भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 2.2

2.2.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य प्रथमः पादः ॥
स्मृतियुक्तिश्रुतिगुणयुक्तयो बहुयुक्तयः ।
एवं चतुर्विधा नैव विरुद्धयन्ते ऽन्वयं प्रति

2.2.2

इति प्रथमपादेन निर्णीते ऽप्यभियोगतः ।
दर्शनानां प्रवृत्तत्वान्मन्द आशङ्कते पुनः

2.2.3

अनादिकालतो वृत्ताः समया हि प्रवाहतः ।
नचोच्छेदो ऽस्ति कस्यापि समयस्येत्यतो विभुः

2.2.4

भ्रान्तिमूलत्वमेतेषां पृथग् दर्शयति स्फुटम् ।
तर्कैर्दृढतमैरेव वाक्यैश्चागमवादिनाम्

2.2.5

दौर्लभ्याच्छुद्धबुद्धीनां बाहुल्यादल्पवेदिनाम् ।
तामसत्वाच्च लोकस्य मिथ्याज्ञानप्रसक्तितः ।
विद्वेषात् परमे तत्त्वे तत्त्ववेदिषु चानिशम्

2.2.6

अनादिवासनायोगादसुराणां बहुत्वतः ।
दुराग्रहगृहीतत्वाद् वर्तन्ते समयाः सदा

2.2.7

तथापि शुद्धबुद्धीनामीशानुग्रहयोगिनाम् ।
युयुक्तयस्तमो हन्युरागमानुगताः सदा

2.2.8

इति विद्यापतिः सम्यक् समयानां निराकृतिम् ।
चकार निजभक्तानां बुद्धिशाणत्वसिद्धये

2.2.9

चेतनाचेतनं तत्त्वद्वयमेव निरीश्वराः ।
आहुस्तत् पञ्चपञ्चत्वविभागस्थमचेतनम् ।
चेतनं तदसङ्खयातं भिन्नमन्यद् लयं भवेत्

2.2.10

अचेतनस्य कर्तृत्वं स्वातन्त्र्येण निगद्यते ।
परस्परविभेदश्च कार्याणामालयं भवेत्

2.2.11

भोक्तृणां चेतनस्याहुः केचित् तामपि नापरे ।
स्वरूपचैतन्यबलात् स्वप्रकाशाच्च भोगिताम्

2.2.12

प्रकृतेश्च स्वरूपस्य विवेकाग्रहमेव तु ।
अभोगवादिनो भोगमाहुर्भेदग्रहात् तयोः

2.2.13

भोगिनां मुक्तिरुद्दिष्टा स एवाभोगवादिनाम् ।
ईशस्यासङ्ग्रहादेव न युक्तौ तावुभावपि

2.2.14

चेतनेच्छानुसारेण यदा दृष्टः पटोद्भवः ।
एतादृशत्वमन्यस्य वस्तुत्वात् केन वार्यते

2.2.15

न च काचित् प्रमोक्तार्थे श्रुतिरेव प्रमा हि नः ।
आप्तत्वमुक्तमार्गेण वक्तुर्नैवोपपद्यते

2.2.16

अप्रामाण्यस्वतस्त्वस्य स्वीकारादपि मायिवत् ।
स्वोक्ताखिलनिषेधी स्यान्न च किञ्चित् प्रसिद्धयति

2.2.17

इदं नाचेतनवशं वस्तुत्वात् प्रतिपन्नवत् ।
इत्येव प्रतिषिद्धस्य केन मूलानुमा भवेत्

2.2.18

स्वतन्त्रवृत्ती रचना सा चैवाचेतने कुतः ।
अचेतनत्वं स्वातन्त्र्यमिति चात्मप्रमाहतम्

2.2.19

स्वेच्छानुसारितामेव स्वातन्त्र्यं हि विदो विदुः ।
कुत इच्छाचेतनस्य सेच्छं चेत् किमचेतनम्

2.2.20

इच्छाम्यहमिति ह्येव निजानुभवरोधतः ।
अचेतनेच्छापगता यदि भेदाग्रहो ऽत्र च

2.2.21

कथं न स घटस्य स्यान्मनो म इति भेदतः ।
मनसो ऽपि गृहीतत्वादुभयात्मकता यतः

2.2.22

कामस्य तु मनः कामः प्रियाप्रियविभेदतः ।
द्वैविध्यं दृश्यते चास्य तस्माद् भेदाग्रहः कुतः

2.2.23

रचनानुपपत्तेस्तन्न सर्वज्ञानुमागतम् ।
अचेतनं जगत्कर्तृ पयो ऽम्ब्वादि च नोपमा

2.2.24

एतत्प्रशास्तिवचनाच्चेतनाचेतनस्य च ।
द्वैविध्ये ऽपितु कामादेः कुतः स्वामित्वमात्मनः

2.2.25

साक्षादनुभवारूढं शक्यते ऽपोदितुं क्वचित् ।
इच्छास्वामित्वमेवोक्तमिच्छावत्त्वं नचापरम्

2.2.26

किञ्चित् तद्वशगत्वे ऽपि स्वामित्वं लोकवद् भवेत् ।
सर्वात्मतन्त्रकामादेः किमुतैव परेशितुः

2.2.27

न चानुभवगं कामस्वामित्वं वेदवागपि ।
शक्तापवदितुं तस्मात् सा तदन्याभिधायिनी

2.2.28

मोक्षकामो भवेदन्यो यदि मुक्ताद् भविष्यतः ।
मोक्षकामस्य किं तेन स्वनाशार्थं च को यतेत्

2.2.29

कर्तृत्वं यस्य तस्यैव भोक्तृत्वमुपलभ्यते ।
विभागे च तयोर्मानं नैव किञ्चित् क्वचिद् भवेत्

2.2.30

सर्वमानविरोधैकदुर्दीक्षादीक्षितस्त्वयम् ।
मायावाद्युपमां यायात् तच्चशब्दान्निराकृतः

2.2.31

साङ्खयस्तु सेश्वरो ब्रूते क्षेत्रानुग्रहशक्तिमान् ।
अस्तीश्वरः स्वयम्भातः क्लेशकर्मादिवर्जितः

2.2.32

क्षेत्रशक्तिमती सैव प्रकृतिर्बीजशक्तिमान् ।
जीवः पर्जन्यवद् दैवशक्तिमानीश्वरः स्मृतः

2.2.33

पृथिवीवत् प्रधानं तज्जीवः सन्निधिमात्रतः ।
बीजावपनकर्तेवेत्यत्र प्राह प्रभुः स्वयम्

2.2.34

अन्यत्र कापि शक्तिर्न स्वातन्त्र्येणेश एव हि ।
शक्तीस्ताः प्रेरयत्यञ्जस्तदधीनाश्च सर्वदा

2.2.35

सत्ताप्रधानपुरुषशक्तीनां च प्रतीतयः ।
प्रवृत्तयश्च ताः सर्वा नित्यं नित्यात्मना यतः

2.2.36

यथा नित्यतया नित्यं नित्यशक्तया स्वयेश्वरः ।
नियामयति नित्यं च न ऋते त्वदिति श्रुतेः

2.2.37

स्वभावजीवकर्माणि द्रव्यं कालः श्रुतिः क्रियाः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया

2.2.38

इति श्रुतेर्न सत्ताद्या अपि नारायणं विना ।
तत्पतञ्जलिविन्ध्यादिमतं न पुरुषार्थदम्

2.2.39

चार्वाकैरुच्यते मानमक्षजं नापरं क्वचित् ।
देह आत्मा पुमर्थश्च कामार्थाभ्यां विना न हि

2.2.40

यदेवं दर्शनेनास्य को ऽर्थः प्रत्यक्षगोचरः ।
लब्धस्तेनैव हि नरैः शास्त्रात् किं मोहनं विना

2.2.41

स्वपरार्थविहीनत्वात् स्वमतेनैव निष्फलम् ।
किमित्युन्मत्तवच्छास्त्रं वृथा प्रलपति स्वयम्

2.2.42

देहादन्यो ऽनुभवत आत्मा भाति शरीरिणाम् ।
मम देह इति व्यक्तं ममार्थ इतिवत् सदा

2.2.43

प्रत्यक्षस्यैव मानत्वमिति केनावसीयते ।
यदि तत्साधकं वेदप्रामाण्ये न कथं भवेत्

2.2.44

न चान्यामानता क्वापि प्रमाणेनावसीयते ।
स्वमतेनार्थरहित उपेक्ष्यः पक्ष ईदृशः

2.2.45

सन्निधानाच्चेतनस्य वर्तते यद्यचेतनम् ।
तथाप्यबुद्धिपूर्वत्वादुक्तदोषः समो भवेत्

2.2.46

अङ्गित्वं पुरुषस्यैव सर्वैरप्यनुभूयते ।
तदङ्गत्वोक्तितश्चैव स्यात् सर्वस्यापलापकः ।
किमु सर्वेश्वरस्यास्य ह्यपलाषाद् यतो ऽखिलम्

2.2.47

अङ्गित्वं यदि तस्यैव स्वातन्त्र्यं चेन्नचाखिलम् ।
तत्प्रेरणे ऽप्यशक्तत्वात् स्वतन्त्रो ऽन्यो ह्यपेक्षितः

2.2.48

न च स्वातन्त्र्यमस्यैव प्रत्यक्षादिविरोधतः ।
हिताकृत्यादिदोषाच्च भद्रं नानीश्वरं मतम्

2.2.49

संसारिणो ऽन्यं सर्वेशं सर्वशक्तिमनौपमम् ।
चेतनाचेतनस्यास्य सत्त्वादेस्तदधीनताम् ।
नाङ्गीकुर्वन्ति ये तेषां सर्वेषां च समा इमे

2.2.50

तस्माच्छ्रुतिप्रमाणेन युक्तिभिश्च परो हरिः ।
अङ्गीकायर्तमो नित्यः सर्वैरपि सुनिश्चितम्

2.2.51

नित्यज्ञानप्रयत्नेच्छं सङ्खयद्यैरपि पञ्चभिः ।
युक्तमीशं वदन्त्यन्ये तदिच्छादृष्टचोदिताः ।
परमाणवश्चतुर्वर्गाः संयुज्यन्ते द्विशो ऽखिलाः

2.2.52

परमाणुद्वयेनैव द्वयणुकं नाम जायते ।
द्वयणुकत्रयेण तृयणुकं तैश्चतुर्भिस्तदात्मकम्

2.2.53

ततस्त्वनियमेनैव खण्डावयविनां भवः ।
ततश्चानियमेनैव सर्वावयविसम्भवः

2.2.54

कारणं समवाय्याख्यं परमाण्वादि तत्र हि ।
ईशेच्छादृष्टकालास्तु निमित्तं कारणं मतम्

2.2.55

सामान्यान्त्यविशेषौ च समवायश्च तत्त्रयम् ।
नित्यं क्रिया अनित्यास्तु गुणद्रव्ये द्विरूपके

2.2.56

कार्ये गुणक्रियाणां तु समवाय्यन्यकारणम् ।
कारणस्था गुणाद्यास्तु संयोगो द्रव्यकारणम्

2.2.57

एवं स्थिते ऽपि सिद्धान्ते विशेषस्तत्र कल्पितः ।
द्वयणुके परमाणौ च ह्रस्वत्वं परिमण्डलम्

2.2.58

न कारणं कार्यगुणे वैरूप्यं तत्र कारणम् ।
इत्याहुस्तानथोवाच विद्याधीशः स्वयं प्रभुः

2.2.59

महत्त्वं चैव दीर्घत्वं तृयणुकाद्येषु कल्पितम् ।
तस्माच्च सदृशं कार्यं तत्कार्येषूपजायते

2.2.60

यथा तथैव ह्रस्वत्वात् पारिमाण्डल्यतो ऽपि हि ।
जायेत सदृशं कार्ये परिमाणं समत्वतः

2.2.61

न चेन्महत्त्वतश्चैव दीघर्त्वादपि नो भवेत् ।
सदृशस्य हि कार्यस्य नैव योगः कथञ्चन

2.2.62

अप्रत्यक्षत्वमेवं स्याद् यतः कार्येष्वणुत्वतः ।
इति चेन्न महत्त्वं च परमाणावणावपि ।
कथं तृयणुकपूर्वेषु नाणुत्वमपि कथ्यते

2.2.63

प्रत्यक्षत्वतदन्यत्वे पुरुषापेक्षयाखिले ।
अणुत्वं च महत्त्वं च यतो वस्तुव्यपेक्षया

2.2.64

तारतम्यस्थिता यस्मात् पदार्थाः सर्व एव च ।
यथा महत्त्वविश्रान्तिस्तथाणुत्वस्य चेष्यते

2.2.65

परिमाणत्वतश्चेन्न महत्त्वस्यापि विश्रमः ।
दृश्यते ऽनन्त इत्येव तथानन्त्यमणावपि

2.2.66

न महत्तत्वगुणत एतावानिति हीश्वरः ।
परिच्छिन्नस्तथाणोश्च नैतावद्भागता क्वचित्

2.2.67

विश्रान्तो यद्यनन्तांशः कश्चिदस्तीति गम्यते ।
नावसाययितुं शक्यो विरोधादेव केवलम्

2.2.68

केवलं साक्षिमानेन कालो देशो ऽपि नान्तवान् ।
अपर्यवसितिश्चाणोर्दृश्यते सक्षिणा द्वयोः

2.2.69

यदि नो साक्षिगम्यं तन्महत्त्वं केन गम्यते ।
विश्रान्तिस्तारतम्येन दृश्यते ह्यनुमानतः

2.2.70

यद्यागमादनन्तं तन्महत्त्वमवगम्यते ।
अनन्तमेव चाणुत्वं कुतो नैवावसीयते

2.2.71

महत्त्वाणुत्वयोर्नैव विश्रान्तिरुपलभ्यते ।
अन्यदेव ह्यनन्तत्वं महत्त्वाणुत्वयोः समम्

2.2.72

बहुत्वाल्पत्वयोर्यद्वत् साङ्खयायामुपलभ्यते ।
आनन्त्यमेकभागानां तावत्त्वं ह्येव गण्यते

2.2.73

अणीयांश्च महीयांश्च भगवानागमोदितः ।
आनन्त्यवाचकः शब्दो द्विधानन्त्ये ऽपि मानताम्

2.2.74

याति नैव गुणाल्पत्वं कालात्पत्वं च मानगम् ।
सर्वकालगतस्याल्पकाले ऽपि स्यादवस्थितिः

2.2.75

महागुणस्य चाल्पो ऽपि गुणः स्यादिति चेद् भवेत् ।
तावत्त्वमेव नैव स्याद् देशे ऽप्येतन्न नो मतम्

2.2.76

महतो ऽल्पत्वमपि हि व्योमवत् प्राह वेदवित् ।
यद्यल्पदेशसंस्थानं न सर्वत्रापि नो भवेत्

2.2.77

स्थितस्य ह्यल्पदेशेषु सर्वगत्वं भवेद् ध्रुवम् ।
एकत्राप्यनवस्थस्य कुत एवाखिलस्थता

2.2.78

शून्यत्वमेव तस्य स्याद् यस्यैकत्रापि न स्थितिः ।
अतो नाणुत्वविश्रान्तिर्न महत्त्वस्य च क्वचित्

2.2.79

उभयानन्त्ययुक् तस्माद् यदि मुख्यमहद् भवेत् ।
तच्च ब्रह्म परं साक्षात् सर्वानन्त्ययुतं सदा

2.2.80

यदि साक्षी स्वयम्भातो न मानं केन गम्यते ।
अक्षजादेश्च मानत्वमनवस्थाथवा भवेत्

2.2.81

अतः सर्वपदार्थानां भागाः सन्त्येव सर्वदा ।
सर्वदिक्ष्वपि सम्बन्धादविभागः पराणुता

2.2.82

तत्संयोगादनियतात् पदार्थानां जनिर्भवेत् ।
द्वयोरेव तु संयोग इति केनावसीयते

2.2.83

कारणस्य गुणास्तेन भवेयुः कार्यगा अपि ।
तारतम्येन सर्वे ऽपि महान्तश्चाणवो यतः

2.2.84

न च तत्प्रोक्तसृष्टौ तु मानं केवलकल्पना ।
कथं साक्षिमितस्यास्य शक्नुयाद् वारणे क्वचित्

2.2.85

यदि साक्षिमितं नैतन्नानुमा तत्र वर्तते ।
पक्षीकर्तुमशक्यत्वात् कुत एवानुमा भवेत्

2.2.86

यत्र नास्ति पदन्यासः कस्तं विषयमाप्नुयात् ।
देशान्तरादिशब्दश्च शशशृङ्गादिशब्दवत्

2.2.87

सदृशं च सजातीयं नास्मत्पक्षे किम् एव हि ।
येनैव च प्रकारेणात्यसिद्धमनुमीयते ।
तेनैव शशृङ्गादेः शक्यमस्तित्वकल्पनम्

2.2.88

प्रत्यक्षमागमो वापि भवेद् यत्र नियामकः ।
सैव व्याप्तिर्भवेन्मानं नान्या सन्दिग्धमूलतः

2.2.89

सहदर्शनमात्रेण न व्याप्तिरवसीयते ।
यदैवाव्यतिरेकस्य ह्यक्षजं वागमो भवेत् ।
तन्निर्धारितयुक्तिर्वा व्याप्तिः सैवापरा न हि

2.2.90

अन्यथा सप्तमरसभवो ऽप्यनुमयाऽपतेत् ।
अनिष्टानि च सर्वाणि ह्यनुमा कामचारिणी

2.2.91

कार्यकारणयोश्चैव गुणादेः पञ्चकस्य च ।
भिन्नस्यैव तु सम्बन्धः समवायो ऽन्य ईर्यते

2.2.92

भिन्नत्वसाम्यतस्तस्य ताभ्यां योगो भवेद् ध्रुवम् ।
स स्वनिर्वाहकश्चेत् स्याद् द्रव्यमेव तथा न किम्

2.2.93

विशेषस्तद्गतत्वादिर्यद्यभिन्ने ऽवसीयते ।
गुणक्रियादिरूपस्य निषेधः केन हेतुना

2.2.94

द्रव्यमेव ततो ऽनन्तविशेषात्मतया सदा ।
नानाव्यवहृतेर्हेतुरनन्तत्वं विशेषतः

2.2.95

विशेषश्च विशेषी सः स्वेनैव समवायवत् ।
कल्पनागुरुतादोषात् पदार्थान्तरता न हि

2.2.96

कल्पयित्वा षट् पदार्थान् साभावानपि केवलम् ।
एकस्मिन् स विशेषश्चेत् किं पूर्वं तस्य विस्मृतिः

2.2.97

येन प्रत्यक्षसिद्धेन व्यवहारो ऽखिलो भवेत् ।
भावाभावविभागेन यं विना न कथञ्चन

2.2.98

अभेदेन प्रतीतिश्च कार्यकारणपूर्वके ।
अभावान्ते पदार्थे ऽस्मिन् सविशेषावसीयते

2.2.99

सामान्यादिपदार्थेषु तन्निष्ठत्वादयो ऽखिलाः ।
कथं धर्मा निवार्यन्ते वस्त्वैक्ये ऽपि हि वादिभिः

2.2.100

कार्यस्य तत्तन्निष्ठत्वं गुणादेर्व्यापितादिकः ।
कथं विशेषो नैवास्ति स च धर्मो ऽपरो यदि

2.2.101

षट्पदार्थातिरेकः स्यात् पदार्थानियमे ऽपि हि ।
धर्मस्य धर्मसन्तानादनवस्थाकरो भवेत्

2.2.102

सामान्यस्यापि सामान्यं गुणस्यापि गुणो ह्यतः ।
नाङ्गीकृतः स च यदि नानवस्था क्वचिद् भवेत्

2.2.103

अस्मत्पक्षे गुणाद्याश्च तद्वन्तो हि विशेषतः ।
अनन्यत्वान्नानवस्था भेदो नाशे भवेत् तथा

2.2.104

विशेषमेव संश्रित्य विशेषो बलवान् यतः ।
दृष्टिप्रमाणतश्चैव विरोधो दर्शने कथम्

2.2.105

विरोधो ह्यविरोधश्च यतो दर्शनमानगौ ।
ततो दृष्टे विरोधस्तु सद्भिरापाद्यते कथम्

2.2.106

अभिन्नो भगवान् स्वेन तदन्येन विभेदवान् ।
नित्या धर्मास्तदीयास्तु सर्वे ऽस्मान्नैव भेदिनः

2.2.107

सामस्त्योच्छेदिनो ऽन्यत्र धर्मा उभयरूपकाः ।
भावे त एव चोच्छेदात् तदन्ये च समस्तशः

2.2.108

अंशांशिनोरभेदेन त्वंशसंयोग एव हि ।
अंशिनो नानवस्थातो यद्यप्यंशेष्वविश्रमः

2.2.109

एकस्मिन् जात एवान्यः संयोगो जायते यदि ।
अनवस्था तदैव स्यात् संयोगैक्ये भवेत् क्व सा

2.2.110

अंशे संयोगदृष्टेश्च दृष्टे का सानवस्थितिः ।
यद्यंशगो न संयोगः कार्येषु प्रथिमा कथम्

2.2.111

परमाणोरणोर्नास्ति महत्तेत्यद्भुतं वचः ।
अणूनां प्रथिमापेक्षां विनैव तृयणुके ऽपि सः ।
परमाणोर्महत्त्वं च विनेत्येतद् वचः कथम्

2.2.112

अंशिनो ऽंशैरभेदो ऽयमंशेन तु भिदाभिदा ।
सर्वप्रत्यक्षविषयः कथमेव ह्यपोह्यते

2.2.113

संयोगश्च विभागश्च भेदश्चैव पृथक् पृथक् ।
अन्योन्यप्रतियोगेन ह्युभयोरपि दृश्यते

2.2.114

भिन्ना इति तु भेदानां समुदायो हि दृश्यते ।
यथैव च पदार्थानामनयोर्भेद इत्यपि

2.2.115

इतो ऽमुष्यामुतो ऽप्यस्य भेदो दृष्टो द्विधर्मिकः ।
तत्रैकवचनं यत्तद् विप्राणां भोजनं यथा

2.2.116

नरत्वादिकमप्येवं तत्तद्धर्मतयेयते ।
न सर्वधर्म एको ऽस्ति समुदायस्तु भिन्नगः

2.2.117

एतादृशं च सादृश्यं पदार्थेषु पृथक् पृथक् ।
एकस्मिन् स विनष्टे ऽपि यतो ऽन्यत्रैव दृश्यते

2.2.118

कुतो भस्मत्वमाप्तस्य नरत्वं पुनरिष्यते ।
एकत्वे नास्ति मानं च श्रुतिरप्याह सादरम्

2.2.119

भिन्नाश्च भिन्नधर्माश्च पदार्था अखिला अपि ।
स्वैः स्वैर्धर्मैरभिन्नाश्च स्वरूपैरपि सर्वशः

2.2.120

अनिवृत्तविनाशास्तु धर्मा उभयरूपकाः ।
न केनचिदभिन्नो ऽतो भगवान् स्वगुणैर्विना

2.2.121

इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते ।
सर्वेषु युगपच्छब्दः सदृशेषु प्रवर्तते

2.2.122

तथापि प्राप्तितस्त्वेकवचनाच्च विशेषतः ।
अभीष्यावगतिश्च स्याच्छक्तिः सादृश्यगा यतः

2.2.123

तादृशो ऽयं च तच्छब्द इति ज्ञापयति स्फुटम् ।
जातितश्चेत् कथं तासु तत्र चेदनवस्थितिः

2.2.124

तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् ।
यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः

2.2.125

कथं स्वरूपत्वमपि ज्ञायते ऽनुगतं यदि ।
एकव्युत्पत्तिपर्यन्तमनवस्थादिदूषितम् ।
कल्पनागौरवात् तेन युक्ता नानुगकल्पना

2.2.126

औपाधिकविशिष्टाद्यमपि तद्वस्तु किं ततः ।
अन्यत् तदेव चेदग्निमत्त्वं किं तत्र भण्यते

2.2.127

अग्निसंयोगमात्रं चेद् भवेत् तत् सिद्धसाधनम् ।
भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः

2.2.128

समवायो यदि ह्य् अस्य चैकत्वात् सिद्धसाधनम् ।
यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते

2.2.129

नानिर्वाच्यं हि तेनेष्यमत औपाधिकान्ययोः ।
सत्यत्वात् को विशेषः स्यान्मायावाद्यन्यथा भवेत्

2.2.130

उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् ।
उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः ।
भिन्नत्वं चैव तेष्वस्ति को विशेष उपाधिगे

2.2.131

अविद्यमान एवान्यः समवायो ऽधिगम्यते ।
उपाधिना तद्गमकमनुमानं न मा भवेत्

2.2.132

एवमेवासतः सत्तसमवायो जनिर्मता ।
तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्

2.2.133

अस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतः ।
नास्ति दोषः क्वचिद् भावो ह्यभावश्च स एव हि

2.2.134

अभावस्य च धर्माः स्युर्भावास्तेषां च ते ऽखिलाः ।
प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् ।
सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा

2.2.135

तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचरः ।
सो ऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः

2.2.136

तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते ।
अस्त्यभावो ऽस्ति च ध्वंसो देहाभावश्च भस्मता

2.2.137

इत्यादि युज्यते सर्वं प्रत्यक्षादिप्रमाणतः ।
अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक्

2.2.138

यत् कल्पयन्ति तच्चैव कल्पनागौरवाद् गतम् ।
पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि

2.2.139

भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् ।
अद्भुततास्ते यतो ऽन्यस्य प्रतियोगित्वमिष्यते

2.2.140

प्रतियोगिनो हि भेदो ऽयं नतु स्वस्मात् कथञ्चन ।
विभागेनाल्पतैव स्यात् कुत एव च शून्यता

2.2.141

न शून्यानां हि संयोगाद् भावो वस्तुन इष्यते ।
विदारणार्थो धातुश्च विभागगुणवाचकः

2.2.142

अविदारणे ऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च ।
अत उन्मत्तवाक्यत्वान्मायावादो ऽभ्युपेक्षितः

2.2.143

न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः ।
ईश्वरो ऽष्टगुणत्वेन प्रमेयो ऽप्रमितत्वतः

2.2.144

मय्यनन्तगुणे ऽनन्ते गुणतो ऽनन्तविग्रहे ।
अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः

2.2.145

नारायणः परो ऽशेषचेतनेभ्यः परं पदम् ।
इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते

2.2.146

अनन्तगुणता विष्णोः कथमेव ह्यपोद्यते ।
यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः

2.2.147

कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते ।
औपाधिकविशेषस्तु पूर्वमेव निराकृतः

2.2.148

स्वप्रकाशत्वमपि तु यैर्ज्ञानस्य निवारितम् ।
कथं सर्वज्ञता तस्य स्वज्ञानाधिगमं विना

2.2.149

ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् ।
इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः

2.2.150

इति चेदेष एवार्थस्तज्ज्ञानावसितो यदि ।
स्वप्रकाशत्वमेव स्याज्ज्ञानं ह्येतद् विशेषणम्

2.2.151

ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ।
स्वप्रकाशत्वमेतस्माद् दुर्निवार्यं समापतेत्

2.2.152

सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् ।
निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते

2.2.153

यो ऽशनायापिपासे च शोकादींश्चातिवर्तते ।
आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा

2.2.154

ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि ।
उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः

2.2.155

नचात्मदुःखितेच्छा स्यादत एतन्निवार्यते ।
सहदर्शनमात्रेण श्रुतीनामपलापकः

2.2.156

यज्ञादेर् अपि पापस्य हेतुत्वं हिंसया युतेः ।
नानुमाति कथं तत्र यद्युपाधिर्निषिद्धता

2.2.157

अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत् ।
अदुःखमितरत् सर्वं जीवा एव तु दुःखिनः ।
तेषां दुःखप्रहाणाय श्रुतिरेषा प्रवर्तते

2.2.158

इति श्रुतिर्हि परमा श्रुत्युक्तिर् यदि कारणम् ।
किं कार्यमनुमानेन गळस्तनसमेन हि

2.2.159

अनुमानेन यद्यर्थः श्रुतिदृष्टो व्यपोद्यते ।
पूर्वोक्तेन प्रकारेण नेश्वरो धर्म एव च ।
स्यात् तत्फलं च तेनात्र श्रुतिरेव प्रमा भवेत्

2.2.160

ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् ।
तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः

2.2.161

अनानन्दानुमा तस्य धर्मिग्राहिविरोधतः ।
न प्रमाणं भवेत् तस्मान्नानुमात्रोपयोगिनी

2.2.162

नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः ।
अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत्

2.2.163

न हि कालविभेदो ऽस्ति तत्पक्षे ऽस्मन्मते हरेः ।
विशेषकाल एवैतत्सृष्टयादीच्छा सदातना

2.2.164

विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा ।
सर्वे निमेषा इति हि श्रुतिरेवाह सादरम्

2.2.165

उदीरयति कालाख्यशक्तिमित्यस्य वागपि ।
कालस्य कालगत्वेन न विरोधो ऽपि कश्चन

2.2.166

असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा ।
ईशो देशश् च कालश् च स्वगता एव सर्वदा

2.2.167

ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ ।
इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु

2.2.168

तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि ।
स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः

2.2.169

स्वभावादेव हीच्छैषा देवस्यैव इति श्रुतेः ।
स्वभावो ऽपि परेशेच्छावश इत्युदितः पुरा

2.2.170

नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः ।
रूपस्पर्शादिहेतुभ्यः परमाणोरनित्यता

2.2.171

अनुमेया श्रुतीनां च विरुद्धत्वान्न तन्मतम् ।
उपादेयमतश्चायमविरुद्धः समन्वयः

2.2.172

वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् ।
अणूनां समुदायं च कालकर्मनिमित्ततः

2.2.173

उत्पत्तिकाले युक्तानामात्मानं च क्षणस्थितिम् ।
नित्यं सन्तानमेतेषां पञ्चस्कन्धात्मना स्थितम्

2.2.174

संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः ।
दुःखाभावं सुखं चाहुररूपज्ञानसन्ततिम्

2.2.175

मोक्षं स समुदायो हि नैकस्मादेव युज्यते ।
नोभयोश्चोभयत्वं यत् समुदायव्यपेक्षया

2.2.176

अतो ऽन्योन्याश्रयत्वेन समुदायो न युज्यते ।
अन्योन्यापेक्षया पुंसः समुदायत्ववेदनम्

2.2.177

स्यात् तत्सदातनत्वे ऽपि तच्च सामीप्यहेतुकम् ।
इति चेत् कार्यसम्भूतिमात्रव्यापृतिकारणम्

2.2.178

नतु कार्यविशेषेषु व्यापृतं कारणं भवेत् ।
अतो ऽर्थेन्द्रियसंयोगिरूपकारणतात्मनः ।
संयोगिरूपराहित्यान्नैव तज्ज्ञानतापि हि

2.2.179

विशषषकार्यजनकं यदि कारणमिष्यते ।
कुतः समानरूपत्वं कार्याणामपि सर्वशः

2.2.180

अतो ऽनियत्या यत्किञ्चिद् यस्य कस्यापि कारणम् ।
अदृष्टस्यापि तस्यैव विशेषापादकं कुतः

2.2.181

यस्य कस्यापि यत्किञ्चिद् विशेषमुपपादयेत् ।
कार्यं च कारणं चैव यत्किञ्चिद् यस्य कस्यचित्

2.2.182

भवेन्नियामकाभावादिदमस्यैव कारणम् ।
इति नित्यविनाशित्वे केन मानेन गम्यते

2.2.183

इदं न जायते ऽमुष्मादित्यत्रापि न कारणम् ।
विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः

2.2.184

दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु ।
फलादीनां विशेषेण सर्वत्राप्यनुमीयते

2.2.186

***[नोते: जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]***
सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः ।
अविशेषो ऽखिलस्यापि सत्त्वात् किं नानुमीयते

2.2.187

यद्याकाशस्य सत्त्वं न कुत एव नरादिषु ।
सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते

2.2.188

तौ विना न ह्य् अभावश् च क्वचिद्दृष्टः कदाचन ।
अधर्मिप्रतियोगित्वमाकाशस्यावगम्यते ॥ मनुव्_2,2.187* ॥
स्वीकारत्यागतो ऽदृष्टदृष्टयोः सर्ववस्तुषु ।
गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः

2.2.189

उत्तरोत्पत्तिमात्रेण विनाशात् पूवर्वस्तुनः ।
न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित्

2.2.190

अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः ।
एकत्वमनुभूतिस्थं त्यक्तवा निर्मानका भिदा ।
कुत आत्मादिकेषु स्याद् बल्येवानुभवो यतः

2.2.191

कार्यकारणयोश्चैककालीनत्वं विना कथम् ।
पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च

2.2.192

सम्बद्ध एव संस्कारमन्यत्रादत्तते ऽखिलाः ।
असम्बद्धः कथं पूर्व उत्तरे वासनाकरः

2.2.193

एककालतया योगं विना संस्कारतः कथम् ।
क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु

2.2.194

पूर्वमध्यापरकलारहितः क्षण इष्यते ।
पूर्वभावभवं कार्यमुत तन्नाशसम्भवम्

2.2.195

यौगपद्यं सति भवेदुत्पाद्यानामशेषतः ।
विनाशे चेन्न तत्कार्यं कार्योत्पत्तौ च का प्रमा

2.2.196

अभेदेन विशेषेण देहदीपफलादिषु ।
विशेषदर्शनं युक्तमस्माकमनुभूतितः

2.2.197

विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः ।
दिक्सुखे च खदृष्टान्ताद् भावौ सच्चेत् क्वचिद् भवेद्

2.2.198

विश्वं प्रत्यक्षगं त्यक्तवा तयोर्यो ऽनुमितं वदेत् ।
मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता

2.2.199

सर्वप्रमाणसिद्धं यद् बुद्धेर्भेदेन सर्वदा ।
कथं नु तस्य बुद्धित्वं विश्वमन्यच्च किम्प्रमम्

2.2.200

सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा ।
तस्यापलापिनः किं न निष्प्रमाणकवादिनः

2.2.201

सो ऽहं तदिदमेवाहं सुखी सद् गगनं दिशः ।
सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः

2.2.202

अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् ।
दुर्मतं को नु गृह्णीयाद् विनासुरततिं क्वचित्

2.2.203

अपरः शून्यमखिलं मनोवाचामगोचरम् ।
निर्विशेषं स्वयम्भातं निर्लेपमजरामरम्

2.2.204

अशेषदोषरहितमनन्तं देशकालतः ।
वस्तुतश्च तदस्मीति नित्योपासापरोक्षितम् ।
रागादिदोषरहितं तद्भावं योगिनं नयेत्

2.2.205

तस्यैवानादिसंवृत्त्या नानाभेदात्मकं जगत् ।
सदिवाभाति सत्यत्वं सांवृतं तस्य चेष्यते

2.2.206

पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् ।
सांवृतेनैव सत्येन व्यवहारो ऽखिलो भवेत्

2.2.207

शून्यात् संवृतियोगेन विश्वमेतत् प्रवर्तते ।
सृष्टिकाले पुनश्चान्ते स्तिमितं शून्यतां व्रजेत् ।
इति ब्रूते तमुद्दिश्य जगाद जगतां गुरुः

2.2.208

नासतो जगतो भावो न हि दृष्टासतो जनिः ।
सतः क्वचित् प्रमाणं च दृष्टिरेवाखिलाद् वरम्

2.2.209

यद्येवं सप्तमरसान्मधुरादिव पीनता ।
भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम्

2.2.210

कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन ।
न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात्

2.2.211

देशकालादिनियमो निंह शून्यात् सतो भवेत् ।
पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते

2.2.212

किं नानुमीयते तद्वद् वस्तुत्वात् पुरुषाद् भवः ।
सर्वस्यापि नचाभावो विश्वं सदिति गम्यते

2.2.213

यतो ऽनुभवरोधे तु वचनं वादिनः कुतः ।
स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते

2.2.214

यदि सत्त्वेन किञ्चात्र भ्रमो नैव निवर्तते ।
अनादेरस्य विश्वस्य निवृत्तिर्यदि चेष्यते ।
निवृत्तिश्च निवर्तेत तस्या भ्रान्तित्वसम्भवात्

2.2.215

दृष्टस्य भ्रान्तिता चेत् स्याददृष्टे न भ्रमः कुतः ।
गवामशृङ्गिभावेन न हि स्याच्छशशृङ्गिता

2.2.216

अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च ।
उक्तभङ्गयाऽगमानां च प्रामाण्याद् युज्यते ऽखिलम्

2.2.217

दृश्यत्वाद् विमंत मिथ्या स्वप्नवच्चेदियं च मा ।
मिथ्या चेत् साध्यसिद्धिर्न व्यभिचारो न चेद् भवेत्

2.2.218

साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः ।
तस्य चेत्यनवस्था स्यात् सत्त्वं चास्यानुभूतितः

2.2.219

अनुभूतिविरोधेन मिथ्यात्वे मा न काचन ।
अतीतानागतौ कालावपि नः साक्षिगोचरौ ।
तत्सम्बन्धितया सत्त्वमपि दृष्टस्य साक्षिगम्

2.2.220

दृढदृष्टं तु यद् दृष्टं दृष्टाभासस्ततो ऽपरम् ।
भ्रान्तेः संवृतिसत्यस्य विशेषो ऽव्यभिचारवान् ।
तेनाप्यङ्गीकृतः सम्यक् स नः सत्यत्वमेव हि

2.2.221

विज्ञानाद् व्यभिचारो ऽस्य कदाचित् स्यादिति प्रमा ।
नैव दृष्टा प्रमा सा च न भवेत् स्वविरोधतः

2.2.222

भेदो विशेष्यधर्म्यादिग्रहणापेक्षया यदि ।
अन्योन्याश्रयताहेतोर्दुर्गाह्य इति यन्न तत्

2.2.223

स्वरूपं वस्तुनो भेदो यन्न तस्य ग्रहे ग्रहः ।
अन्यथास्यामुना भेद इति वक्तुं न युज्यते

2.2.224

अगृहीतो यदा भेदस्तदा स्वस्मादिति ग्रहः ।
स्यात् प्रतीतिविरोधाच्च न हि कश्चित् तथा वदेत्

2.2.225

धर्मित्वप्रतियोगित्वतद्भेदा युगपद् यदि ।
विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते

2.2.226

को विरोधः स्वरूपेण गृहीतो भेद एव तु ।
अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते

2.2.227

किञ्च भेदः कथं ग्राह्य इति यः परिपृच्छति ।
धर्म्यादिभेदग्रहणात् तेनोक्तो ऽन्योन्यसंश्रयः

2.2.228

अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः ।
अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः

2.2.229

एतादृशस्य वक्तारावुभौ जात्युत्तराकरौ ।
मायी माध्यमिकश्चैव तदुपेक्ष्यौ बुभूषुभिः

2.2.230

यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः ।
न हि लक्षणभेदो ऽस्ति निर्विशेषत्वतस्तयोः

2.2.231

अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ।
स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः

2.2.232

तत्पक्ष इति वैधर्म्यान्न स्वप्नादिवदित्यजः ।
अप्रयत्नान्निराचक्रे चेति दृष्टिविरुद्धताम् ।
निष्प्रमाणत्वमप्यस्य सूचयामास विश्वकृत्

2.2.233

ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते ।
तत्र सन्ततिभेदश्च स्वभेदो भेद एव च ।
कल्पिताः प्रतिभासन्ते नानासंवृतिभूमिषु

2.2.234

इत्येतदपि नो युक्तं न हि ज्ञानतया जगत् ।
भासते ऽनुभवस्यैव विरुद्धत्वादपेशलम्

2.2.235

तन्मतं क्षणिकत्वाच्च ज्ञानस्य स्थिररूपतः ।
ज्ञेयस्योक्तप्रकारेण सर्वश्रुतिविरोधतः ।
अनुभूतिविरुद्धत्वादपि पक्षा इमे ऽशिवाः

2.2.236

आह क्षपणको विश्वं सदसद् द्वयमद्वयम् ।
द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम्

2.2.237

नैतत् पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः ।
भावाभावतया विश्वं येन रूपेण मीयते ।
तद्रूपमेव तदिति नियमः केन वार्यते

2.2.238

तत्तद्दोषनिवृत्त्यर्थं स्वीकृता तत्तदात्मना ।
यदि तैरखिलैर्देषैर्लिप्यते चलदर्शनः

2.2.239

अतिहाय प्रमाणाप्तं नियमं सदसत्तया ।
अशेषमाविरुद्धं च निर्मानं व्याहतं सदा

2.2.240

सर्वप्रकारं वदतो दृष्टहानिरमग्रहः ।
स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि

2.2.241

वक्ति स्वप्रभमात्मानं देहमानं तदप्यलम् ।
दुष्यं नानाशरीरेषु प्रवेशादन्यथाभवात्

2.2.242

अन्यथाभावि यद् वस्तु तदनित्यमिति स्थितिः ।
तन्मते तदनित्यत्वं पुद्गलस्यानिवारितम्

2.2.243

नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः ।
लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित्

2.2.244

ओतप्रोतात्मकत्वं तु पटे देहे ऽङ्गसंस्थितिः ।
इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता

2.2.245

भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते ।
नैवं तस्यान्यथाभावो यस्यानित्यत्वमीरितम्

2.2.246

रूपादियुक्तस्य तथा जगन्नाशित्वसिद्धये ।
व्याप्त्या तयान्यथाभावादात्मनो ऽनित्यता भवेत्

2.2.247

नित्योर्ध्वगतिरप्येषा या मुक्तिरिति कथ्यते ।
अलोकाकाशमाप्तस्य कथं न विकृतिश्च सा

2.2.248

कीदृशश्चान्यथाभावो नाशहेतुतयेष्यते ।
संस्थानापगमश्चेत् स न हि भूसागरादिषु

2.2.249

यः कश्चिदन्यथाभावो यदि मुक्तिश्च तादृशी ।
देहमाने विकारः स्यादिति स्थास्नूननात्मनः

2.2.250

आह हस्त्यादिदेहेषु ह्यपि स्यादन्यथाभावः ।
अणुदेहस्य जीवस्य गजत्वे विकृतिर्हि या ।
देहव्याप्त्यै विशेषः कस्तस्याः स्थास्नुतनौ च नुः

2.2.251

गीतात् पुष्पफलावाप्तिः स्पर्शात् कार्श्यं रसात् स्थितिः ।
अपि वृक्षस्य दृश्यन्त इति नानात्मता भवेत् ।
एवञ्चात्माकार्त्स्न्यमिति तत एवाह वेदवित्

2.2.252

सर्वज्ञत्वादिकैः सर्वैर्गुणैर्युक्तं सदाशिवम् ।
जगद्विचित्ररचनाकर्तारं दोषवर्जितम्

2.2.253

आहुः पाशुपतास्तच्च बहुश्रुतिविरोधतः ।
नोपादेयं मतं ह्यस्य देवस्य स्तुहि गर्तगम्

2.2.254

उत्पिपेष शिरस्तस्य गृणीषे सत्पतिं पदम् ।
यद् विष्णोरुपमं हन्तुं रुद्रमाकृष्टते मया

2.2.255

धनुर्यं कामये तं तमुग्रं मा शिश्नदेवताः ।
घ्नञ्छिश्नदेवानेको ऽसावासीन्नारायणः परः

2.2.256

तस्माद् रुद्रः सम्प्रसादश्चाभूतां वैष्णवं मखम् ।
यज्ञेन यज्ञमयजन्ताबध्नन् पुरुषं पशुम्

2.2.257

यो भूतानामधिपती रुद्रस्तन्तिचरो वृषा ।
इत्यादिश्रुतिसामर्थ्यात् पारतन्त्र्यं जनिर्मृतिः

2.2.258

पराधीनपरप्राप्तिरज्ञत्वं प्रळये ऽभवः ।
प्रतीयन्ते सदोषत्वान्नेशः पशुपतिस्ततः

2.2.259

अशरीरत्वतस्तस्य सम्बन्धो जगता क्वचित् ।
कर्तृत्वेन न युज्येत देहिनो ज्ञानदृष्टितः

2.2.260

न च देहादिवद् विश्वमस्य स्याद् भोगसम्भवात् ।
अधिष्ठाने स्थितः कर्ता कार्यं कुर्वन् प्रतीयते ।
नास्याधिष्ठानयोगो ऽस्ति भूतानां प्रळये तदा

2.2.261

अदेहश्चेदसार्वज्ञः शिलाकाष्ठादिवत् सदा ।
देही चेदन्तवानेव यज्ञदत्तनिदर्शनात्

2.2.262

नचैतदखिलं विष्णौ श्रुतिप्रामाण्यगौरवात् ।
मनोबुद्धयङ्गितां विष्णोर्लक्षयामो य एव सः

2.2.263

स एव देहो विज्ञानमैश्वर्यं शक्तिरूर्जिता ।
देहो विष्णोर्न ते विष्णो वासुदेवो ऽग्रतो ऽभवत्

2.2.264

एको नारायणस्त्वासीन्न ब्रह्मा न च शङ्करः ।
अजस्य नाभावध्येकमर्पितं मात्रया परः

2.2.265

सद्देहः सुखगन्धश्च ज्ञानभाः सत्पराक्रमः ।
ज्ञानज्ञानः सुखसुखः स विष्णुः परमाक्षरः

2.2.266

आनन्द एक एवाग्र आसीन्नारायणः प्रभुः ।
प्रियं तस्य शिरे मोदप्रमोदौ च भुजौ हरेः

2.2.267

आनन्दो मध्यतो ब्रह्म पुच्छं नान्यदभूत् क्वचित् ।
मनसो ऽस्याभवद् ब्रह्मा ललाटादपि शङ्करः

2.2.268

पक्षयोर्गरुडः शेषो मुखादास सरस्वती ।
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्

2.2.269

इत्यादिश्रुतिसन्दर्भबलान्नित्यगुणात्मनः ।
विष्णोर्देहाज्जगत् सर्वमाविरासीदितीयते

2.2.270

मानवत्त्वाद् विरोधः को नामानं क्वचिदिष्यते ।
अविरोधो विरोधश्च मानेनैव हि गम्यते

2.2.271

अत उक्तं समस्तं च वासुदेवस्य युज्यते ।
शिवादिनामयुक्ताश्च श्रुतयो विष्णुवाचकाः

2.2.272

नामानि सर्वाणि च यमेको यो देवनामधाः ।
विष्णुनामानि नान्यस्य सर्वनामा हरिः स्वयम्

2.2.273

न नारायणनामानि तदन्येष्वपरे हरौ ।
इत्यादिश्रुतयस्तत्र मानं चोक्तः समन्वयः

2.2.274

पुराणानि पुराणाद्यैर्विरुद्धत्वान्न तत् प्रमा ।
तद्विरुद्धेषु नो मानं पूर्वापरविरोधतः

2.2.275

समब्राह्मविरोधाच्च नियमाद् वैष्णवेष्वपि ।
मोहार्थमुक्तितश्चैव विष्णुरेको गुणार्णवः

2.2.276

स्कन्दसूर्यगणेशादिमतानि न्यायतो ऽमुतः ।
निराकृतान्यशेषेण सिद्धान्तस्याविशेषतः

2.2.277

निराकृतौ विशेषस्य भावाच्छक्तिमतं पृथक् ।
दूष्यते महती देवी ह्रीङ्करी सर्वकारणम् ।
त्रिपुराभैरवीत्यादिनामभिः साभिधीयते

2.2.278

तस्याः सदाशिवाद्याश्च जायन्ते देवमानुषाः ।
भूतभौतिकमप्येतदिति तन्नोपपद्यते

2.2.279

दृष्टा पुम्भ्यः सदा सृष्टिः स्त्रीपुम्भ्यो वा विशेषतः ।
केवलाभ्यो न हि स्त्रीभ्यस्तत उत्पत्त्यसम्भवात्

2.2.280

नार्च्यं महावाममतं वामैरन्यदुदीर्यते ।
शिवोपसर्जना शक्तिः ससर्जेदं समन्ततः

2.2.281

इति तच्चोपपन्नं न शिवस्याकरणत्वतः ।
अदेहत्वादपि ह्यन्ये ब्रूयुः सर्वज्ञमीश्वरम्

2.2.282

अणुवामा न तद्युक्तमीशवादप्रवेशनात् ।
सार्वज्ञ्यादिगुणैर्युक्तं गुरुकल्पनया द्वयम्

2.2.283

न युज्यते ह्यतस्त्वीश एक एव प्रयोजकः ।
उक्तदोषश्च तत्पक्ष इति नैवात्र दूष्यते

2.2.284

श्रुतिस्मृतीतिहासानां सामस्त्येन विरोधतः ।
सतां जुगुप्सितत्वाच्च नाङ्गीकार्यं हि तन्मतम्

2.2.285

पञ्चरात्रनिषेधार्थमेतान्याचक्षते यदि ।
सूत्राण्यतिविरुद्धं तद् यत आह स भारते

2.2.286

पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् ।
ज्ञानेष्वेतेषु राजेन्द्र सर्वेष्वेतद् विशिष्टते

2.2.287

पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।
एकान्तभावोपगता वासुदेवं विशन्ति ते

2.2.288

इति गीता च तच्छास्त्रसङ्क्षेप इति हीरितम् ।
वेदेन पञ्चरात्रेण भक्तया यज्ञेन चैव हि

2.2.289

दृश्यो ऽहं नान्यथा दृश्यो वर्षकोटिशतैरपि ।
इति वाराहवचनं श्लोका इति वचः श्रुतौ

2.2.290

वेदैश्च पञ्चरात्रैश्च ध्येयो नारायणः परः ।
पञ्चरात्रं च वेदाश्च विद्यैकैव द्विधेयते

2.2.291

इत्यादिवेदवचनैः पञ्चरात्रमपोद्यते ।
कथमेवात्र दोषः क उत्पत्तिर्ज्ञो ऽत इत्यपि

2.2.292

इहैवोक्ता नचाभूतभावस्तत्रापि कथ्यते ।
अनादिकर्मणा बद्धो जीवः संसारमण्डले

2.2.293

वासुदेवेच्छया नित्यं भ्रमतीति हि तद्वचः ।
न हि संसारसादित्वं पञ्चरात्रोदितं क्वचित्

2.2.294

जीवाभिमानिशेषस्य नाम्ना सङ्कर्षणस्य तु ।
वासुदेवाज्जनिः प्रोक्ता प्रद्युम्नस्य ततस्तथा

2.2.295

मनो ऽभिमानिनः कामस्यैवं साक्षाद्धरेः क्वचित् ।
सङ्कर्षणादिनाम्नैव नित्याचिन्त्योरुशक्तितः ।
व्यूह उक्तो ऽन्यथानूद्य कथं दुष्टत्वमुच्यते

2.2.296

यदि विद्याच्चतुर्वेदानितिवद् वेदपूरणम् ।
पञ्चरात्रादिति कुतो द्वेषः शाण्डिल्यवर्तने

2.2.297

अतः परमशास्त्रोरुद्वेषादुदितमासुरैः ।
दूषणं पञ्चरात्रस्य वीक्षायामपि न क्षमम्

2.2.298

अतो ऽशेषजगद्धाता निर्दोषोरुगुणार्णवः ।
नारायणः श्रुतिगणतात्पर्यादवसीयते

2.2.299

अन्धं तमः प्रविशन्ति ये त्वविद्यामुपासते ।
ततो भूय इवाप्स्यन्ति ये तस्या नैव निन्दकाः

2.2.300

ततो विद्यामविद्यां च यो जानात्युभयं सह ।
दोषज्ञानादतीत्यैतान् विद्ययामृतमश्नुते

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc