भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 16

16.1

आप्ग्स्-तात्_6.1:
यदि पथि नदी नावा तरितव्या स्यात्, तदा वरः ऽअयं नो मह्याः पारम्ऽइत्येतया नावमनुमन्त्रयते ।
ततस्तामुभावग्निना सहारोहतः

16.2

न च नाव्यां स्तरती वधूः पश्येत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_6.2:
ये नावं नयन्ति(ते) नावि भवा नाव्याः कैवर्ताः तान् तरती तरन्ती तरणकाल इत्यर्थः ।
स्त्रीलिङ्गनिर्देशादेव सिद्धे वधूग्रहणं दर्शनप्रतिषेधो वध्वा एव यथा स्यादिति ।
तेन तीर्त्वोत्तरां जपेदिति वरस्यैव भवति ।
चशब्दो वध्वा वरस्य च सहतरणप्रदर्शनार्थः ।
संहोभौ तरतः ।
वध्वास्त्वयं चापरो विशेष इति ।
केचित् नावा तार्#अ आपो नाव्या इति व्याचक्षते ।
तेषां पुंलिङ्गनिर्देशो ऽनुपपन्नः

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc