आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 21
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने सप्तमः खण्डः ॥
अष्टमः खण्डः
43 उपाकरणम् ।
उपाकरणे समापने च ऋषिर्यः प्रज्ञायते ॥ आ
सदसस्पतिर्द्वितीयः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_8.2:
द्विविधमुपाकरणम्-काण्डोपकरणमध्यायोपाकरणञ्चेति ।
तथा समापनम् ।
तथा चान्यपरे वाक्ये दर्शनं"काण्डोपाकरणे चामातृकस्य काण्डसमापने चापितृकस्ये"ति (आप.ध.1-11-1-2) अध्यायोपाकरणं तु प्रसिद्धं-श्रावण्यां पौर्णमास्यामध्यायमुपाकृत्येति ।
(आप.ध.1-9-10) ।
तथा समापनं तैष्यां पौर्णमास्यां रोहिण्यां वा विरमेत्,इति ।
(आप.ध. 1-9-20) तत्र द्विविधे ऽ प्युपाकरणे समापने चार्षियेः प्रज्ञायते काण्डानुक्रमण्यां काण्यऋषित्वेन स तत्र देवता ।
तत्र सदसस्पतिर्द्वितीयः ।
काण्डऋषये हुत्वा सदसस्पतये होतव्यमित्यर्थः ।
तत्र प्राजापत्यं सौम्यं आग्नेयं वैश्वदेवमिति काण्डानि ।
प्रजापतिः सोमो ऽग्निर्विश्वेदेवा इति काण्डर्षयः ।
सारस्वतं नाम सङ्कीर्णानि काण्डानि ।
यताह बौधायनः-पौरोडाशिकं याजमानं होतारो हौत्रं पितृमेध इति सब्राह्णणानि सानुब्राह्मणानि प्राजापत्यानि ।
आर्ध्वयवं ग्रहाः दाक्षिणानि समिष्टयजूंष्यवभृथयजूंषि वाजपेयश्शुक्रियाणि सवा इति सब्राह्मणानि सानुब्राह्मणानि सौम्यानि ।
अग्न्याधेयं पुनराधेयं अग्निहोत्रमग्नुपस्थानमग्निचयनं सावित्र नाचिकेतचातुर्होत्रियवैश्वसृजारुणा इति सब्राह्मणानि सानुब्राह्ममान्याग्येयानि ।
राजसूयः पशुबन्धः इष्टयो नक्षत्रेष्टयो दिवश्येनयो ऽपाघाः सत्रायणमुपहेमाः सूक्तान्युपानुवाक्यं याज्या अश्वमेधः पुरुषमेधस्सौत्रामण्यच्छिद्राणि पशुहौत्रमुपनिषद इति सब्राह्मणानि सानुब्राह्मणानि वैश्वदेवानीति (बौ.गृ.3-1-21-24) अस्माकञ्च गृह्यमन्त्रप्रश्नद्वयमप्येकाग्निकाण्डं नाम वैश्वदेवकाण्डे द्रष्टव्यम् ।
तत्र काण्डोपाकरणे तस्य काण्डस्य ऋषिर्यः तस्मै होमः प्रजापतये काण्डऋषये स्वाहेति ।
ततस्सदसस्पतिमद्भुतमिति मन्त्रेण क्रमप्राप्तेन सहितमन्त्रस्वाध्यामार्थ विवाहप्रकरणे पठित- ।
तस्यैव विनियोगप्रदर्शनार्थ इदं सूत्रमस्मिन् प्रदेशे पछितम् ।
अन्यथोपनयनानन्तरमेव वक्तव्यं स्यात् ।
एवं तस्य तस्य समापने तस्मै तस्मै काण्डर्षये होमः ।
सदसस्पतये द्वितीयः ।
न जयादयः, प्रापकाभावात् ।
सूत्रान्तराश्रयणेन केचिज्जुह्वति ।
तानीमानि चत्वारि वेदव्रतानि यानि प्रतिकाण्डमुपाकरणानि ।
यानि समापनानि तानि व्रतविसर्जनानि ।
अध्यायोपकारणे तु सर्वेषां काण्डर्षीणां होमः ततस्सदसस्पतेः ।
जयादयश्च भवन्ति वा, न वा ।
तत्र काण्डोपाकरणसमापनयोरु- दगयनादिप्राप्तेरुपनयनानन्तरं तदानीमेव प्राजापत्यं काण्डमुपाकृत्य श्रावण्यां पौर्णमास्यामुपाकृत्य प्राजापत्यस्य काण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
तत्रैतावता कालेन प्राजाप्तयकाण्डस्य समाप्तौ तेनोत्सर्गः ।
अथ सौम्यस्योपाकारणम् ।
अथ यावदध्यायोपाकणं तावत् प्राजापत्यस्य काण्डस्य धारणाध्ययनं शुक्लपक्षेषु ।
कृष्णपक्षेष्वङ्गाध्ययनम् ।
श्रावण्यामुपाकर्म ।
अथ सौम्यकाण्डस्याध्ययनम् ।
तैष्यामुत्सर्गः ।
काण्डसमापनम् ।
एवमितरयोः ।
सर्वत्र उत्सर्जनादूर्ध्व पूर्वगृहीतस्यांशस्य दारणाध्ययन- मङ्गाध्ययनञ्च होमः प्रथमःकल्पः ।
अथ ये सारस्वतं पाठमधीयते तेषामुपनयनानन्तरं तदानीमेव चत्वारि वेदब्रतानि क्रमेण कृत्वा काले ऽध्यायमुपाकृत्य यथापाठमध्ययनं तैष्यामुत्सर्गः ।
पूर्ववद्धारणाध्ययनमङ्गाध्ययनं च पुनरुपाकरणमित्यादि ।
आद्यकल्पे तु केचिदुत्सर्जनं न कुर्वते ।
ओपाकरणादधीत्य पुनरुपाकुर्वते ।
अन्ये तूत्सृज्य पुनरधीयते ।
वेदव्रतानि च यदा कदाचित् कुर्वते ।
तेषां मूलं मृग्यम् ।
सर्वेष्वपि पक्षेषु शुक्रियाणां पृथगुपाकरणमुत्सर्जनञ्च ।
तत्र प्रयोगः-पर्वण्युदयगयन इत्यारभ्याज्यभागन्ते सोमाय काण्डर्षये स्वाहेति सदसस्पतिमिति च हुत्वा जयादिपरिष्चनान्ते मदन्तीरुपस्पृश्येत्येवमादि प्रतिपद्यते ।
एवमेव पूर्ववत् विसृज्येत्यत्रापि प्रयेगः
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0