भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 18

18.1

द्वितीये पटले सिद्धं यथाभाष्यं यथामति ।
कृतं सुदर्शनार्येण गृह्यतापर्यदर्शनम् ॥
इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यपदर्शने षष्ठः खण्डः ॥
॥ द्वितीयः पटलश्च समाप्तः ॥
====================================================================================
अथ तृतीयः पटलः
सप्तमः खण्डः
30 आग्नेयस्थालीपाकः ।
(तस्य धर्माः)
अथैनामाग्नेयेन स्थालीपाकेन याजयति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_7.1:
अथेति वचनादेतस्यामव रात्र्यां स्थालीपाको भवति ।
स्थाल्यां पच्यत इति स्थालीपाकः ।
तस्य देवताविधानं-आग्नेयोनेति ।
ननु-विधास्यते"अग्निर्देवता स्वाहाकारप्रदान"इति, सत्यम्, अपरमपि तत्र भवति-अग्निस्विष्टकृत् द्वितीय इति ।
ततश्च स एव यदि देवताविधिः स्यात् द्विदेवत्यमिदं हविः स्यात् ।
ततश्च निर्वपणकाले ताभ्यामुभाभ्यां सङ्कल्पः क्रियेत ।
यद्यपि वस्तुतो गिणभूतः स्विष्टकृद्यागः तथापि प्रधानवत् तत्र चोद्यते-ऽअग्निस्विष्टकृद्वितीयऽइति ।
ततश्च तस्मा अपि सङ्कल्पः क्रियेत ।
तस्मात् केवलो ऽयमाग्नेयस्थालीपाक इति ।
(वक्तव्यम् एवमाद्रेयस्यैव प्रदानस्य)यद्यप्रत्तदैवतमित्येतत् प्रायश्चित्तं भवति ।
स्विष्टकृतस्तु प्रत्तदैवमित्येतदेव ।
ऽएनां याजयतीऽति वचनात् सहत्वमुभयोरस्मिन् कर्मणि नास्ति ।
वध्वा एवोदं कर्म, वरस्य त्वार्त्विज्यमेव ।
तेन यदिदं स्थालीपाकरिवेषणं ब्रीह्यादिदक्षिणा च तत् वधूधनस्यैव भवति ।
यत्रैदमुच्यते ऽपद्रीहि पारीणह्यस्येशोऽइति (तै.सं.6-2-1)

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc