भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 3.3

3.3.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥
वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।
आपरोक्ष्यं भवेद् विष्णोरिति पादक्रमो भवेत्

3.3.2

युक्तितो ज्ञातवेदार्थो निरस्य समयान् परान् ।
परस्परविरोधं च प्रणुद्याशेषवाक्यगम्

3.3.3

अध्यात्मप्रणवो भूत्वा तस्य सन्निहितत्वतः ।
बहुयुक्तिविरोधानां भानात् तत्सहितश्रुतेः

3.3.4

विरोधं च निराकृत्य श्रुतीनां प्राणतस्त्वगान् ।
परिहृत्य विरोधांश्च तत्प्रसादानुरञ्जितः

3.3.5

देहकर्तृत्वमीशस्य ज्ञात्वा तत्पितृतास्मृतेः ।
विशेषस्नेहमापाद्य सर्वकर्तृत्वतो ऽधिकम्

3.3.6

निष्पाद्य बहुमानं च तदन्यत्रातिदुःखतः ।
उत्पाद्याधिकवैराग्यं तद्गुणाधिक्यवेदनात्

3.3.7

सर्वस्य तद्वशत्वाच्च दार्ढ्यं भक्तेरवाप्य च ।
यतेतोपासनायैव विशिष्टाचार्यसम्पदा

3.3.8

कर्तव्या ब्रह्मजिज्ञासेत्युक्ते किमिति संशये ।
अत इत्युदिते ऽप्यस्य विशेषानुक्तितः पुनः

3.3.9

सृष्टिबन्धनमोक्षादिकर्तृत्वस्य श्रुतत्वतः ।
यतो मोक्षादिदातासावतो जिज्ञास्य एव वः ।
इत्याह तत् परं ब्रह्म व्यासाख्यं ज्ञानरश्मिमत्

3.3.10

येनैव बन्धमोक्षः स्यात् स च जिज्ञासया गतः ।
सुप्रसन्नो भवेदीशो जिज्ञासातो ऽस्य मुक्तिदा

3.3.11

मोक्षादिदत्वमीशस्य कथमेवावगम्यते ।
इति चेच्छास्त्रयोनित्वाच्छास्त्रगम्यो हि मोक्षदः

3.3.12

प्रत्यक्षावसितेभ्यः स्याद् यदि मोक्षः कथञ्चन ।
किमित्यनादिसंसारमग्नाः सर्वा इमाः प्रजाः

3.3.13

यस्मान्नियमतो दुःखहानिः प्रत्यक्षतो भवेत् ।
धावन्त्येव तमुद्दिश्य राजाद्यमखिलाः प्रजाः

3.3.14

अनुमानगम्यतो मोक्षो यदि तस्यानुमैव हि ।
दृष्टपूरुषवन्मोक्षदातृतां विनिवारयेत्

3.3.15

तच्छास्त्रगम्य एवैको मोक्षदो भवति ध्रुवम् ।
शास्त्रगम्यश्च नान्यो ऽस्ति मोक्षदत्वेन केशवात्

3.3.16

मोक्षदो हि स्वतन्त्रः स्यात् परतन्त्रः स्वयं सृतौ ।
वर्तमानः कथं शक्तः परमोक्षाय केवलम्

3.3.17

अन्याश्रयेण यद्येष दद्यान्मोक्षं स एव हि ।
तेनाननुसृतो मोक्षं न दद्यादन्यवाक्यतः ।
अतस्तदर्थमपि स ज्ञेयो विष्णुर्मुमुक्षिभिः

3.3.18

यमेवैष इति श्रुत्या तमेवेति च सादरम् ।
शास्त्रयोनित्वमस्यैव ज्ञायते वेदवादिभिः

3.3.19

य एनं विदुरमृता इत्युक्तस्तु समुद्रगः ।
तदेव ब्रह्म परममिति श्रुत्यावधारितः

3.3.20

यतः प्रसूतेति ततः सृष्टिमाह ततो हरिः ।
शास्त्रयोनिर्नचान्यो ऽस्ति मुख्यतस्त्विति गम्यते

3.3.21

शास्त्रयोनित्वमेतस्य ज्ञायते हि समन्वयात् ।
समिति ह्युपसर्गेण परमुख्याथर्तोच्यते

3.3.22

एवं परममुख्यार्थो नारायण इति श्रुतेः ।
निर्धारणाय नाशब्दमिति वेदपतिर्जगौ

3.3.23

कथं समन्वयो ज्ञेयः स्वल्पशाखाविदां नृणाम् ।
वेदा ह्यनन्ता इति हि श्रुतिराहाप्यनन्तताम्

3.3.24

अनन्तवेदनिर्णीतिर्महाप्रळयवारिधेः ।
उत्तारणोपमेत्यस्मान्न ज्ञेयो ऽत्र समन्वयः

3.3.25

इति शङ्कापनोदार्थं स आह करुणाकरः ।
अशक्योत्तरणत्वे ऽपि ह्यागमापारवारिधेः ।
निर्णीयते मयैवायं रोमकूपलयोदिना

3.3.26

यद्यप्यशेषवेदार्थो दुर्गमो ऽखिलमानवैः ।
मज्ज्ञानाव्याकृताकाशे प्राप्नोति परमाणुताम्

3.3.27

इति प्रकाशयन् विश्वपतिराह प्रमेयताम् ।
निखिलस्यापि वेदस्य गतिसामान्यमञ्जसा

3.3.28

को नाम गतिसामान्यमनन्तागमसम्पदः ।
ज्ञानसूर्यमृते ब्रूयात् तमेकं बादरायणम्

3.3.29

अन्यो ऽप्यल्पमतिः शाखाचतुष्पञ्चगतं वसु ।
जानन्नानुमितत्वेन ब्रूयात् तस्य प्रसादतः

3.3.30

इति मुख्यतयाशेषगतिसामान्यवित् प्रभुः ।
प्रतिजज्ञे दृढं यस्माद् देवानामपि पूर्यते

3.3.31

अतो निखिलवेदानां सिद्ध एवं समन्वयः ।
इति सुज्ञापितार्थो ऽपि पृथक् चाह समन्वयम्

3.3.32

तत्र प्रथमतो ऽन्यत्र प्रसिद्धानां समन्वयः ।
शब्दानां वाच्य एवात्र महामल्लेशभङ्गवत्

3.3.33

इतो ऽत्यभ्यधिकत्वे ऽपि तुर्यपादोदितस्य तु ।
महासमन्वये तस्मिन् नाधिकारो ऽखिलस्य हि

3.3.34

ब्रह्मैवाधिकृतस्तत्र मुख्यतो ऽन्ये यथाक्रमम् ।
दुर्गमत्वाच्च नैवात्र प्राथम्येनोदितो ऽञ्जसा

3.3.35

अतो ऽन्यत्र प्रसिद्धानां शब्दानां निर्णयाय तु ।
प्रवृत्तः प्रथमं देवस्तत्रानन्दादयो गुणाः ।
ईशस्यैवेति निर्णीताः श्रुतियुक्तिसमाश्रयात्

3.3.36

देवतान्तरगाः सर्वे शब्दवृत्तिनिमित्ततः ।
विष्णुमेव वदन्त्यद्धा तत्सङ्गादुपचारतः

3.3.37

अन्यदेवान् वदन्तीह विशेषगुणवक्तृतः ।
विष्णुमेव परं ब्रूयुरेवमन्ये ऽप्यशेषतः

3.3.38

इत्यन्यत्रप्रसिद्धोरुशब्दराशेरशेषतः ।
ज्ञाते समन्वये विष्णौ लिङ्गैर्ह्येष समन्वयः

3.3.39

तेषामन्यगतत्वे तु न स्यात् सम्यक् समन्वयः ।
इत्येवाशेषलिङ्गानां ब्रह्मण्येव समन्वयम्

3.3.40

आहोभयगतत्वं च स्यादतो लिङ्गशब्दयोः ।
इति संशयनुत्त्यर्थमुभयत्र प्रतीतितः

3.3.41

शब्दानां वर्तमानानां सलिङ्गानां विशेषतः ।
समन्वयो हरावेव यन्नैवान्यत्र मुख्यतः

3.3.42

शब्दा लिङ्गानि च यतो नैवान्यत्र स्वतन्त्रता ।
अस्वतन्त्रेषु शब्दस्य वृत्तिहेतुर्न मुख्यतः

3.3.43

यतो ऽतो यदधीनास्ते शब्दार्थत्वमुपागताः ।
अत्यल्पेनैव शब्दस्य वृत्तिहेतुगुणेन तु

3.3.44

अयो यथा दाहकत्वं स एवेशः स्वतन्त्रतः ।
मुख्यशब्दार्थ इति हि स्वीकर्तव्यो मनीषिभिः

3.3.45

इत्याहैवञ्च शब्दानां नारायणसमन्वये ।
सिद्धे ऽप्यशेषशब्दानां न कथञ्चन युज्यते

3.3.46

विरोधाववरत्वादेरपि प्राप्तिर्यतो भवेत् ।
इति चेदवरत्वादि द्विविधं ह्युपलभ्यते

3.3.47

परस्यावरताहेतुर्यः स्वयं पर एव सन् ।
सो ऽपि ह्यवरशब्दार्थो यथा राजा जयी भवेत्

3.3.48

अन्यो ऽवरत्वानुभवी तयोः पूर्वो ऽस्ति केशवे ।
द्वितीयो जीव एवास्ति स्वातन्त्रान्नच दूषणम्

3.3.49

हरेरेवमशेषेण सर्वशब्दसमन्वये ।
उक्ते विरोधहीनस्य स्यात् समन्वयता यतः ।
अतो ऽशेषविरोधानां कृतेशेन निराकृतिः

3.3.50

समन्वयाविरोधाभ्यां सञ्जाते वस्तुनिर्णये ।
किं मया कार्यमित्येव स्याद् बुद्धिरधिकारिणः

3.3.51

तत्र भक्तिविधानार्थमभक्तानर्थसन्ततौ ।
उक्तायां भक्तिदार्ढ्याय प्रोक्ते ऽशेषगुणोच्चये ।
वक्तव्योपासना नित्यं कर्तव्येत्यादरेण हि

3.3.52

सोपासना च द्विविधा शास्त्राभ्यासस्वरूपिणी ।
ध्यानरूपा परा चैव तदङ्गं धारणादिकम्

3.3.53

तथोभयात्मकं चैव पादे ऽस्मिन् बादरायणः ।
आहोपासनमद्धव विस्तराच्छ्रुतिपूर्वकम्

3.3.54

पृथग्दृष्टिरशक्यत्वमनिर्णीतिः समुच्चयः ।
विशेषदर्शनं कार्यलोपो नानोक्तिराशुता

3.3.55

विभ्रमो ऽपाकृतिर्लिङ्गमनवस्थाविशेषिता ।
अप्रयोजनता चातिप्रसङ्गो ऽदूरसंश्रयः

3.3.56

विशिष्टकारणं चेष्या दृष्टवैरूप्यमुन्नतिः ।
अनुक्तिरप्रयत्नत्वं दृढबन्धपराभवौ

3.3.57

पुंसाम्यं प्राप्तसन्त्यागः कारणानिर्णयो भ्रमः ।
विशेषदर्शिताऽलापो गुणसाम्यं पृथग्दृशिः

3.3.58

अगम्यवर्त्म सन्धानमिष्टं फलमकल्पना ।
शुद्धवैरूप्यमङ्गत्वमविशेषदृशिः क्रिया

3.3.59

युक्तयः पूर्वपक्षस्थाः सुज्ञेयत्वं विधिक्रिया ।
माहात्म्यमल्पशक्तित्वं यथायोग्यफलं भवः

3.3.60

फलसाम्यं विशेषश्च गुणाधिक्यं प्रधानता ।
यथाशक्तिक्रिया सन्धिः प्रमाणबलमानतिः

3.3.61

कारणं कार्यवैशेष्यं स्वभावो वस्तुदूषणम् ।
प्रतिक्रियाविरोधश्च प्रतिसन्धिरनूनता

3.3.62

संस्कारपाटवं स्वेच्छानियतिर्वस्तुवैभवम् ।
विशेषोक्तिरमानत्वं प्राधान्यं प्रीतिरागमः

3.3.63

सुस्थिरत्वं कृतप्राप्तिरनादिगुणविस्तरः ।
साधनोत्तमता नानादृष्टिः शिष्टिरनूनता

3.3.64

अविघ्नत्वविरोधौ च गुणवैशेष्यमागमः ।
सिद्धान्तनिर्णये ह्येता युक्तयो ऽव्याहताः सदा

3.3.65

यथाशक्तयखिलान् वेदान् विज्ञायोपासनं भवेत् ।
तत्राखिलस्य विज्ञप्तिः सम्यग् ब्रह्मण एव हि

3.3.66

तदन्येषां यथायोग्यमखिलज्ञप्तिरिष्यते ।
तावतोपासने योग्यो भवेदेवाखिलः पुमान्

3.3.67

महत्त्वस्य परं पारं विदित्वैव जनार्दनः ।
स्तोष्यतामेति तुष्टत्वमिति नास्त्येव नारद

3.3.68

किन्तु निश्चलया भक्तया ह्यात्मज्ञानानुरूपतः ।
यः स्तोष्यति सदा भक्तस्तुष्यस्तस्य सदा हरिः

3.3.69

इत्यादिवाक्यसन्दर्भाद् यथायोग्याखिलज्ञता ।
आत्मज्ञानानुरूपत्वं यथाशक्ति विचारणात्

3.3.70

वेदः कृत्स्नो ऽधिगन्तव्यः स्वाध्यायाध्ययनं भवेत् ।
इत्यादिवाक्यवैयर्थ्यमन्यथा न निवार्यते

3.3.71

अद्यापि तेन देवाद्याः शृण्वते मन्वते सदा ।
ध्यायन्ति च यथायोगं तथाप्या वस्तुनिर्णयात् ।
श्रवणं मननं चैव कर्तव्यं सर्वथैव हि

3.3.72

मतिश्रुतिध्यानकालविशेषं गुरुरुत्तमः ।
वेत्ति तस्योक्तिमार्गेण कुर्वतः स्याद्धि दर्शनम्

3.3.73

श्रवणं दृष्टतत्त्वस्य मननं ध्यानमेव च ।
विशेषानन्दसम्प्राप्त्या अन्यस्यैतानि दृष्टये

3.3.74

यदि तादृग् गुरुर्नास्ति निर्णीतश्रवणादिकम् ।
तत्सिद्धान्तानुसारेण निर्णयज्ञात् समाचरेत्

3.3.75

श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् ।
अत्यशक्ये तु निद्रादौ पुनरेव समारभेत्

3.3.76

अभावे निर्णयज्ञस्य सच्छास्त्राण्येव सर्वदा ।
शृणुयाद् यदि सज्ज्ञानप्राचुर्यमुपलभ्यते

3.3.77

महद्भयो विष्णुभक्तेभ्यो यथाशक्ति च संशयान् ।
छिन्द्यात् स्वतो ऽधिकाभावे स्वयमेव समभ्यसेत्

3.3.78

अशेषगुणपूर्णत्वं सर्वदोषसमुज्खितिः ।
विष्णोरन्यच्च तत्तन्त्रमिति सम्यग् विनिर्णयः

3.3.79

स्वतन्त्रत्वं सदा तस्य तस्य भेदश्च सर्वतः ।
अदोषत्वस्य सिद्धयर्थं यदभेदे तदन्वयः

3.3.80

तत्तन्त्रत्वं च मुक्तानामपि तद्गुणपूर्तये ।
मुक्तानामपि भेदश्च न हि भिन्नमभिन्नताम् ।
गच्छद् दृष्टं क्वचित् तस्याप्यभावो ऽनुभवोपगः

3.3.81

पूर्वाभेदे दोषवत्त्वमीशस्येत्यतिभिन्नता ।
नारायणेन मुक्तानामपि सम्यगिति स्थितिः

3.3.82

भेदाभेदे ऽप्यभेदेन दोषाणामपि सम्भवः ।
निर्दोषत्वं रमायाश्च तदनन्तरता तथा

3.3.83

ब्रह्मा सरस्वती वीन्द्रशेषरुद्राश्च तत्स्रियः ।
शक्रकामौ तदन्ये च क्रमान्मुक्तावपीति च

3.3.84

सत्सिद्धान्त इति ज्ञेयो निर्णीतो हरिणा स्वयम् ।
एतद्विरोधि यत् सर्वं तमसे ऽन्धाय केवलम्

3.3.85

अन्धं तमो विशन्तीति प्राह श्रुतिरतिस्फुटम् ।
इत्येव श्रुतयो ऽशेषाः पञ्चरात्रमथाखिलम्

3.3.86

मूलरामायणं चैव भारतं स्मृतयो ऽखिलाः ।
वैष्णवानि पुराणानि साङ्खययोगौ परावपि

3.3.87

ब्रह्मतर्कश्च मीमांसेत्यनन्तः शब्दसागरः ।
अनन्तर युक्तयश्चैव प्रत्यक्षागममूलकाः

3.3.88

प्रत्यक्षमैश्वरं चैव रमादीनामशेषतः ।
मुक्तानामप्यमुक्तानामेतमेवार्थमुत्तमम्

3.3.89

अन्यावकाशरहितं प्रकाशयति सादरम् ।
एतदेव च सच्छास्त्रं दुःशास्त्रं तु ततः परम्

3.3.90

सच्छास्त्रमभ्यसेन्नित्यं दुःशास्त्रं च परित्यजेत् ।
असंशयेन तत्त्वस्य निर्णये ब्रह्मदर्शनम्

3.3.91

सम्यग्विषमविज्ञानतारतम्यानुसारतः ।
फलं भवेत् तारतम्यात् सुखदुःखात्मकं नृणाम्

3.3.92

सम्यक् चाधिकविज्ञानात् सुखाधिक्यं भवेन्नृणाम् ।
अतो यथात्मशक्तयैव श्रवणं मननं तथा

3.3.93

विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् ।
मनसा चान्यदाकाङ्क्षात् परं न प्रतिपाद्यते

3.3.94

इति भारतवाक्यं हि तेनैतद्दोषवर्जितः ।
सदोपासनया युक्तो वासुदेवं प्रपश्यति

3.3.95

दोषा अनादिसम्बद्धास्ते मुक्तिपरिपन्थिनः ।
सन्त्येव प्रायशः पुंसु तेन मोक्षो न जायते

3.3.96

सर्वे त एते जीवेषु दृश्यन्ते तारतम्यतः ।
ऋजूनामेक एवास्ति परमोत्साहवर्जनम् ।
स गुणाल्पत्वमात्रत्वान्नर्जत्वेन विरुद्धयते

3.3.97

अतो विष्णौ परा भक्तिस्तद्भक्तेषु रमादिषु ।
तारतम्येन कर्तव्या पुरुषार्थमभीप्सिता

3.3.98

स्वादरः सर्वजन्तूनां संसिद्धो हि स्वभावतः ।
ततो ऽधिकः स्वोत्तमेषु तदाधिक्यानुसारतः

3.3.99

कर्तव्यो वासुदेवान्तं सर्वथा शुभमिच्छता ।
न कदाचित् त्यजेत् तं च क्रमेणैनं विवर्धयेत्

3.3.100

समेषु स्वात्मवत् स्नेहः सत्स्वन्यत्र ततो दया ।
कार्यैवमापरोक्ष्येण दृश्यते क्षिप्रमीश्वरः

3.3.101

तत् तमो ऽन्धं व्रजेद् विष्णुसमत्वं यो ऽनुपश्यति ।
रमाब्रह्मशिवादीनामपि मुक्तौ कथञ्चन

3.3.102

किमुताधिक्यदृष्टेस्तद् गुणाभावमतेरपि ।
दोषवेत्तुरभेदस्य द्रष्टुर्द्रष्टुस्तथोभयोः

3.3.103

इत्याह सच्छ्रुतिस्तेन सम्प्रोक्तगुणसंयुतम् ।
उपासीत हरिं दृष्ट्वा मुक्तिस्तेनैव जायते

3.3.104

द्वेषाद् यन्मुक्तिकथनं श्रुतिवाक्यविरोधि यत् ।
रिपवो ये तु रामस्य विमुखत्वान्निरामिणः ।
अभिद्रोहपदे नित्यमन्धे तमसि ते स्थिताः

3.3.105

हरिद्विषस्तमो यान्ति ये चैव तदभेदिनः ।
तन्निर्गुणत्ववेत्तारस्तस्य दोषविदो ऽपि च

3.3.106

इत्यादिश्रुतिसन्दर्भाद् द्वेषिणस्तम ईयते ।
हिरण्यकशिपुश्चापि भगवन्निन्दया तमः ।
विधिक्षुरत्यगात् सूनो प्रह्लादस्यानुभावतः

3.3.107

यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् ।
तस्मात् पिता मे पूयेत दुरन्ताद् दुस्तरादघात्

3.3.108

निन्दां भगवतः शृण्वंस्तत्परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्यघः सुकृताच्च्युतः

3.3.109

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् ।
परं भावमजानन्तो मम भूतमहेश्वरम्

3.3.110

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः

3.3.111

मामात्मपरदेहेषु प्रद्विषन्तो ऽभ्यसूयकाः ।
तानहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु

3.3.112

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्

3.3.113

यो द्विष्टाद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
कथं स न भवेद् द्वेष्य आलोकान्तस्य कस्यचित्

3.3.114

यो द्विष्टाद् विबुधश्रेष्ठं देवं नारायणं प्रभुम् ।
मज्जन्ति पितरस्तस्य नरके शाश्वतीः समाः ।
इत्यादिवाक्यसन्दोहाद् द्वेषिणस्तम एव तु

3.3.115

नैव मोक्ष इति प्राहुर्लोकायतमते स्थिताः ।
भोगः शरीरपर्यन्तं भस्मीभावस्ततो भवेत्

3.3.116

इति तत् केन मानेन दृष्टं प्रत्यक्षवादिना ।
न हि प्रत्यक्षमानेन मोक्षाभावो ऽवसीयते

3.3.117

घटते मुक्तिदृष्टिस्तु पुरुषेण महीयसा ।
नेति वक्तुर्महत्त्वं तु कथञ्चन न विद्यते

3.3.118

साधयन् सर्वसामान्यं कथमेव विशेषवान् ।
दृश्यन्ते पुरुषा लोके परावरविदो ऽपिच

3.3.119

अपरोक्षदृशो योगनिष्ठाश्चामलचक्षुषः ।
प्रत्यक्षं देवतां दृष्ट्वा तत्प्रसादाप्तभूतयः

3.3.120

ज्ञानविज्ञानपारज्ञा निषिद्धयन्ते कथं नृभिः ।
दृश्यते चातिमाहात्म्यं तेषामतिमहौजसाम्

3.3.121

यदि ते ऽपि निषिद्धयन्ते किं नोक्तिस्ते निषिद्धयते ।
यदुक्तवाक्यप्रामाण्यं प्रत्यक्षेणोपलभ्यते

3.3.122

वरादयो ऽपि तद्दत्ताः सदा सत्या भवन्ति हि ।
अप्रामाण्यं तदुक्तेश्च वृथावाचावसीयते

3.3.123

न हि प्रयोजनं किञ्चित् परलोकनिवारणात् ।
वृथावाचं वृथा हन्याद् यदि तस्य किमुत्तरम् ।
स्वजीवनविरोधाय वदन् किं नाम बुद्धिमान्

3.3.124

प्रामाण्ये संशयः किं स्यात् तयोः पुरुषयोरपि ।
स्वजीवनविरुद्धोक्तिरज्ञो दृष्टस्य चापि सः

3.3.125

यश्चातीन्द्रियदेवोक्तिश्रोता दृष्टपरावरः ।
अतीतानागतं सर्वं लोकानुभवमापयन् ।
अतः प्रत्यक्षगम्यत्वाद् वेदमात्वस्य च स्फुटम्

3.3.126

यद्यागमस्य नो मात्वमक्षजस्य तथा भवेत् ।
यद्यक्षजस्य मात्वं स्यादागमस्य कथं न तत् ।
लोकवाक्याद् विशेषश्चाव्यभिचारेण सिद्धयति

3.3.127

अस्ति मोक्षो ऽपि धर्मेण यथार्थज्ञानतो ऽपि च ।
प्रामाण्यमनुमायाश्च जिनस्याप्तत्वसाधने

3.3.128

तद्वाक्याद् धर्मसज्ज्ञानविज्ञप्तिर्भवतीति च ।
धर्मो ऽहिंसापरो नान्यो ज्ञानं पुद्गलदर्शनम्

3.3.129

इति जैनाः कथं तत् स्यात् प्रमाणमनुमानतः ।
विषयान् प्रति स्थितं ह्यक्षं प्रत्यक्षमिति गीयते ।
प्रत्यक्षशब्दानुसारादनुमेति प्रकीतिर्ता

3.3.130

आ समन्ताद् गमयति धर्माधर्मौ परं पदम् ।
यच्चाप्यतीन्द्रियं त्वन्यत् तेनासावागमः स्मृतः

3.3.131

एतेन कारेणेनैव तत्तन्मानत्वमिष्यते ।
स्वरूपं हि तदेतेषामन्यथासिद्धिमानतः

3.3.132

अतो ऽनुमा कथं धर्मं पुद्गलं चापि दर्शयेत् ।
स्वरूपं पुद्गलस्योक्ता दोषा आनन्दमेव च ।
न मन्यते पुद्गलं स दुःखाभावः सुखं त्विति

3.3.133

मात्राभोगातिरेकेण सुखाधिक्यस्य दर्शनात् ।
सुखस्याभावता केन न च स्यात् किं विपर्ययः

3.3.134

यदि भावो ऽपि कश्चित् स्यात् तस्यैवाभावता कुतः ।
यदि सर्वे ऽप्यभावाः स्युरन्योन्यमिति भावता

3.3.135

अभावाभावता यत् स्यात् किं नश्छिन्नं तदा भवेत् ।
भावत्वं विधिरूपत्वं निषेधत्वमभावता

3.3.136

निषेधस्य निषेधो ऽपि भाव एव बलाद् भवेत् ।
प्रथमप्रतिपत्तिस्तु भावभावनियामिका

3.3.137

न च पुद्गलविज्ञानं मोक्षदं भवति क्वचित् ।
अस्वातन्त्र्यात् पुद्गलस्य ज्ञातो ऽपि सुखदो न हि

3.3.138

न हि दुःखिपरिज्ञानाद् दुःखित्वं विनिवर्तते ।
यदि पुद्गलविज्ञानाददुःखी स्यात् कथञ्चन ।
देहवानपि नादुःखी किं ज्ञानादुत्तरं सदा

3.3.139

ईशकॢप्त्यनुसारेण स्यात् कालादीशवादिनः ।
कर्महेतुत्वमपि तु निश्चैतन्यान्नहि क्वचित्

3.3.140

अशेषदुःखविलये नेदानीं कारणं यथा ।
तथोत्तरं च नैव स्याद् दृष्टिपूर्वानुमा यतः

3.3.141

शक्तस्यान्यस्य विज्ञानं तत्प्रीतिजनकं यदि ।
तयैव बन्धहानिः स्यादिति किं नाम दूषणम्

3.3.142

स्वज्ञानाद् बन्धहानिस्तु दृश्यते कस्य कुत्रचित् ।
अहिंसायाश्च धर्मत्वं केन मानेन गम्यते ।
हिंसाया एव धर्मत्वमित्युक्ते स्यात् किमुत्तरम्

3.3.143

धर्मस्य सुखहेतुत्वमपि केनावगम्यते ।
हत्यया मोक्षहेतुत्वं कुतो मानान्निवार्यते

3.3.144

न च शून्यपरिज्ञानाच्छून्यभावनयापि च ।
मोक्षः कथञ्चन भवेद् यदीदानीं कथं न सः

3.3.145

परप्रसादनेच्छोस्तु विळम्बो नाम युज्यते ।
पुमिच्छाधीनता नो चेद् विळम्बः किङ्कृतो भवेत्

3.3.146

अन्यत्रापि विळम्बास्तु स्युरीशेच्छानिमित्ततः ।
अन्यथा कारणं चेत् स्यात् किं कार्यं नोपजायते ।
कारणे सति कार्यस्य भावः सुनियतो ऽस्य हि

3.3.147

विज्ञानवादिनश्चैव विज्ञानाद्वैतवेदनात् ।
विज्ञानभावनाच्चैव मोक्षो न घटते क्वचित्

3.3.148

अन्तर्ज्ञानस्य बाह्ये च क्षणिकत्वस्य वेदनात् ।
भावनाच्चोक्तमार्गेण मानाभावान्न मुच्यते

3.3.149

प्रकृतेः पुरुषस्यापि विवेको मुक्तिसाधनम् ।
इति शङ्कया न चैतस्मिन् मानमीशाप्रसादतः

3.3.150

श्रुतयः स्मृतयश्चैव यदीशस्य प्रसादतः ।
वदन्ति नियमान्मुक्तिं तमृते ऽतः कुतो भवेत्

3.3.151

कणादयोगाक्षपादा अपीशस्य प्रसादतः ।
मुक्तिं ब्रुवाणा अप्याहुर्भोगादेव च कर्मणाम् ।
क्षयं प्राहुः कुतश्चैतत् प्रसन्ने जगदीश्वरे

3.3.152

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे

3.3.153

भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि दृष्ट एवात्मनीश्वरे ।
इति श्रुतिपुराणादिवचनेभ्यो ऽन्यथागतेः

3.3.154

न च पाशुपताद्युक्तशिवादीनामनुग्रहात् ।
नान्यः पन्था इति ह्युक्तं पुरुषज्ञानतः श्रुतौ

3.3.155

सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादतः ।
एवं पुरुषशब्दश्च प्रयुक्तो ऽब्धिशये हरौ

3.3.156

न तस्येशे कश्चन तस्य नाम महद् यशः ।
इति चाधिपतिस्तस्य प्रतिषिद्धः स्वयं श्रुतौ

3.3.157

विश्वतः परमां नित्यं विश्वं नारायणं हरिम् ।
इति सर्वाधिकत्वोक्तया समो ऽपि विनिवारितः ।
समाधिकस्य राहित्यान्नोपचारपुमानसौ

3.3.158

पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति

3.3.159

मुक्तामुक्तपरेशत्वमिति तस्याह सा श्रुतिः ।
अमृतेशानवचनात् सर्वस्येशानतोदिता

3.3.160

यदि सर्वत्वमुदितमुतेश इति तद् वृथा ।
उतशब्दो वदेदेष हीशत्वस्य समुच्चयम्

3.3.161

पुरुषेणेदं व्याप्तमिति ब्राह्मणं चाह तं प्रति ।
एतावानस्य महिमेति महिम्नो वचो हि तत्

3.3.162

सो ऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।
इत्यमुक्ताधिपत्यं तु पूर्वार्धोक्तमनूद्य च

3.3.163

उतामृतस्येश इति विधत्ते मुक्तिगेशताम् ।
अतो विष्णुपरिज्ञानादेव मुक्तिर्नचान्यतः ।
तद् यथेति श्रुतेश्चैव ततः कर्मक्षयो भवेत्

3.3.164

यथैधांसि समिद्धो ऽग्निर्भस्मसात् कुरुते ऽर्जुन ।
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा

3.3.165

सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ।
इत्यादिभगवद्वाक्यैरुक्तार्थश्चावसीयते

3.3.166

नित्यनैमित्तिकं कर्म कुर्वन्नन्यत् परित्यजन् ।
मुच्यते संसृतेश्चैतदप्येतेन निराकृतम् ।
विद्यैवेतीममेवार्थं स्वयमेवाह वेदराट्

3.3.167

विना कर्म न मोक्षः स्याज्ज्ञानेनेत्यपि सा श्रुतिः ।
नान्यः पन्था इति ह्येव निवारयति सादरम्

3.3.168

अन्यथोपासनमपि तमेवमितिवादिनी ।
निवारयत्यादरेण न प्रतीक इति प्रभुः

3.3.169

अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते ।
इति श्रुतिविरोधाच्च नान्यथोपासनं भवेत्

3.3.170

न चाप्येकत्वविज्ञानादुक्तन्यायेन मुच्यते ।
इति सर्वं प्रविज्ञाय सर्वैस्तर्कसदागमैः ।
उपासीत हरिं नित्यं गुणैरेव स्वयोगतः

3.3.171

ब्रह्मा सर्वैगुणैश्चैव क्रियासामान्यतश्च गीः ।
गुणसामान्यतो रुद्रो द्रव्यसामान्यतः परे

3.3.172

अधिकारविशेषेण भक्तिज्ञानसुखादिभिः ।
विशेषो देवतादीनां मोक्षे चैव विशेषतः

3.3.173

न तावता विरोधो ऽस्ति निर्दोषत्वात् समस्तशः ।
आभासत्वात् परेषां तदवराणां च सर्वशः

3.3.174

यतो ऽवराणां सर्वे ऽपि गुणाः सर्वाः क्रिया अपि ।
नियमेनैव पूर्वेषां सुप्रसादनिबन्धनाः ।
अतः सच्छिष्यवत् तेषां नैवेर्ष्यादिः कथञ्चन

3.3.175

न च संसारिदेवानां कालेयत्तापरे इमे ।
सूत्रे ह्यारब्धमात्रस्य भोगेनैव क्षयो ध्रुवः

3.3.176

अनारब्धकार्ये भोगेन त्वितरे इति चोदितः ।
पौनरुक्तयेन तेनैते उक्तार्थे इति निश्चयः

3.3.177

उषाः स्वाहा च पर्जन्यो मित्रो ऽग्निर्वरुणो विधुः ।
प्रवहो ऽनिरुद्ध इन्द्रोमे रुद्रो वाणी च मारुतः ।
उत्तरोत्तरतस्त्वेते गुणैः सर्वैश्च मुक्तिगाः

3.3.178

सूर्यधर्मौ यथा सोमो मनुर्दक्षो बृहस्पतिः ।
शची रतिश्चानिरुद्धसमास्तारा च मित्रवत्

3.3.179

सोमवच्छतरूपा तु प्रसूतिर्वह्निवद् विराट् ।
पर्जन्यवद् वारुणी च तथा सञ्ज्ञा च रोहिणी

3.3.180

धर्मी च मित्रवत्त्वेन प्रावही परिकीर्तिता ।
मित्रपजर्न्यमध्यस्थावश्विनौ विघ्नवित्तपौ

3.3.181

भृगुरग्निसमो मित्रतन्मध्ये ब्रह्मपुत्रकाः ।
वरुणाग्न्यन्तरा तत्र नारदः प्राय इन्द्रवत्

3.3.182

कामः सुपर्णी चोमावद् वीन्द्रो रुद्रवदीरितः ।
निऋतिर्मित्रसदृशो विश्वामित्रः कसूनुवत्

3.3.183

वैवस्वतो मनुश्चाश्विपश्चादन्ये ततो ऽवराः ।
च्यवनोचथ्यवैन्याश्च शशबिन्दुश्च हैहयः ।
तद्वच्च विप्रराजन्यविशेषो ऽत्रापि कश्चन

3.3.184

तद्वत् प्रियव्रतश्चापि तदन्याः शतदेवताः ।
पजर्न्यमित्रान्तराळे तदन्ये तु ततो ऽवराः

3.3.185

एतेभ्यो ऽभ्यधिका श्रीरस्तु सदा मुक्ता विशेषतः ।
तत्समो नास्ति परमो हरिरेव नचापरः

3.3.186

संहितायां बृहत्यां तु स्वयं भगवतोदितम् ।
तदेतदखिलं प्राण आहङ्कारिक एव च ।
इन्द्रादनन्तरो दृष्टिरपि योग्यानुसारतः

3.3.187

सम्यग् गुरुप्रसादश्च मुख्यतो दृष्टिकारणम् ।
श्रवणादि च कर्तव्यं नान्यथा दर्शनं क्वचित्

3.3.188

गुणाधिकं गुरुं प्राप्य तद्धीनं नाप्नुयात् क्वचित् ।
विपर्ययस्तु कर्तव्यः सर्वथा मुक्तिमिच्छता

3.3.189

समे विकल्प एव स्यात् पूर्वानुज्ञा च सर्वथा ।
तदुत्तमगुरुप्राप्त्यै पूर्वानुज्ञा न मृग्यते

3.3.190

गुरुबर्रह्माखिलानां च विद्या चैव सरस्वती ।
देवता भगवान् विष्णुः सर्वेषामविशेषतः

3.3.191

तत्प्रसादेन मुक्तिः स्यान्नान्यथा तु कथञ्चन ।
स्वोत्तमास्तु क्रमेणैव सर्वेषां गुरवः श्रुताः ।
उपदेशो ब्रह्मणस्तु सर्वेषामेव मुक्तये

3.3.192

साधनेभ्यो ऽधिका भक्तिर्नैवान्यत् तादृशं क्वचित् ।
भक्तिश्चैव हरावेव मुख्यान्यत्र यथाक्रमम्

3.3.193

स्वाधिका त्वेव सर्वत्र स्वोत्तमेषु क्रमेण च ।
अनुवर्तते च सा भक्तिर्मुक्तावानन्दरूपिणी ।
तत्पूर्वकोपासनैवं कर्तव्या मुक्तये गुणैः

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc