आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 28
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने नवमः खण्डः ॥
तृतीयश्च पटलः समाप्तः ॥
====================================================================================
अथ चतुर्थः पटलः
अथ दशमः खण्डः ।
6 उपनयनप्रकरणम् -
1 उपनयनस्य कालः ।
उपनयनं व्याख्यास्यामः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.1:
येन आचार्यकुसमुपनीयते कुमारः तदुपनयनं नाम कर्म श्रौतः पुरुषसंस्कारः ।
ऽगर्भाषटमेषु ब्राह्मणमुपनयीतऽइति वक्ष्यमाणेनैवोपनयनाधिकारे सिद्धे प्रतिज्ञाकरणं प्राधान्यख्यापनार्थम् ।
यथा"अग्न्याधेयं व्याख्यास्याम"(आप.श्रौ.5.1.1) इत्यादौ ।
कथं पुनरुपनयनस्य प्राधान्यम्?यस्मादनुपनीतस्य श्रौतस्मार्तेषु सर्वेषु कर्मस्वनधिकारः ।
उपनयने तु गर्भाधानदिभिरसंस्कृतस्यानंधिकारः ।
यत्र ब्रह्मचारिधर्माः सामयाचारिकेषु तत्रैवोपनयने ऽप्युच्यमाने सर्वचरणार्थता स्यात् ।
इष्यते चास्मदीयानामेवायं कल्पः ।
तस्मादत्रोपदेशः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0