भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 30

30.2

आप्ग्स्-तात्_10.2:
गर्भाष्टमेषु वर्षेष्विति शेषः ।
ऽगर्भादिस्सङ्ख्या वर्षाणाम्ऽ(गौ.ध.2-7) इति गौतमवचनात् ।
गर्भशब्देन यस्मिन् गर्भो वर्धेते, तल्लक्ष्यते ।
तदष्टमं येषां जन्मादीनां सप्तानां तानि गर्भाष्टमानि वर्षाणि ।
तेषु ब्राह्मणमुपनयीत ।
एवं यद्यति जन्मादिसप्तस्वप्युपनयनं प्राप्तं,तथापि जन्मादिषु त्रिषु चौलान्तैः गर्भसंस्कारैरवरुद्धत्वान्न क्रियते ।
चतुर्थे ऽपि नैव;कुमारस्य व्रतीचरणा सामर्थ्यात्
अतो ऽत्रोपादेयगता बहुत्वसङ्ख्या कपिञ्जलन्यायेन गर्भादारभ्य षष्ठसप्तमाष्टमेषु त्रिष्वेवावतिष्ठते, सामर्थ्यात् प्रयोगभेदेन ।
ननूत्तरत्र ऽराजन्यंऽऽवैश्यऽमिति विशेषोपादानादेव गर्भाष्टमविधिर्ब्रअह्मण स्यैवेत्यर्थसिद्धत्वात् ब्राह्मणमिति न वक्तव्यम् ।
तथोपनयनं व्याख्यास्याम इति मकृतत्वादुपनयीतेत्यपि ।
मैवम्;उपनयनं श्रौतमिति ज्ञापयितुम् ।
ऽअष्टवर्ष ब्राह्मणमुपनयीतऽइत्येत च्छ्रुत्यनुकारित्वात् ।
केचित्-गर्भाष्टम एव वर्षे, न तु षष्ठसप्तमयोः तयोर्र्गभाष्टमत्वाभावादिति ।
तन्न;बहुवचनानर्थक्यात्

30.3

गर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम् ॥ आ
वसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.4:
उदगयने वसन्तनियमः ब्राह्मणस्य ।
क्षत्रियस्यापवादो नियमो वा ।
वैश्यापवादः पूर्वपक्षादयस्तु स्थिता एव ।
वर्षाण्यृतनश्च विधीयन्ते इह सामयाचारिकेषु च ।
तत्र सामयाचारिकेषु विधानं सर्वचरणार्थम् ।
इह विधानं वर्णनियमार्थम् ।
शास्त्रान्तरदृष्टानां कालान्तराणामिहप्रवृत्तिर्मा भूदित्येवं ब्रुवन्नेतत् ज्ञापयति-चौलादिषु शास्त्रान्तरदृष्टो ऽपि कालः पक्षे भवतीति

30.3

आप्ग्स्-तात्_10.4:
उभयत्रापि कपिञ्जलन्यायेन बहुवचनस्य त्रित्वमेवार्थः

30.4

ऋतवो वसन्तादयस्त्रयो ब्राह्मणादिवर्णक्रमेणोपनयनस्य काला भवन्ति ।
अयं चर्तुविधिस्सामानायाविधिप्राप्तोदगयनस्य यथार्ह नियमापवादार्थः ।
पूर्वपक्षादिस्तु भवत्येव ।
धर्मशास्त्रे तु ऽवसन्ते ब्राह्मणम्ऽ(आप.घ.1-1-19) इत्यादिः ऽशिशिरे च वा सर्वान्ऽइति भरद्वाजगृह्योक्तशिशिरप्रतिषेधार्थः ।
ऽगर्भाष्टमेषु ब्राह्मणम्ऽइत्यादिस्तु ऽअथ काम्यानिऽ(आप.ध.1-1-20) इत्यादि विधातुमनुवादः

30.4

2 उपनयने दिग्वपनम् ।
ब्राह्मणान्भोजयित्वाऽशिषो वाचयित्वा कुमारं भोजयित्वानुवाकस्य प्रथमेन यजुषापः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.5:
अथोपनयनविधिः-पूर्वेद्युर्नान्दीश्राद्धम् ।
ततः श्वोभूते ब्राह्मणान् भोजयित्वा तैराशिषो वाचयति-पिण्याहं स्वस्यृद्धं इति ।
ततः कुमारं भोजयेत् ।
एवमन्तं पित्रादेः कर्म ।
अथाचार्यः उष्णाश्शीताश्चापः संसृजति ।
अनुवाकस्यो त्तरस्य प्रथमेन यजुषा ऽउष्णेनवायऽ; वित्येतेन ।
संसृजंश्चोष्णाश्शीतास्वानयति, न शीता उष्णासु ।
ततस्ताभिरद्भिः कुमारस्य शिर उनत्ति क्लेदयति- उत्तरयर्चा ऽआप उन्दन्त्विऽत्येतया ।
उत्तरेण यजुषेत्येव सिद्धे अनुवाकस्य प्रथमेन यजुषेत्युक्तं संज्ञाकरणार्थम् ।
तेन उष्णेन वायवुदकेनेत्येष इत्यत्रानुवाकस्य ग्रहणं भवति ।
अन्यथा संशयः स्यात्- अनुवाको मन्त्रा वेति ।
उष्णाश्शीतास्वानीयेत्येव सिद्धे संसृज्येतिवचनं सर्वार्थत्वप्रदर्शनार्थम् ।
अत्मनश्च नापितस्य च या उन्दनार्थास्ताः संसृजति तच्चान्येषां व्यक्तम्-नापितं शिष्यात्-शीतो ष्णाभिरह्भिरबर्थ कुर्वाणो ऽक्षण्वन् कुशलीकुर्विति ॥
(आश्व.गृ.1-17-16)

30.5

आप्ग्स्-तात्_10.5:
ब्राह्मणान् भोजयित्वेत्यनेन यच्छ्राद्धं धर्मशास्त्रे ऽशुचीन् मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽ(आप.ध.2-15-11) इति विहितं, यदेव नान्दीश्राद्धमभ्युदयश्राद्धमिति प्रसिद्धं, तदेवोच्यते ।
तच्च स्मृत्यन्तरप्रसिद्धविधिना कर्तव्यम् ।
तस्य त्विह पुनः पाठः पाठक्रमेणानुष्ठानार्थः ।
अन्यथा पदार्थानां बद्धक्रमत्वाद्विवाहादिष्विवान्त एव स्यात् ।
अशीर्वचने ऽपि धर्मशास्त्रविहिते ऽयमेव न्यायः
आशीर्वचनविधिश्च भाष्योक्तः ।
केचित्-पूर्वेद्युर्नान्दीश्राद्धम्, आचारात् स्मृत्यन्तराच्च ।
श्वोभूते च ब्राह्मणानां भोजनं, भुक्तवद्भिरेवाशिषां वाचनार्थम् ।
सर्वकर्मणां चान्ते ऽशुचीत् मन्त्रवतस्सर्वकृत्येषु भोजयेत्ऽइति वचनादिति ।
अत्र च कुमारस्य स्नवभोजनात्प्राक् ऽयज्ञोपवीतं परमं पवित्रम्ऽइत्यादिमन्त्रेण यज्ञोपवीतधारणम् ।
ऽभोजन आचमने स्वाध्याये च यज्ञोपवीती स्यात्ऽइति धर्मशास्त्रवचनात् ॥
ऽकेचित्-समिदाधानात्प्रागेवेति ऽ; ॥
कुमारभोजनं च विना क्षारलवणादिभिः ।
आद्यन्तयोश्च द्विराचमनम् ।
केचित्-एवमन्तं मातापितरौ कुरुतः, अत ऊर्ध्वमाचार्य इति ॥
अनुवाकस्य प्रथमेन यजुषा ऽउष्णेन वायोऽइत्यनेन अपः उष्णाश्शीताश्च संसृजति ।
संसृजंश्चो ष्णाश्शीतास्वानयति, न तद त्विनियमेन ।
अत्र चानुवाकग्रहणं गृह्यमन्त्रास्समाम्नाता एव न कल्पसूत्रस्था इति ज्ञापनार्थम् ।
तत्प्रयोजनं चैते ब्रह्मयज्ञादिष्वध्येतव्या इत्युक्तम् ।
ततस्ताभिरद्भिः ऽआप उन्दन्तुऽइत्येतया कुमारस्य शिर उनत्ति ।
प्रागरभ्य प्रदक्षिण मुपनत्ति क्लेदयति ॥
त्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.6:
प्रवपति प्रथमं वपति वपनं प्रारभत इत्यर्थः ।
तेन पूर्व मन्त्रवद्वपनं करोत्याचार्यः पश्चान्नापित इत्युक्तं भवति ।
तत्रायं प्रयोगः कुमारस्य शिरसि प्राच्यां दिशि त्रीन् दर्भानन्तर्धाय ऽयेनावपऽदित्येतया प्रच्छिनत्ति क्षुरेण ।
असावित्यब्य स्थाने तस्य नाम प्थमया विभक्त्या गृह्णाति ।
यथा असावयं यज्ञदत्तशर्मा ।
एवं सर्वत्रादसः प्रयोगे नाम निर्देष्टव्यम् ।
प्रच्छिद्या नडुहे शकृत्पिण्डे यवमति केशान् प्रक्षिपति ।
अथाप उपस्पृश्य तथैव दक्षिण्यां दिशि ऽयेन पूषेऽति ।
प्रतीच्यां ऽयेन भूयःऽइति ।
उदीच्यां ऽयेन पूषेऽति ।
अत्र संबुध्या नामग्रहणं-तेन ते वपामि यज्ञदत्तशर्म्मन्नायुषेति

30.6

आप्ग्स्-तात्_10.6:
ततो ऽयेनावपत्ऽइत्यादिभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं त्रींस्त्रीन् दर्भानन्तर्धाय केशान् प्रवपति ।
प्रशब्दात् कुशलीकरणमप्याचार्यस्यैव ।
तत्र प्रथमे मन्त्रे असावित्यस्य स्थाने विष्णुशर्मेति कुमारस्य नामग्रहणम् ।
चतुर्थे तु सम्बुध्द्या

30.6

वपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा ॥ आप्ग्स्_10.7 ।
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.7:
एवमार्येण प्रतिदिशं प्रवपने कृते नापितस्तस्य केशान् वपति संसृष्टाभिरेवाद्भिरबर्थ कुर्वाणः ।
तं नापितं वपन्तमुत्तरयर्चा ऽयत् क्षुरेणेत्येतया नुमन्त्रयत आचार्यः

30.7

आप्ग्स्-तात्_10.7:
दक्षिणत उपविश्य कुमारस्य माता ब्रह्मचरी वा कश्चित् ऽयत् क्षुरेणऽइत्येतया वपन्त माचार्यमनुमन्त्रयते ।
कस्मादेवं सूत्रच्छेदः? उच्यते ।
अस्य कुमारस्यायुर्मा प्रमोषीरिति मध्यमपुरुषलिङ्गके ऽनुमन्त्रणे वपनव्यातृताचार्यकर्तृकत्वविरोधात् ।
मातृब्रह्म चारिव्यतिरिक्तस्य प्रकृतस्याभावात्

30.7

3 उप्तानां केशानामुदुम्बरमूले निधानम् ।
आनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन् केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.8:
अथ कुमारस्य माता ब्रह्मचारी वा कश्चित् तस्य दक्षिणत उपविश्य कस्मिश्चित् पात्रे आनडुहं शकृत्पिण्डं कृत्वा यवाश्च तस्मिन् पिण्डं निधाय तस्मिन् केशानुपयच्छति उपगृह्णाति यथा भूमौ न पतन्ति तथा सर्वानुपयम्य ततस्तान् केशानुदुम्बरस्य वृक्षस्य मूले दर्भस्तम्बे वा निदधाति ।
उत्तरयर्चा ऽउप्त्वाय केशाऽनित्येतया ।
यदि माता तामन्तो मन्त्रं वाचयति

30.8

आप्ग्स्-तात्_10.8:
उपनयनस्य प्रकृतत्वान्माता ब्रह्मचारी वा ऽउप्त्वाय केशान्ऽइत्येतया आनडुहे शकृत्पिण्डे इत्यादि यथोपदेशं करोति ।
केचित्-आचार्यः पूर्व वपनमारभते ।
ततो नापितस्संसृष्टाभिरेवाद्भिरवर्थ कुर्वन् केशान् प्रवपति ।
तं च वपन्तमुत्तरया आचार्यो ऽनुमन्त्रयते ।
दक्षिणतो मातेत्युक्तार्थमेवेति ।
तन्नैतद्वपनं नापितस्समापयतीत्यत्र वचनाभावात्, तत्कल्पनायां चानुपत्त्यभावात् ।
प्रशब्दस्य विपातस्य प्माणान्तरावगतार्तद्योतकत्वात्, उक्तसूत्रभेदेन स्ववाक्योक्तस्यैव मात्रादेरनुमन्त्रणकर्तृत्वोपपत्तेश्च

30.8

4 स्नातस्य कुमारस्याश्मन्यास्थापनम् ।
स्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाऽधाप्योत्तरेणाग्निं दक्षिणेन पदाश्मनमास्थापयत्यातिष्ठेति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.9:
"स्नातं कुमारं शुचिवाससंबद्धशिखं यज्ञोपवीतमासञ्जति-यज्ञोपवीतं परमं पवित्रमिति ।
ततस्तं यज्ञोपवीतिनं देवयजनमुदानयती" (बौगृ.2-5)ति बौधायनः ।
तस्य सर्वस्योपलक्षणं स्नातवचनम् ।
ततो ऽवग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यत आचार्यः ।
विवाहवदग्न्युत्पत्तिः ।
शम्याः परिध्यर्थे ।
सकृत् पात्रप्रयोगः ।
वासोमेखलादीनामपि सह सादनम् ।
तत आज्यभागान्ते कुमारं पालाशीं समिधमादापयति उत्तरयर्चा ऽआयुर्दा देवऽइत्येतया ।
कुमारो मन्त्रेण समिधमादधाति ।
तमाचार्यः प्रयुङ्क्ते मन्त्रं च वाचयति, यमिधं चाधापयति ।
देवताया अभिधेयत्वान्न मन्त्रलिङ्गविरोधः ।
अन्ये त्वाचार्यस्यैव मन्त्रप्रयोगमिच्छन्ति ।
आधाप्य समिध मुत्तरेणाग्निं अश्मानं प्रतिष्ठितमनेना स्थापयति दक्षिणेन पदा ऽ आतिष्ठेमऽमिति मन्त्रेण ।
अयं मन्त्र आटार्यस्यैव, कुमारस्याभिधेयत्वात् ।
तेनाचार्यो मन्त्रमुक्तत्वा धत्रिणं पादं हस्ताभ्यां गृहीत्वाश्मनि निधापयति

30.9

आप्ग्स्-तात्_10.9:
अथाग् नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
पात्रसादनकाले अश्मवासोमेखलाजिनदण्डकुशकूर्चाश्च सहैव सादयति ।
केचित्-दर्व्यादीन्यपि सहैवेति ।
आज्यभागान्ते कृते स्नातं कुमारं ऽआयुर्दा देवऽइत्येतया पालाशींव समिधं हस्ते गृहीत्वाऽदा- पयति ।
मन्त्रान्ते चाधेहीति ब्रूयात् ।
आधापनमन्त्रश्चायम् ।
केचित्-आधानमनत्रं वाचयीताचार्य इति ।
तेषां ऽजरसे नयेमम्ऽइति मन्त्रालिङ्गविरोधः ।
अथाधापनार्थे मन्त्रे अश्मास्थापनमन्त्रवत् कुमाराभिधानार्थमुच्चारणं स्यात्, न देवताभिधानार्यम्;सकृदुच्चरितस्योभयाभिधानाशक्तिरिति चेत्, न;ऽघृतपृष्टो अग्नेऽइतीह देवताया एवाभिधेयत्वात् ।
अत एवोक्तं ऽमन्त्रमुक्त्वाऽधेहि जुहुधीति ब्रूयात्ऽइति ।
शेषं व्यक्तम्

30.9

5 कुमारस्य वासः परिधापनम् ।
वासःसद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिः परिधाप्य परिहितमुत्तरयानुमन्त्रयते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.10:
एकस्मिन्नेवाहनि तन्तुक्रिया वयनाक्रिया च यस्य तत् सद्यःकृत्तोतं ।
एवं भूतं वास उत्तराभ्यां ऋग्भ्यां ऽरेवतीस्त्वेऽत्येताभ्यां अभिमन्त्रयेत ।
ततस्त दुत्तराभिस्तिसृभिः ऽया अकृन्तऽन्नित्येताभिः परिधापयति ।
आचार्यस्यैव मन्त्राः ।
वचनादेकमिति तिसृणामन्ते परिधापनम् ।
ततः तं परिहितवन्तं कुमारं आचार्यः उत्तरया ऽ परीदं वासऽइत्येतयाअनुमन्त्रयते

30.10

आप्ग्स्-तात्_10.10:
वासः यच्छाण्यादि धर्मशास्त्रे विहितं तत् सद्यःकृत्तोतं सद्य एव छिन्नोतं, नान्यस्मिन्नहनि प्रसस्ते ऽपि ।
केचित्-एकस्मिन्ने वाहनि तन्तुक्रिया वयनक्रिया च यस्य, तत् सद्यःकृत्तोतमिति ।
एवंभूतं ऽरेवतीस्त्वाऽइति द्वाभ्यामभिमन्त्र्य ऽया अकृन्तन्ऽइत्येताभिस्तिसृभिः प् अरिधाप्य परिहितं कुमारं ऽपरीदं वासःऽइत्यनया नुमन्त्रयते

30.11

6 मौञ्ज्यजिनधारणम् ।
मौञ्जीं मेखलां त्रिवृतां त्रिः प्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.11:
अथ मेखला मुत्तराभ्यामृग्भ्यां ऽइयं दुरुक्ताऽदित्येताभ्यां त्रिः प्रदक्षिणं परिव्ययति कुमारम् ।
स्वयमेव मन्त्रमुक्त्वा तं वाचयत्याचार्यः ।
मन्त्रलिङ्गात् त्रिवृत् मेखला मौञ्जी मुञ्जतृणैः कल्पिता ।
त्रिवृत् त्रिगुणा ।
त्रिवृतामिति छान्दसो दीर्घपाठः ।
ततो ऽ जिनमुत्तरं वास- करोति उत्तरयर्चा ।
मित्रस्य चक्षुरित्येतया स्वयमेव मन्त्रमुक्त्वा ।
सामयाचारिकेषु वर्णविशिष्टा मेखलाविशेषा श्चोदिताः ।
इदं तु सर्ववर्णानां मौञ्जीप्राप्त्यर्थ वचनम् ।
अजिनविशेषास्तु सामयाचीरिका इहापि प्रत्येतव्याः ऽकृष्णं ब्राह्मणस्येऽत्यादयः
आप्ग्स्-तात्_10.11:
मौञ्जीं मुञ्जैः कल्पिताम् ।
त्रिवृतां त्रिवृतम् ।
दीर्घश्छान्दसः ।
मेखलां ऽ इयं दुरुक्तात्ऽ इत्ये ताभ्यां त्रिः प्रदक्षिणं परिव्ययति ।
त्रिवृतामिति च ऽशक्तिविषये दक्षिणावृत्तानाम् ।
ज्या राजन्यस्यऽ(आप.ध.1-2-33,34) इत्यादीनां प्रदर्शनार्थम् ।
अजिनं ऽकृष्णं ब्राह्मणस्यऽ(आप.ध.1-3-3) इत्यादि धर्मशास्त्रे विहितमुत्तरं वासः करोति ऽमित्रस्य चक्षुःऽइत्येतया

30.11

7 कुमारस्य देवताभ्यः परिदानम्, उपनयनञ्च ।
उत्तरेणाग्निं दर्भान् संस्तीर्य तेष्वेनमुत्तरयावस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण यजुषोपनीय ऽसुप्रजाऽइति दक्षिणे कर्णे जपति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_10.12:
अथाचार्यः उत्तरेणाग्निं दर्भार्न्त्सस्तीर्य तेष्वेनं कुमारं उत्तरया ऽआगन्त्रा समगन्महीऽत्येतयावस्थापयति ।
कुमारस्य मन्त्रः आचार्यो वाचयति ।
अवस्थाप्य स्वयं पश्चात् भूमाववस्थाय स्वमञ्जलिमुदकेन पूरयित्वा तम्जलिमस्मै कुमाराय प्रतिमुखं दर्भेष्ववस्थिताय प्रोक्षणार्थमानयति तस्याञ्जलौ ।
अस्मा इति चतुर्थीनिर्देशात् कुमारार्थो ऽयमुदकाञ्जलिः ।
तेन प्रोक्षणस्य कुमारः कर्ता भवति ।
आनीय ततः प्रोक्षणं प्रयोजयत्या चार्यः ।
उ त्तरयर्चा ऽसमुद्रादूर्मिऽरित्येतया ।
कुमारस्य मन्त्रः ।
आचार्यो वाचयति ।
ऽ(त्रिः प्रोक्षयति ।
सकृत् मन्त्रेण द्विस्तूष्णीम् ।
सव्येन धारणमुदकस्य, दक्षिणेन प्रोक्ष्णम् ।
प्रोक्ष्येत्यत्र णिचो लोपो द्रष्टव्यंः) अथ कुमारस्य हस्तं गृह्णाति उत्तरौर्दशभिर्मन्त्रौः ऽ अग्निष्टे हस्तमग्रमीऽदित्यादिभिः ।
प्रतिमन्त्रं ग्रहणावृत्तिः ।
तत उत्तरै रेकादशभिः ऽअग्नये त्वा परिददामीऽत्यादिभिः तं देवताभ्यः परिददाति ।
सर्वेष्वसौशब्देषु नामग्रहणं संबुध्या ।
परिदाय तमुत्तरेण यजुषा ऽदेवस्य त्वा सवितुःऽ इ त्येतेनौपनयते विद्यानुष्ठानार्थ आचार्यः स्वकुलं प्रापयतीत्यर्थः ।
यजुरुच्चारणमेव तत्र व्यापारः, नान्यः कश्चित् ।
नामग्रहणं च संबुध्या ।
केचित्-असावित्यन्तोदातस्य पाठात् आचार्यस्य नाम प्रथमया निर्देश्यं मन्यन्ते ।
एतत्सम्बन्धात् समस्तमेव कर्मोपनयनं, यथा पशुबन्ध इति ।
उपनीय सुप्रजा इति दक्षिणे कर्णे जपति ऽसुपोषः पोषैऽरित्येवमन्तो जपः

30.12

आप्ग्स्-तात्_10.12:
उत्तरया ऽआगन्त्रा समगन्महिऽइत्येतया ।
अस्मा इति चतुर्थी षष्षठ्यर्थे ।
उत्तरया ऽसमुद्रादूर्मिःऽइत्येतया त्रिः प्रोक्षति ।
सकृन्मन्त्रेण, द्विस्तूष्णीम् ।
उत्तरैः ऽअग्निष्टे हस्तमग्रभीत्ऽइत्यादिभिर्दशभिर्मन्त्रैः ।
सर्वेषां चान्ते सकृद्धस्तग्रहणम् ।
उत्तराः ऽ अग्नयेत्वा परिददामिऽइत्येकादशभिः प्रतिमन्त्रं देवताभ्यो मन्6लिङ्गप्रतीताभ्यः परिददाति रक्षणार्थम् ।
ततश्च यदि सकृत्परिदानं स्यात् तदा विध्यपराधात् सर्वप्रायश्चित्तं होतव्यम् ।
असौशब्देषु च सर्वेषु सम्बुद्ध्या नामग्रहणम् ।
उत्तरेण यजुषा ऽदेवस्य त्वा सवितुःऽइत्यनेन उपनयते आत्मनस्समीपं नयति ।
नामग्रहणं च सम्बुद्ध्यैव ।
केचित् कुमारस्स्वाञ्जलावाचार्येणानीतमुदकं सव्ये हस्ते धारयन्, दक्षिणेन हस्तेनात्मानं त्रिः प्रोक्षति ।
आचार्यस्तु प्रोक्षयति ।
णिचश्च लोपो द्रष्टव्यः ।
हस्तग्रहणं च प्रतिमन्6मित्यनेककल्पनासापेक्षं व्याचक्षते

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc