भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 17

17.2

आप्ग्स्-तात्_6.2:
नाव्यान् नौनेतॄन् कैवर्तान् ।
तारतीति छान्दसं रूपम् ।
तरन्ती तरणकाले ।
ऽलक्षणहेत्वोः क्रियायाः ऽ(पा.शू.3-2-126) इति शत्रादेशः ।
वधूर्न पश्येत् ।
चकारात् वध्वास्तरणदर्शनप्रतिषेधश्च, वरस्य केवलं सह तरणमिति ज्ञापयति

17.3

तीर्त्वोत्तरां जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.3:
तीर्त्वा पारं प्राप्य उत्तरामृचं ऽअस्य पारऽइत्येतां जपेद्वरः ।
यदि नदी न भवति तदा या ओषधय इत्येतामपि जपेत् ।
नदीनां धन्यानाञ्च व्यतिक्रमे इति वक्ष्यति

17.3

आप्ग्स्-तात्_6.3:
पारं प्राप्य ऽअस्य पारेऽइत्येतां वर एव जपेत्

17.4

23 श्मशानादिब्यतिक्रमे होमः ।
श्मशानाधिव्यातिक्रमे भाण्डे रथे वा रिष्टे ऽग्नेरुपसमाधानाद्याज्यभागान्ते ऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.4:
श्मशानभूमेरध्युपरि व्यतिक्रमे भाण्डे भाजनादौ रथे रिष्टे नष्टे रथ इति प्रदर्शनमन्येषु चैवंप्रकारेषु दर्निमित्तेषु वक्ष्यमाणहोमः कार्यः ।
तत्राग्नेरुपसमाधानादि तन्त्रं प्रतिपद्यते ।
अधिशब्दप्रयोगाच्छ्मशानभूमेरुपरि गमन एवैतत् भवति ।
तीर्थादीनां तु समापेनातिक्रमे ऽपि भवति

17.5

उत्तरा आहुतीर्जुहोति ।
ऽयदृतेचिऽदित्याद्यास्सप्त उत्तरमन्त्रैरैतैराहुतीर्जुहोतीत्यर्थः ।
मन्त्रलिङ्गात् सप्तनियमः ।
हुत्वा जयादितन्त्रशेषं प्रतिपद्यते ।
सकृत् पात्रप्रयोगः ।
शम्याः परिध्यर्थे ।
अग्नेरुपसमाधानादि वचनं तन्त्रप्राप्त्यर्थ, आज्यभागान्तवचनमन्वारम्भकालोपदेशार्थम् ।
ऽजयादि प्रतिपद्यतऽइत्येतच्चान्वारम्भानिवृत्त्यर्थम् ।
तथा जयादि यथासिद्धं प्रतिपद्यत इति

17.6

यदिदमग्नेरुपसमाधानादि परिषेचनान्तं कर्म तदनन्तरं नैमित्तिकमुक्तं तत् करोति ।
सकृदेव, न पुनः पुनरित्यर्थः ।
अनन्तरोक्तानां निमित्तानां देशकालभेदेनावृत्तावपि सकृदोवान्ते ऽयं होमो भवतीत्यर्थः

17.4

आप्ग्स्-तात्_6.4:
श्मशानाधिव्यतिक्रमे श्मशानभूमेरुपरि व्यतिक्रमे, भाण्डे वधूभूषणादौ रथे वा रिष्टे , अग्नेरुपसमाधानादि परिषेचनान्तं करोति ।
केवलाज्यहविष्षु न वचनाभावे तन्त्रमित्युक्तमेव ।
आज्यभागान्त इति त्वन्बारम्भकालविध्यर्थम् ।
उत्तराः ऽयदृते विदभिश्रिषःऽइति सप्तकरणिका आहुतीः ।
शेषं व्यक्तम्

17.7

24 क्षीर्यादिव्यतिक्रमे कर्तव्यो जपः ।
क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.5:
क्षीरिणां न्यग्रोधादीनामलक्ष्मण्यानाम्, अन्येषामपि लक्षण्यानां लक्षणयुक्तानां प्रसिद्धानां सीमावृक्षणामित्यर्थः ।
लक्ष्मण्यानामित्यपि पाठे अयमेवार्थः ।
नदीनां सोदकानां अनुदकानाञ्च ।
धन्वनां निर्जलानामरण्यानाञ्च व्यतिक्रमे उत्तरेऋचौ यथालिङ्ग यस्य लिङ्ग यस्यां दृश्यते तद्व्यतिक्रमे तां जपेत् ।
तत्र वृक्षातिक्रमे ये गण्धर्वा इति, नद्यतिक्रमे या ओषधय इति, धन्वातिक्रमे यानि धन्वानीति ।
यथालिङ्गवचनं उभयत्रोभे मा भूदिति ।
नद्यतिक्रमे ऽपि कृत्स्ना भवति ।
तथा धन्वातिक्रमे ऽपि

17.5

आप्ग्स्-तात्_6.5:
क्षीरिणः क्षीरवन्तः प्लक्षन्यग्रोधादयः लक्ष्म चिह्नं तत्र भवाः लक्ष्मण्याः दुर्गा तिन्त्रिणिका सीमाकदम्बा इत्येवमादयः ।
नद्यः प्रसिद्धाः धन्वानो दीर्घाण्यरण्यानि येषु ग्राम्याः पशवो न निवसन्ति ।
एतेषां चव्यतिक्रमे उत्तरे यथालिङ्गं जपेत् ।
ऽये गन्धर्वाःऽइति वृक्षाणां व्यतिक्रमे, ऽया ओषधयःऽइति नदीनां धन्वनाम् ।
यथालिङ्गमिति वचनं जातकर्मवन्मा भूदिति ।
क्षीरिणामित्यादि बहुत्वमविवक्षितम्, निमित्तगतत्वात्, हविरुभयत्ववत्

17.8

गृहानुत्तरया सङ्काशयति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.6:
अथ स्वं गृहं प्राप्य रथादवरोप्य यद्धनं तस्या वहतुत्वेनागतं तच्च गृहान् प्रपाद्य ततस्तया तान् सङ्काशयति सम्यगीक्षयति
उत्तरयर्चा सङ्काशयामीत्येतया ।
मन्त्रश्चास्मिन्नर्थे यथाकथञ्चित् योजनीयः ।
सङ्काशयामि दर्शयामि वहतुं वध्वाः पितृकुलादानीतं धनं ब्रह्माणा मैत्रेण अघोरेण चक्षुषा न केवलमघोरेण, किं तर्हि मैत्रेण गृहैर्मदीयैस्सार्ध गृहं च मदीयमित्यर्थः ।
अस्यां पर्याणद्धं विश्वरूपाख्यं यदाभरणं तत्परिभ्यः एकस्मिन् बहुवचनम् ।
पत्यै मह्यं स्योनं मुखम् ।
सविता करोत्विति

17.7

आप्ग्स्-तात्_6.6:
वरःस्वगृहान् ज्ञातिधनसंयुक्तान् वधूं ऽसङ्काशयामिऽइति ऋचा सङ्काशयति दर्शयति ।
ननु-यद्यपि समित्युपसर्गः ऽसमवदाय दोहाभ्यांऽ(आप.श्रौ.2-20-3) इत्यादौ सहार्थे दृष्टः, तथापि गृहाणां ज्ञातिधनसहितत्वमेवात्राभिप्रेमिति कुतो निश्चीयते?
उच्यते-ऽसङ्काशयामिवहतुम्ऽइति मन्त्रलिङ्गानुसारात् ।
मन्त्रार्थश्च भाष्योक्तः

17.9

वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.7:
उत्तराभ्यां आवामगन्"अयं नो देवस्सवितेऽत्येताभ्याम् ।
योगवदेकैकेन मन्त्रेण विमोकः

17.10

अर्थात् सव्यं पश्चात्

17.7

आप्ग्स्-तात्_6.7:
ऽआवामगन्ऽइति द्वाभ्यामेकैकं वाहं विमुञ्चति

17.11

25 गृहप्रवेशः ।
लोहितं चर्माऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्ये ऽगारस्योत्तरयाऽस्तीर्य गृहान् प्रपादयन्नुत्तरां वाचयति दक्षिणेन पदा ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.8:
विमुच्य वाहौ वरः पूर्व गृहं स्वयं प्रविश्य यत्र दम्पत्योर्वासः तत्रागारस्य मध्ये चमीस्तृणाति उत्तरयर्चा ऽशर्मा वर्मेऽत्येतया तच्चानडुहं भवति लोहितञ्च वर्णेन ।
प्राचीनमुत्तरलोमेत्यास्तरणे प्रकारः ।
आस्तीर्य ततो दक्षिणेन पदा गृहान् प्रपादयति ।
वधूं प्रवेशयति ।
प्रपादयंस्तामुत्तरामृचं वाचयति ऽगृहानिऽति प्रकृते पुनर्गृहानित्युच्यते- हतरथा अगारस्यापि प्रकृतत्वात् प्रवेशने मन्त्रः शंक्येत ।
इदमेव ज्ञापकमन्तरगारमध्ये चर्मास्तरणमिति ।
प्रपादयन् वाचयतीति वचनान्मन्त्रकर्मणोरदिसंयोगः ।
न मन्त्रान्ते प्रदानम्

17.8

आप्ग्स्-तात्_6.8:
ततो वरः पूर्व स्वगृहान् प्रविश्य ऽशर्म वर्मऽइत्येतया यथासूत्रं चर्मास्तीर्य ततो वधूं दक्षिणेन पदा गृहान् प्रपादयन् प्रवेशयन्ऽ; गृहान् भद्रान्ऽइत्येतां वाचयति

17.12

न च देहलीमभि (धि) तिष्ठति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.9:
देहलीनामद्वाराधस्ताद्दरु ।
पर्यन्तवेदिकेत्यपरे ।
तां प्रपादनकाले स्वयं सा च नातिक्रामोदितयर्थः ।
तयोः प्रपन्नयोरग्निमनुप्रपादयति

17.13

प्रपद्य गृहान् अथ तत्कालमशनमश्नीयात् ततो यस्मिन्नगारे चर्मातिपद्यते ।
सकृत् पात्राणि शम्याः परिध्यर्थे

17.9

आप्ग्स्-तात्_6.9:
सा च प्रविशन्ती देहलां नाभितिश्ठति ।
केचित्-चकाराद्वरो ऽपि- इति

17.14

26 प्रवेशहोमः ।
उत्तरपूर्वे देशे ऽगारस्याग्रेरुपसमाधानाद्याज्यभागान्ते ऽन्वारभ्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.10:
उत्तरास्त्रयोदशप्रधानाहुतीः ऽआगन्गोष्ठऽमित्याद्याः लिङ्गविरोधे सत्यपि वर एव जुहोति, विधेर्वलीयस्त्वात् ।
भवति लिङ्गञ्चाविवक्षितम् ।
देवतास्मरणार्थत्वात् मन्त्राणाम् ।
उत्तरो वर इत्ययं विशेषः सर्वेषु होमेषु भवतीत्युक्तम् ।
उत्तरपूर्वदेशेगारस्येति विधिरग्नेस्सर्वत्र वेदितव्यः

17.15

उत्तरयर्चा ऽइह गावः प्रजायध्वऽमित्येतया ।
तदुपविशतः परिषेचनान्तवचनमानन्तरमेवोपवेशनं कर्तव्यं नान्यदिति ।
तेन भोजनं प्रागेव्ति सिद्धम् ।
तत्रोपवेशने मन्त्र उभयोरपि भवति ।
इहाग्निसम्बन्धाभावात् उत्तरो वर इत्युक्तं ।
प्राङ्मुखौ चोपविशतः

17.10

आप्ग्स्-तात्_6.10:
उत्तराः ऽआगन् इत्यादित्रयोदशाहुतीः ।
उत्तरया ऽइह गावः प्रजायध्वम्ऽइत्येतया ।
पूर्वेमास्तीर्णे चर्मण्युपविशतः ।
पूर्ववदुत्तर एव वरः

17.16

27 जीवपुत्रायाः पुत्राय फलदानम् । 28 दम्पत्योर्वाग्यमः ।
अथास्याः पुंस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत (ति) आ नक्षत्रेभ्यः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.11:
य पुमांसमेव सूते न स्त्रियं सा पुंशूःऽतस्याः पुंस्वो जीवपुत्राया इति पाठः ।
न रेफः पाठ्यः, पठ्यमानो वा छान्दसो द्रष्टव्यः ।
जीवा एव पुत्रा यस्या न भृताः जीवपुत्रायाः जीवपत्या इति च द्रष्टव्यम् ।
तथा मङ्गलानीति ।
एवं भूतायास्त्रैवर्णिस्त्रियाः पुत्रमपत्तरयर्चा ऽसोमेनादित्याऽइत्येतया अस्या वध्वा अङ्क उपवेश्य तस्मै कुमाराय फलान्युत्तरेण यजुषा ऽप्रस्वस्थः प्रेयऽमित्यनेन प्रदाय तत उत्तरे ऋचौ
ऽइह प्रियंऽऽसिमङ्गलीःऽइत्येते जपित्वा तत उभौ तस्मिन्नेव चर्मण्यासीनौ वाचं यच्छतः ।
आनक्षत्रेभ्याः नक्षत्राणामुदयादित्यर्थः ।
कुमारश्च फलानि गृहीत्वा यथार्थ गच्छति

17.11

आप्ग्स्-तात्_6.11:
पुंस्वोः पुंस्वाः इत्यर्चपाठः या पुंस एव सूते न स्त्रीरपि, या च सूत एव न तु वन्ध्या सती क्रयादिना पुत्रवती, सा पुंसूः ।
जीवन्त एव पुत्राः पुमांसो यस्यास्सा जीवपुत्रा, न पुनः ऽभ्रातृपुत्रौ स्वसृदुहितृभ्याम्ऽ(पा.1-2-68) इत्येकशेषवचनाद्यस्या दुहितरो ऽपि जीवन्ति, पुत्रश्चैको जीवति, सापीह जीवपुत्रा विवक्षिताः पुंस्वोरिति विशेषणानुपपत्तेः ।
एवं भूतायाः पुत्रं ऽसोमेनादित्याःऽइत्येतया वध्वा अङ्क उपवेश्य ऽप्र स्वस्थःऽइति यजुषा पुत्राय फलानि कदल्यादीनि प्रदाय ऽइह प्रियं प्रजयाऽइति ऋचौ जपित्वा, उभौ वाचं यच्छतः ।
आनक्षत्रेभ्यः नक्षत्राणामोदयात्

17.17

29 वध्वै ध्रुवारुन्धतीप्रदर्शनम् ।
उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.12:
उदितेषु नक्षत्रेष्विति वचनात्ततः प्राकू तस्मिन्नेव चर्मणि वाग्यतयोरासनं पश्चादुपनिष्क्रमणम् ।
उदितेष्वित्येव सिद्धे नक्षत्रग्रहणं विस्पष्टार्थम् ।
उत्तराभ्यां ध्रुवक्षितिऽऽसप्रर्षयःऽइत्येताभ्याम् ।
उभयत्र मन्त्रेण दर्शनं वध्वाः कर्म, वरस्तु पश्यन् ध्रुवमिति निर्दिर्श्य पूर्वा वाचयति वस्चादरुन्धतीमित्त्युत्तराम् ।
ततो वाग्विसर्गः मन्त्रलिङ्गादेव यथालिङ्गदर्शने सिद्धे यथालिङ्गवचनं विकल्पार्थम् ।
उत्तराभ्यां ध्रुवमरुन्धतीञ्च दर्शयति यथालिङ्गं वेति ।
तेनोत्तरस्यामृचि सर्वेषां सप्तर्षीणां कृत्तिकादिनामरून्धत्याश्च सहदर्शनं वध्वाः कर्म पक्षे भवति, केवलमरुन्धत्या एव वा

17.12

आप्ग्स्-तात्_6.12:
उत्तराभ्यां ऽध्रुवक्षितिर्ध्रुवयोनिःऽइत्येताभ्यां यथालिङ्गं पूर्वया सप्रऋषया ध्रुवमुत्तरयारुन्धतीं च दर्शयति वधूम् ।
यथालिङ्गमिति च जातकर्मवद्द्वाभ्यां द्वाभ्यामेकैकं मा भूदिति ॥
केचित्- यथालिङ्गमित्यत्र नास्ति, प्रयोक्तॄणां प्रमादात् प्रदेशान्तरदृष्टमिह सञ्चरितपठितमिति ॥
अपरे-उत्तराभ्यां यथाक्रमं ध्रुवमरुन्धतीं च दर्शयति;यथालिङ्गं वा इति भित्वा सूत्रं साध्याहारं व्याचक्षते ।
ऽसप्रऋषयः प्रथमाम्ऽइत्येतया सप्तऋषीन् कृत्तिका अरुन्धतीं च सह दर्शयति ।
अरुन्झतीमेव वेति विकल्पार्थ यथालिङ्गवचनामिति

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc