनात् पण्यहोमादयो ऽपूर्वा यावदुक्तधर्माणः ।
इदं तर्हि प्रयोदनं कव्यान्तरोक्तानि नित्यानि नैमित्तिकानिकाम्यानि वा यद्यस्मदादिभिरनुष्ठीयन्ते तदा तेष्वपि एतस्य तन्त्रस्य प्रवृत्तिर्यथा स्यादिति ।
नन्वेतदपि पार्वणातिदेशदर्शनात् सिद्धमाचाराद्यानिगृह्यन्ते इति;सत्यं पक्वहोमेषु सिद्धं, न त्वाज्यहोमेषु ऽकूश्माण्डैर्घृतमिऽत्यादिषु, तस्यापक्वविषयत्वात् ।
विवाहादिषु तन्त्रविधाननियमार्थ यस्मिन् गृहमेधचोदितास्तेषु अत्राग्नेरुपसमाधानाद्याज्यभागान्त इति जयादिप्रतिपद्यत इति वा वचनं तत्रैव तन्त्रप्रवृत्तिः इति ।
तेन पण्यहोमादयो यावदुक्तधर्माण इति सिद्धम् ।
प्रधानाहुतिग्रहणं जयादेराज्यभागान्तस्य च तत्र प्रसिध्द्यर्थम् ।
उपजुहोतीति उपशब्द आनन्तर्यार्थः ।
तेन प्रधानाहुत्यनन्तरमुपहोमाः ।
तेनेशानयज्ञे परिषेचनान्ते बलिहरणं भवति ।
श्राद्धे वानुपदेशनं स्थालीपाके च बहिर्रनुप्रहरणं सौविष्टकृतीमित्युच्यते स्विष्टकृद्देवतेति ज्ञापनार्थम् ।
तेनाज्यहोमस्विष्टकृत् पक्वहोमेषु भवति

4.7

आप्ग्स्-तात्_2.7:
यथोपदेशं येन हविरादिना विवाहादिषु प्रधानाहुतय उपदिष्टास्तेन तेन विधानेन ता हुत्वा ।
जयाः चित्तं च स्वाहे(तै.सं.#र-4-4) ति त्रयोदश ।
अग्निर्भूतानामधिपतिस्समावत्वस्मिन्निति(तै.सं.3-4-7) राष्ट्रभृतो द्वाविंशतिः ।
तत्र ऋताषाडित्यनुद्रुत्य ऽतस्मै स्वाहेऽत्यन्तेन प्रथमाहुतिं जुहोति ।
ऽताभ्यस्स्वाहाऽइत्येतावतैवोत्त्राम् ।
एवमुत्त्रे पञ्च पर्यायाः ।
तत्र ऽनाम स इदं ब्रह्माऽइत्यनुषङ्गः ।
ऽताभ्यः स्वाहाऽइति च ।
ऽभुवनस्य पते... स्वस्तिभिस्वाहाऽइति त्रयोदशी ।
ऽपरमेष्ठीऽत्यादयः पूर्ववच्चत्वारः पर्यायाः ।
ऽसनो भुवनस्य पते..... यच्छ स्वाहाऽइति द्वाविंशी ।
ऽप्रजापते न त्वेतानिऽइति ऋक्प्राजापत्या ।
प्राजापत्ययर्चा वल्मीकवपायामवनयेत्ऽ(तै.ब्रा.3-7-2) इति श्रुतेः ।
सूत्रकारेणऽप्रजापते न त्वदेतानीऽति प्राजापत्ययर्चा वल्मीकवपायामवनीयऽ; (आप.श्रौ.9-2-4) इति व्याख्यातत्वात् ।
व्याहृती विहृताः ऽभूः स्वाहा, भुवः स्वाहा सुवः स्वाहाऽइति ।
सौविष्टकृती ऽयदस्य ऽ; कर्मणः इति ऋक् ।
आत्र चास्याः स्विष्टकृद्देवताक्त्वं लिङ्गादेव सुगमम् ।
देवताज्ञानस्य कर्माङ्गत्वमपि"यो ह वा अविदितार्षेयच्छन्दोदेवताब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुमृच्छति"इत्यादिश्रुतेः, अविदित्वा ॠषिं छन्दो दैवतं योगमेव च ।
यो ऽध्यापयेज्जपेद्वापि पापीयान् जायते तु सः ॥
इति स्मृतेश्च सिद्धम् ।
अतो यत्रर्षे यादिज्ञानानां नैवंविधिः तत्र तानि पाक्षिकाणीति गम्यते ।
एवमेता जयादिका
अष्टपञ्चाशदाहुतीः प्रधानहोमानन्तरमुपजुहोत् ।
यत्रापि सर्पबलायादौ पार्वणातिदिष्टः स्विष्टकृत तत्रापि प्रधानाहुत्यनन्तरमेवैताः ।
ततः स्विष्टकृत्; क्त्वाप्रत्यत्यात्, उपोपसर्गाच्च ॥
केचित्-स्विष्टकृतो ऽनन्तरं जयादयः ऽअग्निः स्विष्टकद्वितीय- (आप.गृ.7-7) इति स्विष्टकृत- प्रधानतुल्यधर्मत्वज्ञापनादिति ।
ननु-यद्यत्यैव सर्वप्रधानहोमानन्तर साधारण्येन जयादय उपदिष्टाः किमर्थ तत्र तत्र ऽजयादि प्रतिपद्यतेऽइति वचनम् ? उच्यते-यत्रैतद्वचनं नास्ति पार्वणादौ न तत्र जयादय इत्येवमर्थम् ।
एवं तर्ह्यत्र साधारणविधानमेवानर्थकम् ।
न ;केवलं जयादिविझ्यर्थत्वात् ।
अन्यथा विवाहादा वेतेष्वन्वारम्भो ऽपि स्यात् ।
किञ्च अस्मिन्नसतितत्र तत्र ऽजयाभ्यातानानिऽत्यादिमन्त्रसन्नाम इत्यन्ते गुरुर्ग्रन्थः पुनः पुनः पठितव्यस्स्यात् ।
तस्मादन्वारम्भादिनिवृत्त्यर्त ग्रन्थलाघवार्थ चेदं साधारणविधानम् ।
केचित्- यत्राज्यभागान्तं पुरस्तात्तन्त्रं तत्र सर्वत्र जयाद्युत्तरतन्त्रम् ।
एतयोर्मध्ये ऽयथोपदेशं प्रधानाहुतीः ऽइत्यादिशेषेण प्रधानहोमानां विधानात् ।
आग्नेये ऽपि च स्थालीपाके जयादिर्विद्यत एव, ऽसिद्धमुत्तरम्ऽ(आप.गृ.7-14) इति पदद्वयसूत्रेण जयाद्युत्तरतन्त्रोपदेशात्
मासिश्राद्धे द्धादौ च ऽपार्वणेनऽ(आप.गृ.7-23) इत्यातिदेशात् ।
आज्यहोमेषु जयाद्यनन्तरं श्रौतवत् तूष्णीं परिधीनग्नौ प्रहृत्य तान् दर्वीसंस्रावेणाभिजुहोति;परिधितत्संस्काराणां श्रौतवदभ्यनुज्ञानस्योक्तत्वात्, कृतकार्याणां प्रतिपत्त्यपेक्षत्वात् आचाराच्च ।
शम्याश्चेत्, अस्मिन् काले अपोह्या;ऽअथ शम्या उपोद्यऽ(बौ.गृ.1-4-37) इति बोधायनवचनात्, आचाराच्च

4.7

12 अग्नेरुत्तरं परिषेचनम् ।
पूर्ववत्परिषेचनमन्वमंस्थाः प्रासावीरिति मन्त्रसन्नामः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.8:
पूर्ववदिति ।
पैतृकेषु समन्तमेव तूष्णीम् ।
अन्यत्र मन्त्रवन्ति चत्वारि परिषेचनानि

4.9

सन्नमनं सन्नामः , ऊह इत्यर्थः ।
ऽअनुमन्यस्वेऽत्यस्या ऽन्वमंस्थाऽइति सन्नामः ।
ऽप्रसुवेऽत्यस्य ऽप्रासावीऽरिति ।
प्राक् परिषेचनात् तूष्णीं परिधीनां प्रहरणम् ।
पुरस्तादुपहोमानामेकविंशत्या समिधो ऽभ्याधानम् ।
बर्हिरनुप्रहरणमाद्यहोमेषु नास्ति, लेपयोरित्यस्या समिधो ऽभ्याधानम् ।
बर्हिरनुप्रहरणमाज्यहोमेषु नास्ति, लेपयोरित्यस्य पख्वहोमविषयत्वात् ।
परिषेचनान्ते प्रणीताविमोकः ।
ब्रह्मा च कर्मान्ते यथेतं प्रतिनिष्कामति ।
मन्त्रसन्नाम इति मन्त्रग्रहणं मन्त्राणामयसूहविधिर्यथास्वात्, अन्यथाग्नेरपि सन्नामस्सम्भाव्येत ।
सन्नामशब्दस्यान्यत्रापि दर्शनात्, यथा-सन्नमयत्यनुमार्ष्टि वेति

4.8

आप्ग्स्-तात्_2.8:
अग्नि परिषेचनं पूर्ववत् ।
अयं तु विशेषः, अदिते ऽनुमन्यस्वेत्यादिषु त्रिषु अनुमन्यस्वेत्यस्य स्थाने ऽअन्वमंस्थाःऽइति , देवसवितरित्यत्र ऽप्रसुवऽइत्यस्य स्थाने ऽप्रासावीःऽइति ।
अत्र श्रौतवत् प्रणीता विमुञ्चति तूष्णीम्;कृतकार्याणामासां प्रतिपत्त्यपेक्षत्वात्, प्रणीताद्भ्यो दिशो ऽभ्युपनीयऽ(बौ.गृ.1-4-38) इति बोधायनवचनात्, आचाराच्च ।
ब्राह्मणश्च यथाशक्ति दानमानादिना सत्कृतो गच्छेत् ॥
अत्रेयं स्थितिः- अग्निमिध्वेत्यादि मन्त्रसन्नाम इत्यन्तः प्राच्योदीच्याङिगसमुदायः सर्वगार्ह्यप्रधानहोमानां साधारणः, ऽयथोपदेशं प्रधानाहुतीर्हुत्वाऽइति प्राच्योदीच्यपदार्थापेक्षया होमानां विशेषणं प्राधान्याभिधानात् ।
एवञ्चाहोमेषु नामकरणादिषु तन्त्रस्याप्रसह्ग एव ।
नन्वेवं ऽअग्नेरुपसमाधानाद्याज्यभागान्तेऽइति किमर्थस्तत्र तत्र पुनरुपदेशः?उत्यते- यत्र पुनः ऽअपिवोत्तरया जुहुयात्ऽ(आप.गृ.5-20)
ऽकाममन्युभ्यां वा जुहुयात्ऽ(आप.ध.1-26-13) इत्यादिषु नोपदेशः नैवतत्रेदं तन्त्रमिति नियमार्थः ।
कुत एतत् ? केवलाज्यहविष्वेव प्रयोदनान्तरमन्तरेणास्य तन्त्रस्योपदेशात् ।
उपाकरणसमापनादीनां तु तत्र तन्त्रोपदेशाभाव्ऽपि ऽकूश्माण्डैर्जुहुयाद्घृतम्ऽइत्यादेरिव तन्त्रार्थित्वावगमात् अनेन साधारणविधानेनैव तन्त्रम् ।
तन्त्रार्तित्वावगमस्तु गृह्यान्तरेषु तन्त्रवतामेवोपदेशात् ।
आपस्तम्बदर्शनानुगतोपदेशात्, अविगीतशिष्टाचाराच्च ।
यद्येवमाज्यौषधहविष्के ऽपि विवाहे किमर्थस्तन्त्रोपदेशः? ।
उच्यतेलाजहोमानां कृत्स्नविधानेन तन्त्रानपेक्षत्वात् ।
उपनयनादिवदाज्यहोमार्त एव तन्त्रोपदोशः ।
तता ऽतस्मिन्नुपविशत उत्तरो वरः ऽ(आप.गृ4-9) इत्यस्यानन्तरमेवग्नेरुपसमाधानादि, न तु ऽयथास्थानमुपविश्यऽ; (आप.गृ.5-10) इत्यस्यानन्तरमिति क्रमार्थश्च ।
तता केवलौषधहविषि स्थालीपाके ऽपि क्रमार्थ एव ।
यद्यपि श्रौते दर्शनात् पात्रप्रोक्षणानन्तरमवघातादि युक्तम्, तथाप्येतद्वचनबलात् तन्त्रात् पुरस्तादेवेति ।
ऐशाने ऽपि स्थालीपाके स्थण्डिलकल्पनान्ते त्त्रम्, नतु पार्वणवद्गृह एव प्रतिष्ठिताभिघारणानन्तरमिति क्रमार्थ एव ।
केचित्-कल्पान्तरविहितेषु अपार्वणातिदेशेषु आज्यहोमेषु तन्त्रार्थिषु ऽकूश्माण्डैर्जुहुयाद्घृतम्ऽइत्यादिष्वस्य तन्त्रस्य प्राप्त्यर्त यथोपदेशमिति सामान्यविधानम् ।
अत्रत्येषु तु विवाहादिषु येष्वेव पुनर्विधानं तत्रैव, नान्यत्र पण्यहोमादिष्विति नियमार्थ तत्र तत्र तन्त्रविधानम् ।
पित्र्येषु तु ऽएकैकशः पितृसंयुक्तानिऽ(आप.गृ.1-18) इत्यादिविशेषविधानात् तन्त्रसिद्धिरिति

4.10

एवं सर्वगार्ह्यहोमानां साधारणं स्मार्त विधिमुक्त्वा, इदानीं पाकयज्ञेषु वैकल्पिकं श्रौतं विधिमाह--
13 पाकयज्ञशब्दार्थः ।
लौकिकानां पाकयज्ञशब्दः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.9:
लोके भवा लौकिकाः लोकस्मृतिलक्षणा इत्यर्थः ।
लोकशब्देन शिष्टा उच्यन्ते ।
पाकयज्ञ इति विवाहादीनां संज्ञा विधीयते ।
पाकशब्दो ऽल्पवचनः, यथा-क्षिप्रं यजेत पाको देव (आप.गृ.20-15) इति ।
पाकगुणको यज्ञः पाकयज्ञ इति निर्वचने आज्यहोमेषु संज्ञान स्यात् ।
तत्संज्ञाप्रयोजनं"यज्ञं वायख्यास्यामः"(आप.प.1-1) इत्यत्र एतोषामन्तर्बावः ।
"निऋतिं पाकयज्ञेन यजेते"त्यत्र च धर्मप्राप्तिः

4.10

आप्ग्स्-तात्_2.9:
लोकयन्ति वेदैर्वेदार्थानिति लोकाः त्रैविद्यवृद्धाः शिष्टाः द्विजन्मानः ।
तैर्लोकैराचर्यन्ते यानि कर्मणि तानि लौकिकानि, तेषां मध्ये सप्तानां औपासनहोमादीनां पाकयज्ञशब्दः संज्ञात्वेन प्रसिद्धः, नतु श्रौतानां विवाहादीनां च, तत्र लोकानामप्रयोगात् ।
यदि लोकप्रयोगादेवैषां पाकयज्ञनामता प्रसिद्धैव, तर्हि ऽपाकयज्ञेषु ब्राह्मणावेक्षो विधिःऽइत्येतावतालम्, किमर्थ ऽलौकिकानां पाकयज्ञसभ्दः, इति ?उच्यते-पाकेन पक्वेन चरुणा साध्यो यज्ञः पाकयज्ञः इत्येवं व्युत्पन्नसंज्ञानुवादात् नान्तरीयकावगतश्चरुरेवाग्निहोत्रिकविधौ हविः, न पुनर्विध्यन्तरवदाज्यादिकमपीति नियमज्ञापनार्थम् ।
बौधायनेन तु अत्राज्यं हविरुपदिष्टम् ।
न त्वाग्निहोत्रिकं हविरिह भवति, अग्निहोत्रधर्मप्रापकप्रमाणाभावात् ।
ऽद्विर्जुहोतिऽ; (आप.गृ.2-11) इत्येवमादयः पुनः पञ्च पदार्थाः वचनबलाद्भवन्ति ।
देवतास्तु तत्तन्मन्त्रप्रतिपाद्या एव

4.11

तत्र ब्राह्मणावेक्षो विधिः ॥ आ
द्विर्जुहोति द्विर्निमार्ष्टि द्विः प्राश्नात्युत्सृप्याचामति निर्लेढीति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.11:
तत्र तेषु पाकयज्ञेष्वपरो विधिर्ब्रह्मणावेक्ष इत्याचक्षते ।
ब्राह्मणमात्मनि प्रमाणत्वेनावेक्षत इति ब्राह्मणावेक्षः ब्राह्मणदृष्ट इत्यर्थः ।
विधिः प्रयोगः, प्रगुक्त आघारवान् दर्शपूर्णमासप्रकृतिः ।
अयं त्वग्निहोत्र प्रकृतिः ब्राह्मणावेक्षः ।
उभयोर्विकल्पस्तत्रेत्युच्यते-येषु पाकयज्ञेषु आघारवतस्तन्त्रस्य प्रवृत्तिः तत्रावास्य विकल्पेन प्राप्तिरिति दर्शनार्थम् ।
तेन पण्यहोमादिषु अस्य विधेरप्रवृत्तिः ।
तत्र ऽ द्विर्जुहोती ऽत्यनेन अग्निहोत्राहुत्योरुभयोर्धमः पाकयज्ञेषु प्रधानाहुतिं स्विष्टकृतं चाधिकृत्य विहितो वेदितव्यः ।
ऽ द्विर्निमार्ष्टीऽ ति चाग्निहोत्रवल्लेपनिमार्जनम् ।
ऽ द्विः प्राश्नाती ऽत्युङ्गुलिप्राशनम् ।
ऽ उत्सृप्याचामतीऽ ति च यत्तत्रतृतीयं प्राशनं बर्हिषोपयम्योदङ्ङावृत्योत्सृप्याचामतीति तच्चोदितम् ।
निर्लेढीति यत्तत्र ऽद्विःस्रुचं निर्लेह्य, इति च तच्चोदितम् ।
यावता च विधानेन होमादिसंसिद्धिस्तावदमन्त्रवदग्निहोत्रादेव प्रत्येतव्यम् ।
तद्यथा-स्रुवेणोन्नयनं, पालाशीसमिदाहुतिधारणार्था, चतुर्गृहीतं पञ्चगृहीतं इति ।
तत्र प्रयोगः अग्निमिध्वा परिसमूह्य, परिस्तीर्य, पर्युक्ष्य,आज्यहोमेष्वाज्यं संस्कृत्य, पक्वहोमेषु स्थालीपाकं स्रुक्स्रुवं संमृज्य यावत्प्रधानाहुति चतुर्गृहीतानि पञ्चगृहीतानि वा समवद्यति ।
यत्रोभयं हविस्तत्र तस्योभयस्य, यथामासिश्राद्धे ।
ततः पश्चादग्नेर्बर्हिष्युपसाद्य पालाशीं समिधमाधाय सर्वानेव मन्त्रान् समनुद्रुत्य सकृदेव प्रधानाहुतीर्हुत्वा प्रातरग्निहोत्रवल्लेपमपमृज्य बर्हिषि निमार्ष्टि यद्यहनि कर्म ।
अथ रात्रौ सायमग्निहोत्रवत् ।
ततस्सौविष्टकृतीं द्वितीयामाहुतिं उत्तराहुतिवज्जुहोति-अग्नये स्विष्टकृते स्वाहेति स्थालीपाकेषु ।
ऽयदस्य कर्मणऽ; इत्याज्यहोमेषु ।
इशानयज्ञे तु कर्म तत्र चोदितेन मन्त्रेण ।
ततः पूर्ववल्लेपमवमृज्य प्राचीनावीती दक्षिणतो भूमौ न्मार्ष्टि ।
ततः स्रुचं सादयित्वा अङ्गुलिप्राशनादिनिर्लेपनान्तमग्निहोत्रवत् ।
ततो दर्भैः सुक्प्रक्षालनं, ततः परिसमूहनपर्युक्षणे ।
एतदाग्निहोत्रिकं नाम तन्त्रं सर्वपाकयज्ञेषु आघारवता तन्त्रेण सह विकल्प्यते

4.10

आप्ग्स्-तात्_2.11:
तत्र तेषु पाकयज्ञेषु मध्ये पार्वणादिषु पञ्चसु ब्राह्मणावेक्षो विधिर्भवति ।
यो विधिः प्रत्यक्षमेव ब्राह्मणमवेक्षते, नाग्निमिद्ध्वेत्यादिवल्लोकाचारानुमेयम्, सो ऽप्येषु विकल्पेन भवतीत्यर्थ- ।
नानयोर्विध्योर्मिथ- संसर्गः ।
नापि स्मार्तस्यानेन बाधः ।
प्रत्यक्षब्राह्मणस्यापि स्मृत्यनुवादे कल्पसूत्राधिकारणन्यायेन स्मृतितुल्यप्रमाणत्वात् ।
अत एव ऽसर्व पाप्मानं तरति, तरति ब्रह्महत्यां यो ऽश्वमेधेन यजतेऽ(तै.सं.5-3-12) इति श्रुत्या ऽयजेत वाश्वमेधेनऽ(मनु11-74) इति मनुस्मृत्यनुवादेनच अश्वमेधद्वादशवार्षिकयोर्विकल्पः ।
बौधायनीये च व्याक्तो ऽयमर्थः ।
तत्रोदाहरन्ति--
आधारं प्रकृतिं प्राह दर्वीहोमस्य बादरिः ।
अग्निहोत्रं तथाऽत्रेयः काशकृत्स्नस्त्वपूर्वताम् ॥
इति (बौ.गृ.1-4-44) तां न मिथः संसादयेदनादेशात्ऽ; (बौ.गृ.1-5-1) इति ।
होममन्त्रादयस्तु विध्यन्तरीया अर्थादाचाराच्चेहापि भवन्ति ।
यद्यस्यापि स्मृतितुल्यमेव प्रामाण्यं, किमर्थ ऽब्राह्मणावेक्षःऽइति ? ।
उक्तोत्तरमेवैतत् ।
आग्निहोत्रिकविधौभ्रेषे ऽयदि यजुष्टऽ(ऐ.ब्रा.25-34) इति श्रौतं प्रायश्चित्तम् ।
न तु स्मार्तनाशे ऽयद्यविज्ञाता सर्वव्यापद्वाऽ; (ऐ.ब्रा.25-34.) इति

4.11

सर्वे प्रधानहोमाः प्रधानहोमत्वसामान्यादेको होम इत्यभिप्रेत्य स्विष्टकृदपेक्षया श्रुतिः द्विर्जुहोतीत्याह, न पुनर्द्विरेव जुहोतीति ।
ऽसप्तदश प्राजापत्यान्ऽ(तै.ब्रा.1-3-4) इतिवदिह सम्प्रतिपन्नदेवतैकत्वाभावात् ।
केचित्-यावन्तः प्रधानहोमास्तावन्ति चतुर्गृहीतानि स्रुचि सहावदाय होममन्त्रान् सर्वाननुद्रुत्य सकृदेव जुह्वति ।
द्विर्निमार्ष्टित्यादि व्यक्तार्थम् ॥
प्रयोगस्तु- न परिस्तरणदर्वीसंस्कारोपस्तरणादीनि, अत्रानुपदेशात् ।
चरुपाकस्त्वर्थाद्विद्यत एव ।
तेन चरुणा प्रधानाहुतिस्विष्टकृत्प्राशनभक्षणेभ्यः पर्याप्तेन दर्वीं पूरयित्वापर्णाग्निं दर्भेषु सादयित्वाऽदाय तत्तन्मन्त्रैः सर्वाः प्रधानाहुतीः क्तमेण हुत्वा दर्व्यास्ततो लेपमादाय दर्भैर्निमृज्य शेषात्स्विष्टकृते हुत्वा प्राचीनावीती पुनर्लेपमादायदक्षिणतो भूम्यां निमृज्याय उपस्मृश्य यज्ञोपवीती दर्व्या लेप मङ्गुल्याऽदाय प्राश्य शुद्ध्यर्थमाचम्य पुनरप्येवं कृत्वा उदङ्ङावत्योत्सृप्य दर्व्या हविश्शेषं सर्व भक्षयित्वा तां निर्लेह्याचम्य तां दर्भैरद्भिः प्रक्षलयेदिति ।
ननु-वैश्वदेवौपासनहोमयोः कस्मान्नायं विधिः ?उच्यते ।
तत्र ऽउभयतः परिषेचनम्ऽ(आप.गृ.7-22)इति एककार्ययोः द्वयोरपि विध्योः परिसङ्ख्यानात् अत एव बर्हिर्लेपप्रतिपत्त्योरभावाच्च ॥
केचित्-पाकयज्ञ इत्यत्र पाकशब्दस्याल्पवाचकत्वात् विवाहादयो ऽपि सोमाद्यपेक्षया पाकयज्ञ इति तेष्वप्ययं विधिरिति ।
तन्न;तेषां मनुष्यसंस्कारार्थत्वेन अप्राधान्यात् प्रधानवाचियज्ञशब्दवाच्यत्वानुपपत्तेः

4.12

एकाग्निविधिकाण्डे विवाहमन्त्राणां पूर्वमाम्नानात् विवाहमेव पूर्व व्याख्यास्यन् तस्योदगयनादिनियमापवादेन कालमाह--
3. वैवाहिकविषयाः -
1.विवाहकालः ।
सर्व ऋतवो विवाहस्य शैशिरौ मासौ परिहाप्योत्तमं च नैदाघम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.12:
अथ विवाहविधिः प्रागुपनयनात् ।
शिशिरं परिहाप्योति वक्तव्ये शैशिरौ मासावित्युच्यते ऽउत्तमञ्च नैदाघऽमित्यत्र मासप्रतिपत्त्यर्थम् ।
अन्यथा दिवसो ऽपि प्रतीयेत ।
सर्र्वतुविधानं उदगयनापवादः ।
पूर्वपक्षादयस्तु परिभाषाप्राप्ताः विवाहे ऽवस्थिता एव यथोपनयने वसन्तादिविधान इति केचित् ।
अन्ये तु पूर्वपक्षादेरप्यपवादं मन्यन्ते ।
तेषामपरपक्षे रात्रौ च न निषिध्यते विवाहः

4.12

आप्ग्स्-तात्_2.12:
सर्वे षडृतवः प्रतेयोकं मासद्वयरूपाः विवाहस्य कालाः ।
दादशापि मासाः सापरपक्षादिकाः कार्त्स्न्ये काला इत्यर्थः ।
ऋतव इत्यनेन लक्षणया मासा एव विधित्सिताः, नर्तव इति कुतो ऽवगम्यते ?उच्यते- शैशिरौ मासाविति मासपर्युदासात् ।
अन्यथा विधिपर्युदासयोरेकविषयत्वात् लघुत्वाच्च शिशिरं परिहाप्येति ब्रूयात् ।
प्रयोजनं तु विवाहस्य पूर्वपक्षादिनियमाभावः ।
यत्र पुनरुपनयनादावेवंविधहेत्वभावादृतोतेव विधित्सा, तत्र द्ववदानद्वारा पुरोडाशस्य यागसाधनत्ववत् सामान्यविध्यवरुद्धपूर्वपक्षादिद्वारेणापि
ऋतोः कर्मसाधनत्वासिद्धेः पूर्वपक्षादिर्नियत एव ।
शिशिरस्यर्तो- यौ द्वौ मासौ माघफाल्गुनौ, निदाघस्य ग्रीष्मस्य यश्चोत्तमोन्त्य आषाढः, तानेतांस्त्रीन् मासान् परिहाप्य वर्जयित्वा ।
अत्रोत्तममिति तमप्प्रत्ययात् यस्सौरतो ऽन्त्यो नैदाघः, यश्चाधिकमासतो द्वितीय आषाढः तावपि पर्युदस्तौ

4.13

सर्वाणि पुण्योक्तानि नक्षत्राणि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.13:
सर्र्वतुविधानस्य सर्वापवादत्वात् पुण्याहविधानार्थमिदम् ।
तथा च रात्र्यपरपक्षयोः विवाहपिरतिषेधः ।
एवमप्युक्तग्रहणमनर्थकं तत् क्रियते मुहूर्तपरिग्रहार्थम् -यानि पुण्यानि नक्षत्राणि यानि पुण्योक्तानि मुहूर्तानि तानि सर्वाणि विवाहस्य यथा स्युरिति ।
तत्र नक्षत्राणि ज्योतिश्शास्त्रादवगन्तव्यानि ।
प्रातस्सङ्गवो मध्यन्दिनो ऽपराह्णस्सायामित्येते मुहूर्ताः

4.13

आप्ग्स्-तात्_2.13:
यानि ज्यौतिषे पुण्योक्तानि शुभफलप्रदत्वेनोक्तानि नक्षत्राणि ।
नक्षत्रग्रहणस्य प्रदर्शनार्थत्वात्तिथ्यादीन्यति ।
तत्र पुण्योक्तानि सर्वाण्यत्रोपसंहर्तव्यानि

4.14

2. विवाहे मङ्गलानुष्ठानम् ।
तथा मङ्गलानि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.14:
"ब्राह्मणान् भोजयित्वाशिषोवाचयित्वे"त्येवमादीनि स्वशास्त्रप्रसिद्धानि ।
मङ्गलानि स्नातो ऽहतवासा गन्धानुलिप्त-, स्रग्वी भुक्तवानित्येवमादीनि नापितकर्माङ्कुरार्पणादीनि लोकप्रसिद्धानि ।
तान्येतानि सर्वाणि प्रत्येतव्यानि

4.14

आप्ग्स्-तात्_2.14:
शङ्खदुन्दुभिवीणाववादित्रसम्प्रवादनानि कुलस्त्रीगीतानि केशश्मश्त्वादिप्रकल्पनाहतधौताच्छिद्रविचित्रवासोधारणगन्धानुलेपनसुगन्धस्रग्धारणापदातिगमनच्छत्रध्वजादीनि शिष्टाचारप्रसिद्धानि मङ्गलानि विवाहे उपसंहर्तव्यानि

4.15

3. आचारादपि वैवाहिकक्रियाग्रहणम् ।
आवृतश्चास्त्रीभ्यः प्रतीयेरन् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.15:
मन्त्ररहिताः क्रियाः आवृत इत्युच्यन्ते ।
यस्मिन् जनपदे ग्रामे कुले वा या आवृतः प्रसिद्धाः तास्तयैव व्यवस्थिताः यथा प्रतीयेरन् न सर्वत्रैवमर्तम्

4.15

आप्ग्स्-तात्_2.15:
आवृतः क्रियाः वैवाहुक्य- अविशेषात् समन्त्रका अमन्त्रकाश्च ।
तास्सर्वा आस्त्रीभ्य- सर्ववर्णेभ्यस्सकाशादवगम्य प्रतीयेरन् कुर्वीरन् विवोढारः ।
तत्र समन्त्रका- ग्रहपूजाङिकुरारोपणप्रतिसरबन्धाद्या आचारसिद्धाः ।
अमन्त्रकाः नाकबलियक्षबलीन्द्राणीपूजादयः ।
ताश्च यथाजनपदं यथावर्ण यथाकुलं यथास्त्रीपुंसं व्यवस्थिता एव ।
न तु सर्वास्सर्वत्र समुच्चिताः

4.16

इन्वकाभिः प्रसृज्यन्ते ते वराः प्रतिनन्दिताः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.16:
नक्षत्रप्रशंसार्था गाथा विवाहप्रकरणे वरप्रसङ्गार्थमुदाहृता ।
यदि वराः कन्याया वरयितारः कन्या वरणार्त इन्वकाभिप्रसृज्यन्ते

4.17

आप्ग्स्-तात्_2.16:
ते वरास्तैर्दुहितृमद्भिः ।
प्रतिनन्दिताः सिद्धार्था भवन्ति ।
तस्माद्वरप्रसङ्गे प्रशस्तमिन्वका नाम नक्षत्रम् ।
ऽइन्वकाशब्दो मृगशिरसीऽति स्वयमेव व्याख्यास्यति ।
तस्मात् ज्ञायते-स्मृत्यन्तरप्रसिद्धा लौकिक्येवयं गाथा, न सूत्रकारस्य कृतिरिति

4.16

आप्ग्स्-तात्_2.16:
इन्काभिः मृगशिरसिऽनक्षत्रे च लुपिऽ(पा.2-3-45) इति सप्तम्यर्थे तृताया ।
ये वराः वरयितारो मृगशिरसि प्रसृज्यन्ते कन्यावरणार्थ प्रेष्यन्ते, ते दुहितृमद्भिः प्रतिनन्दिताः प्रकर्षेण पूजिताः, सिद्धार्था भवन्तीत्यर्थः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc