भाषा

ENहिગુ
ग्रंथ पाठ

आपस्तम्बगृह्यसूत्र (टीका सहित) · अध्याय 14

14.2

आप्ग्स्-तात्_5.2:
व्यक्तार्थम्

14.4

12 लाजहोमाः ।
अथास्या अञ्जलावुपस्तीर्य द्विर्लअजानोप्याभिघारयति ॥ आ
तस्यास्सोदर्यो लाजानावपतीत्येके ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.4:
अथशब्दः स्थानसम्बन्धार्थः ।
अथोत्थित एवास्याश्चोत्थिताया एवेति ।
तेनावदानप्रभृत्थानमेव भवति ।
तत्र दार्शपौर्णमासिको ऽवदानकल्पः प्रदर्शितः न कल्पान्तरम् ।
तदिहापि प्रत्यभिधागणं पञ्चावत्तञ्च पञ्चावत्तिनां भवति ।
लाजानां च लौकिकः संस्कारः ।
पात्रैश्च सह सादनप्रोक्षणे भवतः ।
अञ्जलेस्तु न सादनादि भवतीत्युक्तम्

14.5

सोदर्यो लाजानावपतीति वचनात् उपस्तरणाभिघारणे वरस्यैव भवतः ।
पक्षान्तरे तु तस्यैव सर्वम्

14.3

आप्ग्स्-तात्_5.4:
एते अपि सूत्रे व्यक्तार्थे ।
आचाराल्लाजानां त्रिरावापो जमदग्नीनाम् ।
लाजहोमाश्चापूर्वाः, ऽअस्या अञ्जलावुस्तीयऽइत्यादि कृत्स्नविधानात् पार्वणातिदेशाभावात् पाकयज्ञधर्माग्निमुखप्रत्यभिघारणस्विष्टकृल्ले पाञ्जनानामप्राप्तिरेव ॥
केचित्-कृत्स्नाविधानादेव साधारणतन्त्रस्य प्राप्त्यभावात् लाजकिंशुकहोमेषु तन्त्रमध्यस्थं येन जुहोतात्याद्यञ्जलिसंस्कारमपि नेच्छन्ति

14.6

जुहोती यं नारी ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.5:
वरस्यैव जुहोतिक्रिया ।
पात्रस्थानीयो वध्वञ्जलिः

14.5

आप्ग्स्-तात्_5.5:
वर एव ऽइयं नारीऽइत्यनया ऋचाभिन्नेन वध्वञ्जलिना देवतीर्थेन लाजान् जुहोति ।
न पार्श्वेन;उपदेशातिदेशोरभावात् ।
केचित्-ऽप्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यऽइत्येष विधिरुत्तरतो वरो ऽभ्यन्तरतो वधूरित्येवंरूपयथास्थाननियमार्थो न युज्यते ।
कुतः?
यतो विवाहे वधूप्राधान्येन तस्या अभ्यन्तरीभावो न्यायसिद्धः ।
वधूप्राधान्यं च स्त्रीणां अपुनर्विवाहादेव वेदितव्यमिति ।
एतच्च ऽतस्मिन्नुपविशत उत्तरो वरःऽ(आप.गृ.4-9) इत्यत्र सूत्रे व्याख्यातम् ।
अतो यथास्थानानुवोदेन परिभाषासिद्धोपवेशननियमार्थ एवायं विधिः ।
उत्तराष्षोडशैवाहुतारुपविश्य जुहोति, न लाजहोमानपि ।
ते त्वस्मादेव नियमात् बहुतरगृह्यान्तरानुरोधाच्च अविगीतास्मदीयाचारमुल्ल्ङ्घयापि तिष्ठतैव होतव्या इति ।
तन्न;यत औपासनोत्पादनद्वारा देहसंस्कारोत्पादनद्वारा च जायापत्युभयसाध्ययज्ञोपकारके विवाहे तयोर्सममेव स्वामित्वलक्षणं प्राधान्यम् ।
अपि च चोदितसर्वकर्मसु पतिप्रयोगे यस्त्वया धर्माः कर्तव्यस्सो ऽनया वध्वा सहेति पत्न्यास्सहत्ववचनात् प्रत्युत अप्राधान्यमेव स्त्रीणाम् ।
अपुनर्विवाहस्त्वासामप्राधान्ये ऽपि ऽतस्मान्नैका द्वौ पति विन्दतेऽ(तै.स.6-6-4) इति निषेधबलादेवोपपध्यते ।
तस्मात्
न्यायतो ऽभ्यन्तरीभावस्यानियमे विपर्यये वा प्राप्ते, उपवेशनानुवादेन यथास्थानमुत्तर एव वर इत्येतन्नियमार्थ एवायं विधिः तेन लाजहोमा अप्यासीनेनैव होतव्याः ।
तस्य ऽआसीनो दर्वीहोमान् जुहोतिऽ(आप.प.3-10) इति सर्वदर्वीहोमानामविशेषेणास्माकं चोदितत्वात्, स्वसूत्रोक्तविषये बहुतराणामपि गृह्यान्तराणामनुपसंहार्यत्वाच्च

14.7

13 अग्निप्रदक्षिणादि ।
उत्तराभिस्तसृभिः प्रदक्षिणमग्निं कृत्वाश्मानमास्थापयति यथा पुरस्तात् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.6:
उत्तराभिस्तिसृभिः तुभ्यमाग्रे पर्यवहन्नित्यादिभुः अग्निं प्रदक्षिणं करोति ।
तां हस्ते गृहीत्वा तिसृणामन्ते परिक्रमणारम्भः
ऽवचनादेकं कर्म बहुमन्त्रऽमिति ।
उत्तराभिरिति बहुवचनेनैव त्रित्वपरिग्रहसिद्धे तिसृभिरिति वचनं तिसृभिरेकमेव परिक्रमणं यथा स्यात् प्रतिमन्त्रं क्रियाभ्यावृत्तिर्मा भूदिति

14.6

आप्ग्स्-तात्_5.6:
उत्तराभिः ऽतुभ्यमग्रे पर्यवहनंऽइत्यादिभिस्तिसृभिः ।
प्रदक्षिणमग्निंकृत्वा ।
यथा पुरस्ताता तथा आतिष्ठेममित्यनया

14.8

होमश्चोत्तरया ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.7:
यथा पुरस्तादिति वर्तते ।
उत्तरया ऽअर्यमणं नु देवऽमित्येतया

14.7

आप्ग्स्-तात्_5.7:
लाजहोमश्चोत्तरया ऽअर्यमणं नु देवम्ऽइत्येतया

14.9

पुनः परिक्रमणम् ॥ आ
आस्थापनम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.9:
पुनरपि परिक्रमममग्नेः कर्तव्यं आस्थापनञ्चाश्मनः ।
पुनश्शब्दः क्रियाभ्यावृत्तिद्योतनार्थः ।
तेनोत्तराभिस्तिसृभिरित्यादिर्भवति

14.8

आप्ग्स्-तात्_5.9:
अग्निप्रदक्षिणम्

14.9

आत्मनः

14.10

होमश्चोत्तरया ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.10:
उत्तरया ऽत्वमर्यमेऽत्येतया ऋचा

14.10

आप्ग्स्-तात्_5.10:
ऽत्वमर्यमा भवसिऽइत्येतया

14.11

पुनः परिक्रमणम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.11:
पुनस्शब्दः पूर्ववत्

14.11

आप्ग्स्-तात्_5.11:
ऽहोमश्चोत्तरयाऽइत्यादिषु पञ्चसु सूत्रेषु ऽयथा पुरस्तात्ऽइत्यनुषङ्गः ।
कार्यः कार्यमिति च यथालिङ्गं वाक्यशेषः

14.12

जयादि प्रतिपद्यते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.12:
पूर्वमग्नेरुपसमाधानादिवचनेन तन्त्रप्राप्तिर्दर्शिता ।
इदं तु वचनं कोलोपदेशार्थ परिक्रमणादूर्ध्व जयादयो यथा स्युरिति ।
इतरथा जयादीनुपजुहोतीति वचनाल्लाजहोमानन्तरमुपहोमः स्यात् ततस्तृतीयं परिक्रमणम्

14.12

आप्ग्स्-तात्_5.12:
एतदुक्ताभिप्रायम्-यत्र वचनं तत्रैव जयादयो, नान्यत्र;अन्वारम्भश्चैषु नास्तीति

14.13

14 योक्त्रविमोकानन्तरं शिबिकादिना वध्वाः स्वगृहं प्रति नयनम् ।
परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत् प्र वा हारयेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.13:
परिषेचनान्त ग्रहणं तन्त्रशेषोपलक्षणम् ।
तेन प्रणीताविमोकस्याप्यन्ते योक्त्रविमोकः ।
जयादि प्रतिपद्यत इत्येव सिद्धे परिषेचान्तग्रहणं तदनन्तरमेव योक्त्रविमोको यथा स्यात् प्रस्थानकाले मा भूदिति ।
उत्तराभ्यां ऽप्र त्वा मुञ्चामीऽत्येताभ्याम्;वचनादेकं कर्म बहुमन्त्रमिति ।
द्विमन्त्रो विमोकः ।
तत इति वचनं योक्त्रविमोकस्य प्रस्थानकालनियमो मा भूत् यथोपपद्यते श्वो वा सद्यो वा तदा प्रतिष्ठेतेत्येवमर्थम् ।
प्रवाहणं रथादिभिर्नयनं, प्रहारणं मनुष्यवाह्येन शिबिकादिना नयनम् ।
उभयत्र वाशब्दः उभयोरपि पक्षयोस्तुल्यत्वज्ञापनार्थः ।
अन्यथा रथानयनस्येह प्रत्यक्षकल्पोपदेशादनुपदिष्टकल्पं मनुष्ययानमाग्निहोत्रिककल्पवत् सूचितं विज्ञायेत ।
अतः
उभयत्र वाशब्दः, तेन मनुष्यनयने ऽप्यारोहतीमुत्तराभिरुत्तरया शंत उत्तराभि रित्येवमादयो मन्त्राः सिध्धा भवन्ति

14.13

आप्ग्स्-तात्_5.13:
परिषेचनान्तं कृत्वा, सामर्थ्यात्तन्त्रशेषं समाप्येत्यर्थः ।
तेन शम्यापोहनप्रणीताविमो कब्राह्मणोद्वासनान्यपि करोति ।
उत्तराभ्यांऽ प्र त्वा मुञ्चामिऽइति द्वाभ्यां ऋग्भयाम् ।
योक्त्रं विमुञ्चति ।
ततः अनन्तरं तां वधूं हस्तिनमश्वं वा प्रवाहयेत् ।
शिबिकामान्दोलिकां रथं मनुष्यं वा प्र वा हारयेत् ।
उभयत्र ऽव्यवाहिताश्चऽ(पा.सू.1-4-28) इति वाशब्दव्यवधानम् ।
वाशब्दद्वयं तु तुल्याविमौ विधी, नान्यतरो ऽनुकल्प इति ज्ञापयितुम् ।
अत्र ऽविमुच्येऽति क्त्वाप्रत्यये सत्यपि ऽततऽइति यदाह तज्ज्ञापयति, नावश्यं क्त्वाप्रत्यययुक्तं वचनं पूर्वकालतां समानकर्तृकतां वा विदधाति ।
कदाचित्केवलक्रियाविधानमेव सिद्धवदनुवदति, यथा ऽवेदं कृत्वाग्नीन् परिस्तीर्यऽ(आप.श्रौ.11-2-15) इति ।
अत्र हि न वेदकरणस्य परिस्तरणपूर्वकालता;वेदपरिवासनविधानाग्न्यागारसमूहनायतनोपलेपनानामपि मध्ये कर्तव्यत्वात् ।
तथात्रापि ऽपरिषेचनान्तं कृत्वोत्त्राभ्यां योक्त्रं विमुच्यऽइति प्रमीतामोक्षणादेर्मध्ये कर्तव्यत्वात् ।
तथा दधिघर्मे ऽएतस्मिन् काले श्रातं हविरिति प्रत्युक्त्वा तमादायाहवनीयं गत्वाऽ(आप.श्रौ.13-3-4) इति ।
तत्रापि प्रतिप्रस्थाता तधिघर्मसंस्कर्ता, होमकर्ताध्वर्युः ततस्समानकर्तृत्वाभावः ।
तथैवान्यत्राप्यश्वमेधे ऽदक्षिणापप्लाव्याहं च त्वं च वृत्रहन्निति ब्रह्म यजमानस्य हस्तं गृह्णातिऽ(आप.श्रौ.) इति ।
तथैवात्र ऽस्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्वोदायुषेत्युत्थाप्यऽ(आप.गृ.11-17) इति

14.14

15 वैवागिकाग्नेर्नित्यधारणम् ।
समोप्यैतमग्निमनुहरन्ति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.14:
एतं वैवाहिकमग्निमुखायां समोप्य दम्पत्योर्गच्छतोरनु पृष्ठतः हरन्ति तदीयाः पुरषाः ।
समोप्यवचनं श्रौतेष्वग्निषु दृष्टस्य समारोपणस्य प्रतिषेधार्थम् ।
एवं प्रतिषेदं कुर्वन्नेतद्दर्शयति अनुगतो मन्थ्य इत्यत्र श्रौतवदवक्षाणेभ्यो मन्थनमिति ।
अनुशब्दः पुरस्तान्नयनप्रतिषेधार्थः

14.14

आप्ग्स्-तात्_5.14:
एतं विवाहाग्निं समोप्योखायामनुहरन्ति अव्यवायेन वध्वाः पश्चान्नयन्ति परिकर्मिणः ।
एतमितिग्रहणं विवाहाग्नेरौपासनाख्यस्य संस्कारशब्दाभिव्यङ्ग्यस्य प्रयाणे ऽपि नित्यं प्रत्यक्षनयनार्थम् ।
अगृह्यमाणे त्वेतमित्यास्मिन् अदृष्टार्थ सर्वार्थस्य लौकिकाकाग्नेरनुहरणं स्यात् ।
औपासनस्य च गृह्यान्तरेण प्रयाणे विहितं समारोपणं स्यात्

14.15

नित्यः ॥ आ
धार्यः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.16:
एष वैवाहिको ऽग्निर्नित्यः शाश्वतिको धार्यः पत्नीसम्बन्धानां कर्मणामर्थाय

14.15

आप्ग्स्-तात्_5.16:
पाणिग्रहणादारभ्य सर्वाचारलक्षणकर्मार्थमयमग्निर्नित्यः, यावज्जीवं नोत्सृज्यते;ऽपाणिग्रहणादिरग्निस्तमौपासनमित्याचक्षते, तस्मिन् गार्ह्याणि कर्माणिऽ(हि.गृ.26.1,2) इति हिरण्यकेशिवचनात् ।
अतः साङ्गे विवाहे समाप्ते ऽपि ऽअपवृत्ते कर्मणि लौकिकस्सम्पद्यतेऽ; (आप.प.4-22) इति न भवति

14.13

नित्य इति सिद्धे धार्य इत्यारम्भात् प्रयाणे ऽप्यस्य समिध्यात्मन्यरप्योर्वा समारोपणं गृह्यान्तरविहितं विकल्पेनापि न स्यात् ।
यथा ऽजुह्वा स्रुवेण वा सर्वप्रायश्चित्तानि जुहोतिऽ(श्रौ.2-11-1) इत्यत्र ऽअध्वर्यु कर्तारम् (आप.प.1-26) इति वचनात् अध्वर्युरेव कर्ता, नतु ऽजुहोतिजुतीति प्रायश्चित्ते ब्रह्माणम्ऽ; (आश्व.श्रौ.1-1-16) इत्याश्वलायनसृत्रविहितो ब्रह्मा विकल्पेनापि ।
एवं च ऽसमोप्यैतमग्निमनुहरन्तिऽ(आप.गृ.5-14) इति सर्वस्य धर्मो ऽयं , न वैवाहिकप्रयाणस्यैव ।
यथा समोप्यैतावग्नी अन्वारोप्यऽ; इत्याग्निकप्रयाणे ऽस्य विहितो धर्मस्सर्वार्थः ।
एवं विधेषु यद्यपि याज्ञिका विकल्पं नेच्चन्ति, तथापि विकल्पो ऽस्तीत्यत्र ज्ञापकं भवति ।
ऽसवर्णापूर्वशास्त्रविहितायां यतर्तु गच्छतः पुत्रास्तेषां कर्मभिस्सम्बन्धःऽऽदायेनाव्यतिक्रमश्चोभयोःऽऽपूर्ववत्यामसंस्कृतायां वर्णान्तरे च मैथुने दोषःऽ(आप.घ.2-13-1,2,3)
इत्यसवर्णदारसङ्ग्रहणं प्रतिषिध्य स्वयमेवाह सूत्रकारः- स त्रयाणां वर्णानाम्ऽ(आप.प.1-2) इति ।
त्रयाणामित्येतस्य पदस्यार्थो भाष्यकारेण व्याख्यातः-ऽतिस्रो हि तस्य भार्यास्स्मृत्यन्तरवचनादप्रतिषिद्धाः, तस्य कथं सह ताभिरधिकारस्स्यादित्येवमर्था त्रिसङ्ख्याऽइति ।
एतत्सूत्रभाष्याभ्यामसवर्णदारसङ्ग्रहस्स्मृत्यन्तरविहितो न सर्वथैव निषिद्ध इति गम्यते ।
तच्चान्येष्वप्येवांविधेषु विकल्पस्य ज्ञापकमेव

14.16

अस्यौपासनस्यो द्वातस्योत्पत्तिमाह-
16 अनुगतौ मथनम् ।
अनुगतो मन्थ्यः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.17:
अनुगतः उद्वातः मन्थयः मन्थनेनोत्पाद्यः ।
अस्मिन् पक्षे विवाहे ऽप्यस्य योनिरेषैव ।
धारणं चारप्योर्विवाहप्रभृति भवति ।
तत्र विवाहे अरणीभ्यां मन्थनम्, अनुगते स्वेभ्य एवावक्षाणेभ्य इत्युक्तम् ।
तदभावे भस्मना अरणी संस्पृश्य मन्थनम्

14.17

आप्ग्स्-तात्_5.17:
यद्ययमग्निरनुगतः निर्वाणस्स्यात् तदा मन्थ्यः तेभ्य एवावक्षणेभ्यो ऽधि मन्थितव्यः ।
यदि तनि न स्युरसमर्थानि वा, तदासय भल्मना अरणी संस्पृश्य मन्थितव्यः

14.17

17 श्रोत्रियागाराद्वाऽहरणम् ।
श्रोत्रियागाराद्वाऽहार्यः ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.18:
श्रुतवृत्ताध्ययनसम्पन्नो ब्राह्मणः श्रोत्रियः तस्य गृहे यः पचनाग्निः तस्माद्वाहार्यः ।
अस्मिन् पक्षे विवाहे ऽप्यस्य योनिरेषैव

14.18

आप्ग्स्-तात्_5.18:
अथवाधीतवेदस्य गृहादाहार्यः ।
अयं च व्यवस्थितो विकल्पः ।
यदि मथिते ऽग्नौ विवाहस्तदा मन्थ्यः ।
यद्याहृते ऽग्नौ तदाहार्यः ।
नष्टेषपहृते वाग्नावियमेवोत्पत्तिः ।
अनुगत इत्यस्य नष्टापहृतयोः प्रदर्शनार्थत्वात्

14.18

प्रायश्चित्त्माह--
18 तत्र दम्पत्योरन्यतरस्योपवासः ।
उपवासश्चान्यतरस्य भार्यायाः पत्युर्वा ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.19:
अत्र व्यवहितकल्पनया पदानां सम्बन्धः ।
अग्नावनुगते भार्यायाः पत्युश्च उभयोरुपवासो भवति तयोरन्यतरस्य वेति ।
चशब्द उभयोरुपवाससमुच्चयार्तः ।
भार्यायाः पत्युश्चेति ।
वाशब्दो ऽन्यतरस्य विकल्पार्थः ।
तयोरन्यतरस्य वेति ।
उपवासः उभयोरपि
कालयोरभोजनं, प्रसिद्धेः अनुगमनानन्तरमेव चाग्निप्रकल्पनं सर्वप्रायश्चित्तहोमश्च ।
नन्वनुगतो मन्थ्य इति प्रकृतं तत्किमनुगत इति निमित्तनिर्देशेन ? उच्यते-दम्पत्योः प्रस्थानमिह प्रकृतम् ।
तां ततः प्र वा वाहयेदिति ।
प्रासह्गिकस्त्वग्निधर्मः ।
ततश्चोपवासविधिरपि प्रसिथानशेष एव विज्ञायेत ।
तथा च ऽत्रिरात्रमुभयोरधश्शय्या बरह्मचर्यऽमित्यादीनां प्रासङ्गिकेन संबन्धो न भवति ।
किन्तु प्राकरणिकेनैव ।
अनुगते उभयोरुपवासो ऽन्यतरस्य वेत्येव सिद्धे भार्यायाः पत्युश्चेति पृथङ्निर्देशः कथमस्याग्नेरत्यन्तं भार्यासंबन्धः प्रतिज्ञापितस्यादिति ।
अत एव भार्यायाः पूर्वविर्देशः तेन यस्मिन् कर्मणि भार्यायास्सहत्वं नास्ति यथोपाकरणसमापनयोस्तस्यैतस्मिन्नग्नावप्रवृत्तिः ।
सपत्नीबाधनादौ च पत्त्युस्सहत्वाभावे ऽपि भार्यासबन्धादेवास्मिन्नग्नौ प्रवृत्तिः

14.19

आप्ग्स्-तात्_5.19:
अन्यतरस्य कालस्य अह्नो वा रात्रेर्चा सम्बन्धी उपवासः अनशनं भार्यायाः पत्युर्वा भवति ।
चकारोग्न्युत्पत्तिप्रायस्चित्तयोः समुच्चयार्थः ।
यद्यहनि रात्रौ वा प्राग्भोजनादनुगतिस्तदा मथित्वाऽहृत्य वा ऽयत्रक्वचेऽति विधिनेपसमाधाय ऽयद्यविज्ञाता सर्वव्यापद्वाऽ; इति
सर्वप्रायश्चित्तं हुत्वा कालशेषमुपवसेत् ।
यदि भोजनादूर्ध्व तदा तत्कालशेषमागामिकालं च ।
सर्वता तु विज्ञातमात्र एवानुगमने उत्पादनादि कार्यम्, निमित्तानन्तरं नैमित्तिकस्यावश्यकर्तव्यत्वात् ॥
अन्ये तु- भार्यापत्योरुभयोरप्युपवासो न विकल्पः, स्वामित्वाविशेषात्, ऽपर्वसु चोभयोरुपवासःऽ(आप. ध.2-1-4) इति स्मार्ते समुच्चयस्य दृष्टत्वाच्च ।
वाशब्दस्तु चार्थ इति ।
तेषामुपवासश्चान्यतरस्येत्येतावदेवालं सूत्रम् ।
अर्थादेव स्वामिनोरुभयोरप्युपवासो भविष्यति ॥
केचित् -ऽउपवासश्चान्यतरस्य भार्यायाः पत्युर्वानुगतेऽइति सूत्रं छित्वा व्यवहितान्वयकल्पनया व्याचक्षते- अनुगतो ऽग्नौ बार्यायाः पत्युश्चोपवासो ऽन्यतरस्य वेति ।
अत्र प्रकृते ऽपि पुनरनुगत इति ग्रहणमधिकयत्नमन्तरेणैवंविधानां प्रासङ्गिकार्थता न स्यात्, किन्तु परमप्रकृतार्थतैवेति ज्ञापयितुमिति

14.19

अनुगते ऽपि वोत्तरया जुगुयान्नोपवसेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.20:
उत्तरयर्चाऽअयाश्चाग्नेऽइत्येतया जुहुयात् आहुतिमेकां ।
इयमाहुति स्तन्त्रवति न भवति ।
परिस्तरणाज्यसंस्कारदर्वीसंमार्जनानि भवन्ति ।
अपि वेति वचनादेव वैकल्पिकत्वे सिद्धे उपवासप्रतिषेध इयमाहुतिरुप वासस्यैव प्रत्याम्नाया यथा स्यादिति ।
तेनेहापि सर्वप्रायश्चित्थोमस्य समुच्चयो भवति ।
तदिदं प्रायश्चित्तमप्यपहरणादिनाग्निनाशे ऽपि द्रष्टव्यम् ।
अस्यैवाग्नेर्बुद्धिपूर्वोत्सर्गे द्वादशाहादूर्ध्व विच्छेदे च स्मृत्यन्तरे प्रायश्चित्तमुक्तम् ।
तत्राप्यग्निसंकार एतावानेव

14.20

आप्ग्स्-तात्_5.20:
अपि वा अग्ना वनुगते उत्तरया ऽअयाश्चाग्नेऽइत्येतयाऽज्यं जुहुयान्नोप वसेत् ।
अनुगत इति पुनर्वचनान्न्ष्टापहृतयोर्नायं विकल्पः, किन्तूपवास एव ।
अपि वेत्येनेनैव उपवासपक्षे व्यावृत्ते, नोपवसेदित्यारम्भादुपवासमात्रेणैवायं विकल्पः प्रायश्चित्तं त्वत्राप्यस्त्येव

14.20

19 रथेन गमने विशेषाः ।
उत्तरा रथस्योत्तम्भनी ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.21:
अथ दम्पत्योः प्रस्थाने विशेषधर्मा उपदिश्यन्ते ।
उत्तरा सत्येनोत्तभिते त्येषा ।
रथस्योत्तंभनी अनयर्चा रथस्योत्तभनं कर्तव्यमित्यर्थः ।
केन?वरेण, अधिकृतत्वात्

14.21

आप्ग्स्-तात्_5.21:
उत्तरा ऽसत्येनोत्तभिताऽइत्येषा रथस्योत्तम्भनी उत्तम्भने करणमन्त्रः

14.21

वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.22:
याभ्यमूह्यते रथः तौ वाहौ अश्वावनङ्वाहौ वा ।
उत्तराभ्यां ऽयुञ्जन्ति ब्रध्नं,ऽयोगे, इत्येताभ्यां युनक्ति युगधुरेराबध्नाति ।
युञ्जन्तीति दक्षिणं, योगे योगे इत्युत्तरम् ।
केचिदुभाभ्यामेकैकस्य योगमिच्छन्ति

14.22

अर्थात् पश्चात् सव्यम् ।
प्रत्यङ्मुखत्वे च न सिध्यति वचनम् ।
अन्यत्र तथापवर्ग इत्येव सिद्धम्

14.22

आप्ग्स्-तात्_5.22:
उत्तराभ्यां ऽयुञ्जन्ति ब्रध्नंऽऽयोगे योगेऽइति द्वाभ्यां अश्वावनड्वाहौ वा युगधुरोराबध्नाति ।
तयोश्च दक्षिणं वाहं पूर्व यनक्ति ।
द्वाभ्यां द्वाभ्यामेकैकं, नैवैवया ।
अत्र च उत्तराभ्यामिति द्वन्द्वापवादेनैकशेषेण समभिव्याहृतयोजनक्रियापेक्षयेतरेतरयोगाभिहितयोर्द्वयोरपि मन्त्रयोस्सहितयोर्विनियोगात् ऽएकमन्त्राणि कर्माणिऽ(आप.प.1-41) इत्वस्यापवादः ।
नन्वेवं द्वितीयस्य मन्त्रस्यादृष्टार्थता स्यात्?
सत्यम्-तथापि, द्वाभ्यां द्वाभ्यामेकैकमिति परमाप्तभाष्यकारवचनादेकैकवाहयोजने सहितमन्त्रद्वयाचारः कृत्स्नदेशकालकर्तृव्याप्त इत्यनुमीयते

14.23

आरोहतीमुत्तराभिरभिमन्त्रयते ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.23:
अथ तं रथं युक्तमारोहति वधूः ।
तामारोहतीमारोहन्तीं उत्तराभि"स्सुकिंशुकमि"त्येवमादिभिः अभिमन्त्रयते ।
इह बहुवचननिर्देशात् त्रिप्रभृति अनियमप्रसङ्गे मन्त्रलिङ्गाच्चतसृभिरिति नियमः ।
याने तूत्तंभनादि सर्व भवति ।
अश्वपुरुषादिषु च अभिमन्त्रणादयः दम्पतीधर्मा भवन्तीत्त्युक्तम् ।
ऽसुचक्रऽमिति मन्त्रलिङ्गात् रथ एव मन्त्रा इत्येके ।
वधूप्रतिपादनपरत्वात् मन्त्रस्य रथालिङ्गत्वमर्थवाद इत्यन्ये

14.23

आप्ग्स्-तात्_5.23:
रथमारोहति मरोहन्ती वधूम् ।
नुमभावश्छान्दसः ।
ऽसुकिंशुकम्ऽ; इत्यादिभिश्चतसृभिरभिमन्त्रयते ।
रथमेवारोहन्तीं नाश्वादिम्; सुचक्रिमिति लिङ्गविरोधात् ।
ऽउदुत्तरम्ऽइति वा तिसृभिरश्वादिकमारोहन्तीमभि मन्त्रयते

14.24

20 युग्ययोः योजनप्रकारः ।
सूत्रे वर्त्मनोर्व्यवस्तृणात्त्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.24:
द्वे सूत्रे नीललोहिते रथस्य वर्त्मनोरुभयोर्ः ।
भविष्यन्निर्देशो ऽयं ययोर्र्वतीष्येते रथचक्रे तयोर्र्वत्मनोः ।
वर्तिन्योरिति युक्तं पठितुम् ।
तथा च दक्षिणस्यामुत्तरस्यामित्युत्तरत्र स्रीलिङ्गानिर्दशो ऽव कल्पते ।
व्यवस्तृणाति विशब्दस्तिर्यगर्थे,तिर्यगवस्तृणाति ।
उत्तरया नीललोहित इत्येतया

14.25

तयोस्सूत्रयोः यन्नीलं दक्षिणस्यां वर्त्मन्यां व्यवस्तृणाति

14.26

उत्तरस्यामिति सव्यस्य चक्रस्य वर्त्मन्यामित्यर्थः ।
सूत्रे युगपत् गृहीत्वा सकृदेव मन्त्रुमक्तवा व्यवस्तृणाति ।
सत्यपि देशभेदे मन्त्रलिङ्गात् ॥
अपर आह-देशभेदात् मन्त्राभ्यावृत्तिरिति ।
अभियानं तु सान्नाय्यकुम्भीवत् द्रष्टव्यम्-अप्रस्रेसाय यज्ञस्यो ऽखे उपदधाम्यह मिति ।
सूत्रव्यवस्तरणमश्वादिषु नास्ति रथसंधात्

14.24

आप्ग्स्-तात्_5.24:
वर्त्मनोः वर्तन्योरित्यर्थपीठः ।
नीलं दक्षिणस्यामिति स्त्रीलिङ्गनिर्देशात् ।
रथस्य भाविन्योर्र्वतन्योः नीललोहिते भवतः उत्येतया द्वे सूत्रे व्यवस्तृणाति तिर्यक्स्तृणाति ।
एतच्च युगपत्, नीललोहिते भवत इति
द्विवचनलिङ्गात् ।
तयोश्च सूत्रयो र्दक्षिणस्यां वर्वन्यां नीलं व्यवस्तृणाति, उत्तरस्यां च लोहितम्

14.27

ते उत्तराभिरभियाति ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.25:
ते सूत्रे अभियाति उपरियाति ।
उत्तराभिस्तिसृभिः ऋग्भिः ये वध्वश्चन्द्रमित्येताभिः
तत्र रथेन गच्छन्नुपरियाति ।
मन्त्रास्त्वश्वादिगमने ऽपि वक्तव्याः गमनार्थत्वात्तेषां,नेत्यतये ।
मन्त्रलिङ्गात् त्रित्वनियमः ।
त्रयाणामन्ते गमनारम्भः

14.25

आप्ग्स्-तात्_5.25:
ये वध्वश्चन्द्रम् इति तिसृभिर्व्यवस्तीर्णे सूत्रे अभियाति उपरिगच्छति

14.28

21 नैमित्तिको जपः ।
तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत् ॥ आ
चोम्मेन्तरिएस्:
आप्ग्स्-अना_5.26:
अतीत्य गमनमतिक्रमः अतिक्रम एव व्यतिक्रमः विशब्दो ऽनर्थकः, यथोपाय एवाभ्पाय इति ।
उत्तसामृचं जपेद्वरः तामन्दसानेत्येताम् ।
निमित्तावृत्तौ जपस्यावृत्तिः ।
च शब्दः प्रत्येकंजपसंबन्धार्थः ।
इतरथा
त्रयाणामतिक्रमसन्निपाते जपः कार्यस्स्यात् मन्त्रलिङ्गात् ।
न च मन्त्रे तीर्थादयस्स्तूयन्ते ।
किंतर्ह्यश्विनौ, तेनैकातिक्रमणे इतरयोः श्रवणं व्यर्थ स्यादिति न चोदनीयं, तत्पदोद्धारो वा शङ्कनीयः

14.26

आप्ग्स्-तात्_5.26:
तीर्थ पुण्यनद्यादि ।
स्थाणुर्गवां कण्डूयनार्थ निखातः ।
चतुष्पथः प्रसिद्धः ।
एतेषां व्यतिक्रमे ऽता मन्दसानाऽइत्येतां जपेत् ।
तीर्थादीनां चान्यतमव्यतिक्रमे ऽपि कृत्स्नाया एव जपः , न त्वितरपदरहितायाः;यतो लिङ्गाच्छुतिर्बलीयसी, ऽऐन्द्र्या गार्हपत्यमुपतिष्ठतेऽ; इतिवत् ।
नन्वत्राचाराच्छ्रुतिरनुमेयेति न तया लिङ्गबाधो युक्तः ।
मैवम्, लिङ्गस्यात्र श्रुति विहितशोषिदिषयसापोक्षत्वात् ।
तत्र ह्यनुमेयश्रुतेर्दौर्बल्यं यत्रास्याः प्रत्युक्षुश्रुत्यैव विरोधः ।
अतो ऽनुमेयापि श्रुतिस्सापेक्षलिङ्गबाधिकैव ।
वृत्तिभेदस्तु तीर्थादिशब्दानां तत्तद्व्यतिक्रमे मन्त्रप्रयोगभेदादुपपद्यते ।
अतस्तीर्थव्यतिक्रमे ऽपि स्थाणुपथशब्दौ दुर्मतिस्थानसामान्यात्तीर्थमेवाभिवदतः ।
एवं स्थाणुमितरौ ।
चतुष्पथमपीतरौ ।
यथेध्मसम्भरणमन्त्रे उपवेषमेक्षणधृष्टिशब्दा अग्रिसंस्पर्शिकाष्ठमयत्वसामान्यात् इध्मदारूण्येवाभिवदन्ति ।
यथा वा जातकर्मण्युत्तराभ्यामभिमन्त्रणं, मूर्धन्यवघ्राणं, दक्षिणे कर्णे जापः, (आप.गृ.15-1) इत्यभिमन्त्रणावघ्राणजपानां जातसंस्कारक्रियासामान्यादभिजिघ्रामीत्यभिवदनम् ।
किञ्चित्राश्विनोः प्राधान्येन स्तूयमानत्वात्तत्सकाशात्तीर्थादिव्यतिक्रमोत्थदोषोपहतेः प्रार्थ्यमानत्वादविकृताया एव जपः ।
अपि च पदान्तरोद्धारे जगतीत्वभङ्गप्रसङ्गः ।
न्यायतस्तु जपमन्त्रो नार्थपरः अतो नात्र तीर्थादयो ऽश्विनौ वा तात्पर्येणाभिधीयन्ते ।
तस्मात् शूपपादः कृत्स्नाया एव जपः ।
एष एव न्यायो नदीनां धन्वनां च व्यतिक्रमे

मूल पाठ: Āpastambagṛhyasūtra with Haradatta's Anākulāvṛtti and Sudarśana's Gṛhyatātparyadarśanavyākhyā · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc