भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 2

2.1

इतिश्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने प्रथमः खण्डः
इत्यापस्तम्बीये गृह्यप्रश्ने प्रथमः खण्डः ॥
द्वितीयः खण्डः
7 दर्वीसंस्कारः ।
येन जुहोति तदग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिस्संस्पृश्याग्नौ प्रहरति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_2.1:
संमार्जनं सुग्वत् ।
प्रतितपनं न्यग्भूतस्य तपनम् ।
अग्निग्रहणमनर्धकम् , अन्यत्र प्रतितपनस्यासम्भवात् ।
तत्क्रियते दर्शपूर्णमासयोस्सम्मार्जने ये धर्मास्तेषामिह प्राप्त्यर्थमाहवनीये गार्हपत्ये वा चोदितं यत्प्रतितपनं तदस्मिन्नग्नौ भवतीति ।
अग्निमात्रं भिद्यते ।
अन्यत् समानं"सुवमग्रैरित्यादि (आप.श्रौ.2-44) ।
अग्नौ प्रहरतीति पुनरग्निग्रहणं सुक्संमार्जनधर्मा इह प्रवर्तन्त इति ।
पाकयज्ञेषु च दर्व्या होमः, कल्पान्तरे दृष्टत्वाद्दर्शनाच्च ।
यजयं समावर्तने दर्व्यामादायाज्येनाभ्यानायन्नित्यन्यपरे वाक्ये दर्वीं प्राप्तां दर्शयति ।
यच्चायं सकृदुपहत्येति उपघातं स्थालीपाकाद्दर्शयति तदपि नादर्व्यामुपपद्यते ।
तत्राज्यहोमेष्वेका दर्वी ।
स्थालीपाकेषु द्वे होमार्थ चावदानार्थ च ।
उभयोरपि सम्मार्जनम् ।
अवदानस्य होमार्थत्वात् यथाग्निहोत्रे स्रुवस्य ।
तत्र दर्वीमग्नौ प्रतितप्येति वक्तव्यम् ।
येन जुहोतीति किमुच्यते ?
"मध्यमेनान्तमेन वा पलाशपर्णेमे"त्यत्रापि यथा स्यात्, अग्निहोत्रे आग्निहोत्रिके च तन्त्रे यथा स्यादिति ।
यद्येवमञ्जलेरपि प्रसङ्गः ।
विवाहसर्पयज्ञादिषु ज्ञापकात् सिद्धम् ।
यदयमौपकार्ये पार्वणवदिति यत्नं करोति तत् ज्ञापयति-अञ्जलिहोमा अधर्मग्राहकाः यावदुक्तधर्माण इति ।
तेन सादनादि त्रयमञ्जलेर्न भवति

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc