भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 23

23.2

ऽयस्याग्नौ न क्रियते न तद्भोक्तव्यम्ऽ(आप.ध.2-15-13) इति धर्मशास्त्रवचनात् शरीरस्थित्यर्थमपि भोजनं द्विजस्य वैश्वदेवशेषेणैव भवितव्यम् ।
चतूरात्रमहूयमानो ऽग्निर्लौकिकस्सम्पद्यतेऽइति वचनादहुते ऽग्निहोत्रे सर्वक्रत्वर्थो ऽग्निर्लौकिकस्स्यात् ।
ततश्च ज्वरादिभिरुपद्रवे सत्यपि वैश्वदेवाग्निहोत्रादेः तत्प्रायश्चित्तानां वा होमानामवश्यकार्यत्वादृत्विगन्तरालाभे सत्यपि द्वयोरपि स्त्र्यनुपेतयोः येन केनचित् प्रकारेण मन्त्र अङ्गलोपेनापि तत्र प्रसक्तिः ।
तथा वैश्वदेवस्य श्राद्धादिषु ऽअथ गृहमेधिनोयदशनीयस्य होमा बलयश्चऽ; (आप.ध.2-3-12) इति वचनात्, सुवर्चका यवक्षाराभ्यां लवणेन चावरान्नेन च कोशधान्यापरनाम्ना माषादिना तिलव्यतिरिक्तेन संसृष्टस्यापि भवति हविषो होमे प्रसक्तिः ।
तदुभयनिषेधार्थमाह-
44 वैश्वदेवे निषिद्धः कर्ता निषिद्धानि च द्रव्याणि ।
स्त्रियानुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.3:
पाकयज्ञाधिकारे सर्वत्रायं प्रतिषेधः श्रद्धादिष्वप्यवरान्नानि कोशीधान्यानि माषादीनि कृष्णधान्यानि चणककोद्रवादीनि ।
परिचक्षते वर्जयन्ति सिष्टाः ।
"न स्त्री जुहुयात् ।
नानुपेतः ।
न क्षारलवणहोमो विद्यते"इति प्रतिषेधेनैव सिद्धे उत्तरार्थो ऽयं प्रतिषेधः ।
किञ्च "पाणिग्रहणादि गृह्यं परिचरेत् स्वयं पन्त्यपि वा पुत्रः कुमार्यन्तेवासीवे"(आश्व.गृ.1-9-1)ति आश्वलायनवचनेन पन्त्यादीनामौपासनहोमप्राप्त्याशङ्कायां प्रतिषेधः

23.3

आप्ग्स्-तात्_8.3:
सेत्रिया अनुपेतेन अनुपनीतेन च होम होममात्रं श्रौतं स्मार्त च शिष्टाः परिचक्षते वर्जयन्ति यस्मात् तस्मादेव ताभ्यां न होतव्यमिति वाक्यशेषः ।
होममिति च सामान्याभिधानेन श्रौतहोमे ऽपि स्त्र्यनुपनीतौ शिष्टाः वर्जयन्तीति ज्ञापनात् गार्ह्यअधिकारापवादः ।
क्षारेत्यादि वायाख्यातप्रायमेव ।
यत्तु धर्मशास्त्रे ऽन क्षारलवणहोमो विद्यते ।
तथावरान्नसंसृष्टस्य चऽ(आप.ध.2-15-14,15) इति तत्
ऽउदीचीनमुष्णं भस्मापोह्य तस्मिन् जुहुयात्ऽ(आप.ध.2-15-16) इति विधानार्थो ऽनुवादः ।
यदपि तत्रेव ऽन स्त्री जुहुयात् नानुपेतःऽ; (आप.ध.2-15-17,18)इति तत् क्षारादि यथोष्णभस्मनि हूयते, तथा तस्मिन्नापि स्त्र्यनुपनीताभ्यां न होतव्यमिति निषेद्धुम्

23.3

अस्य प्रतिषेधस्य प्रतिप्रसवमाह--
यथोपदेशं काम्यानि बलयश्च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.4:
यो ऽयं स्त्र्यादीनां प्रतिषेधः स काम्येषु कर्मसु नादरणीयः यथेपदेशमेव तानि कर्तव्यानि ।
तथा बलयश्च यथोपदेशमेव कर्तव्याः ।
सिध्यर्थे यदस्य गृहे पण्यं स्यादिति काम्योदाहरणम् ।
एवमतऊर्ध्व यदशनीयस्येत्यादि बलीनां होमे चोदितस्य स्त्र्यादिप्रतिषेधस्य बलिषु प्रसङ्गाभावात् ज्ञापकमिदं-होमधर्मो बलिषु प्रवर्तत इति ।
तेन अपरेणाग्निं दक्षिणं जान्वाच्येत्येवमादि बलिष्वपि भवति ।
ऽन काम्येषु बलिषु चऽइत्योव सिद्धे यथोपदेशमिति वचनमुपदेशादेवैषां प्रवृत्तिः स्वशास्त्रेण शास्त्रान्तरेण वा न प्रतिनिधित्वेन

23.4

आप्ग्स्-तात्_8.4:
यानि काम्यानि येन प्रकारेणोपदिष्टानि तानि तथैव भवन्ति, नैव तत्र क्षारादिवर्जनम्, ऽयदस्य गृहे पण्यं स्यात्ऽ(आप.गृ. 23-5) इत्युपदेशस्य गृहशब्देन विशेषितत्वात् ।
यदि तत्र क्षारादिवर्जनमिष्टं स्यात्, तदा ऽयदस्य पण्यं स्याऽदित्योतावदेव ब्रूयात् ।
तथा बलयश्च यथोपदेशमेव ।
न तु क्षारादिनिषेधः, ऽसति सूपसंसृष्टेन कार्याःऽ(आप.द.2-3-19) इत्यारम्भसामर्थ्यात् ।
अन्यथा ऽगृहमेधिनो यदशनीयस्य होमा बलयश्चऽइति वचनादेव क्षारादिव्यतिरिक्तशाकमांसादिसूपसंसृष्टेनान्नेन कार्यास्स्युः ।
अत्र च ऽयदशनी यस्य होमा बलश्चऽइति होमसाहचर्यात् बलिष्वपि या क्षारादिनिषेधशङ्का सावार्यते ।
केचित्-यथोपदेशं काम्यानि बलयश्चेत्यस्मादेवज्ञापनाद्धोमधर्माणां बलिष्वपि प्रसक्तिरिति ।
तेषां सर्पबलौ सक्तुनिर्वापे स्वाहाकारो दुर्वारः

23.5

45 होनार्थमुपात्तस्याग्नेः स्वयं प्रज्वलने प्रयाश्चित्तम् ।
सर्वत्र स्वयं प्रज्वलिते ऽग्नावुत्तराभ्यां समिधावादध्यात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.5:
सर्वत्र सर्वेषु पाकयज्ञेषु अग्नौ स्वयं प्रज्वलिते धमनादि पुरुषप्रयत्नमन्तरेणेत्यर्थः ।
एतस्मिन् निमित्ते संप्राप्ते उत्तराभ्या- मृग्भ्यां द्वे समिधावग्नावादध्यात् ऽउद्दीप्यस्वऽऽमा नो हिंसीरिति ।
आदधातिचोदितत्वात् स्वाहाकारो नास्ति ।
सर्वत्र गृहणात् सर्व पाकयज्ञेष्वयं विधिर्भवति ।
अन्यथा प्रकरणाद्विवाह एव स्यात् ।
सर्वत्र लौकिके वैदिकेगार्ह्ये वाग्नाविति ।
एककर्मकालेष्वित्यन्ये ।
आप्ग्स्-तात्_8.5:
सर्वत्र सर्वाचारलक्षणेषु कर्मसु ।
अन्ये-सर्वदा अकर्मकालेष्वपीति ।
स्वयंप्रज्वलिते ऽग्नौ प्रयत्नमन्तरेणौपासने प्रज्वलिते ।
उत्तराभ्यां ऋग्भ्यां ऽउद्दीप्यस्व जातवेदःऽइत्येताभ्यां समिदावादध्यात् ।
प्रत्यृचमेकैकां समिधमादद्यात्, स्वतस्सधनभेदे क्रियाभेदात् ।
आदधातिप्रहरतीत्याद्यजुहोतिचोदितेषु न स्वाहाकारो विहितः ।
प्रस्तरप्रहरणे ऽपि ऽन स्वाहाकरोतिऽ(आप.श्रौ.3-6-7) इत्येतत्, आदधातीत्यादिष्वपि प्रतिषेधदर्शनार्थम् ।
अन्ये तु- ऽन स्वाहाकरोतिऽइत्तेष प्रतिषेधः अजुहोतिचोदितेष्वप्याददातीत्यादिषु स्वाहाकागं ज्ञापयतीति

23.5

आपन्माश्रीः श्रीर्मागादिति वा ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.6:
एताभ्यां यजुर्भ्या एते समिदावादध्यादिति मन्त्रविकल्पः

23.6

आप्ग्स्-तात्_8.6:
ऽउद्दीप्यस्वेऽति ऋग्द्वयेन आपन्मेत्येतद्यजुर्द्वयं विकल्प्यते

23.6

46 विवाहदिनाविस्मरणम् ।
एतदहर्विजानीयाद्यदहर्भार्यामावहते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.7:
एतदहः एतन्नक्षत्रम् ।
विजानीयात् न विस्मरेत् ।
यदहः यस्मिन्नक्षत्रे भार्या आवहते तत्कुलादानयति ।
यस्मिन्नक्षत्रे पाणिग्रहणं कृतं तत् न विस्मर्तव्यमित्यर्थः ।
आवहत इत्यनेनादिपाणिग्रहणं विवक्षितम् ।
अविस्मरणोपदेशे प्रयोजनं संवत्सरे संवत्सरे तस्मिन्नक्षत्रे कर्मविशेषः ।
कः पुनरसौ ?ऽयच्चैनयोः प्रियं स्याऽदि (आप.ध.2-1-7) त्यादि सामयाचारिकेषूपदिष्टः ।
न चासौ विधिः ।
पार्वणविशेषो यदि स्यात् तस्योपचारः पार्वणेन व्याख्यात इत्येतदसम्जसं स्यात् ।
अथ स विधिरेवेह कस्मान्नोपदिश्यते?उच्यते- इहोपदेशे प्रकरणाद्विवाहाङ्गत्वं विज्ञायेत ।
ततश्च शम्यादयो ऽपि विवाहधर्माः स्युः किञ्चि सर्वचरणार्थः तत्रोपदेशः

23.7

आप्ग्स्-तात्_8.7:
यस्मिन्नहनि गृहप्रवेशनादि स्थालीपाकान्तं कर्म करोति त देतदहरवधित्वेन विजानीयात् तत आरभ्य त्रिरात्रमुभयोरधश्शय्योत्यादिकर्तुम् ।
केचित्-यस्मिन्नक्षत्रे व्वाहे ऽभूत् तस्य न विस्मरेत् ।
धर्मशास्त्रे ऽश्वोभूते स्थालीपाकःऽ(आप.ध.2-1-10) इप्युपदिष्टकर्म प्रतिसंवत्सरं कर्तुम् ।
तस्यचेहोपदिष्टस्य तत्रोपदेशः कथं विवाहाङ्गत्वं शम्याश्च मा भूवन्, सर्वचरणार्थता च कथं स्यादिति ।
प्रकृतत्वादेव च स्थालीपाकादारभ्य त्रिरात्रमुभयोरधश्शय्येत्यादि भविष्यतीति ।
तन्न;यथोक्तकर्मान्तरे विधेरेव निरस्तत्वात् ऽपार्वणेनऽ(आप.गृ.7-2-3) इत्यत्र

23.7

47 विवाहे दम्पत्योर्ब्रह्मचर्यविधिः ।
त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्य क्षारलवणवर्जनं च ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.8:
स्थालीपाकादारभ्य त्रिरात्रमुभयोः दम्पत्योः अधश्शय्या नोपरि खट्वादौ ।
ब्रह्मचर्य मैथुनवर्जनं, क्षारलवणयोश्च वर्जनं भोजने ।
तत्र क्षारलवणवर्जनं स्थालीपाकात् प्रागध्वनि न भवति ।
ब्रह्मचर्य तु तत्रापि भवति ।
चतुर्थ्या समावेशनविधानात् इदं तु ब्रह्मचर्य वचनं दार्ढ्यरथम् ।
यद्यपि सहशयनमुभयोः, तथापि मैथुनवर्जने यत्नः कार्य इति

23.8

आप्ग्स्-तात्_8.8:
उभयो र्दम्पत्योः स्थालीपाकादारभ्य त्रिरात्रम धश्शय्या स्यात्, न तु ख्ट्वादौ ।
नापि पृथक्शय्या, उभयोरिति ग्रहणात् ।
तथाष्टाङ्गमैथुनवर्जनलक्षणं ब्रह्मचर्य स्यात् ।
मैथुनस्याष्टाङ्गत्वमपि बृहस्पतिनोक्तम्--
ऽस्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
सङ्कल्पो ऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणःऽ; ॥
इति ।
एतच्च स्थालीपाकात् प्रागप्यध्वनि, ऽशेषं समावेशने जपेत्ऽ(आप.गृ.8-10) इत्युत्तरत्र क्रमविधानात् ।
अत एवात्र सूत्रे शय्यैक्यात्
दुर्वारमपि मैथुनमतिप्रयत्नेन वर्जनीयमित्येवमर्थस्तान्निषेधः ।
तथैव क्षारलवणवर्जनं च स्यात् ।
चकारान्मधुमांसदन्तधावनाञ्जनाभ्यञ्जनानुलेपनस्नग्धारणानां वर्जनमपि ।
यद्वा ब्रह्मचर्यपदेनैव मध्वादि सप्तकमपि निषिद्धम् ।
चकारस्तूक्तसमुच्चयार्थ एव ।
सर्वत्र त्रिरात्रमित्येव

23.8

48 स्वपतोः तयोर्मध्ये दण्दनिधानम् ।
तयोश्शय्यामन्तेरण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.9:
तयोः दम्पत्योः शय्यामनतरेण शयनस्य मध्ये दण्डः क्षीरिवृक्षोद्भवः गन्धेन सुरभिणा लिप्तः पुष्पैश्चालङ्कृतः वाससा सूत्रेण वा परिवीतः तिष्ठति स्थापयितव्यः ।
अन्योन्यसंस्पर्शो मा भूदिति

23.9

आप्ग्स्-तात्_8.9:
तयोः व्रतस्थयोर्दम्पत्योर्यावत्त्रिरात्रमभिन्ना शय्या ता मेवान्तरेण तस्या एव मध्ये, न तु त्रिरात्रादूर्ध्व नानाशय्या- मेकाशय्यां चान्तरेणापीति;तयोरिरि प्रकृतपरामशात् ।
दण्डो गन्धलिप्तः चन्दनानुलिप्तः ।
गन्धस्य प्रदर्शनार्थत्वात्पुष्पैरप्यलङ्कृतः ।
वाससा सूत्रेण वा परिवीतस्तिष्ठति स्थापयितव्यः ।
अस्मिंश्च दण्डे गन्धर्वो विश्वावसुर्भावयितव्यः, ऽउदीर्ष्वातो विश्वावसोऽइति मन्त्रलिङ्गात् ।
अत एवायं दण्डो नैयग्रोध औदुम्बर आश्वत्थः प्लाक्षो वा, ऽएते वै गन्धर्वाप्सरसां गृहाःऽ(तै.सं.3-4-8)
इत्यर्थवादात्

23.9

49 विवाहशेषहोमः, समावेशनं च ।
तं चतुर्थ्यापररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वापरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाऽज्यशेषेण हृदयदेशै संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.10:
अपररात्रो रात्रेस्तृतीयो भागः उत्तराभ्या मुदीर्ष्वात इत्येताभ्याम् ।
अत्र प्राप्तस्य निधानस्य विधानं पुनस्तस्मिन् शयने दण्डस्य निधानं मा भूदिति

23.10

उत्तराः सप्त प्रधानाहुतीर्जुहोति-ऽअग्ने प्रायश्चित्तेऽइत्येवमाद्याः ।
तत्रादितश्चतुर्षु मन्त्रेषु ऽत्वं देवानां प्रायश्चित्तिऽरित्ययमनुषङ्गः ।
उत्तरे मन्त्रास्त्रयः ।
आज्यभाग इत्यन्वारम्भकालोपदेशः ।
जयादि प्रतिपद्यत इति च तन्निवृत्तिः

23.11

तन्त्रशेषं समाप्य ततः तामपरेणाग्निं अग्नेः पश्चात् प्राचीं प्राङ्मुखीं उपवेश्य यो हुयस्याज्यस्य शेषः तस्मादवदाय दर्व्या तस्या वध्वा श्शिरसि व्याहृतिभिरोङ्कारचतुर्थाभिः स्वाहाकारान्ताभिः प्रतिमन्त्रमानयति ।
ततः उत्तराम्यामृग्भ्यां ऽअपश्यं त्वेऽत्येताभ्यां यथालिङ्गं मिथः अन्यो ऽन्यं युगपत् समीक्षेत्, पूर्वया वधूः उत्तरया वरः ।
ततो वर उत्तरयर्चा ऽसमञ्जन्त्विऽत्येतया वधूवरयोरुभयोर्हृदयदेशौ समनक्ति तेनैवाज्यशेषेण सकृत् गृहीतेनाज्येन सकृदेव मन्त्रे चोक्त्वा ।
ततः
उत्तरास्तिस्त्रो जपति ऽप्रजापते तन्वऽमित्याद्याः ।
ततः शेष मनुवाकशेषं ऽआरोहोरुऽमित्यादि समावेशने समागमनकाले जपेत् ।
समावेशनं च तस्मिन्नेवापररात्रे नियमेन भवति ।
इदमेव समावेशनं मन्त्रवत् नान्यानि ।
परिषेचनान्तवचनमानन्तर्यार्थम् ।
परिषेचनान्ते एतदोव कर्म यथा स्यात् ।
तेन भोजनं प्रागेव भवति

23.10

आप्ग्स्-तात्_8.10:
चतुर्थ्या अपररात्रे इति विवृत्यार्थपाठः ।
चतुर्थ्या रात्रेःचतुर्थस्याहोरात्रस्यापररात्रे रात्रेरपरत्र तृतीयभागे तं दण्डं उत्तराभ्यां ऽउदीर्ष्वातऽइत्येताभ्यां उत्थाप्याद्भिः प्रक्षाल्य शयनादन्यत्र निदायाग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
आज्यभागान्ते कृते वध्वमन्वारब्धायां उत्तराः ऽअग्ने प्रायश्चित्तेऽइत्याद्यास्सप्ताहुतीर्जुहोति ।
तत्र द्वितीयतृतीययोरपि ऽत्वं देवानांऽइत्याद्यनुषङ्गः ।
ततो ऽन्वारम्भवर्ज जयादौ प्रणीता मोचनान्ते कृते अपरेणाग्निं वधूं प्राचीं प्राङ्मुखीमुपवेश्य हुतशेषादाज्यमादाय तस्याश्शिरसि व्याहृतिभि रोङ्कारचतुर्थाभिस्वाहाकारान्ताभिस्सर्वेषामन्ते सकृदानयति ।
केचित्-प्रतिमन्त्रमिति ।
अथोत्तराभ्यां ऽअपश्यं त्वा मनसाऽइत्येताभ्यां यथालिङ्गं , पूर्वया वधू रुत्तरया वरः, मिथः अन्ययोन्यं युगपत् समीक्ष्य उत्तरया ऽसमञ्जन्तुऽ इत्येतया आज्यशेषेण हृदयदेशौ युगपदङ्गुष्ठविसंरसिनीभ्यां समनक्ति, ऽसमापो हृदयानि नौऽइति द्विवचनलिङ्गात् ।
अथ उत्तरास्तिस्रः ऽ प्रजापते तन्वं मेऽइत्याद्या जपित्वा शेषमनुवाकशेषं ऽआरोहोरुम्ऽइत्यादिकं समावेशने समावेशनकाले जपेत् ।
समावेशनं च वध्वा सह मैथुनार्थ शयनम्, ऽऋतुसमावेशनेऽ(आप.गृ.8-13) इत्युतुलिङ्गात् ।
एतच्च रागप्राप्तसमावेशनाश्रितं विवाहकर्मार्थ क्रमजपयोर्विदानम्, यथा भोजनपर्यायव्रताश्रितं पयआदिविधानम् ।
केचित्- असत्यपि रागे कर्मार्थमस्मिन् क्रमे समविशनं नियतमेवेति ।
समावेशनान्तरेषु तु अकर्मार्थत्वादेव नायं जपः ।
बौधायनेन तु विकल्पो ऽभिहितः (बौ.गृ.2-7-12) इति ।
अस्मिन्नेव क्रमे यदि दैवादृतुगमनमपि कर्तव्यं स्यात् तदा पूर्व ऽआरोहोरुम्ऽइत्यादिजपः ।
ततो ऽविष्णुर्योनिम्ऽइत्यादिभिरभिमन्त्रणम्

23.12

अन्यो वैनामभिमन्त्रयेत ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.11:
अन्यो वा ब्रह्मणः कश्चित् एनौ जायापती समागमिष्यन्तौ अनुवाकशेषेणा भिमन्त्रयेत ।
न स्वयं वरो जपेत् ।
तत्र यत्
वधूवासः प्रागनेन परिधापितं तत् व्रतान्ते विमुच्यान्यत् वासः परिधाय संस्पृशति वधूः ।
तेन हस्तस्पर्शने दोषदर्शनात् परादेहि शाबल्यमित्येतासु ।
व्रतचर्यायां तु दण्डेनान्तर्हितत्वादसेस्पर्शः ।
तद्वासः श्वोभूते परादेहि शावल्यमित्येताभिश्चतसृभिः ऋग्भिस्सूर्याविदे ब्राह्मणाय वरो दद्यात् ।
यथा वक्ष्यति-ऽवधूवास उत्तराभिरेतद्विदे दद्यात्ऽ(आप.गृ.9-11) इति आश्वलायनेनाप्युक्तं- ऽसूर्याविदे वधूवस्त्रं दद्यात् ।
अन्नं ब्राह्मणेभ्यःऽ(आश्व.गृ.1-8-13,14) इति

23.11

आप्ग्स्-तात्_8.11:
व्यक्तार्थम् ।
इदं च ऽअहं गर्भमदधाम्ऽइत्यादि लिङ्गविरोधे ऽपि श्रुतेर्बलीयस्त्वात्

23.12

50 रजस्वलायाः स्त्रियाः प्रथमर्तावुपदेशः ।
यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति ऽयां मलवद्वाससऽ(तै.सं. 2.5.1) मित्येतानि ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.12:
मलवद्वासा इति रजस्वलाया अभिधानम् ।
यदेतिवचनं विवाहादूर्ध्वमपिप्राप्यर्थम् ।
अन्यथा विवाहमध्य एव स्यात्;प्रकरणात् ।
संशासनं च प्रथमर्तौ सकृत् भवति ।
तदेव सर्वार्थ भवति ।
यथा ब्रह्मतारिण उपनयने ।
एनामित्यनुच्यमाने अन्य एनौ संशास्तीत्येवं विज्ञायेत ।
ऽअन्यो वैनाऽविति प्रकृतत्वात् ।
ब्राह्मणप्रतिषिद्धानीत्युच्यते लोकपरतिषिद्धान्युपरिशय्यासनादीनि लोकत एव प्रत्येतव्यानीति ज्ञापनार्थम् ।
कर्माणीति वचनात् कर्मणामेव शब्दान्तरैरवबोधनम्, न ब्राह्मणवाक्येन संप्रैषः ।
ऽएतानीऽतिवचनं ऽयां मलवद्वासऽसमित्यादीनां प्रतिषिद्धानां विहितानां च संशासनं यथा स्यात् ।
तेन ऽतिस्त्रो रात्रीर्व्रतं चरेदञ्जलिना वा पिबेत्"(तै.सं.2-5-1) इति विहितयोरपि संशासनं भवति ।
एवञ्च ऽब्राह्मणप्रतिषिद्धानीऽति प्रतिषिद्धग्रहणमुपलक्षणम् ।
तत्र ऽयां मलवद्वाससऽमिति वाक्ये स्नानात् प्राक् समागमप्रतिषेधः ।
ऽयामरण्यऽइति देशप्रतिषेधः ।
स्नातायामपि ऽयां पराचीऽमिति पराङ्मुख्या गमनप्रतिषेधः ।
ऽया स्नातीऽति त्रिरात्रमध्ये स्नानस्य प्रतिषेधः ।
ऽयाभ्यङ्तेऽइत्यभ्यञ्जनस्य ।
ऽया प्रलिखतऽइति शिरसि प्रलेखनस्य कङ्कतादि ना ।
ऽयाऽङ्तेऽइति चक्षुषोरञ्जनस्य ।
ऽया दतःऽइति दन्तधावनस्य ।
ऽया नखानीऽति नखनिकृन्तनस्य ।
ऽया कृणत्तीऽति कार्पासादेस्तन्तुकर्मणः ।
ऽया रज्जुऽमिति रज्जुक्रियायाः ।
ऽया पर्णेनेऽति पर्णेनाशनस्य ।
ऽया खर्वेणेऽति खर्वेण पात्रेण ।
एकदेशविलुप्तं कर्वम् ।
ऽतिस्रोरात्रीऽरित्येतेषां प्रतिषेधानां कालनियमः ।
ऽअञ्जलिना वा पिबेऽदित्यादिर्भोजने पात्राविधिः
आप्ग्स्-तात्_8.12:
मलवद्वासाः कालनिर्गतेन शोणितेन मलिनं वासो वसनं यस्यास्सा;रजस्वलेत्यर्थः ।
रूढशब्दत्वाद्यदृच्छया निर्मलवासा अपि यदेयं रजस्वला स्यात्, तदा पतिरेवैनां ब्राह्मणप्रतिषिद्धानि कर्माणि संशास्ति लौकिकभाषया श्क्षयति ।
कानि तानि ब्राह्मणप्रतिषिद्धानीत्यत आह- ऽ यां मलवद्वाससऽ मित्येतानि ।
ऽयां मलवद्वाससं संभवन्तिऽ(तै. सं.2-5-1-6) इत्येतद्ब्राह्मणचोदितानि, तान्येतान्यपि सर्वाणीत्यर्थः ।
अथ तानि सुग्रहार्थ क्रमेणोच्यनते-न स्नानात्पूर्व मैथुनम् ।
तदेव न स्नानादूर्ध्वमप्यरण्ये ।
तदेव न स्नातयापि पराङ्मुख्या अनिच्छन्त्या वा ।
अपूर्णे त्रिरात्रे न स्नानम् ।
न तैलाभ्यञ्जनम् ।
न कङ्कतादिना शिरसि लेखनम् ।
न चक्षुषोरञ्जनम् ।
न दन्तधावनम् ।
न नखनिकृन्तनम् ।
न कार्पासादिना तन्तुकरणम् ।
न रज्जुक्रिया ।
इत्येतान्येकादश ।
अथाशनपात्रमञ्जलिरखर्वो वा ।
खर्वः अल्पः, खण्डो वा दग्धो ऽपि वा ।
ततो ऽन्यो ऽखर्वः ।
अत्र चामी मैथुनादिनिषेधा अमैथुनादिसङ्कलप विधयो वेति भाष्ये न विविक्तम् ।
न्यायतस्तु ऽतिस्त्रो रात्रीर्व्रतं चरेत्ऽ(तै.सं.2-5-1) इति वचनात् ऽनेक्षेतोद्यन्तमस्तंयन्तमादित्यम्ऽइत्यादि प्राजापत्यविधिवत् सङ्कल्पविधय एव

23.14

5 ऋतुसमावेशनम् ।
रजसः प्रादुर्भावात् स्त्रातामृतुसमावेशन उत्तराभिरभिमन्त्रयते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.13:
रजसः लोहिकस्य ।
ऋतौ यत् समावेशनं तत्र कर्तव्ये, उत्तराभिरऋग्भिः ऽविष्णुर्योनिऽमित्यादिभिः त्रयोदशभिर भिमन्त्रयेत ।
ऽ रजसः प्रादुर्भावे ऽभिमन्त्रणं बवति ।
न संशासनवत् प्रथम एवर्तौ ।
ऽस्नाताऽमित्येतत् ब्राह्मणप्रतिषिद्धानां सर्वेषां प्रतिप्रसवार्थम् ।
स्नातां कृतमङ्गलामित्यर्तः ।
तेनाञ्जनाभ्यञ्जनान्यपि भवति

23.13

इति श्रीहरहरदत्तविरचितायां गृह्यसूत्रवृत्तावनाकुलायामष्टमः खण्डः ॥
आप्ग्स्-तात्_8.13:
रजसः शोणितस्य ।
प्रादिर्भावात् काले निर्गमात्कारणात्, न मालिन्यादेः ।
स्नातां पूर्णे त्रिरात्रे स्नातां भार्याम् ।
ऋतुसमावेशने ऋतुकालीनसमावेशनकाले ।
ऽऋतुश्च स्त्रीणां रात्रयष्षोडश स्मृताःऽ(म.स्मृ.3-46) इति मनुवचनात् ।
उत्तराभिः ऽविष्णुर्योनिं कल्पयतुऽइत्यादिभिस्त्रयोदशभिर भिमन्त्रयते ।
अत्र रजसः प्रादुर्भावात् स्नातामितिवचनाच्चतुर्थऽहनि प्रायत्यार्थमनया स्नातव्यमेव

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc