आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 24
नवमः खण्डः
2. ऋतुगमनकालः ।
चतुर्थिप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_9.1:
षोडशीमिति पञ्चम्यर्थे द्वितीया ।
आषोडश्या इत्यर्थः ।
आङ्चाभिविधौ ।
रजसः प्रादुर्बावादारभ्य चतुर्थीषोड श्यौ गृह्येते, प्रकरणात् ।
चतुर्थीप्रभृत्याषोडश्याः सर्वा रात्रय ऋतुगमनकालाः ।
तत्रापि उत्तरामुत्तरां युग्मां रात्रिं प्रजानिश्श्रेयसं विद्यादिति ।
ऋतुगमन इति वचनात् वैवाहिके प्रथमगमने सत्यपि ऋतुनिमित्तेनायमुपदेशः प्रवर्तते ।
चतुर्थ्या अपाररात्रे नियमेन गमनं भवति ।
तत्र च शेषं समावेशने जपेत् ।
उत्तराभिरभिमन्त्रयत इति च गमनमन्त्राणां समुच्चयो भवति ।
तत्र पूर्वमृतुगमनमन्त्राः ।
पश्चात् समावेशनमन्त्राः ।
विपरीतमन्ये
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0