आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 20
आप्ग्स्-तात्_7.2:
स्थालीपाकार्थ व्रीह्यादिकम् ।
ऽसावहन्तिऽइति वक्तव्ये ऽपत्न्यवहन्तिऽइत्याधिकाक्षरात् पत्न्यवघातमेव कुर्यात्, न तु श्रपणादिकमपि ।
तदादिकं वर एव ।
केचित्- पत्नीत्यारम्भादवहननं पत्नीकर्मैव, न तु यजमानकर्म ।
यजमानकर्मत्वे हि सहाधिकारे पार्वणादौ पत्युरवहननं स्यात्, तस्य तत्र यजमानत्वात् ।
अत एव पार्वणादौ नान्वारम्भः;पत्न्यवहन्तीतिवत् पत्न्यामन्वारब्धायामित्यवचनादिति ।
मैवम्;वध्वेकाधिकारस्यैव निरस्तत्वात्
31 स्थालीपाकहोमः, तस्यावदानसंख्या ।
श्रपयित्वामिघार्य प्रचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायां स्थालीपाकाज्जहोति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.3:
ततस्तानवहतांस्त्रिष्फलीकृतान् प्रक्षाल्य श्रपयति वरः ।
अग्रेरुपसमाधानादिवचनं तन्त्रविधानार्थ कालविधानार्थ च प्रतिष्ठताभिघारणान्ते कथं तन्त्रं प्रतिपद्येत, न प्रागिति ।
तेनाभिघारणमसंस्कृतेनाज्येन भवति ।
अत्रापि सकृदेव पात्रप्रयोगः ।
तथा शम्याः
विवाहशेषत्वादस्य ।
नेत्यन्ये
आज्यभागान्तवचनं अन्वारम्भकालोपदेशार्थम् ।
स्थालीपाकादित्यनर्थकम्, तस्य होमार्थत्वात् ।
न च वाच्यं ब्राह्मणभोजनार्थ स्थालीपाको, होमस्त्वाज्यादेव प्राप्नोतीति ।
यागविधानात् देवताविधानाच्च ।
एवं तर्हि शैलीयमाचार्यस्य-यत्रोभयं हविर्भवत्याज्य ञ्चौषधयश्च तत्र प्रधानाहुतिविशेषणं करोति स्थालीपाकादन्नादपूपादाज्याहुतिरुति ।
तेन यत्र विशेषणं नास्ति तत्रैकमेव हविरिति सिद्धं भवति ।
तेनाग्रयणे
आज्यस्याभावः ।
ततश्च सकृदुपघातपक्ष एव तत्र भवति, आज्याभावेनोपस्तरणाभिघारणयोरसम्भवात् ।
विवाहे च ऽयथा स्थानमुपविश्येऽत्यत्र आज्याहुतिरिति विशेषणाभावादाज्यमेव तत्र धर्मवद्धाविः, लाजास्त्वधर्मका इति सिद्धम्
आप्ग्स्-तात्_7.3:
उद्वास्य सौकर्यादपरेणाग्निं प्रतिष्ठाप्य ।
प्रतिष्ठितमभिघारयति ।
ओषधिहविष्को ऽप्यत्र तन्त्रविधानं क्रमार्थमित्युक्तमेव ।
ऽआज्यभागान्ते ऽन्वारब्धायाम्ऽ; ।
उपस्तरणप्रभृत्यन्वारम्भः प्रधानहोमान्तम्
सकृदुपस्तरणाभिघारणे द्विरवदानम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.4:
अनेन पौरोडाशिको ऽवदानकल्प इह प्रदर्शितो विज्ञेयः ।
ऽतस्मादङ्गुष्ठपर्वमात्रऽ(आप.श्रौय2-18-9) मित्याद्यपि भवति ।
पञ्चावत्तञ्चपञ्चावत्तिनाम् ।
प्रत्यभिघारणं च हविषः लाजावदानवत् ।
उपस्तीर्य द्विरवदाय द्विरभिघारयतीति वक्तव्ये सकृद्वचनमुपस्तरणाभिघारणयोश्चतुरवत्तसंपादनार्थतां ज्ञापयितुम् ।
तेन चतुरवत्ताभावे उपस्तरणाभिघारणयोरप्यभावः ।
यथा ऽसकृदुपहत्य जुहुयात्ऽ(आप.गृ. 7-7)"दध्न एवाञ्जलिने"(आप.गृ.22-10) ।
त्यादौ
आप्ग्स्-तात्_7.4:
होमदर्व्या स्रुवेण दर्व्यन्तरेण वा सकृदुपस्तरणं कार्यम् ।
ततश्चरोर्द्विरवदानम् ।
त्रिर्जमदग्नीनाम्, सकृच्चाभिघारणम् ।
ततः स्विष्टकृदर्थ चरोः प्रत्यभिघारणम् ।
अस्यैष्टिकावदानविधिप्रदर्शनार्थत्वादाचाराच्च
देवतामाह--
32 तस्य देवताविधानम् ।
अग्निर्देवता स्वाहाकारप्रदानः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.5:
प्रधानद्वित्वादुत्तरविवक्षया सिद्धानुवादो ऽयम् ।
अग्निरेव देवता पूर्वस्य होमस्य येयमाग्नेयेनेति विहिता ।
उत्तरस्यान्या विधीयत इति
स्वाहाकारेण प्रदानं प्रक्षेपो यस्मिन् स- स्वाहाकारप्रदानः ।
स्थालीपाकस्य होमः ।
अविशेषात् पूर्वश्चोत्तरश्च ।
तत्र स्वाहाकारसंयोगाद्देवताशब्दश्चतुर्थ्यन्तो भवति -अग्नेये स्वाहा, अग्नये स्विष्टकृते स्वाहेति ।
ऽजुहोतिचोदनः स्वाहाकारप्रदानःऽ(आप.प.3-4)
इत्येव सिद्धे वचनमिदं कल्पान्तरेषु केषुचित् मन्त्रेण प्रदानञ्चोदित"ममुष्मै स्वाहेति जुहुयात्, ऋचा वा तद्देवतये"ति ऽपुरोनुवाक्यामनूच्य याज्यया जुहुयाऽदिति च तत्प्रतिषेधार्थम् ।
एवमपि ऽस्थालीपाकाज्जुहोत्यग्नये स्वाहेत्येव वक्तव्यंऽस्विष्टकृति च स्विष्टकृते स्वाहेति ।
इदं तु वचनं पार्वणातिदिष्टेषु यथोपदेशं देवता इत्यत्र मन्त्रप्रतिषेधार्थम् ।
तेन ऽपौर्णमास्यां पौर्णमासीऽ(आप.गृ.7-28) इत्येवमादिषु यत्र स्थालीपाकस्य देवतैव चोद्यते तत्र देवताशब्देनैव होमः, न तद्दैवत्येन मन्त्रेणेति सिद्धम्
आप्ग्स्-तात्_7.5:
अग्निर्देवतेति विहिताग्निविशेषणार्थमयं परिभाषेक्तानुवादः ।
कथं विशेष्यते?इति चेत्, सो ऽग्निस्स्वाहाकारप्रदानश्चेद्देवता, स्वाहाकातयोग्यया चतुर्थ्या विभक्त्या युक्तश्चेदित्यर्थः ।
नन्व न्वारब्धायामग्नये जुहोतीऽति वक्तव्ये किमर्थमधिकाक्षरं ऽअग्निर्देवता स्वाहाकारप्रदानःऽइत्युपदिश्यतेऊउच्यते-शब्दो देवता, नार्तः अर्थो ऽपि यागे चोदितचतुर्थ्यन्तस्ववाचकसब्देनैवोपकरोति, अर्थस्योद्देष्टुमशक्यत्वात्;उपाकारान्तरस्य च दुर्निरूपत्वादिति मीमांसकमतमिह नाभिमतम्;अर्त एव देवतेति स्वमतज्ञापनार्थम् ।
कथमिति चेत् ?कर्मणि प्रयोगानर्हस्य प्रथमान्तस्याग्निशब्दस्य प्रयोगात् ।
नन्वर्तस्य देवतात्वे सत्यप्युकारश्शब्देनैवेति नानुष्ठाने विशेषः ।
मैवम्;न केवलं चतुर्थ्यन्तशब्दोच्चारणमेवानुष्ठेयम्, किन्त्वर्थस्य ध्यानमपीति ।
अत्र तु ज्ञातकं ऽआग्नेया इति तु स्थितिःऽ(निरु.8-3-7)
इत्यादि निरुक्तकारवचनम् ॥
केचित्- कल्पान्तरेषु ऽअमुष्मै स्वाहेति जुहुयात् ऋचा वा तद्दैवत्ययाऽइति विकल्पः चोदितः ।
स माभूदस्माकम् ।
पार्वणेषु तद्विकारेषु च ऽअमुष्मै स्वाहाऽइत्येव जुहुयादित्येवमर्थमिति
33 तत्र सकृदुपघातपक्षः ।
अपि वा सकृदुपहत्य जुहुयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.6:
यया दर्व्या होमस्तयैव सकृदुपहत्य जुहुयात् ।
अत्र पक्षे उपस्तरणाभिघारणयोप्यभाव इति सिद्धम् ।
केचित् कुर्वन्ति ।
जुहुयादिति वचनं स्विष्टकृत्यपि प्राप्यत्यर्थम्
आप्ग्स्-तात्_7.6:
अथवा दर्व्या सकृत् स्थालीपाकाद्गृहीत्वा जुहुयात्, न तु पूर्ववच्चतुरवत्तं पञ्चावत्तं वा अपूर्वत्वाद्दर्विहोमानाम्
अग्निस्स्विष्टकृत् द्वितीयः ॥ आप्ग्स्_7.7 ।
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.7:
अग्निः स्विष्टकृद्द्वितीयो भवति देवतात्वेन ।
द्वितीयवचनं पूर्वेण तुल्यधर्मत्वज्ञापनार्थम् ।
तेन ऽयथोपदेशं प्रधानाहुतीरित्यादौ स्विष्टकृतो ऽपि ग्रहणं भवति ।
तथा ऽसकृदुपहत्य जुहुयात्ऽऽस्वाहाकारप्रदानऽइत्येतयोश्च प्रवृत्तिः
आप्ग्स्-तात्_7.7:
देवतेति शेषः ।
स्थालीपाकशेषात् द्वितीयो होमः कर्तव्यः ।
तस्मिन् अग्निस्स्विष्टकृद्देवतेतेयर्थः ।
अर्थसिद्धे ऽपि द्वितीये ऽद्वितीयऽ; इति ग्रहणे प्रयोजनं ऽसदसस्पतिर्द्वितीयः ऽ(आप.गृ.8-2) इत्यत्र वक्ष्यते ।
केचित्- पूर्वहोमेन तुल्यधर्मत्वज्ञापनम् ।
तथा च सति ऽयथोपदेशं प्रधानाहुतीःऽइत्यत्र स्विष्टकृतमपि हुत्वा जयादीत्येवमादि भवेदिति
अस्य त्ववदानविधिमाह-
34 तत्र उपस्तरणादिविधानम् ।
सकृदुपस्तरणावदाने द्विरभिघारणम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.8:
अत्रापि पौगोजाशिकस्विष्टकृतो ऽवदानकल्पः प्रदर्शितो विज्ञेयः ।
"तेन द्विः पञ्चावत्तिनः उत्तरमुत्तरं ज्यायांसम्, न हविः प्रत्यभिधारयतीऽ(आप.श्रौ.2-21-3,4,5) ति विशेषाः इहापि द्रष्टव्यः
आप्ग्स्-तात्_7.8:
सकृदुपस्तरणमवदानं च द्विरभिघारणं च कार्यम् ।
जमदग्नीनां तु द्विरवदानम् ।
अवदानं दैवताज्ज्यायः ।
नापि हविः प्रत्यभिघारणम्;ऐष्टिकसौविष्टकृतावदानविधिप्रदर्शनार्थत्वात्, आचाराच्च
मध्यात् पूर्वस्यावदानम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.9:
पूर्वस्य प्रधानहोमस्येत्यर्थः ।
उपघातपक्षार्थ वचनम् ।
चतुरवत्तपक्षे तु पौरोजाशिकत्वात् सिद्धम्, ननु तत्रापि"पूर्वार् धाद्वितीयं पश्चार्धात् तृतीय"मित्येतयोर्देशविशेषयोः प्रतिषेधार्थ स्यात् ।
यद्येवं उत्तरवत्तरस्योति स्विष्टकृति नारब्धव्यं, विशेषाभावात् ।
तस्मात् चतुरवत्तपक्षे पौरोडाशिक एव विधिः ।
इदं तु वचनमुपघातपक्षार्थम्
आप्ग्स्-तात्_7.9:
हविषो मध्यात् पूर्वस्य दैवतस्यावदानं कार्यम् ।
उपघातपक्षार्थ एवायमारम्भ- ।
चतुरवत्तपक्षे त्वैष्टिकविधिप्रदर्शनबलान्मध्यादङिगुष्ठपर्वमात्रावदानम् ।
ऽतिरछ्टीनमवद्यति पूर्वार्धाद्द्वितीयमनूचीनं चतिरवत्तिनः पश्चार्धात्तृतीयं पञ्चावत्तिनःऽ; (आप.श्रौ.2-18-9) इत्यवदानस्थानसिद्धेः एतेनोपघातपक्षे चतिरवत्तधर्म उपस्तरणादिर्न प्रवर्तते इति दर्शयति
मध्ये होमः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.10:
आघारसम्भेदो मध्यम् ।
अत्रापि पौगोडाशिक एव होमदेशो दर्शितो विज्ञेयः ।
तेनाहुतीनामनेकत्वे ऽपूर्वा पूर्वा संहितामिऽ(आप.श्रौ.2-19-9) त्येवमादयो विशेषा इहापि भवन्ति
आप्ग्स्-तात्_7.10:
होमः प्रक्षेपः ।
दैवतस्य अग्ने र्मध्ये आघारसम्फेदे ।
प्रधानाहुतिबहुत्वे ऽपूर्वा पूर्वा सांहिताम्ऽ(आप.श्रौ.2-19-9) इति च भवति ।
अयं तूभयपक्षार्थः
उत्तरार्धादुत्तरस्य ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.11:
अयमप्युपघातपक्षार्थ आरम्भः
आप्ग्स्-तात्_7.11:
उत्तरार्धाद्धविष उत्तरस्य स्विष्टकृत अवदानं कार्यम् ।
अयमपि पूर्ववदुपघातपक्षार्थ एव
उत्तरार्धपूर्वार्धे होमः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.12:
अत्रापि पौरोडाशिकस्य स्विष्टकृतो धर्मो विज्ञेयः ।
तेनाः ऽसंसक्तामितराभिऽ(आप.श्रौ.2-21-6)रिति विशेष इहापि भवति ।
होमग्रहणे आश्रियमाणे उत्तरार्धपूर्वार्ध इत्यस्य लेपयोः प्रस्तरवदित्त्युत्तरेणापि सम्बन्धस्सम्भाव्येत
आप्ग्स्-तात्_7.12:
तस्य स्विष्टकृतो होमो ऽग्नेरुत्तरार्धपूर्वार्धे ।
अस्यापि प्रदर्शनार्थत्वात् ऽअसंसक्तामितराभिराहुतिभिःऽ(आप.श्रौ.2-21)-6) इत्यपि भवति
होमोपस्तरणाद्यर्थदर्वीद्वपलेपयोः पात्रप्रयोगार्थ संस्तीर्णस्य च वर्हिषः प्रतिपत्तिमाह--
लेपयोः प्रस्तरवत् तूष्णीं बर्हि रङ्त्वा (क्त्वा) ग्नौ प्रहरति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.13:
यस्मिन् बर्हिषि प्रतिष्ठितं हविराज्यं च तस्मात् किञ्चिदुपादाय तद्वर्हिरन्नस्य चाज्यस्य च यौ लेपौ तयोः प्रस्तरव त्तूष्णीमङ्त्वा
प्रस्तरवदेव तूष्णामग्नौ प्रहरति ।
अत एव प्रतिपत्तिविधानादपरेणाग्निं बर्हिषः स्तरणं भवति ।
हविषश्च तत्रासादनम् ।
कल्पान्तरे च स्पष्टमेतत् ।
शृतानिहवींष्यभिधार्य उदगुदावास्य बर्हिष्यासाद्येति ।
केचिदग्निपरिस्तरणादञ्जनं मन्यन्ते ।
प्रस्तरवदिति वचनात् त्रिषु स्थानेष्वञ्जनं भवति ।
तत्र चतुरवत्तपक्षे यया होमाः तस्यामग्रस्य, ययोपस्तरणाभिघारणे तस्यां मध्यस्य, आज्यस्थाल्यां मूलस्य चाञ्जनं भवति ।
उपघातपक्षे तूपस्तरणांभिघारणार्थाया दर्व्या अभावादाज्यस्थाल्यां मध्यस्य मूलस्य चरुस्थाल्याम् ।
अक्तस्य तृणमपादायेत्येतदपि भवति ।
तथा यया होमस्तस्यां प्रतिष्ठापनं च आग्नीध्रकर्म च स्वयमेव करोति
आप्ग्स्-तात्_7.13:
लेपयोः दर्वीद्वयलग्नयोः पात्रासादनार्थ संस्तीर्ण बर्हिः प्रस्तरवत्तूष्णी मङ्क्त्वा तद्वदेवाग्नौ प्रहरति ।
इदमपि प्रदर्शनार्थम् ।
तेनाञ्जनादिसंस्रावान्तं श्रौतवत्तूष्णीं करोति ।
ननु-प्रस्तरवदितीहानुपपन्नम् ।
बर्हिषो ऽग्रमध्यमूलानां द्वयोर्दर्व्योः प्रस्तरवदञ्जनासम्भवात् ।
उच्यते-होमदर्व्यामग्रमनक्तिः, इतरस्यां मध्यमूलेः ऽअन्याल्लोपौ विवृद्धिर्वाऽ(आप.प.4.13) इति वचनाम् ।
एव त्रिर्द्विवी ।
ऽअशापरम्ऽइति पक्षे सकृदेवोपस्तरणाद्यर्थायां मूलं, होमार्थायां मध्याग्रे ।
अन्ये तु आज्यस्थालीं ध्रुवास्थाने पक्षत्रये ऽपि कुर्वन्ति, अञ्जनस्योपयुक्तपात्रलेपप्रतिपत्त्यर्थत्वात् ऽइडान्तं वाऽहवनीये शंय्वन्तं गार्हपत्येऽ; (आप.श्रौ.3-14-6) इति पक्षे ऽआज्यस्थाल्यां मूलम्ऽ(आप.श्रौ.3-14-7) इति दर्शनाच्च ।
इह तु पक्षे लेपयोरिति द्विवचनमाज्यौषधलेपाभिप्रायम्, न तु पूर्ववदाघारद्वित्वाभिप्रायम् ॥
केचित्-कल्पान्तरादपरेणाग्निं यस्मिन् बर्हिषि हविराज्यं च प्रतिष्ठितं तस्माद्वा, परिस्तरणाद्वा किञ्चिदुपादायाञ्जनमिति ।
तन्न; कल्पान्तरोक्तबर्हिः प्रतिष्ठापनोपसंहारस्य पाक्षिकत्वेन नित्यद्वद्धक्रममपि परिषेचनं न निवर्तते, अग्नयङ्गत्वादित्याह--
सिद्धमुत्तरं परिषेचनम् ॥ आ
(आना) उत्तरं तन्त्रं जयादि यथासिद्धमत्रापि कर्तव्यमित्यर्थः ।
कथं च सिद्धम्?उपजुहोतीतिवचनात् ।
प्रधानहोमानन्तरं तेनोपहोमानामुपरिष्टाद्वर्हिषो ऽनुप्रहरणं भवति ।
अन्यथा प्रधानहोमानन्तरमुपदेशादुपहोमानां पुरस्तादनुप्रहरणं स्यात्
अत्र कृत्वेत्यध्याहर्तव्यम् ।
परिषेचनं कृत्वा परिषेचनान्तं कृत्वेत्यर्थः ।
किमर्थमिदम् ?परिषेचनान्ते ब्राह्मणभोजनाद्येव कर्म प्रतिपाद्येत नान्यदित्येवमर्थम् ।
अन्ये तु सिद्धमुत्तरं परिषेचनमित्ये कमेव योगं पठन्तो व्याचक्षते ।
तेनेह स्थालीपाके प्रधानहोमानन्तरं तन्त्रशेषस्य प्राप्तस्य पर्षेचनमेव सिद्धमन्यदसिद्धमिति ।
तेनोपहोमानमिह लोपश्चोद्यत इति ।
तेषामुत्तरमिति व्यर्थम्
आप्ग्स्-तात्_7.14:
स्पष्टेमेतत् ।
ततः प्रणीताविमोको ऽपि ।
केचित्- सिद्धमुत्तरमिति पदद्वयमेकं वाक्यम् ।
सिद्धमाविकृतम् ।
उत्तरंतन्त्रशेषं जयादि ।
एताच्चेहोत्कृष्य पधितमपि ऽयथोपदेशं प्रधानादुतीर्हुत्वा जयाभ्यातानान्ऽ(आप.गृ.2-7) इति श्रौतक्रमस्य बलीयस्त्वात् प्रधानतुल्यधर्मकस्विष्टकृतो ऽनन्तरमेव ।
तथा ऽपरिषेचनम्ऽइत्यप्यानन्तर्यविध्यर्थम् ।
परिषेचनान्तं कृत्वा ब्राह्मणभोजनमेवेति ।
तन्न; सिद्धमुत्तरं परिषेचनमिति प्रतीताभ्यर्हितसामानाधिकरण्यान्वयबाधेन महादोषवाक्यभेदकल्पनापेक्षत्वात् ।
तथा वचनाभावादिह जयाद्येव नास्ति, दूरे क्रमबलाबलकथा ।
तथा ऽपरिषेचनम्ऽइत्यस्यापि सिद्धमुत्तरमित्येतदन्वयनिराकाङ्क्षत्वात् कृत्वेत्यध्याहारो निर्बीजः ।
आनन्तर्य तु पाठप्राप्तं न विधेयमेव ।
तस्माद्वरं यथोक्तशङ्कानिवृत्यर्थमेवेदं सूत्रमिति
35 स्थालीपाकशेषात् ब्राह्मणभोजनम् ।
तेन सर्पिष्मता ब्राह्मणं भोजयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.15:
सर्पिष्मतेति वचनमतिशयार्थमभिघारणेन प्रागपि सर्पिष्मत्वात् ।
लौकिकेन सर्पिषा प्रभूतेनोपसिच्येत्यर्थः ।
यो दक्षिणत आस्ते स इह ब्राह्मणः तं भोजयेत् वधूर्वरो वा
आप्ग्स्-तात्_7.15:
तेन हविश्शेषेण ।
सर्पिष्मता प्रभूतसौकिकाज्योपसिक्तेन ।
ब्राह्मणं दक्षिणतो दर्भेषु निषादितं भोजयेत् तस्येह प्रकृतत्वात् ।
इह तु सर्पिष्मतेति मतुवतिशयार्तः ।
भोजयेदिति बलाच्च(वचनात्) होमब्राह्मणभोजनायालं च रु कार्यः
36 स्थालीपाकदक्षिणादानम् ।
यो ऽस्यापचितस्तस्मा ऋषभं ददाति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.16:
अस्य वरस्य यो ऽपचितः पूज्यः आचार्यः, तस्मै ऋषभं स्थालीपाकस्य दक्षिणां ददति वधूः ।
स्वकुलादानीयर्त्विजे वराय दातव्या सती दक्षिणा जायापत्योः अन्योन्यदानप्रतिग्रहाभावात् तदाचार्याय चोद्यते ।
तेनासौ परिक्तीतो भवति ।
दृश्यते चायं न्यायो धर्मशास्त्रे-"न पिता याजयेत् पुत्रं न पुत्रः पितृयाजनम्"इत्याद्युक्त्वा ऽऽचार्याय दक्षिणां दद्युरुतु
आप्ग्स्-तात्_7.16:
नन्विदं सूत्रमयुक्तमिव प्रतिभाति ।
ऽयो ऽस्यापचितस्तमितरयाऽ(आप.गृ.3-9) इति वद्वरादन्यस्य दानकर्तृत्वप्रतीतेः, इह चान्यस्याभावात् ।
यद्यपि पत्नी विद्यते, तथापि तस्या भर्तुरपि प्रवासे सहाधिकारेषु कर्मसु मध्यग धनत्यागे ऽनुमतिद्वारेणाव कर्तृत्वाभ्युपगमात् ।
अथ अत्र ऽएनां याजयतिऽइति वचनाद्वधूर्यजमाना ।
सा स्त्रीधनाद्वरस्यापचिताय ददाति ।
तेन च ऋत्विग्भूतो वर आनतो भवति ।
न च वरायैव दानम्, जायापकत्योरन्योन्यदानाद्यभावादित्युच्यते, नैव तत्;वध्वेकाधिकारे ह्यस्योभयतो विवाहाङ्गसन्दष्टत्वेन प्रतिपन्नविवाहाङ्गत्वबाधः ।
अधिकारसाध्यभेदेन शास्त्रतदर्थयोर्भेदात् ।
अथ उभयाधिकारविवाहसिध्यर्थमेव वधूरनेन प्रधानकर्मणापि यागेन संस्क्रियते, तर्हि वध्वेकाधिकारमित्युक्तिमात्रमिति वृथा स्त्रीधनव्ययः ।
तस्मात् शूत्रं यथोपपन्नं स्यात् तथा व्याख्येयम् ।
आप्ग्स्-तात्_7.16:
अत्रोच्यते-एवं तर्ह्यध्याहारेण वा विपरिणामेन वा व्याख्यायते ।
यो ऽस्यात्मने ऽपचितः पूज्यः तस्मा ऋषभं ददाति ।
यद्वा ये ऽस्य श्थालीपाकयागस्य कर्तुरपचितस्तस्मा एतद्यागकर्ता ऋषभं ददाति, न तु स्थालीपाकयागान्तराणां कर्ता;तेषामपूर्वत्वात् ।
अथवा-अस्येति षष्ठ्या अयमिति विपरिणामः ।
यो ऽयं लोके विद्याभिजनादिसम्पत्त्या अपचितः तस्मा अयमेतत्स्थालीपाककर्ता ऋषभं ददाति ।
सर्वथा त्वेतद्विकृतिष्वपि स्थालीपाकान्तरेषु ऋषभदानं नास्त्येव
37 पार्वणस्थालीपाकः ।
एवमत ऊर्ध्व दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.17:
अतः स्थालीपाका दूर्ध्व दक्षिणां वर्जयित्वा उपोषिताभ्यां ऽपर्वसु चोभयोरुपवास,(आप.ध.2-1-4) इत्यनेन प्रकारेण कृतोपवासाभ्यां गृहमेधिभ्यां पर्वसु पौर्णमासीषु चामावास्यासु च एवमेवाग्नेयस्थालीपाककल्पेन स्थालीपाकः कार्यः ।
कल्पातिदेशो ऽयम्-पर्वसु स्थालीपाकः कार्यः, तस्य च"आग्नेयेन स्थालीपाकेन याजयती"त्येवमादिः तस्मा ऋषभं ददातीऽत्येवमनातः कल्प इत्यर्थः ।
अत्रोपोषिताभ्याऽमिति द्विवचननिर्देशादुभावप्यधिकारिणौ तत्र तु पत्न्येव ।
दक्षिणा चेह नास्तीत्येतावान् विशेषः ।
तत्र पार्वणे विवाहनिमित्ता विशेषाः सकृत्पात्राणि शम्या इत्यादयो न कर्तव्याः ।
अन्वारम्भो ऽपि न कर्तव्यः, यजमानकर्मत्वात् ।
अत्र चोभयोर्यजमानत्वात् ।
अस्तु तर्ह्यन्यो याजयिता, अन्वारम्भश्चोभयोः ।
तदपि न, ज्ञापकात् ।
यदयं हृदयसंसर्गान्वारम्भं विदधाति तत्
ज्ञापयति न पार्वणादिष्वन्वारम्भो भवतीति ।
अन्यथा पार्वणातिदेशादेवान्वारम्भः सिद्धस्स्यात् ।
पाणिग्रहणादधि गृहमेधिनोर्व्रतम्ऽइत्यादौ साङ्गं विवादृकर्म विवक्षितम् ।
तेन संवेशनान्ते विवाहिकर्मणि निष्ठिते पञ्चमहायज्ञादीनां गृहस्थधर्माणां प्रवृत्तिः ।
पार्वणस्थत्वस्य प्रागपि संवेशनात् स्यात् ।
पाकादूर्ध्व पर्वप्राप्तौ प्रवृतेतिर्भवति ।
तदर्थमाह- अत ऊर्ध्वमिति ।
तस्य च पौर्णमास्यामुपक्रमो नामावास्यायाम् ।
श्रौतयोस्तथा दर्शनात् ।
तत्स्थानापन्नत्वाच्चानयोः ।
छन्दोगाश्चामनन्ति -अमावास्या चेत् पूर्वमापद्यते पौर्णमासेनेष्ट्वाथ तत् कुर्यात् ।
अकृत्वा पौर्णमासीमाकाङ्क्षोदित्येकेऽ(खा.ग.2-1-2) इति ।
ऽपर्वसु चोभयोरुपवासऽइत्येव सिद्धे उपोषिताभ्यामिति वचनमस्मिन् कर्मणि
उभयोरव्याधिकारप्रदर्शनार्थम् ।
एवमप्युभाभ्यामित्येव वक्तव्यं नोपोषिताभ्यामिति ।
तस्मात् पर्वसु चोभयोरुपवास इति प्राप्तमुपवासं प्रकृत्यंशेनानूद्य द्विवचनेन द्वयोरधिकारः प्रदर्श्यते -उपोषिताभ्यामिति ।
तेन यजनीये ऽहन्येव स्थालीपाकस्सिद्धो भवति ।
पञ्चदश्यां पूर्वेद्युः कर्म ।
तथा चाश्वलायनः"अथ पार्वणस्थालीपाकः ।
तस्य दर्शपूर्णमासाभ्यामुपवासः ।
इध्माबर्हिषोश्च सन्नहन"(आश्व.गृ 1-10-1,2,3)
मिति ।
उभाभ्यां पर्वसु कार्य इत्युच्यमाने पर्वस्वेव स्थालीपाकस्स्यात्, उपवासश्च, निर्देशतुल्यत्वात्
आप्ग्स्-तात्_7.17:
अतः स्थालीपाका दूर्ध्व उपोषिताभ्यां ऽपर्वसु चोभयोरुपवासःऽ(आप.ध.2-1-4) इत्यादिविधिना कृतोपवासाभ्यां जायापतिभ्यां पर्वसु पौर्णमासीष्वमावास्यासु च द्वितीयासु दक्षिणावर्ज ऋषभदानवर्ज एवमे वंप्रकार एतत्स्थालीपाकसदृशो होमः कर्तव्य इति विधिः ।
धर्मशास्त्रे तु ऽश्वोभूते स्थालीपाकऽ(आप.ध.2-1-10) इत्युपवासादिधर्मसम्बन्धार्थो ऽनुवादः ।
सादृश्यं चात्र द्रव्यदेवतादिसमस्तधर्मनिबन्धनम् ।
यथा ऽएतस्यैव रेवतीषुऽ(ताण्ड्य.ब्रा.17-8-1) इति, यथा वा ऽमासमग्निहोत्रं जुहोतिऽइति ।
तत्र तु ऽएतस्यऽऽअग्निहोत्रम्ऽइति पदाभ्यां, इह तु एवंपदेनेति भेदः ।
ननु-दर्वीहोमेष्वतिदेशो नास्ति, अपूर्वत्वात्तेषाम् ।
सत्यम्, नास्ति चोदनालिङ्गात्, वचनात्त्वतिदेशः केन वार्यते ?
केचित्-नायं धर्मातिदेशः, सौर्यादिष्विव हविर्दऐवतस्यानुपदेशात् ।
अतः कल्पातिदेश एव;ऽश्वोभूते ऽन्वष्टकां, तस्या मासिश्राद्धेन कल्पो व्याख्यातः ऽइतिवदिति ।
नैतत् ।
हविर्दऐवतस्यानुपदेशे ऽपि मासमग्निहोत्रं जुहोतिऽइत्यादिषु धर्मातिदेशस्य दृष्टत्वात् ॥
अपरे तु-एकस्य तूभयत्वे संयोगपृथक्त्वम् (जै.सू.4-3-5) इति न्यायेन प्रकृतस्यैव स्थालीपाकस्य ऽएवं पर्वसु कार्यःऽ; इत्याधिकारान्तसम्बन्धविधिरिति ।
एतदपि न;एवं सति ऽएष कार्यऽइति सूत्रं स्यात्, ऽनत्वेवं कार्य इति ।
किञ्चि पर्वस्वन्वारम्भो ऽपि स्यात्; यतस्समस्तधर्मकस्यैव प्रकृतकर्मणो ऽधिकारान्तरविध्युपगमः ।
धर्मातिदेशे तु यथा नान्वारम्भस्तथोक्तमेव ऽअथैनामाग्नेयेमऽइति सूत्रमतिदेशविशेषार्थमिति वदता भाष्यकारेण ।
अत्र च ऽअत ऊर्ध्वम्ऽइति वचनं विवाहमध्ये ऽपि पर्वारम्भार्थम् ।
यद्यष्यत ऊर्ध्वमित्यविशेषवचनं, तथापि पौर्णमास्यामेवारम्भः ।
कालैक्येन प्रयोजनैक्यात्, स्थानापत्त्या च स्यामेवारम्भदर्शनात् ।
व्यक्तं चैतच्छन्दोगानाम् ।
ऽअमावास्या चेत् पूर्वमापद्येत पौर्णमासेनेष्ट्वाथ तत्कुर्यात्, अकुर्वन् पौर्णमासीमाकाङ्क्षेदित्येकऽइति ।
तस्मात्साथालीपाकानन्तरं पौर्णमासी चेत् पूर्वमागच्छेत्,तदा विवाहमध्ये ऽपि पर्वारम्भः ।
मासिश्राद्धस्य त्वारम्भश्चतुर्थाहोमान्ते अपरपक्षे;सिष्टाचारात्, बोधायनवचनात्, कर्ममध्ये कर्मान्तरारम्भस्यायुक्तत्वाच्च ।
तथा वैश्वदेवस्यापि, ऽतेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्याऽ(आप.ध.2-3-13) इत्यादिव्रतं सपत्नीकश्चारित्वा प्रशस्ते ऽहन्यारभ्भः
पूर्णपात्रस्तु दक्षिणेत्येके ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.18:
पात्रशब्द उभयलिङ्गः ।
धान्यमुष्टिशतस्य पूर्ण पात्रं पूर्णपात्र मित्याहुः ।
दक्षिणा चेयं ब्रह्मणे देया
आप्ग्स्-तात्_7.18:
धान्यादेः पूर्ण यत्किंचित् पात्रं पूर्णपात्रम् ।
यद्वा-
ऽअष्टमुष्टि भवेत् किञ्चित् किञ्चिच्चत्वारि पुष्कलम् ।
पुष्कलानि च चत्वारि पूर्णमात्रं प्रचक्षते ॥ऽ
इति वचनात् धान्यमुष्टीनां अष्टाविंशत्याधिकं शतं पूर्णपात्रम् ।
पात्रशब्दश्चोभयलिङ्गः ।
तुशब्दात् पर्वस्वयं विकल्पो, न वृषभदाने
38 औपासनहोमः ।
सायं प्रातरत ऊर्ध्व हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.19:
अस्मात् स्थालीपाकादूर्ध्व याश्च एतो आहुती ब्रीहितण्डुलैर्यवैर्वाजुहुयात् ।
अत ऊर्ध्वमित्यस्य पार्वणवदेव प्रयोजनम् ।
तेन तस्यामेव रात्रावारब्भः ।
तस्मादूर्ध्व दम्पत्योस्सायमशनम् ।
एते आहुती इत्युच्यते- ये अग्निहोत्राहुती आहिताग्नेस्ते एते इति प्रतिज्ञापनार्थम् ।
तेन तद्धर्माणामत्रप्रवृत्तिः ।
यथा ऽपालाशी समित् द्व्यङ्गुले मूलात् समिधंऽ(आप.श्रौ.6-10-4) इत्येवमादीनां प्रादुष्करणहोमकालयोष्च ।
तच्चोक्तमाश्वलायनके-तस्याग्निहोत्रेण प्रादुष्करणहोमकालौ व्याख्यातौ (आश्व.गृ.1-9-5) इत्यादि ।
हस्तेनेति दर्व्या अपवादः ।
तन्त्रस्य चानुपदोशादपूर्वत्वम् ।
परिस्तरण् तु भवत्येव ।
परिषेचनं त्विहैव विधीयते
आप्ग्स्-तात्_7.19:
सायं प्रातरित्याग्निहोत्रकालानां चतुर्णामुपलक्षणम्;अग्निहोत्रानुकारित्वादौपासनहोमस्य ।
अत ऊर्ध्व स्थालीपाकान्ताद्विवाहा दूर्ध्वम्;विवाहस्यैवात्र परमप्रकृतत्वात्,न क्वनन्तरप्रकृतत्वात्पर्वण ऊर्ध्वम्, यतो न प्रासङ्गिकप्रकृतपरामर्शस्स्वरसस्सर्वनाम्नाम् ।
स्थालीपाकान्तादिति च स्थालीपाकं विधाय, ऽअत ऊर्ध्वम्ऽइति वचनात् ।
अस्य चारब्भो ऽनन्तरं रात्रावेव यदि नव नाड्यो नातीताः ।
अतीताश्चेदपरेद्युस्सायमेवाग्निहोत्रारम्भवेलायाम् ।
अत्र हस्तेनेत्यादिना कृत्नविधानम् ।
हस्तेनेति विधानाद्दर्व्यादिनिवृत्तिः ।
तम्जुलैर्यवार्वेति विधानात् पाकस्य ।
उभयतः परिषेचनमिति परिसङ्ख्यानात् पार्वणधर्माणाम् ।
वेश्वदेवे ऽपीत्थमेव व्याख्यानम् ।
ऽएतेऽइति विशेषणादत्रापि द्वितीयाहुतिः स्विष्टकृत्स्थानीत्या अङ्गमित्यर्थः तेनेतां विस्मृत्य कर्मसमाप्तौ नेषा पुनर्होतव्या ।
किन्तु सर्वप्रायाश्चित्तमेव
39 तत्र देवताविधानम् ।
स्थालीपाकवद्दैवतम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.20:
देवतैव दैवतम् ।
अग्नये स्वाहेति पूर्वाहुतिः ।
अग्नये स्विष्टकृते स्वाहेत्युत्तरा
आप्ग्स्-तात्_7.20:
अयं ऽएते आहुतीऽइति प्रप्तस्यानुवादः पूर्वाहुतेर्विकल्पं वुधातुम् ;यथा-पात्नीवते ऽनानुवषट्कारोति ।
अपि वोपांश्वनुवषट् कुर्यात्ऽ(आप.श्रौ.13-14-9,10) इति
सौरी पूर्वाहुतिः प्रातरित्येके ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.21:
सौरी सूर्यदेवत्या ।
सूर्याय स्वाहेति वा पूर्वाहुतिर्भवति ।
अन्यत् समानम् ।
तत्र यथाकामी प्रक्रमेत ।
प्रक्रमात्तु नियम्यते
आप्ग्स्-तात्_7.21:
सौरी सूर्यदेवत्या ऽसूर्याय स्वाहाऽइति पूर्वाहुतिः प्रातर्होमे इत्येके
उभयतः परिषेचनं यथा पुरस्तात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.22:
अस्य होमस्य परिषेचनं अभयतः पुरस्तादुपरिष्टाच्च कर्तव्यम्, यथा पुरस्ताच्चोदितम्-अग्निं परिषिञ्चति पूर्ववत् परिषेचमिति
आप्ग्स्-तात्_7.22:
उभयतः एतयोराहुत्योः पुरस्तादुपरिष्टाच्च परिषेचनं यथा पुरस्ताद्विहितं ऽअग्निं परिषिञ्चतिऽ(आप.गृ.2-3)
ऽपूर्ववत्परिषेचनमन्वमंस्थाःऽ(आप.गृ.2-8) इति ।
पाकयज्ञेषु सप्तसु न विद्युद्वृष्टी ।
ऽसैषा मीमांसाग्निहोत्र एव सम्पन्ना ।
अथो आहुः ।
सर्वेषु यज्ञक्रतुष्वितिऽ(तै.का.3-10-9) इतेयत्र ऽतदिदं सर्वयज्ञेपूपस्पर्शनं भवतिऽ(आप.श्रौ.4-1-7) इत्यत्र च सर्वशबेदोन प्रकृतपरामर्शिना प्रकृतश्रौतसर्वयज्ञानामेव परामर्शात् ।
अस्मादेव हेतोः ऽद्विर्जुहोतिऽ(आप.गृ.2-11) इत्यादिना परिसङ्ख्याय कृत्स्नविधानाच्चाग्निहेत्रिकविधावपि नैव विद्युद्वृष्टी
40 पार्वणबिकृतयः ।
पार्वणेनातो ऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.23:
पर्वसु भवः पार्वणः ।
तेन पार्वणेन स्थालीपाकेनाते ऽस्मात्पार्वणा दन्यानि कर्माणि व्याख्यातानि यान्याचारादूगृहायन्ते
ज्ञायन्ते तानि सर्वाणि ।
अयमपि कल्पातिदेशः ।
यो ऽयं पार्वणस्य कल्पः ऽएवमत ऊर्ध्वऽइत्यादिः पूर्णपात्रस्तु दक्षिणेत्येक इत्येवमन्तः स एव सर्वेषां पाकयज्ञानां कल्प इत्यर्थः ।
तत्रोपवासः पार्णादन्यत्र न भवति ।
पर्वसंयोगेन प्रकरणान्तरे विधानात् उपोषिताभ्यामित्यस्य चाविधायकत्वात् ।
नन्विस्मिन् वैवाह्के धर्मा आम्नाताः पार्वणस्यापि तत एवातिदिष्टाः ।
ततश्चान्येषामपि तत एवातिदेशः कर्तव्यः ।
ऽदक्षिणावर्जऽऽपूर्णपात्रस्तुदक्षिणेत्येकेऽइत्यस्य विशेषस्य परिग्रह्र्थस्तु पार्वणेनातिदेशः ।
ऽअतो ऽन्यानिऽइति वचनं समानजातीयपरिग्रहार्थम् ।
तेन पक्वगुणेष्वेव स्थालीपाकेषु पशुषु चायमतिदेशो नाज्यगुणकेषु ।
केचित् तत्रापीच्छन्ति ।
कर्माणीति वचनात् कर्मणामेव पार्वणव्याख्यातत्वम् ।
न कालरर्तृधर्माणाम् ।
तेन निऋतिं पाकयज्ञेने (आप.ध.1-26) त्यत्रं पत्नीवत्वं पर्वनियमश्च न भवति ।
हृदयसंसर्गादिषूपवासश्च ।
व्याख्यातानीति वचनात् व्याख्यानमेव पार्वणेनान्येषां कर्मणां, न प्रसृतिविकृतिभावः ।
तेनानारब्धपार्वणस्यापि कालगमे सर्पबल्यादौप्रकृत्तिर्भवति ।
आचाराद्यानि गृह्यन्त इति वचनात् अस्मिन् शास्त्रे अऽनुपदिष्टानामपि शास्त्रान्तरदृष्टानां पक्वगुणकानामयमुपदेशो भवति ।
यथा-काम्यानां स्थाने काम्याश्चरवः ऽषडाहुतिश्चरुऽरित्येवमादीनाम्
आप्ग्स्-तात्_7.23:
पार्वणेम वैवाहिकेन स्थालीपाकेन ।
अतो ऽन्यानि अस्मादन्यानि सर्पबल्यादीनि यान्याचारादूगृह्यन्तेतानिकर्माणि व्याख्यातानि तेष्वेतद्धर्मातिदेश इत्यर्थः ॥
ननु-कथं पार्वणशब्दवाच्यत्वं वैवाहिकस्थालीपाकस्य?इति चेत्नित्यस्तावत् ऽउपोषिताभ्यां वर्वसु कार्यऽ(आप.गृ.7-17) इति पर्वसु भवत्वात् पार्वणः ।
तस्य च पार्वणस्यायं प्रकृतित्वे सम्बन्धीतिऽतस्येदम्ऽ(पा.सू.4-3-120) इति पार्वणशब्दादण्प्रत्यये कृते पार्वम इत्येवं रूपं भवति ।
यद्यपि कर्मान्तराणामप्ययं प्रकृतिः, तथाप्यस्य पार्वणसम्बधितया व्यपदेश्यत्वमेव युक्तम् ;यथो ऽत्र कर्मणि द्रव्यदेवतयोरप्यतिदेशः ।
कर्मान्तरेषु त्वितरधर्माणामेवेति ।
नन्वेवमपि शीघ्रावगतस्य नित्यस्य पार्वणस्य प्रकृतित्ये सम्भवति किमिति विलम्बितावगम्यस्य वैवाहिकस्य प्रकृतित्वमुच्यते ?इति चेत्न, वैवाहिक एव धर्मोपदेशपौष्कल्यात्, इतरत्र तदभावाच्च ।
प्रसिद्धश्चैष न्यायः-यस्य पुष्कलो धर्मोपदेशस्सो ऽन्येषां प्रकृतिः;न हि भिक्षुको भिक्षुकान् याचितुमर्हतीति ।
तस्माद्युक्तं वैवाहिकस्यैव प्रकृतित्वम् ।
अस्य च वैवाहिकस्य पार्वणशब्दावाच्यत्वं धर्मसास्त्रे व्यक्तमेव ।
ऽपर्वसु चोभयोरुपवासः ।
औपवस्तमेव कालान्तरे भोजनम् ।
तृप्तिश्चान्नस्य ।
यच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहनि भुञ्जीयाताम् ।
अधश्च शर्यायाताम् ।
मैथुनवर्जनं च ।
श्वोभूते स्थालीपाकः ।
तस्योपचारः पार्वणेन व्याख्यातःऽ(आप.ध.2-1-4....11) इति नित्यस्य पार्वणेन व्याख्यानाभिधानात्, पर्वसम्बन्धिनः कर्मान्तरस्यात्रासम्भवात्, नित्यस्य च नित्येनैव व्याख्याने आत्माश्रयदोषात् ।
नन्वत्र केचित्- ऽयच्चैनयोः प्रियं स्यात्तदेतस्मिन्नहमिऽइत्येतच्छब्देनैकवचनान्तेन ऽपर्सु चऽइति बहिवचनान्तनिर्दिष्टपर्वाहः परामर्शानुपपत्तेः, ऽपाणिग्रहणादधि गृहमेधिनोर्व्रतम्ऽ(आप.ध.2-1-1)इति परमप्रकृतं पाणिग्रहणनक्षत्रं परामृश्यते ।
तेन प्रतिसंवत्सरं पाणिग्रहणनक्षत्रे प्रियभोजनादि कार्यम् ।
श्वोभूते च स्थालीपाकः कर्तव्यः ।
तस्य च क4मान्तरस्योपचारः पार्वणेन नित्येन व्याख्यात इत्याहुः तत्कथं धर्मशास्त्रे व्यकेतं वैवाहिकस्य पार्वणशब्दवाच्यत्वमिति ।
तन्न;यतो ऽत्र व्रतमेव परमप्रकृतम्, पाणिग्रहणस्य तु तदवधितया कीर्तनमात्रम् ।
नक्षत्रं तु गम्यमानमेव ।
गम्यमानं चैतच्छब्देन पराम्रष्टुं प्रियभोजनादिना विशेषयितुं च नार्हम् ।
तदाहुराचार्याः
"गम्यमानस्य चार्थस्य नैव दृष्टं विशेषणम् ।
शब्दान्तरैर्विभक्त्या वा धूमो ऽयं ज्वलतीतिवत् ॥"
(तन्त्र.वा.1-1-7) इति ।
अतश्चात्र ऽपर्वसु चऽइत्युद्देश्यगतबहुत्वस्याविवक्षितत्वात् श्रुताव्यवहितस्य प्रकृतस्यपर्वाहस्यैव परामर्शो विशेषणं च युक्तम् ।
अतौपवासादेरिव प्रियभोजनादेरपि पर्वसम्बन्धात् ऽश्वोभूते स्थालीपाकःऽइत्युपवासादिधर्मविधानार्थमेव ।
ऽउपोषिताभ्याम् पर्वसु कार्यःऽइति गृह्यविहितस्य स्थालीपाकस्यानुवाद एव, न कर्मान्तरस्य विधिः ।
अनुवादे च तस्योपचार इति दूरस्यस्य परामर्शो घटते ।
विधौ त्वस्योपचार इति स्यात् ।
एवं च यद्यपि ऽश्वोभूते स्थालीपाकःऽइत्यापाततो ऽनुवादस्वरूपः;तथापि यस्येमे विधीयमाना उपवासप्रियभोजनादयो धर्मास्सम्बन्धिनस्तस्योपचारः पार्वमेन व्याख्यात इति साध्याहारमेवेदं सूत्रं व्याख्येयम् ।
तस्माद्धर्मशास्त्रे ऽपि वैवाहिकस्य पार्वणशब्दव्यपदेश्यस्यैव प्रकृतित्वम्, न नित्यस्येति सिद्धम् ।
नन्वेमपि शीघ्रबोधकत्वात् वैवाहिकेनेति वक्तव्ये, किमर्थमस्य विवाहाङ्गस्यापि सतो विवीहसम्बन्धं तिरस्कृत्य ऽपार्वणेनऽइत्याह ?उच्यते-इतराङ्गवदस्य न शम्याः ;किन्तु शिष्टाचारसिद्धाः परिधयएवेत्येवमर्थम् ।
अत्र च अतो ऽन्यानीत्याह-एतत्सदृशान्येवौषधप्रधानहवींषि सर्पबल्यादीनि कर्माण्यनेन व्याख्यातानि, न त्वनेन तत्सदृशानि पशुप्रभवप्रधानहवींषि वपाहोमादीनीति वक्तुम् ।
कुत एतत्?
ऽतत्र सामान्याद्विकारो गम्येतऽ(आप.प.3-39) इति परिभाषावचनात् ।
किञ्च अतो ऽन्यानीत्यस्य नञ्समासप्रभेदविग्रहवाक्यत्वात् ऽनञिवयुक्तमन्यसदृशाधिकरणे तथाह्यर्थावगतिःऽ(वै.प.74) इति नञ्समासभेदार्थनिर्णयात्, वाक्यसमासयोर्भिन्नार्थत्वे चासमर्थसमासापत्तेः ।
औषधानि हवीमषि पशुप्रभवानि च कानि कतिधा च ?इति
चेत्-पुरोडाशः, ओदनो, यवागूस्तण्डुलाः, पृथुकाः, लाजाः, सक्तवः, पुष्टानि, फलीकरणानि, धानः, करम्भाः, सुरेत्यौषधानि द्वादशाविधानि ।
पयो, दध्या, ज्य, मामिक्षा, वाजिन, भवदानानि, पशुरस,श्शोणितं, त्वक्, वपेति, पशुप्रभवानि धशविधानि ।
ऽअथ कर्माण्याचाराद्यानि गृह्यन्तेऽ(आप.गृ.1-1).इति प्रकृते ऽप्यत्र पुनर्वचनं गृह्यप्रश्ने ऽनुक्तानां महाराजस्थालीपाक गणहोमादीनामेतद्विकृतित्वं वक्तपम् ।
ननु-यद्यनेनैव सूत्रेण औषधहविष्केषु कर्मसु पार्वणतन्त्रातिदेशः, किमर्थ ऽअस्तामिते स्थालीपाकःऽऽपार्वणवदाज्यभागान्तेऽ; (आप.गृ.18.5.6) इति सर्पबलौ पुनर्वचनम् ?उच्यते-यद्यपि श्रौतआप्रयणे वैश्वदेवादीनां भूयस्त्वेन पौर्णमासतन्त्राशङ्कायां ऐन्द्राग्नस्य मुख्यत्वात् ऽमुख्यं वा पूर्वचोदनाल्लोकवत्ऽ(जै.सू.12-2-23) इति सिद्धान्तन्यायेन ऽआमावास्यं तन्त्रम्ऽ(आप.श्रौ.6-29-5) इति दर्शितम्, तथाप्यत्रान्येषां हविषां बहुत्वे ऽप्यौषधस्य मुख्यत्वात् पार्वणतन्त्रतैवेति मुख्यन्यायं मन्दबुद्धिहितार्थ दर्शयितुमेव पुनश्चोक्तं ऽपार्वणवदाज्यभागान्तेऽइति ।
तेन मासिश्राद्धे अष्टकाकर्मणि च पार्वणमेव तन्त्रम् ।
यद्यप्यष्टकायां वपाहोमस्य मुख्यस्यापूर्वत्वं, तथाप्यन्येषां कृत्स्नविधानाभावादौषधत्वात् ऽस्विष्टकृत्प्रभृति समानमापिण्डनिधानात्ऽ(आप.गृ.22-8) इति दर्शनाच्च पार्वणमेव तन्त्रम् ।
अपूपहोमे तु ऽपार्वणवत्ऽ(आप.गृ.22-1) इति पुनर्वचनमपूपमांसौदनपिष्टान्नहोमानां स्थाने अनुकल्पेन विहितस्यौषधहविष्कस्यापि दधिहोमस्य पार्वणतन्त्रप्राप्तिं ज्ञापयितुम्, न त्वपूपहोमार्तम्;तस्यौषधहविष्ट्वादेव पार्वणतन्त्रप्राप्तेः ।
तत्स्थानापन्नेषु च तद्धर्मप्राप्तिर्दृष्टा ।
यथा ऽयस्य हविषेवत्सा अपाकृता धयेयुस्तत्स्थाने वायव्यां यवागूं निर्वपेत्ऽ(आप.श्रौ.9-1-23) इति सान्नाय्यस्थाने विहिताया यवाग्वास्सान्नाय्यधर्माः ॥
केचित्-नित्यस्य पार्वणस्य यः कल्पस्स एव सर्वेषां यज्ञानां कल्पः ।
यद्यपि वावाहिकेधर्माम्नानं, तथापि नित्यस्यैव कल्पादिदेसो ऽदक्षिणावर्जऽइत्यस्य परिग्रहार्थः ।
अतो ऽन्यानीति वचनादेतत्सदृशानां पक्वगुणानामेव स्थालीपाकानां पशूनां चायं विकल्पो, न त्वाज्यगुणकानाम् ।
कर्माणीति वचनात् कर्ममात्रस्यैव व्याख्यानं, न तु कर्तृतद्धर्मकालादीनाम् ।
तेन ऽगर्दभेनावकीर्णी निऋतिं पाकयज्ञेन यजेत, (आप.ध.1-26-8) इत्यत्र पशौ न पत्नीवत्त्वम् नापि हृदयसंसर्गादिषु पर्वणो नियमः, विशेषतश्चोपवासस्य धर्मशास्त्रे पर्वसम्बन्धेन विधानात् ।
व्याख्यातानीति वचनादन्येषां नैतद्विकृतित्वम् ।
तेनानारब्धपार्वणो ऽपि तेष्वधिकारी ।
हृदयसंसर्गादिषु पुनस्तन्त्रविधानं आज्यहोमवन्नियमार्थम् ।
एतद्गृह्योपदिष्टेषु यत्र वचनं तत्रैव तन्त्रं, नान्यत्र ।
तेनाग्रयणे तन्त्रलोप इति तन्न;यत उपदिष्टधर्मकस्य वैवाहिकस्य धर्मातिदेशे ऽपि नैव दोषः ।
प्रत्युत नित्यस्य कल्पादिदेशे पर्वादीनामप्यतिदेशाद्दोषः ।
कर्माणीति वचनान्नेति चेत्-न;तस्योद्देश्यसमर्पणोपक्षीणत्वात् ।
अखण्डग्राहिणश्चोदकस्योच्छ्टङ्खलत्वात् ।
दक्षिणाभावस्तु प्रयोजनं तस्य ऽयो ऽस्यापचितस्तस्मा ऋषभं ददातिऽ(आप.गृ.7-16) इति सिद्धम् ।
तथा सदृशेष्वयमतिदेश इत्युक्तिमात्रम्, असदृशेष्वपि पशुष्वभ्युपगमात् ।
पक्वत्वात् सादृश्ये द्रव्यत्वादाज्ये ऽपि स्यात् ।
न चैवं व्याख्यातशब्दः प्रकृतिविकृत्त्वाभावार्थः ।
ऽएतेन वैश्वसृजा ज्यो व्याख्यातः (आप.श्रौ.19-15-1) इत्यादौ प्रकृतिविकृतित्वस्य दृष्टत्वात् ।
तथा नैकस्मिन्नाग्रयणे तन्त्रलोपफलार्थ नियमार्थानि बहूनि सूत्राण्यारब्धव्यानि ।
अविकृतमातिथ्यमाग्रयणं चेच्येतावन्मात्रसूत्रादेव स्वाभिमतसिद्धेः ।
अतस्तानि तन्त्रसूत्राणि यथोक्तप्रयोजनार्थानि ।
आग्रयणमपि तन्त्रवदेव
41 तत्र होमदेशविधानम् ।
यथोपदेशं देवताः ॥ आ
अग्निं स्विष्टकृतं चान्तरेण ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.25:
पार्वणेनातोन्यानीत्ययं कल्पातिदेशः इत्युक्तम् ।
तेन पार्वणे ये देवते यस्च स्थालीपाकः तेषां सर्वेषु कर्मसु प्रवृत्तिः ।
तत्र तत्रेपदिष्टाभिस्तु देवताभिः पार्वणदेवतयोः बाधे प्राप्ते तन्निवृत्त्यर्थ वचनं तत्र चोदितानां देवतानां देशविधानार्थञ्च-यो ऽयमग्निः पार्वणोयश्च स्विष्टकृत्, तावन्तरेण तयोर्मध्ये ता देवता यष्टव्या इति ।
तत्र पार्वणस्याग्नेः पार्वणमेव हविः तत्र तत्र विहितानां तत्र तत्र विहितम् ।
स्विष्टकृतस्तु सर्वोहविश्शेषः, अन्यत्र तथा दर्शनात् ।
अन्ये तु तत्र विहितादेव हविषः पार्वणदेवतयोरपीज्यामिच्छन्ति ।
अपर ईह- नात्र पार्देवते अनूर्द्यते अग्निश्च स्विष्टकृच्च ।
किं तर्हि ?आगन्तुके एते अनेनैव वचनेन विधीयेते ।
तत्र हविषो ऽनुपदिष्टत्वात्
अग्नेराज्यं हविः ।
स्विष्टकृतस्तु सर्वो हविश्शेष इति ।
सर्वथा सर्वेष्वेव पार्वणातिदिष्टेष्वग्निः पूर्व यष्टव्यः ।
तथा च श्रौतेषु ऽयेन यज्ञेनेत्र्सेत् कुर्यादेव तत्राग्नेयमिति ।
यथा भाष्यं व्याख्यायते ।
पार्वणव्याख्यातेषु सर्वेष्वेव कर्मसु यथोपदेशं देवता यजति अग्निं स्विष्टकृतं च यजति योयमग्निस्विष्टकृत् पार्वणे द्वितीयो देवताविशेषः तं च यजति तस्मादेव हविषः ।
यत्तत्र तत्रोपदिष्टानां हविरिति ।
तत्र यथोपदेशं देवता इत्यनुवादः स्विष्टकृतस्समुच्चयविधानार्थः ।
असति समुच्चये तेषु तस्य प्रवृत्तिर्न स्यात् ।
तत्र तत्रोपदिष्टभिर्देवताभिर्निवर्तितत्वात् ।
अग्नेरिव स्विष्टकृतो ऽपि प्रधानदेवताच्चोदितत्वात्- ऽअग्निस्विष्टकृद्वितीय इति ।
अन्तरेण इत्यनेन तु तस्यैव स्विष्टकृतो देशो नियम्यते-प्रधानाहुतीष्टोपहोमांश्चान्तरणोग्निं स्विष्टकृतं यजतीति ।
तेनयत्राप्युत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते, ऽआज्याहुतीरुत्तराः जयादु प्रतिपद्यतऽइति च क्रमपरं वचनं तत्रापि नित्यमग्निस्विष्टकृदस्मिन्नन्तराले यष्टव्यो भवतीति ।
प्रकरणाच्च प्रधानाहुतीरुपहोमाश्चान्तरेणेत्यर्थो ऽपि लभ्यते ॥
आप्ग्स्-तात्_7.25:
अत्रास्वपदो विग्रहः, अव्ययीभावसमासत्वात् ।
अध्याहारश्च, साकाङ्क्षत्वात् ।
यथोपदेशं सर्पवल्यादिषु याश्च यावत्यश्च येन येन प्रकारेण मन्त्रविधानादिनोपद्ष्टां देवतास्ता एव भवन्ति, न पार्वणदेवताः न तेषु पार्वणं प्रधानं समुच्चेतव्या इत्यर्थः ।
ननु विकृतावुपकारमुखेन तज्जनकानां धर्माणामतिदेश-, प्रधानं चोपकार्य, नोपकारजनकम् ।
पार्वणे च स्थालीपाकहोमयोः प्रथमो होमः प्रधानम् ।
अतस्तस्यातिदेश एव नास्ति ।
दूरे तत्समुच्चयाशङ्का, यन्निरासायेदं सूत्रं स्यात् ।
ऽषड्भिर्दीक्षयतिऽ(तै.सं.5-1-9) इत्यत्र तुप्राकृतीनां दीक्षाहुतीनां अङ्गत्वादतिदेशः, अदृष्टार्थत्वाच्च समुच्चयः, यथोपदिष्टानां प्रकृतिकॢप्तक्रमबाधभयादन्ते निवेशश्च युक्त एव ।
सत्यमेवम्;किन्तु गार्ह्यकर्मानुष्ठातॄणां मध्ये ये मन्दबुद्धयो ऽङ्गप्रधानयोरतिदेश्यानतिदेश्ययोश्च अनभिज्ञास्ते पार्वणेनेत्य विशेषेणातिदेशप्रातिभासात् ऽषडिभिर्दीक्षयति, इत्यादौ दर्शनमात्राच्च प्रधानातिदेशतत्समुच्चयावुपदिष्टप्रधानानामन्ते निवेशं च मन्यन्ते ।
तन्निरासायेदं सूत्रम्
अथ वैकृतप्रधानहोमानां स्थानमर्थादग्निमुखसौविष्टकृतयोश्च विदधाति--
ऽयथोपदेशं देवताःऽ(आप.गृ.7-24) इत्यनुवर्तते ।
यथोपदेशं देवताः ये विकृतावुपदिष्टाः ते अग्निं स्विष्टकृतं चान्तरेण आग्नेय सौविष्टकृतयोर्होमयोर्मध्ये भवेयुः ।
अत्र च स्विष्टकृतमितिवदग्निमित्यपि सिद्धानुवादात्, अन्यतश्च प्राप्त्यभावात्, योगविभागे- नाग्निमुद्दिश्य जुहुयादित्यन्यो ऽप्यर्थो विधीयते ।
विभक्तस्य सूत्रस्य चायं विवक्षितोर्ऽथः- सर्वेषु तन्त्रवत्स्वौषधहोमेषु दधिहोमेषु चेपकरणसमापनयोश्च शिष्टाचारा ऽदग्नये स्वाहेऽत्याज्येन अग्निमुखाख्यमङ्गहोमं सर्वेभ्यो ऽपि प्रधानहोमेभ्यः पूर्व जुहुयादिति ।
नन्वत्र ऽस्विष्टकृतऽमिति व्यर्थम् ;सर्वत्र स्विष्टकृतश्शेषप्रतिपत्त्यर्थत्वात् स्वत एवासावन्ते एव भवतीति ।
नैवम्-विकृतिषु द्विविधाः प्रधानहोमाः-पार्वणविकारा अपूर्वाश्च;तेषामुभयोषामप्यन्त एव स्विष्टकृद्यथा स्यादित्येवमर्थत्वात् ।
अन्यथा यद्धोमाङ्गं स्विष्टकृत्तदन्त एव स्यात् ।
तथाग्निमिति चोभयेभ्यः प्रधानाहुतिभियः पूर्वमेवाग्निमुखमित्येवमर्थ स्विष्टकृद्वन्नियम इति ॥
केचित्- ऽयथोपदेशं देवता अग्निं स्विष्टकृतं चऽइत्येवमन्तमेकं सूत्रम् ।
तस्यार्थः- ऽअग्निस्स्विष्टकृत् द्वितीयःऽ(आप.गृ.7-70 इत्यत्र स्विष्टकृतः प्रधानहोमतुल्यधर्मत्वज्ञापनात् विकृतिषु च पार्वणप्रधानलोपे सति तस्यापि लोपस्स्यात्, स मा भूदित्यनेन सूत्रेण ऽयथापदेशं देवताःऽइत्यनूद्य, अग्निं स्विष्टकृतं च कुर्यात् इति तासु तस्य समुच्चयो विधीयते ।
तथा ऽअन्तरेणऽइति पदमेकं सूत्रं ऽअन्तरा त्वाष्ट्रेणऽ; इत्यादिवत् ।
प्रकरणाद्वैकृतप्रधानहोमानां जयादीनां च मध्ये सर्वास्वपि विकृतिषु स्विष्टकृन्नित्य एवेत्यर्थः ।
इतरथा क्वचित्तस्य लेपः स्यात्, ऽस्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यतेऽ(आप.गृ.9-4) इत्यादि परिसङ्ख्येति कृत्वेति ।
तन्न,-विभागे साकाङ्क्षयोर्द्वितीयान्तयोः ऽअग्निं स्विष्टकृतं, इत्येतयोः अन्तरेणेत्यनेन सम्बन्धाकाङ्क्षेण एकवाक्यत्वे सम्भवति वाक्यभेदस्यायुक्तत्वात्, ऽअग्निस्स्विष्टकृद्द्वितीयःऽइत्यस्य प्रयोजनान्तरपरत्वाच्च ।
तथापि यदि स्विष्टकृतः प्रधानतुल्यधर्मकत्वं, तदा तल्लोपे ऽपि प्रधानलोपप्रायश्चित्तमेवापद्यते ।
तथा ऽअन्तरेणऽइत्यस्य यथोक्तश्रुतसम्बन्धन्यन्वयसम्भवे अप्रकृतगम्यमानान्वयो न युक्तः ।
व्यर्थ चैतत्;स्वमते स्विष्टकृतस्समुच्चयविधानादेव त्रिदोषायाः परिसङ्ख्याया अपि निरस्तत्वात्, तस्य सर्वत्र नित्यत्वेनालोपसिद्धेः
अविकृतमातिथ्यम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.26:
या गौरतिथय आलभ्यते ऽगौरिति गां प्राहेतिऽतदातिथ्यं नामकर्म तदविकृत मपूर्व पार्वणधर्मास्तद्वपाहोमे न कर्तव्या इत्यर्थः ।
इदमेव ज्ञापकं न स्थालीपाकेष्वेव सो ऽतिदेशः ।
किं तर्हि ?सर्वेषु पक्वगुणेषु पशुष्वपीति ।
तेनाष्टकायां काम्यपशुषु च शास्त्रान्तरदृष्टेषु पार्वणाधर्मसिद्धिः
आप्ग्स्-तात्_7.26:
अतिथिर्यस्य कर्मणो निमित्तं त दातिथ्यम् , गवालम्भ इत्यर्थः ।
त दविकृतं यथोपदिष्टमेव स्यात् ।
नात्र ऽअग्निमिद्ध्वाऽ; (आप.गृ.1-12)इत्यादि सामान्यमपि तन्त्रम्, पार्वणं तु दूरे;ऽकृत्स्नविधानात् यजतेरपूर्वत्वम्ऽ(जै.सू.8-1-5) इति न्यायात् ।
ऽकृत्स्नविधानं च तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेकोन्नातमेन वा पलाशपर्णेनोत्तरया जुहोतिऽ(आप.गृ.22-4) इति ।
एतच्च प्रदर्शनार्थम् ।
तेन वपाहोमानन्तरं कुंशुकहोमसर्षपहोमफलीकरणहोमादयो ऽप्यपूर्वा एव;कृत्स्नविधानस्य तुल्यत्वात् ।
ननु-ऽनानग्नौ प्रधानम्ऽइति याज्ञिकवचनात् वैश्वदेवबलिहरणानि तावदङ्गानि ।
अग्नौ होमेषु च आग्नेयसौविष्टकृतावन्तरेण ये होमास्त एव प्रधानाः ।
तौ तु सर्पबल्यादिसामान्यादङ्गमित्याशङ्क्याह-
42 वैश्वदेवः ।
वैश्वदेवे विश्वे देवाः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.27:
ऽआर्याः प्रयता वैश्वदेवऽइति चोदिते वैश्वदेवाख्ये कर्मणि देवतोपदेशो ऽयं निर्वापकाले सङ्कल्पार्थम् ।
यास्तु तत्र देवताः षड्भिराद्यैः प्रतिमन्त्रं (अपा.ध-2-3-16) इत्येवमाद्याः ताः प्रदानकाले देवताः, तेन विश्वेभ्यो देवेभ्यः इति सङ्कल्प्य गृहस्थेन स्वगृहे पाकः कार्यः ।
तथा पक्वादेवान्नात् होमा बलयश्च तस्यै तस्यै देवतायै ।
ऽअहरहर्भूतबीलऽरित्येवमाद्याः पञ्चमहायज्ञानामुत्पत्तिविधयः ।
ऽआर्याः प्रयताऽइत्यादिकस्तु तेषामेव प्रयोगविधिः ।
तस्मात् न पृथक् पञ्चमहायज्ञाः कर्तव्याः तत्रैव वैश्वदेवम् यदग्नौ क्रियते स देवयज्ञः ।
यत् बलिहरणं स भूतयज्ञः ।
यद्दक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः ।
यदग्रं च देयमित्यादि स मनुष्ययज्ञः ।
तत्र वैश्वदेवे सोमाय स्वाहेति द्वितीयाहुतिरिति मन्त्रव्याख्याकारेणोक्तम् ।
न च षडेभिराद्यैरिति विरोधः ।
तस्य प्रधानदेवताविषयत्वात्, स्विष्टकृतश्च तान्त्रिकत्वात् ।
अथ कस्मादिहैव वैश्वदेवस्य कृत्स्नकल्पो नोपदिश्यते?उच्यते-इहोपदेशे तस्य कल्पस्य सर्वचरणार्थता न स्यात्, इष्यते च ।
तस्मात् सर्वचरणसाधारणेषु सामयाचारिकेषूपदेशः ।
अथ तंहि देवतोपदेशः तत्रैव कस्मान्न कृतः ?इहोपदेशप्रयोजनमस्मिन् गृह्ये तदपि वैश्वदेवं कर्मोपदिष्टं यथा स्यादिति ।
तेनास्मदीयानां स एव वैश्वदेवकल्पो नान्येषु धर्मशास्त्रेषु चोदितः ।
यज्ञोपवीतिना प्रदक्षिणमित्यादि परिभाषाप्रवृत्तिश्च भवति
आप्ग्स्-तात्_7.27:
वैश्वदेवमिति कर्मनामधेयम् ।
प्रवृत्तिनिमित्तं च, विश्वे सर्वे देवा अत्रेज्यन्त इति ।
इह च मन्त्रवर्णसिद्धानां देवतात्वस्याविधेयत्वात्, आग्नेयादयष्षडपि होमाः बलिहरणानि चानग्निदेश्यान्यपि सर्वाण्येव प्रधानानि;न तु किञ्चिदपि शेषापरनामाङ्गम्, इत्येवं सूत्रार्थः ।
अयं भावः-यादिनानग्नौ प्रधानम्, किन्तु शेष एवेति तर्ह्ये तच्छेषलक्षणे तृतीयाध्याये दृश्येत ।
न तु दृष्टम्, नापि सूत्रकारेक्तं दृश्यते ।
किन्तु पुण्डपितृयज्ञे तावदापस्तम्बेन हेमः पिण्डदानं चोभयं प्रधानमुक्तम्, पिण्डदानं प्रकृत्यर्यदि जीवपिता, न दद्यात्, आहोमात्कृत्वा विरमेत्ऽ(आप.श्रौ.1-9-8) इति ।
यदि हि पिण्डदानस्याङ्गता, तदा प्रधानभूतहोमानुष्ठाने सति, तस्याप्यनुष्ठानं स्यात्, न विरामः ।
तस्मादत्र प्रधानस्यैव पिण्डदानस्य ऽनासोमयाजी सम्मयेत्ऽ(तै.सं.2-5-5) इत्यादिवदनारभ्भलक्षण एव विरामः ।
कात्यायनस्तु-प्रत्युत पक्षे पिण्डदानमेव प्रधानं, होमस्तदङ्गमित्याहऽजीवपितृकस्य होमान्तम्, अनारम्भो वाऽ(का.श्रौ.4-1-24,25) इति ॥
तथा सर्पेशानबल्योरपि होमा बलयश्च प्रधानम् ।
अवभृथे त्वनग्नावेव प्रधानम् ।
सोमाङ्गत्वे ऽप्यस्य प्रधान्यं स्वाङ्गापेक्षया ।
तथैव राक्षसे गर्दभपशौ अनग्नावेव प्रधानम् ;ऽअप्यस्ववदानैश्चरेयुःऽ(आप.श्रौ.9-15-3) इति वचनात् ।
वपायास्तूपदेशमतादग्नौ होमः ।
ऽयदि वपा हविरवदानं वा स्कन्देत्ऽ(आप.श्रौ.9-18-15) इति वपायाः पृथग्ग्रहणात् ।
एवमनग्नावप्यन्यानि बहूनि प्रधानम्;ऽऔपासने पचने वा षड्भिराद्यैः प्रतिमन्त्रं हस्तेन जुहुयात्ऽ(आप.ध.2-3-17) इति परिसङ्ख्यया चास्य वैश्वदेवस्यापार्वणा- विकारत्वात् ।
सर्पबल्यादिषु तु पार्वणविकारत्वात्तावदङ्गम् ।
किञ्च वैश्वदेवमन्त्रेष्वपि ऽअग्नये स्वाहा, अग्नये स्विष्टकृते स्वाहाऽइत्येतयोरप्याम्नानात् प्राधान्यम् ।
ननु-वैश्वदेवमन्त्राणामपि न प्रत्यक्षस्समाम्नायः, स कथमवगम्यते?इच्यते-ऽषड्भिराद्यैः प्रतिमन्त्रम्ऽऽअपरेणाग्निं सप्तमाष्टमाभ्याम्ऽ; (आप.ध.2-3-16,20) इत्यादिसूत्रैः क्रमेण विनियोगात् क्वचिदाम्नानमस्तीत्यवगम्यते ।
तच्चाम्नानं प्राग्विवाहमन्त्रेभ्यः, भाष्यकार वचनात् ।
ततश्च ब्रह्मयज्ञपारायणयोरप्येतेषामेवंक्रमेणाध्ययनं वेदितव्यम् ।
सर्वप्राधान्ये च प्रयोजनम्-एषामेकतरमप्यकृत्वा प्रयोगे समापिते ऽपि तत् प्राग्भोजनात् सप्रायश्चित्तं साङ्गमनुष्ठेयम्;कृते तु भोजने पाकयज्ञलोपप्रायश्चित्तमेवेति ।
केचित्-वैश्वदेवे विश्वे देवा देवता विधीयन्ते निर्वापकाले सङ्कल्पार्थम्, ईशानयज्ञवत् ।
यास्तु धर्मशास्त्रे मन्त्रविनियोगात् कल्पितास्ताः प्रदानकाले देवताः ।
इह च देवतोपदेशो वैश्वदेवस्य गार्ह्यपरिभाषाप्राप्त्यर्थः ।
तत्र तस्योपदेशस्तु सर्वचरणार्थः ।
इदं च वैश्वदेवं न पञ्चमहायज्ञेभ्यः पृथग्भूतम् ।
ऽअहरहर्भूतबलिःऽ(आप.ध.1-12-15) इत्यादयश्च पञ्चमहायज्ञानामुत्पत्तिविधयः ।
ऽआर्याः प्रयता वैश्वदेवेऽ; (आप.ध.2-3-1) इत्यादिस्तु प्रयोगविधिः ।
तत्र यदग्नौ क्रियते स देवयज्ञः, यत् बलिहरणं स भूतयज्ञः, यद्दाक्षिणतः पितृलिङ्गेनेति स पितृयज्ञः, यच्चाग्रदानं स मनुष्ययज्ञः, इति ।
तन्न, स्वमते श्रुत्या चोदितान् विश्वान् देवान् वचनं विनापनीय, तेभ्यस्सङ्कल्पितस्य हविषो देवतान्तरेभ्यो मन्त्रवर्णात् कल्पितेभ्यो दातुमयुक्तत्वात् ।
ईशानबलौ तु भवशर्वादिशब्दानामीशानाभिधानत्वात्, अर्थस्य देवतात्वमिति सूत्रकारमताच्च, युक्तं भवायेत्यादिभिर्मन्त्रैर्दानम् ।
यत्तु मीढुष्यै जयन्ताय चास्मात् स्थालीपाकाद्दानं तदप्यभ्युदयेष्ट्यादिवत् सवनीयपुरोडाशवच्च ऽत्रीनोदनान् कल्पयित्वोत्तरैरुपस्पर्शयित्वोत्तरैर्यथास्वमोदनेभ्यो हुत्वाऽ(आप.गृ.20-4) इति वचनैः स्थालीपाकांशद्वये पूर्वदेवतापनयेन देवतान्तर विधानाद्युक्तम् ।
पञ्चमहायज्ञेभ्यो न पृथग्वैश्वदेवमित्यपि न;प्रकरणान्तरात् संज्ञाभेदाच्च कर्मभेदावगतेः ।
नच कर्मभेदे तेषां प्रयोगो दुरुपपाद इति प्रमितभेदापह्नवो युक्तः, यतो भाष्ये वैश्वदेवस्य तेषां च प्रयोगः पृथगेवोपपादितः ॥
अथ प्रयोगभाष्यमीषद्भेदं सिख्यते-वैश्वदेवस्य कर्मोच्यतेऽप्रसङ्गात् पञ्चमहायज्ञानां च ।
समावेशनजपान्ते विवाहे समाप्ते
वैश्वदेवमन्त्रणामुपयोगे यद्व्रतं ऽद्वादशाहमधश्शय्याऽ(आप.ध.2-3-13) इत्यादि तत्स्वामित्वाविशेषात् सपत्नीकश्चरित्वा प्रशस्ते ऽ- हन्यारभ्य ऽआर्याः प्रयता वैश्वदेवे ऽन्नसंस्कर्तारस्स्युःऽइत्यादिविधिना सिद्धे ऽन्ने तिष्ठन्नन्नसंस्कर्ता भार्यादिः ऽभूतम्ऽइति स्वामिने प्रब्रूयात् ।
तत् ऽसुभूतं साविराडन्नं तन्माक्षायिऽइति स्वामी प्रतिब्रूयात् ।
ततो यदि प्रयाणे गृहेवा वैश्वदेवस्य होमस्य स्थाने ऽग्निरुपसमाधातव्यः, तत्र धर्मसास्त्रोक्तविधिना उपसमादधाति ।
एवमन्यत्राप्यौपासनहोमादिषु ।
अथ गृहमेधिनो यदशनीयमन्नं ततो होमार्थ हविष्यमन्नं पात्रे कल्पयति ।
अहविष्यं श्रारलवणावरान्नसंसृष्टं द्वितीये ।
हविष्यमन्नं देवयज्ञार्थ तृतीये ।
सर्वतस्समवदाय अग्रार्थ चतुर्थे ।
सर्वत एव समवदाय मनुष्ययज्ञार्य पञ्चमे यदि ब्राह्मणतर्पणं नावकल्पते ।
ऽमनुष्येभ्यो यथाशक्ति दानम्ऽ; (आप.ध.1-12-15) इति वचनात् ।
ततः परिषेचनं कृत्वा प्रथमकल्पितादन्नाद्यथाहुतिमात्रं अङ्गुष्ठपर्वमात्रं ऽअग्नये स्वाहेऽत्यादिभिः षडैहुतीर्हुत्वा उत्तरं परिषेचनम् ।
अथ उदीचीनमुष्णं भस्मापोह्य तस्मिन् अहविष्यं स्वाहाकारेण जुहोति;ऽयस्याग्नौ न क्रियते यस्यचाग्रं न दायते न तद्भोक्तव्यम् (आप.ध.2-15-13) इति वचनात् ।
अथ षडाहुतिहोमशेषमहविष्यहोमशेषेण संसृज्यान्नेन सूप संसृष्टेन धर्मशास्त्रोक्तेन विधिना रौद्रान्तं बलिं हृत्वाग्रं ब्राह्मणाय दत्वा, ब्राह्मणोक्तत्वा दपार्वण व्याख्यातं सन्निपातीतिकर्तव्यताकं देवयज्ञं कुर्वीत ।
देवयज्ञेन यक्ष्य इत्यागूर्य, विद्युदसि ।
औपासने पचने वा कल्पितादन्नात्, तदभावे हविष्यमन्नं व्रीहियवादि, आकाष्ठात्, देवेभ्यस्स्वाहेति हस्तेन जुहुयाते;सन्निपातीतिकर्तव्यतयोरौपासनहोमवैश्वदेवयोर्हस्तेन होमस्य दृष्टत्वात् ।
मन्त्रवच्चोभयतः परिषेचनम्, तयोर्दृष्टत्वादेव ।
वृष्टिरसि ।
वषट्कारहोमेषु विद्युद्वृष्टी इत्युपदेशः ।
अथ प्राचीनावीती पितृयज्ञेन यक्ष्ये इत्युक्त्वा विद्युदासि ।
शुचौभूमौ कल्पितादोदनात् हस्तेन अङ्गुष्ठप्रदेशिन्यावन्तरेण पितृभ्यः स्वधास्तु, इति दद्यात् आहुतिमात्रम् ।
वृष्टिरसि ।
पित्र्यं बलिहरणविधिनेत्युपदेशः ।
अथ बलिहरणस्य होमतुल्यत्वात् यज्ञोपवीती भूतयज्ञेन यक्ष्य इत्युक्त्वा, वुद्युत् ।
शुचौ भूमावेव हस्तेन ऽइदं भूतेभ्यो ऽस्तुऽइति दद्यात् ।
वृष्टिः
बलिहरणविधिनेत्युपदेशः ।
अथ दानस्य होमतुल्यत्वात् यज्ञोपवीती मनुष्ययज्ञेन यक्ष्य इत्युक्त्वा, विध्युत ।
ब्राह्मणतर्पणं, सङ्कल्पितस्य वा दानम् ।
वृष्टिः
दानमाज्ञमित्युपदेशः ।
ब्रह्मयज्ञं तु पूर्वमेव कुर्वीत अग्निहोत्रमौपासनं वा हुत्वा;ऽउतित आदित्येऽ(तै.आ.2-11) इति वचननात् ।
तस्य कर्मोच्यते-ऽब्रह्मयज्ञेन यक्ष्यमाणःऽ(तै.आ.2-11) इत्यादि ब्राह्मणोक्तदेशे यथाविध्याचामेत् ।
अस्मिंस्त्वाचमने विशेषः- ऽदक्षिणत उपवीयऽइत्यारभ्य ऽसकृदुपस्पृश्यऽ(तै.आ.2-11) इत्येवमन्ते विगुणे कृते ऽयदि यजुष्टऽइति ऽभुवस्वाहाऽइति होमः प्रायश्चित्त्म् ।
ऽदाक्षिणेन पाणिना सव्यं प्रोक्ष्यऽइत्यारभ्य शेषे विगुणे कृते ऽयद्यविज्ञाताऽइति प्रायश्चित्तम् ।
अथ क्रम उच्यते- ब्रह्मयज्ञेन यक्ष्ये इत्युक्त्वा, विद्युत ।
आचमनम् ।
आसनकल्पनादि सावित्रीजपान्तं कृत्वा वेदस्यादित आरभ्य यथाध्यायमध्ययनमध्यायः कृत्स्नस्य वेदस्यासमाप्तेः;ऽश्रावण्यां पौर्णमास्यामध्यायमुपाकृत्यऽ(आप.ध.1-9-1) इति वचनात् येन प्रकारेणाध्यायो येन च क्रमेणा धीर्यतेऽविना चाम्नानैः आदिप्रदिश्टानुषङ्गप्रख्यादिभिः, उत्सृजन् उत्सृज्योत्सृज्य, वाचा मनसा च यावत्तरसं यावच्छक्यमधीयीत ।
परिधानीयां कृत्वा, वृष्टिरसि ।
एवमहरहः कृतान्तादारभ्य यावत्समाप्तो वेदः सहैकाग्नि विधिकाण्डेन ।
समस्तमधीत्य वैश्वदेव मन्त्रानधीत्य ततः प्रसुग्मन्तेति प्रश्नद्वयधीयीत ।
एवं विनियोगदर्शनात्, ऽऐकाग्निको विधिः काण्डं वैश्वदेवमिति स्थितिः, ॥
इति वचनाच्च ।
यद्यनेकशाखाध्यायी ततो ऽनेनैव विधिना द्वितीयं पुनरधीयीत ऋग्यजुस्साम्नां क्रमेण अध्ययने यद्यनध्यायस्स्यात्, तदैकां वर्चमेकं वा यजुरेकं वा साम कृतांतादेवारभ्याभिव्याहरेत् ।
यदा ब्राह्मणस्य क्रमेण तदा ऽभूर्भुवस्सुवस्सत्यं तपश्श्रद्धायां जुहोमीऽत्यभिव्याहरेत् ।
एवं यावज्जीवं ब्रह्मयज्ञं कुर्वीत ।
मनुष्ययज्ञान्ते ऽसर्वान् वैश्वदेवेभागिनः कुर्वीत, (आप.ध.2-9-5) इत्यादिविधानेन सर्वेषु पत्न्यन्तेषु भुक्त्वत्सु, पाकपरिवेषणपात्रेभ्यो लेपान् सङ्कृष्योत्तरतः शुचौ देशे रुद्राय सम्पदानभूताय निनयेत्, ऽरुद्रायस्वाहाऽइति ।
नित्यवच्चनिनयनम्;प्रतिपत्तिकर्मत्वात् ।
ऽएवं वास्तु शिवं भवतिऽ(आप.ध.2-4-23) इत्यर्थवादः ।
ऽद्रव्यसंस्कारकर्मसु परार्थत्वात्ऽ; (पू.मी.4-3-1) इति न्यायात् ।
फलं वा, सूत्रकारेणोपदिष्टत्वात् ऽयएतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्चऽ(आप.ध.2-4-9)
इति ।
एवमृते महायत्रेभ्यः सायं रौद्रान्तं कृत्वा वैहायसमाकाशे भूतबलिं कुर्वीत ॥
अन्य आहुः-ऽनक्तमेवोत्तमेनऽ(आप.2-4-8) इत्येवकारस्य व्यवहितान्वयाद्वैहायसमेव सायमिति ॥
इदानीं प्रसङ्गात् सर्पवलेस्तदुत्सर्गस्य च देवतामुपदिशति-
पौर्णमास्यां पौर्णमासी यस्यां क्रियते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.28:
"श्रावण्यां ऽपौर्णमास्यामस्तमिते स्थालीपाक"इत्यादि पौर्णमास्यां यत् कर्म चोदितं तत्र पौर्णमासीदेवता ।
का सा ?यस्यां तत् कर्म क्रियते श्रावण्यै पौर्णमास्यै स्वाहेति ।
एवं स्थालीपाकाद्धोमः ।
ततो यथोपदेशं किंशुकानि समिध आज्याहुतयश्च, ततः स्थालीपाकात् स्विष्टकृत् ।
ततो जयादि ।
ऽयस्यां क्रियतऽइत्यनुच्यमाने पौर्णमास्यै स्वाहेत्येव होमः स्यात्
आप्ग्स्-तात्_7.28:
यस्यां पौर्णमास्यां श्रावण्यां मार्गशीर्ष्या च निमित्तभूतायां स्थालीपाकः क्रियते, तस्य सैव पौर्णमासी देवता ।
अयमर्थः सर्पबलौ ऽश्रावण्यै पौर्मास्यै स्वाहाऽइति स्थालीपाकस्य होमः ।
उत्ससर्जने तु ऽमार्गशीर्ष्यै पौर्णमास्यै स्वाहाऽइति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0