भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 19

19.1

आप्ग्स्-तात्_7.1:
ननु-ऽअथ पत्न्यवहन्तिऽऽश्रपयित्वाऽइत्येतावदेव वक्तव्यम्;यतौत्तरत्र ऽअग्निर्देवताऽ(आप.गृ.7-5) इति विधानादाग्नेयत्वं सिद्धम्ऽ; स्थालीपाकेनेति तु श्रपयित्वेति विधानात्, एनां याजयतीति चान्वारब्धायामिति विधानात्;अतः किमर्थमिदमधिकमारभ्यते ऽअथैनामाग्नेयेन स्थालीपाकेन याजयतिऽइति ? उच्येते सूत्रं तावदृषिप्रणीतं नानर्थकं भवितुमर्हति ।
तेन लोके व्युत्पत्तिसिद्धाध्याहारादिभिरपि यस्सूत्रस्यार्थस्सम्पाद्यते सो ऽपि वेदार्थोनुष्ठेय उच्यते-ध्रुवमरुन्धतीं च दर्शयित्वा, अनन्तरं यत्राग्नेयेन स्थालीपाकेन यागं करोति तत्रैवैनां पत्नीं याजयति पत्न्यामन्वारब्धायां जुहोति, न पर्वसु पार्वणविकारेषु च ।
एवमतिदेशेषार्थतया सूत्रमर्थवदेव ॥
अन्ये-याजयतीति वचनात् वरादन्यो ऽप्यस्य स्थालीपाकयागस्य कर्तेति ।
तन्न;प्रकरणेनास्य विवाहाङ्गत्वात् ऽसह्ङ्गं प्रधानम्ऽ; (आप.प.2-39) इति साङ्गस्य प्रधानस्यैककर्तृकत्वात् ॥
केचित्- उत्तरत्र न केवलमग्निर्देवतेति विधिः, ऽअग्निस्स्विष्टकृत् द्वितीयः इत्यपि ।
तेन द्विदैवत्यो ऽयं स्थालीपाको मा भूत, किन्त्वेकदैवत्य एवेत्येवमर्थमाग्नेयेनेति विधानम् ।
तेनाग्नेय एव सङ्कल्पितस्य व्रीह्यादेरर्थाक्षिप्तो लौकिको निर्वापः कार्यः ।
ऽएनां याजयतिऽइति तु नास्मिन् कर्मण्युभयोरधिकारः, किन्तु वध्वा एव ।
वरस्तु ऋत्विक्स्थानीयः ।
तेन होमादौ द्रव्यत्यागस्स्त्रीधनादेवेति ।
तन्न;वध्वेकाधिकारे हि प्रकरणावगतविवाहाङ्गत्वबाधः,अधिकारसाध्यभेधेन शास्त्रतदर्थयोर्भेदात् ।
आचारसिद्धवरकर्तृकत्वबाधापत्तिश्च;अन्यार्त्विज्ये ऽप्यविरोधात्

19.2

पत्न्यवहन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.2:
अरुन्धतीदर्शनानन्तरमगारं प्रविश्य व्रीहीन् यवान् वा नवानग्नये संकल्पितान् निर्वपति यावद्धोमाय ब्रह्मणभोजनाय च पर्याप्तं मन्यते ।
प्रोक्षणञ्च तूष्णीं संस्कृताभिरद्भिः ।
ततस्तान् पत्न्यवहन्ति ।
ऽएना पत्याऽइत्यादिवत् सावहन्तीति सर्वनाम्ना निर्देशे कर्तव्ये पत्नीग्रहणं पत्नीकर्मेदं यथा विज्ञायेत ।
इतरथा याजमानं विज्ञायेत ।
वधूरिह यजमानेति कृत्वा पार्वणादिषु पत्युरवहननं प्राप्नोति

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc