भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 29

29.1

आप्ग्स्-तात्_10.1:
उपनयनमिति कर्मनामधेयम् ।
कुमारस्याचार्यसमीपनयनमस्मिन् कर्मणीति, पङ्कजादिवत् ।
विर्विस्तरार्थः ।
आङ्ब लव- दर्थः ।
चक्षिङो ऽत्र व्यक्तवागर्थस्य ख्याञादेशात् व्याख्यास्याम इति रूपम् ।
तथा चायमर्थः- उपनयनाख्यं कर्म वैकल्पिककल्पोक्त्या विस्तृतं बलवत्प्रमाणोपपन्नं असाधारणैश्शब्दैर्वक्ष्याम इति ।
इयं च प्रतिज्ञा श्रोतृजनमनो ऽवधारणार्था ।
केचित्-दैवादेर्विघ्नात् पूर्वैर्निषेकादिभिरसंस्कृतस्याप्युपनयनं भवत्येव ।
न तूपनयनासंस्कृतस्य उत्तराणि श्रौतस्मार्तानीत्येवमुपनयनप्राधान्यज्ञापनार्था प्रतिज्ञा ।
किञ्चि गृह्योपदिष्टकर्मसु गृहस्थस्यैवाधिकारो न ब्रह्मतारिण इत्येवंरूपं विशेषं ज्ञापयितुमप्रतिज्ञं विवाहमुपदिश्य उपनयनकल्पोपदेशः सप्रतिज्ञः क्रियते ।
अस्य च कल्पस्य धर्मशास्त्रे ऽउपनयनं विद्यार्तस्यऽ(आप.ध.1-1-9) इत्य त्रानुपदेशः सर्वचरणार्थतां निवर्तयितुमिति

29.2

गर्भाष्टमेषु ब्राह्मणमुपनयीत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.2:
यस्मिन् वर्षे गर्भो भूत्वा शेते तद्वर्ष गर्भशब्देनोच्यते तदष्टमं येषां तानीमानि गर्भाष्टमानि वर्षाणि ।
बहुवचनं सौरादिभेदेन वर्षाणं भिन्नत्वात् ।
अपर आह-जन्मप्रभृति सप्तानां वर्षाणां गर्भमष्टमं भवति ।
तेन सप्तस्वपि वर्षेषूपनयनं चोद्यते ।
तत्र चतुर्षु वर्षेष्वयोग्यत्वात्
चौलादिसंस्कारान्तरविरोधाच्च पञ्चमादिषु त्रिषुपनयनमिति ।
अत्र षष्ठसप्तमयोः काम्यमुपनयनष्टमे नित्यमित्ययं विसेषो न स्यात् ।
सर्वत्र नित्यमेव स्यात् ।
किंच पञ्चमे षष्ठे वा वर्षे वर्तमाने कथं गर्भवर्षमष्टमं भवति ।
नह्यसत्यपूरणीयेषु पूरणत्वमुपपद्यते ।
तस्मात् सप्तमे वर्तमान एव गर्भवर्षमष्टमं भवति ।
तस्मादविवक्षितं बहुवचनम् ।
पूर्वोक्तो वा निर्वाहः ।
काम्यं तूपनयनं विध्यन्तरलभ्यम् ।
उपनयीतेति पाठः श्रुत्यनुसारेण शब्विकरणस्तु धातुः ।
राजन्यवैश्ययोः विशेषोपदेशा देव गर्भाष्टमविधेः ब्राह्मणविषयत्वे सिद्धे ब्राह्मणविधिः श्रुत्यनुवाद एव ।
पुनरुपनयीतेत्यनुच्यमाने पूर्वमुपनयनग्रहणमधिकारार्थमेव स्यात्, तमर्थ न साझयेत् यस्तत्र साध्यः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc