आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 13
आप्ग्स्-तात्_5.1:
सखेति जपित्वा, प्राग्घोमात् होमात्प्राक् अग्निप्रदक्षिणमेव वध्वा सहकुर्यान्नान्यदर्थकृत्यमावश्यकमपि;ऽप्राग्घोमादिऽत्यधिकग्रहणात् ।
ततो यथास्थानं ऽउत्तरो वरः इत्युक्तस्थानानतिक्रमेण, न त्वनियमेन, उपविश्य वध्वा मन्वारब्धायामुत्तराः उत्तरमन्त्रकरणिका
आहुती र्होमान् जुहोति ।
के पुनस्त उत्तरे मन्त्राः?कथं च जुहोति ?इत्यत आह- ऽसोमाय जनिविदेऽइत्यादयष्षोडश मन्त्राः ।
तेषामदितश्चत्वारि यजूंषि, ऽप्रेतो मुञ्चातिऽइत्यादयो द्वादशर्चः ।
एतैः- प्रतिमन्त्रं प्रतिस्वाहाकारं जुहोति, न पुनः ऽयज्ञंस्वाहा वाचि स्वाहा वातेधास्स्वाहाऽ(तै.सं.1-1-13) इतिवत् ऽअवदीक्षमदास्थ स्वाहाऽ(एका.1-4-4) इत्येतेनैव स्वाहाकारेण होमः ।
पूर्वेषामहोमार्थता च ।
जुहोशब्दार्थश्च तद्धितेन चतुर्थ्या मन्त्रलिङ्गादिना वा प्रतिपन्नाश्चोदिता देवताश्चोदितेनैव चतुर्थ्यन्तशब्देनोदिश्य यजमानेन त्यक्तस्य हविषश्चोदिताधारे प्रक्षेपः ।
इह च मन्त्रलिङ्गात् सोमादयो देवताः ।
ताश्च न जनिवित्त्वादिविसेषविशिष्टाः ।
होमविध्यनुपपत्त्या हि मन्त्रप्रतिपन्नानां देवतात्वं कल्प्यम्, साच देवतामात्रकल्पनयो शाम्यति ।
न पुनर्निर्बीजां गुर्वीं विशिष्टकल्पनां प्रयुक्तिगौरवापादिकामयुक्तामपेक्षते ।
न च ग्राहकमन्त्राम्नानतयोरनुपपत्त्या विशिष्टानां देवतात्वकल्पना ।
विशेषणानां ऽमूर्धा दिवः ककुत्ऽ; इत्यादिवत् स्तुत्त्या देवताधिष्ठानान्वये ऽपि तयोश्च रितार्थत्वात् ।
हविश्चाज्यमाऽजुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयात्ऽ(आप.प.1-25) इति परिभाषावचनात् ।
विवादादेरयज्ञत्वे ऽपि यज्ञेष्वधिकरिष्यमाणपुरुषदेहयोग्यतापादकत्वेन तत्र यज्ञधर्मा युक्ता एव ।
अन्यथा
आधानपवमानेष्ट्यादिष्वयज्ञेषु ऽयज्ञोपवीती प्रदक्षिणम्ऽ(आप.प.2-15) इत्यादयो न प्रापनुयुः ।
होमाधारस्तूपसमाहितो ऽग्निस्स्थित एव
11 वध्वाः अश्मन उपर्यास्थापनम् ।
अथैनामुत्तरेणाग्निं दक्षिणेन पदाश्मानमास्थापयत्यातिष्ठेति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.2:
पदप्रक्रणणं पदास्थापनम् अश्मा दृषत्पुत्रः ।
स च प्रागेव पात्रैस्सह प्रतिष्ठापितो भवति
मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0