ग्रंथ पाठ
अनुव्याख्यान · अध्याय 3.1
3.1.1
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयो ऽध्यायः ॥
स्वाभाविकान्यथानामसहाभावान्यथोक्तयः ।
अविशेषो विशेषौ च सहभावो विमिश्रता
3.1.2
विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।
युक्तयः पूर्वपक्षस्य गुणाधिक्यार्थतोभवौ
3.1.3
उपपत्तिर्द्विरूपत्वमाधिक्यमनुरूपता ।
योग्यता प्रबलत्वं च विभागः कारणाभवः ।
कॢप्तिरन्यागतिश्चैव सिद्धान्तस्यैव साधकाः
3.1.4
बीजापूरुषयोनीनां सङ्गातिनियमोज्खितिम् ।
अथशब्देन भगवानाह कारणतश्च ताम्
मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0