भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 3.2

3.2.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥
पश्चाददृष्टयविज्ञानकालदुःखपृथग्भवाः ।
स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतोभवः

3.2.2

गुणसाम्यमयोगश्च तर्कबाधो विलोमता ।
नानाभावः प्रलोभश्च पूर्वपक्षगाः

3.2.3

अशक्यकर्तृताशक्तिः स्वतो ऽबोधस्तदेव च ।
अमानकॢप्तिसन्मानव्यवस्थात्यल्पताभवाः

3.2.4

विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिदर्शनम् ।
अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः

3.2.5

वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।
सन्त्येवाशेषजीवानामनादिमनसि स्थिताः

3.2.6

त्रिगुणात्मकं मनो ऽस्त्येव यावन्मुक्तिः सदातनम् ।
तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च

3.2.7

सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।
सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः

3.2.8

संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।
स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्त्वमेव हि

3.2.9

अदृष्टे चाश्रुते भावे न भाव उपजायते ।
अदृष्टादश्रुताद् भावान्न भाव उपजायते

3.2.10

इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।
कदाचिद् दर्शनायोग्यं यत् तत्रापि विभागतः

3.2.11

दृष्टं समानाधिकरणं दृश्यते च स च भ्रमः ।
वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता न च

3.2.12

भेदो ऽभेदो ऽथवा द्वन्द्वमिति प्रश्नो न युज्यते ।
द्रष्टुः स्वप्नस्य दृष्टत्वाद् भेदस्यैवाखिलैर्जनैः

3.2.13

प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।
सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः

3.2.14

तत्त्वनिर्णयवैलोम्यं स्याद् वादे ऽपि हि निग्रहः ।
उद्भावनीयमेव स्यान्न कथावसितिर्भवेत्

3.2.15

विजिगीषुकथायां तु कथावसितिकारणम् ।
परिहारे ऽपि सिद्धत्वं दूषणं प्रतिवादिनः ।
प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधका

3.2.16

आश्रयव्याश्रयासिद्धी साध्यसिद्धिश्च दूषणम् ।
केषाञ्चिन् न च ते दोषा व्याप्तौ सत्यां कथञ्चन

3.2.17

दोषो व्याहतिरेवास्ति नृशृङ्गास्तित्वसाधने ।
यत्र व्याहतता नास्ति को ऽतिसङ्गो ऽस्य साधने

3.2.18

प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ।
न्यायाभासा अमूलाः स्युर्न्यायस्यान्यस्य तौ पुनः

3.2.19

अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ।
ज्ञायते साक्षिणैवाद्वा मानबाधे न तद् भवेत्

3.2.20

यत् साक्षिणैव मानत्वं मानानामवसीयते ।
अमानस्य तु मानत्वं मानसत्वाच्चलं भवेत्

3.2.21

उत्सर्गतो ऽपि यत् प्राप्तमपवादविवर्जितम् ।
व्यभिचार्यपवादेन मानमेव भविष्यति

3.2.22

अतो हि भोजनादीनामिष्टसाधनतानुमा ।
मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च

3.2.23

व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ।
रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।
इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधका

3.2.24

अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा ।
असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते

3.2.25

व्याप्तिश्च व्यतिरेकेण तत्र तैश्चैव गम्यते ।
अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ।
लिङ्गस्योक्तौ विशेषो ऽयं केन मानेन गम्यते

3.2.26

साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ।
यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा

3.2.27

यत्र नातिप्रसङ्गो ऽस्ति मानं न च विपर्यते ।
क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः

3.2.28

परिशेषो मिथःसिद्धिः चक्रकस्वाश्रयादयः ।
असिद्धसाधकत्वेन पञ्चावयवतां विना ।
अङ्गीकार्याः समस्तैस्तन्नियमः किंनिबन्धनः

3.2.29

सिद्दसाधनतायां च न कथावसितिर्भवेत् ।
व्यभिचारो हेत्वसिद्धिरेकपक्षे ऽपि दूषणम्

3.2.30

साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।
वैयथ्यर्मेकासिद्धौ च विशिष्टासिद्धिरेव हि

3.2.31

अप्रयोजकता तत्र प्रथमप्रश्नदूषणम् ।
सिद्धप्रश्नादिकं यत् तदाधिक्यान्तगर्तं भवेत्

3.2.32

अर्थापत्त्युपमाभावा अनुमान्तर्गताः क्वचित् ।
प्रत्यक्षान्तर्गतो ऽभावः सुखादेर्नियमेन च

3.2.33

अन्यत्र खडिति प्राप्तः प्रारम्भाद्याश्च युक्तयः ।
आगमार्थावसित्यर्था नियतव्याप्तयो ऽखिलाः

3.2.34

वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।
कुरुपाण्डववत् तेषामुपपत्तेः पृथग् वचः

3.2.35

स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।
स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः

3.2.36

प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।
छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ।
जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम्

3.2.37

एवं संशोधितन्यायसदागमविरोधतः ।
नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि

3.2.38

विलक्षणं सदसतोरिति हि व्याहतं स्वतः ।
प्रतियोगित्वमप्यस्य ब्रह्मणो ऽङ्गीकृतं भवेत्

3.2.39

मिथ्या चेत् प्रतियोगित्वं वैलक्षण्यं ततो न हि ।
अविलक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः

3.2.40

अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ।
ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः

3.2.41

इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ।
इत्थम्भावो हि धर्मो ऽस्य न चेन्न प्रतियोगिता

3.2.42

इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयो ऽखिलाः ।
अदृश्यत्वादयो ऽप्यस्य गुणा हि प्रभुणोदिताः

3.2.43

यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ।
अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा

3.2.44

देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ।
सर्वधर्मोज्ज्ञितस्यास्य किं शास्त्रेणाधिगम्यते

3.2.45

मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ।
अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत्

3.2.46

न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ।
वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत् कथम्

3.2.47

धर्मारोपो ऽपि सामान्यधर्मादीनां हि दशर्ने ।
इदन्तदादिधर्मित्वे धर्मो ऽन्यः कल्प्यते ऽत्र हि

3.2.48

सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ।
तदर्थं यदि धर्माणामारोपः सानवस्थितिः

3.2.49

ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ।
भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ऽत्र हि

3.2.50

तन्मात्रस्यान्यथा भावात् किं न स्याद् विश्वसत्यता ।
येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्यैव किं न सा

3.2.51

भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ।
भवेयुर्भ्रान्तयो नृणां नैवेशादेः कथञ्चन

3.2.52

सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीष्यते ।
प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः

3.2.53

साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ।
साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि

3.2.54

तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ।
ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि ।
ऐक्यप्रामाण्यमिथ्यात्वं यदा विश्वस्य सत्यता

3.2.55

ऐक्यागमस्य मानत्वं यद्यबाध्यमितीष्यते ।
अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते

3.2.56

अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।
यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते

3.2.57

प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।
कालान्तरे ऽप्यमानं चेदिदानीं मानता कुतः

3.2.58

मिथ्यात्वमानं मोक्षे ऽपि मानं किं नेति भण्यताम् ।
मानत्वे ऽद्वैतहानिः स्यादमानत्वे ऽप्यमोक्षता

3.2.59

विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।
अस्ति चेन्मुक्तयवस्था च द्वैतापत्तिरतो ऽन्यथा

3.2.60

अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।
काल एवागमो ऽप्याह मुक्तिं कालनिवर्तने ।
मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत्

3.2.61

क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ।
देहात्मत्वं यदि न तत् प्राप्तं प्रत्यक्षतः क्वचित् ।
मम देह इति ह्येव न देहो ऽहमिति प्रमा

3.2.62

उपचारश्च कृष्णो ऽहमिति कर्दमलेपने ।
वस्त्रस्य यद्वदेवं स्याद् यद्युपाधिकृतं तदा ।
स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते

3.2.63

कथं च भेदो देहादेरात्मनो न प्रमीयते ।
जातमात्रा मृगा गावो हस्तिनः पक्षिणो खषाः ।
भयाभयस्वभोगादौ कारणानि विजानते

3.2.64

अस्मृतौ पूर्वदेहस्य विज्ञानं तत् कथं भवेत् ।
अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ

3.2.65

यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।
व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात्

3.2.66

भेदज्ञाने ऽपि चाङ्गारवह्निवत् स्वाविविक्तवत् ।
भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि

3.2.67

अर्थान् यथानुभवतः प्रतिपादयितुं क्षमाः ।
लोकास्ततो हि प्रत्यक्षसिद्धं नान्येन केनचित्

3.2.68

शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।
कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते

3.2.69

आगमो ऽपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।
विशेषं गमयेदेव कथं शक्तिग्रहो ऽन्यथा

3.2.70

अतीतानागतार्थेषु जाते शक्तिग्रहे ऽखिलम् ।
विशेषं ज्ञापयेद् वाक्यं न तदज्ञातशक्तिके

3.2.71

शक्तिश्चेद् वर्तमाने स्यान्नातीतानागतं वदेत् ।
यदि शक्तिग्रहो ऽन्यत्र कथं स स्यात् तदग्रहे

3.2.72

सामान्यं दृष्टमेवासावन्यत्र गमयेद् यदि ।
सामान्यवर्जितं वस्तुस्वरूपं गमयेत् कथम्

3.2.73

न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।
स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत्

3.2.74

सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।
किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ।
स्यादुत्तरं ततो ऽन्यच्चेत् तदेव स्वयमेव नः

3.2.75

एवं व्यावृत्तरूपे ऽपि यदा शक्तिग्रहो भवेत् ।
तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः

3.2.76

अतो विशेषसामान्यरूपं सर्वमपीष्यते ।
व्यावृत्तं यच्च सामान्यं तदेव स्याद् विशेषतः

3.2.77

नचैकधर्मता तेन पदार्थानां परस्परम् ।
धर्माणां भेददृष्टयैव तत्सादृश्यस्य दर्शनात्

3.2.78

अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः ।
सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा

3.2.79

किञ्चित्सादृश्यविज्ञानादखिलस्यापि वस्तुनः ।
शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः

3.2.80

प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ।
तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम्

3.2.81

आधिक्यमनुभूतात्तु यदातीतत्वमिष्यते ।
मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्रहि

3.2.82

मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ।
अतीतवर्तमानत्वधर्मिणी सा च दृश्यते

3.2.83

न च सा स्मृतिमात्रार्धा तदिदन्त्वग्रहैकतः ।
अतो न वतर्मानैकनियमः स्याद् ग्रहे ऽक्षजे

3.2.84

न च प्रमाणतो ऽन्या स्यात् प्रमितिर्नाम कुत्रचित् ।
मानाभावाद् गौरवाच्च कल्पनायाः किमेतया

3.2.85

मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ।
ज्ञानमेव ततो ऽन्या न प्रमितिर्नाम दृश्यते

3.2.86

मानामातृप्रमेयाणां तदुच्छित्तिर्नहि क्वचित् ।
स्वप्नानामपि चैतेषां न बाधो दृश्यते क्वचित्

3.2.87

जाग्रत्त्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ।
अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च

3.2.88

आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः ।
एतावता न मिथ्यासौ स्वप्ने जागरिते तथा

3.2.89

यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद् भवेत् ।
अबाधितानुवृत्तेस्तु स्वप्नादेर्भ्रान्तता कुतः

3.2.90

न च काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ।
अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत्

3.2.91

किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ।
अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।
वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति

3.2.92

भ्रान्तित्वभ्रान्तता चेत् स्यात् कथं नाभ्रान्तिसत्यता ।
अशेषदोषदुष्यं तन्मतं हेयं बुभूषिभिः

3.2.93

येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।
भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम्

3.2.94

उन्मत्तो ऽपि कथं तस्य मतं स्वीकर्तुमिच्छति ।
ईशशक्तेरचिन्त्यत्वान्महोन्मत्तैः प्रवर्तितम्

3.2.95

अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।
निमित्तमैश्वरी मुख्यं निर्मितं त्रातमेव च

3.2.96

ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ।
उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः

3.2.97

प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।
धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा

3.2.98

चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।
तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा

3.2.99

मनोविकारा विषयाः स्वाप्ना यद् बह्यवन्न ते ।
स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित्

3.2.100

क्वचित् स्पष्टा अपि स्युष्ये वासना मानसी च सा ।
ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया

3.2.101

सृष्ट्वैव वासानभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।
वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः

3.2.102

सुषुप्तिमोहबोधांश्च स्ववशस्तद्वशं सदा ।
जीवं नयति देवेशो नान्यः कर्तास्य कश्चन

3.2.103

न स्थानभेदतो ऽप्यस्य भेदः कश्चित् परेशितुः ।
सर्वत्राशेषदोषोज्खपूर्णकल्याणचिद्गुणः

3.2.104

तद्विरुद्धं तु यत् तत्र मानं नैव भवेत् क्वचित् ।
महातात्पर्यरोधेन कथं तन्मानमत्र तु

3.2.105

दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।
भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा

3.2.106

प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।
निर्दोषतापरिज्ञानादपि नान्येन केनचित्

3.2.107

यो मामशेषदोषोज्खं गुणसर्वस्वबृंहितम् ।
जानात्यस्मै प्रसन्नो ऽहं दद्यां मुक्तिं नचान्यथा

3.2.108

यो मामशेषाभ्यधिकं विजानाति स एव माम् ।
विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम्

3.2.109

यो मामेवमसम्मूढः किं मा निन्दन्ति शत्रवः ।
इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते

3.2.110

लोकतश्च प्रसादेन मुक्तिः स गुणवेदनात् ।
महातात्पर्यमुख्यस्य विरोधादत एव हि

3.2.111

दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।
नार्थः श्रुतिपुराणादेस्तद्विरुद्धो ऽखिलस्य च ।
अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम्

3.2.112

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत

3.2.113

इत्यतो ऽखिलसच्छास्त्रविरुद्धत्वेन नानुमा ।
वर्तते तत्र तेनेशो निर्णीतो ऽखिलसद्गुणः

3.2.114

न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ।
यत आभासतामेव श्रुतिरस्य वदत्यलम्

3.2.115

यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम् ।
छाया यथा पुंसदृशा पुमाधीना च दृश्यते ।
एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः

3.2.116

सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।
आभास एव पुरुषा मुक्ताश्च परमात्मनः

3.2.117

छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।
तस्येन्द्रकामौ च तयोस्तयोरन्ये ऽखिला अपि

3.2.118

हरेर्ब्रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।
मारश्चाभासकाः सर्व एतयोस्तदधीनतः

3.2.119

सर्वे ऽल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।
चेतनत्वे ऽपि भिन्नास्ते तस्मादेतेन सर्वदा ।
इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि

3.2.120

आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ।
तन्न युक्तं यदाभास उपाध्यायत्त ईयते

3.2.121

उपाध्यायत्तताभावादाभासत्वविरोधतः ।
चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत्

3.2.122

अतः पृथक्तवमुदितं समुदायांशयोर्भवेत् ।
ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता

3.2.123

अतो देहाद्युपाधीनामपाये समता भवेत् ।
ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत्

3.2.124

यदा तदोपाध्यायत्तरूपाणां नाशिता भवेत् ।
इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।
अत एवोपमेत्येव चान्याभासविशेषिताम्

3.2.125

यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।
जीवस्य सदृशत्वं च चित्त्वमात्रं नचापरम्

3.2.126

तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।
नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने

3.2.127

किञ्चित्सुखादिसादृश्यमपीशेनेसुरानृते ।
तत आभासते नित्यं तद्वदाभासते ऽपि च

3.2.128

भानमस्तित्वमपिचैवासमन्ताद् यतस्ततः ।
जीव आभास उद्दिष्टः सदैव परमात्मनः

3.2.129

न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।
तदधीनत्वमेवेति किञ्चित् सादृश्यमेव च ।
सम्प्रकाशयतः सूत्रगतावखिलमानतः

3.2.130

जीवेशभेददृष्टयैव समुदायैकता कुतः ।
अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः

3.2.131

सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ।
अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद् दोषवान् कथम्

3.2.132

अनुसन्धानरहितमैक्यं चेदेकता न तत् ।
चेतनैक्ये ऽनुसन्धानं प्रमाणं नैव चापरम्

3.2.133

अनुसन्धानरहितसमुदायैक्यमेव चेत् ।
चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः

3.2.134

मुक्तौ स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः

3.2.135

पश्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिता भवेत् ।
विद्यमानानुसन्धानं न चेदज्ञत्वमापतेत्

3.2.136

असदैक्यं भवेत् पश्चाद् यदि स्यात् सप्तमो रसः ।
समुदायैक्यमेतस्माद् दूरतो ऽपाकृतं सदा

3.2.137

अतो ऽशेषगुणोन्नद्धं निर्दोषं यावदेव हि ।
तावदेवेश्वरो नाम तत्र भेदो ऽपि न क्वचित्

3.2.138

नेह नानास्ति किमपि हरयो ऽयमयं हि सः ।
इत्यादिश्रुतिमानेन जीवांशाः सर्व एव च

3.2.139

नियमेनानुसन्धानवन्तो यद्येकता स्वतः ।
अंशिनो ऽशेषसन्धानमत्यल्पस्यापि विद्यते

3.2.140

भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ।
अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत्

3.2.141

ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ।
सेशतानुपपन्नैव यदि जीवैकतास्य हि ।
अनीशस्येशतेत्येव विरुद्धं सर्वमानतः

3.2.142

ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।
अनीशत्वेन विज्ञातमीशत्वेनाथवा दिशेत्

3.2.143

उपजीव्यविरोधेन नैव मानत्वमेष्यति ।
अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च

3.2.144

ईशत्वे ऽनीशभेदेन श्रुत्या सम्यक् प्रकाशिते ।
अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात्

3.2.145

अतो ऽन्यत्रापि यद् दृष्टं तदीशेनैव कल्प्यते ।
श्रुत्याभासाप्तमपि नहीशत्वपरिपन्थि यत्

3.2.146

ईशो ऽनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।
इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः

3.2.147

इति हि ब्रह्मतर्कोक्तिरतिहेयमतो ऽखिलैः ।
बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः

3.2.148

नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।
यदीशित्वविरोधि स्यात् तदेवायुक्तमञ्जसा

3.2.149

ईशित्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।
सिद्धेशित्वेन चायुक्तमपि हीशे न योजयेत्

3.2.150

मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् ।
इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम्

3.2.151

स चाप्राकृतरूपत्वादरूपः स्वगुणशत्मकम् ।
रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते

3.2.152

अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।
यथा हि तैजसस्यैव प्रकाशस्योज्खितावपि ।
आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा

3.2.153

तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ।
ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम्

3.2.154

प्रतिबिम्बवदप्येषामानन्दो ऽन्यगुणा यथा ।
नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया

3.2.155

तस्माद् भिन्नश्च सततमन्यज्ज्ञानं परस्य च ।
अन्यज्ज्ञानं तु जीवानामन्य आनन्द ईशता

3.2.156

मुख्येशता परेशस्य गौणी जीवस्य सा यतः ।
इति श्रुतेः सृष्टिनाशौ तदधीनावितीरिते ।
स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते

3.2.157

यतः स्वभावो ऽखिल ईशायत्तो ऽखिलस्य च ।
अव्यक्तो ऽपि स्वक्तयैव भक्तानां दृश्यते हरिः

3.2.158

तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।
गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः

3.2.159

विशेषात्मतया तेषां नित्यशक्तयात्मना तथा ।
नित्यस्थितेर्न धर्माणां क्रियादीनामनित्यता

3.2.160

न विशेषात्मता चेयमनित्या शक्तिरूपता ।
सैव यत् सविशेषा स्याद् विशेषो ऽन्यो नचाप्ययम्

3.2.161

स्वनिर्वाहकताहेतोस्तथापि स्याद् विशेषतः ।
विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि

3.2.162

ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।
श्रुत्यैव स स एवेति तदभेदश्च गम्यते

3.2.163

भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।
भिन्नश्चेदनवस्था स्यादभिन्नश्चेत् पुरा न किम्

3.2.164

विशेषो ऽभिन्न एवेति तेन नाभ्युपगम्यते ।
अभिन्नो निविर्शेषश्चेद् भेदस्तद्भेदता कुतः

3.2.165

अनेनानेन भिन्नो ऽयमिति यत् स विशेषतः ।
भेद एवैष बहुधा दृश्यते तत् किमुत्तरम्

3.2.166

अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिना ।
तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः

3.2.167

अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।
भेदो ऽन्योन्यमभेदश्च भेदिना चेद् विशेषता

3.2.168

निर्विशेषे कथं भेदो भेदिनैकस्तथाभिदा ।
पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत्

3.2.169

भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।
अभेदाभेदिनोश्चैव किं भेदो ऽभेदभेदयोः

3.2.170

विशेषेणैव सर्वत्र यदि व्यवहृतिर्भवेत् ।
कल्पनागौरवायैव किं भेदः कल्प्यते तदा

3.2.171

ऐक्यप्रतीत्यभावेन भेद एव गवश्वयोः ।
स एवेति प्रतीतौ हि विशेषो नाम भण्यते

3.2.172

सच्चिदादेरपर्यायसिद्धयर्थं मायिनापि हि ।
अङ्गीकार्यो विशेषो ऽयं यद्यसत्यविशेषणम् ।
पृथक् पृथग् वारयितुं शब्दान्तरमितीष्यते

3.2.173

मायाविशेषराहित्यविशेषेण विशेषिता ।
सत्यस्यापि भवेत् सा च तथा चेदनवस्थितिः

3.2.174

यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा ।
लक्ष्यते चेत् तेन लक्ष्यमित्यपि स्याद् विशेषिता

3.2.175

पुनःपुनर्लक्षणायामपि स्यादनवस्थितिः ।
यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते

3.2.176

असार्वज्ञ्यादिराहित्यमप्येवं ते भविष्यति ।
तदा सार्वज्ञ्यमेव स्याद् भावार्थत्वान्नञोर्द्वयोः

3.2.177

यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ।
असत्त्वज्ञानतादेश्च स्यादसत्त्वादिकं तदा

3.2.178

अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ।
अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते

3.2.179

अखण्डखण्डनादेवं विशेषोऽखण्डवादिना ।
खण्डितेनापि मनसा स्वीकार्योऽनन्यथागतेः

3.2.180

अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ।
महादरेण शिरसि विशेषो धार्य एव हि

3.2.181

निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ।
गुणानामादरेणाह तच्च नाभिहितान्वयः

3.2.182

यदाशेषविशेषाणमुक्तिः सामान्यतो भवेत् ।
पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत्

3.2.183

यतो ऽशेषविशेषाणां वस्तुनास्त्येव चैकता ।
अतः सामान्यतो ज्ञातः पदान्तरबलात् पुनः ।
भवेद् विशेषतो ज्ञानस्तेन स्यादन्वितोक्तिता

3.2.184

स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः ।
अनेनेति तदुक्तयैव ज्ञायते ऽनुभवेन हि

3.2.185

यद्यनन्वितमेवैतत् पदं स्वार्थं वदेदिह ।
तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः

3.2.186

व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात् ।
पुमानप्येकवारोक्तया कृतकृत्यो यदा भवेत्

3.2.187

अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य न ।
यदैवानन्वितार्थस्य वचनं तैः पदैभर्वेत्

3.2.188

अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सो ऽन्वयः ।
निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः

3.2.189

तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा

3.2.190

अपूर्तेस्तावदर्थानामाकाङ्क्षा पूर्वमिष्यते ।
कर्मकर्तृक्रियाणां तु पूर्तौ को ऽन्यो ऽन्वयो भवेत्

3.2.191

अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते ।
व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः

3.2.192

उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ।
बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।
पुरुषाधीनता तेषां यदि पश्चाच्च सा समा

3.2.193

पुमानेवान्वयायैषां पश्चाद् यदि विचेष्यते ।
अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ।
यततां शब्दशक्तिश्चेत् तत्र नैवान्वये कथम्

3.2.194

तत्कल्पनागुरुत्वादिदोषेतो ऽभिहितान्वयः ।
अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः

3.2.195

कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ।
विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति

3.2.196

गुणक्रियादिधर्माणां विशेषे कथिते पुनः ।
निराकाङ्क्षो भवेद् यस्माच्छब्दा अन्वितवाचकाः

3.2.197

अतो ऽनन्तगुणात्मैको भगवानेक एव तु ।
उच्यते सर्ववेदैश्च ते चाखिलविलक्षणाः

3.2.198

सर्वे सर्वगुणात्मानः सर्वकर्तार एव च ।
तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितो ऽपिच

3.2.199

तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ।
अन्यानन्दादिसादृश्यमानुकूल्यादिना परम्

3.2.200

पूर्णत्वादि महत् तेषां वैलक्षण्यं श्रुतौ श्रुतम् ।
पूर्णे ऽशेषनियन्ता च सुखादुतम एककलः

3.2.201

गुणोरुसमुदायो ऽयं वासुदेवः स निष्कळः ।
वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान्

3.2.202

स एवाशेषजीवस्थनिस्सङ्खयानादिकालिकान् ।
धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः

3.2.203

कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ।
न ते विशेषं कमपि प्रेरणादिकमुच्यते ।
कुर्युः कदापि तेनायं स्वतन्त्रो ऽनुपचारतः

3.2.204

कर्माणि तानि च पृथक् चेतनान्येव सर्वशः ।
अचेतनशरीराणि स्वकर्मफलभाञ्चि च

3.2.205

प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।
तानि चैवमितीशस्य निस्सीमा शक्तिरुत्तमा

3.2.206

एकैव ब्रह्महत्या हि वराहहरिणोदिता ।
ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः

3.2.207

स्तोत्रस्य तस्य माहात्म्याद् व्याधत्वं गमिता पुनः ।
प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वदा

3.2.208

अनन्तान्युदितान्येवं प्रभुणा कपिलेन हि ।
संसारे पच्यमानानि कर्माण्यपि पृथक् पृथक्

3.2.209

तस्मादनन्तमाहात्म्यगुणपूगो जनार्दनः ।
भक्त्या परमयाऽराध्य इति पादार्थ ईर्यते

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc