भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 12

12.2

इति श्रीसुदर्शनाचार्यकृते गृह्यतात्पर्यदर्शने चतुर्थः खण्डः
अथ पञ्चमः खण्डः
10 वैवाहिकाः प्रधानहोमाः ।
प्राग्घोमात् प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहे त्येतैः प्रतिमन्त्रम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.1:
समाप्य जपमथाग्निं प्रदक्षिणं करोति तया सह प्रदक्षिणं परिक्तामतीत्यर्थः ।
सर्वत्र दक्षिणे हस्ते गृहीत्वा परिक्रमणम् ।
ततो यतास्थानमुपविशतः ।
यस्य यत् स्थानमुपदिष्टं ऽउत्तरो वरऽइति तस्मिन्नित्यर्थः ।
उपविश्य वध्वा मन्वारब्धायां अन्वरब्धवत्यां उत्तरा ष्षोडश प्रधानाहुतीर्जुहोति ।
होमाय जनिविदेस्वाहेत्योतैः प्रतिमन्त्रम् ।
दर्वीहोमत्वादेवोपवेशने सिद्धे उपविश्येत्युच्यते नियमार्थ-उत्तरा एव षोडशोपविश्यजुहोति, अन्याः स्थित्वैवेति ।
तेन लाजास्तिष्ठता होतव्याः ।
तथा च कल्पान्तरेषु बहुषु दृश्यते बोधायनानां बह्वृचानां छन्दोगानां वाजसनेयिनामाथर्वणिकानाञ्च ।
उपहोमोषु यथाप्राप्तमासनमेव भवति ।
एतच्च वक्ष्यामः-- ।
अन्ये त्वासीनयोरेव होममिच्छन्ति ।
ऽसोमाय जनिविदऽइति मन्त्रनिर्देशो होममन्त्राणामदिप्रत्ययनार्थः तेन प्रागेव तस्मात् जपमन्त्राः ।
तदुक्तं पुरस्तात् प्राग्घोमादिति ।
उत्तरा आहुती रित्येव प्रतिमन्त्रं होमस्सिद्धः यथान्येषु होमेषु ।
एतैः प्रतिमन्त्रमित्येतत्तु पुरस्तादपकृष्यत इत्युक्तम् ।
तत्रादितश्चत्वारो मन्त्राः स्वाहाकारान्ताः पठिताः ।
ततो द्वादसर्चः, तास्वन्ते स्वाहाकारः जुहोतिचोदनः-- स्वाहाकारप्रदानः इति

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc