भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 22

22.1

आप्ग्स्-तात्_8.2:
अत्र विषयशुध्यर्थमध्यायस्य च प्राजापत्यसौम्याग्नेयवैश्वदेवाख्यानां काण्डानां च तत्तत्काण्डाख्यव्रतानां चोपाकरण समाप- नयोश्च स्वरूपमुच्यते-तत्राध्यायस्योपाकरणं, श्रावण्यां पौर्णमास्यां विहितहोमपूर्वक मध्यायानामारम्भः ।
समापनं च, तस्य तैष्यां पौर्णमास्यामित्यादिषु होमपूर्वकमेवाध्ययनोत्सर्गः ।
काण्डानामुपाकरणं तुक्रमप्राप्ते काले होमपूर्वकमेव तत्तत्काण्डानामध्ययनोपक्रमः ।
समापनं चैषां तत्तत्काण्डाध्ययने समाप्ते होमपूर्वकमेवोत्सर्गः ।
ये एते काण्डानामुपाकरणसमापने ते एव व्रतानामिति, न भेदोम, अध्ययनाङ्गत्वात् सर्वेषां ब्रह्मचारिव्रतानाम् ।
सारस्वतपाठाध्ययने तु काण्डानां सङ्कीर्णत्वेन यथाकाण्डमध्ययनासम्भवात्, व्रतान्येवोदगयने काण्डवदेकैकशः उपाकृत्य संवत्सरं चरित्वा विधिवदुत्सृजेत् ।
चत्वार्येव च वेदव्रतानि, न तु गृह्यान्तरोक्ते सावित्रसम्मिताख्ये वेदव्रते, सवित्रसम्मिताख्यकाण्डयोरभावात् ।
ऽचौलोपनयनं, चत्वारि वेदव्रतानि, (गौ.ध.8-15) इति गौतम वचनाच्च ॥
तथा विषयशुध्यर्थमेव प्रयोगभाष्यमल्पभेदमेव लिख्यते ।
आपस्तम्बदर्शनानुगतेपदेशेनाध्यायोपाकरणादीनां कर्मोच्यते ।
तत्र तावदध्यायोपाकरणस्य श्रावण्यां पौर्णमास्यां आचार्यश्शिष्यैस्सह कृतप्राणायामो ऽध्यायमुपाकरिष्यऽइति सङ्कल्प्य महानद्यां विधिवत् स्नात्वा पवित्रपाणिः नव ऋषीन् तर्पयेत्- ऽप्रजापतिं काण्डऋषिं तर्पयामि ।
सोमं काण्डऋषिं तर्पयामि ।
अग्निं काण्डऋषिं तर्पयामि ।
विश्वान्देवान् काण्डऋषिं तर्पयामि ।
सांहितीर्देवता उपनिषदस्तर्पयामि ।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि ।
वारुणीर्देवता उपनिषदस्तर्पयामि ।
ब्रह्माणं स्वयंभुवं तर्पयामि ।
सदसस्पतिं तर्पयामि-इति ।
ततो ऽग्नेरुपसमादानाद्यग्निमुखान्ते अन्वारब्धेष्वन्तेवासिषु नवाज्याहुतीर्जुहोति ऽप्रजापतये काण्डऋषये स्वाहा ।
सोमाय काण्डऋषये स्वाहा ।
अग्नये काण्डऋषये स्वाहा ।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा ।
सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा ।
वारुणीभ्यो देवताभ्य उपनिषद्भ्यस्स्वाहा ।
ब्रह्मणे स्वयंभुवे स्वाहाऽ; ।
सदसस्पतिमित्येतयर्चा नवमीमादुतिं जुहोति ।
तत आचार्यप्रमुखाः दर्भेवासीना दर्भान् धारयमाणा वेदस्यादितश्चतुरो ऽवरार्ध्याननुवाकानधीयीरन् ।
अथ जयादि परिषेचनान्ते ब्राह्मणतर्पणम् ।
एवमेवोत्सर्गे, न ततो ऽधिकंस्मृत्यन्तरोपसंहारेणापि,किन्तु यथापस्तम्बीयं सूत्रम् ।
तथा नादितो वेदस्यानुवाकानामध्ययनम् ।
जयादयस्तु भवन्ति ।
सौम्यादृते काण्डोपाकरणसमापनयोश्च न सूक्तोपहोमदेवतोपस्थानजयादयः ।
सौम्यस्यैव सूक्तजयादयः ।
एवमापस्तम्बमत एवावस्थिताः केचित् कुर्वते यथोक्तम् ॥
अथ प्राजापत्ये व्रते पूर्ववत् स्नात्वा सोमाग्निविश्वेदेववर्ज्यानां तर्पणम् ।
अग्निमुखान्ते चान्वारब्धे व्रतिनि जुहोति-प्रजापतये काण्डऋषये स्वाहा ।
ऽप्रजापते न त्वदेतान्यन्यःऽ(तै.ब्रा.2-8-1-2) इति सूक्तेन प्रत्यृचं षडाहुतीः, चतस्र उपहोमाहुतीः सांहितीभ्य इत्यादिभिरेव, सदसस्पतिमित्येतयैव सदसस्पतिं च ।
ऽअग्ने व्रतपते काण्डऋषिभ्यः प्राजापत्यं व्रतं चरिष्यामि, तच्छकेयं तन्मे राध्यताम् ।
चायो व्रतपते, आदित्य व्रतपते, व्रतानां व्रतपते काण्डऋषिभ्यः, प्राजापत्यं व्रतं चरिष्यामि तच्छकेयं तन्मे राध्यताम् ,ऽ; ।
(तै.आ.7-41-3) इत्येतैश्चतुर्भिः यथादेवतम् ।
ततो जयादि, ब्राह्मणतर्पणं च ।
एवमेव समापने प्रयोगः संवत्सरे संवत्सरे पर्यवेते ।
तत्रोपस्थानमन्त्रेषु अचारिषमशकमराधीति विशेषः ।
केचित्-सौम्ये केशश्मश्रुवापनस्य दृष्टत्वात् प्राजापत्यादिष्वपीच्छन्ति ॥
एवमेवाग्नेये वाश्वदेवे च ।
अग्नये काण्डऋषये स्वाहा;ऽअग्ने नयेऽ(तै.ब्रा.2-8-2)तिषडृचं सूक्तम्,;ऽअग्ने व्रतपते काण्डऋषिब्यः आग्नेयं व्रतं चरिष्यामीऽत्याग्नेये विशेषः ।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा;ऽआ नो विश्वे अस्क्रागमन्तुऽ(तै.ब्रा.2-8-6-3) इति षडृचं सूक्तम् ।
वैशवदेवं व्रतं चरिष्यामीऽति वैश्वदेवव्रते विश्षः ॥
सोमस्य काण्डोपाकरणसमापने शुक्रियकल्पोक्ते ।
अत्राप्युक्तं यत्तदुच्यते पूर्ववदुपाकृत्याग्नेरुपसमाधानाद्यग्निमुखान्ते, सोमाय काणेडऋषये स्वाहा ।
ऽसोमो धेनुऽ(तै.ब्रा.2-8-3-1) मिति षडृचं सूक्तम् ।
उपहोमान् सदसस्पतिं च हुत्वा, एवं पुर्ववदुपाकृत्य, मदन्तीमुपस्पृश्य प्रथमेनानुवाकेन शान्तिं कृत्वा चतस्न औदुम्बरीस्समिधो घृतान्वक्ता अभ्यादधाति ऽपृथिवी समित्ऽ(तै.आ.7-42-1) इत्यादिभिः ।
अथ देवतोपस्थानम् ऽअग्ने व्रतपते काण्डऋषिभ्यः सौब्यं व्रतं चरिष्यामिऽइत्यादिभिः ।
ततः प्रभृति शुक्रियमन्त्रब्राह्मणानुवाकानां प्रथमपदानि युञ्जतेऽ(तै.आ.7-2) ऽसविताऽ(तै.आ.8-12) इति वाभिव्याहार्य वाचयित्वा जयादि प्रति पद्यते ।
परिषेचनान्तं कृत्वा मदन्तीमुपस्पृस्य, उत्तमेनानुवाकेन शान्तिं कृत्वा ततस्सम्मीलनादि यथाशूत्रम् ।
श्वोभूते ऽवयः सुपर्णाः (तै.आ.7-42-3) इत्यादित्योपस्थानान्ते ब्राह्मणभोजनम् ।
अथास्य स्वाध्यायविधिः शुक्रियकल्प एवोक्तः ।
एवं समापने ।
विशेषस्तु ऽद्यौस्समिदादित्य व्रतपतेऽइत्याद्यावृत्ताः समिदाधानोपस्थानमन्त्राः ।
उत्तमेनानुवाकेन शान्तिं कृत्वा गुरवे वरं दत्वा केशश्मश्रु वापयित्वा ब्राह्मणभोजनम् ।
(नत्र प्रभृतिव्याहरणं)
अथ सूत्रमाक्षिप्यते- ननु- ऽउपाकरणे समापने च ऋषिर्यः प्रज्ञायतेऽइति यः प्रजापत्यादीनामन्यतमः काण्डानुक्रमण्यां काण्डऋषित्वेन समाम्नायते स ऋषिः देवतेति व्यर्थमेवेदं सूत्रम् ।
काण्डोपकरणेष्वेतान् पुरस्तात्सदसस्पतेः ।
जुहुयात् काण्डसमाप्तौ च श्रुतिरेषा सनातनी ॥
(काण्डा.2-11)
इति काण्डानुक्रमण्यां काण्डर्षिदेवतात्वस्य सिद्धत्वात् ।
सत्यम्, अत एव प्रजापत्यादयश्चत्वारः प्रधानहोमदेवताः; सांहित्यादयस्स्वयम्भुपर्यन्ताश्चत्वार उपहोमदेवताः ।
तेनैते चत्वारस्सर्वकाण्डानामुपाकरणसमापनयोरनुवर्तन्ते प्रधानानुवर्तित्वादङ्गानामित्येवं परं सूत्रम्, न देवतात्वविधिपरम्

22.2

ननु-सदसस्पतिरध्यायोपाकरणसमापनयेर्नवमः ।
काण्डेपकारणसमापनयेष्षष्ठः ।
एवमयमद्वितीयो ऽपि किमर्थ द्वितीय इत्युच्यते? ।
द्वतीयस्य स्विष्टकृतः स्थाने ऽयं सदसस्पतिर्भवेदित्येवमर्थम् ।
इदमर्थमेव च पूर्वत्र ऽअग्निस्तिष्टकृद्द्वितीयःऽ(आप.गृ.7-7) इत्युक्तम् ।
उपाकरणसमापनयोराज्यहविष्कयोः स्विष्टकृदेव नास्ति, कथं तत्स्थाने सदसस्पतिविधिः?इतिचेतनेनैव वचनेनास्य प्रसङ्गो विधीयते, यथा अग्निहोत्रे द्वितीयस्या आहुतेश्शातपथेन ब्राह्मणेन ।
तेनाग्नेरुत्तरार्धपूर्वार्धे ऽस्मै होमः ।
एतद्विस्मरणे स्विष्टकृल्लोपप्रायश्चित्तं च ।
होमो लिङ्गक्रमाभ्यां ऽसदसस्पतिमद्भुतम्ऽइत्येतया होतव्य इति स्पष्टत्वात् सूत्रकारस्यानादरः केचित्--ऽउपाकरणे समापने च यः काण्डऋषिः प्रज्ञायते तस्य द्वितीयस्सदसस्पतिः ।
काण्डऋषेरुपरुष्टादयं मन्त्रस्सदसस्पतिर्विनियुज्यते, न तु विवाहे, उद्दीप्यस्वेति ऋग्द्वयमिव ।
विवाहमध्ये पाठस्त्वध्ययनविध्यर्थःऽइत्येवं सदसस्पतिमन्त्रस्य विषयज्ञापन- व्याजेन एतयोः कर्मणोः प्रयोगकल्पस्यान्यत्र प्रसिद्धस्यात्राप्रसिद्धत्वात् अवश्याश्रयणीयस्य इह शास्त्रे ऽभ्यन्तरीभावो ऽस्य सूत्रस्य प्रयोजनम्, ततश्च क्रियाप्रवृत्तिरिति ।
तन्न;सूत्रस्थस्य सदसस्पतिशब्दस्य मुख्यार्थदेवतापरत्वसम्भवे ऽपि मन्त्रप्रतीकं लक्षयित्वा तेन लक्षितेन मन्त्रलक्षणाया अयुक्तत्वात्, उक्तविधयानयोरिहैव प्रयोगस्य प्रसिद्धत्वात्, अन्यत्रप्रसिद्धस्याभ्यन्तरीभाववैमर्थ्याच्च

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc