भाषा

ENहिગુ
ग्रंथ पाठ

अनुव्याख्यान · अध्याय 2.3

2.3.1

॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने द्वितीयाध्यायस्य द्वितीयः पादः ॥
अथाशेषसमाम्नायविरोधापाकृतिं प्रभुः ।
करिष्यन्नधिदैवाधिभूतजीवपरात्मनाम्

2.3.2

स्वरूपनिर्णयायैव वचनानां परस्परम् ।
पादेनानेनाविरोधं दर्शयत्यमितद्युतिः

2.3.3

अनुभूतियुक्तिबहुवाग्वैलोम्यं च ततो ऽधिकम् ।
एतत् सर्वं सतः साम्यं द्वारवैयर्थ्यमेव च

2.3.4

दृष्टयुक्तयनुसारित्वमुक्तान्यार्थाविरोधतः ।
प्रसिद्धनामस्वीकारे बहुवाक्यानुवतिर्ता

2.3.5

लोकदृष्टानुसारित्वं जीवसाम्यमनादिता ।
तत्र तत्र परिज्ञानं गुणसाम्यश्रुती तथा

2.3.6

उत्पत्तिमत्त्वं स्वगुणाननुभूत्यल्पकल्पने ।
नानाश्रुतिश्च वैचितृयं युक्तयः पूर्वपक्षगाः

2.3.7

व्यवस्थानुपपत्तिश्च स्वातन्त्र्यमनुसारिता ।
मुख्यता शक्तिमत्त्वं च वैरूप्यं सर्वसङ्ग्रहः

2.3.8

गत्यादिरीशशक्तिश्च सर्वमानविरोधिता ।
अभीष्यासिद्धिसुव्यक्ती शास्त्रसिद्धिविर्पर्ययः ।
विशेषकारणं चेति सिद्धान्तस्यैव साधकाः

2.3.9

प्रकृतिः पुरुषः कालो देवास्तदभिमानिनः ।
महदाद्याश्च जायन्ते पराधीनविशेषिता ।
इदं सर्वं ससर्जेति जनिमत्त्वमिहोदितम्

2.3.10

अवकाशमात्रमाकाशः कथमुत्पद्यते ऽन्यथा ।
यद्यनाकाशता पूर्वं किं मूर्तनिबिडं जगत्

2.3.11

मूतर्सम्पूर्णता चैव यद्यनाकाशता भवेत् ।
मूर्तद्रव्याणि चाकाशे स्थितान्येव हि सर्वदा

2.3.12

अत आकाशशब्दोक्तस्तद्देवो ऽत्र विनायकः ।
देहोत्पत्त्या समुत्पन्न इति श्रुत्याभिधीयते

2.3.13

भूतमप्यसितं दिव्यदृष्टिगोचरमेव तु ।
उत्पद्यते ऽव्याकृतं हि गगनं साक्षिगोचरम् ।
प्रदेश इति विज्ञेयं नित्यं नोत्पद्यते हि तत्

2.3.14

तथापि पूर्वसम्बन्धपरतन्त्रविशेषयुक् ।
खमेवोत्पत्तिमन्नाम श्रुतिशब्दविवक्षितम्

2.3.15

प्रकृतिः पुरुषः काल इत्येते च समस्तशः ।
ईशाधीनविशेषेण जन्या इत्येव कीर्तिताः

2.3.16

कालप्रवाह एवैको नित्यो नतु विशेषवान् ।
पुरुषाव्यक्तकालानां रमैवैकाभिमानिनी

2.3.17

सिसृक्षुत्वविशेषं तत् साक्षाद् भगवदिच्छया ।
प्राप्तैव सृष्टेत्युदिता प्रधानं विकृतेरपि

2.3.18

पुमांसो देहसम्बन्धात् सृष्टिमन्त इतीरिताः ।
एवं प्रळयकाले ऽपि प्रतिभातपरावरः

2.3.19

मुख्यावायुर्नित्यसमः शरीरोत्पत्तिकारणात् ।
पराधीनविशेषेण जनिमानेव शब्दितः

2.3.20

नैव किञ्चित् ततो जन्मवर्जितं परमादृते ।
पराधीनविशेषत्वे जन्मनः स्थूलताभवः

2.3.21

पूर्वशब्दविलोपश्च यदि जन्मेति कीर्त्यते ।
रमाया नैव जन्मास्ति चैतन्यस्यापि केवलम्

2.3.22

प्रधनस्य च वेदस्य वेदस्यापीश्वरेच्छया ।
व्यक्तिर्नाम विशेषो ऽस्ति तस्मात् तद्वशतैव हि

2.3.23

उत्पत्तिरत्र कथिता स्वतन्त्रत्वात् परात्मनः ।
नैवोत्पत्तिः कथमपि न स्वतन्त्रं ततो ऽपरम्

2.3.24

अच्छेद्यस्यापि जीवस्य विभागं बहुधा हरिः ।
कृत्वा भोगान् प्रदायैव चैक्यमापादयेत् पुनः

2.3.25

अत ईशवशं सर्वं चेतनाचेतनं जगत् ।
अविभागं विभागाय यदा नयति केशवः ।
किमशक्यं परेशस्य तदेति ह्यभिधीयते

2.3.26

एवं स्थिते ऽपि जीवैक्यं केचिदाहुः परात्मना ।
तद् यो ऽहमितिपूर्वाभिः श्रुतिभिश्चानुमाबलात्

2.3.27

न तद् युक्तं यतो विष्णुः पृथगेवाभिधीयते ।
प्रज्ञानेत्रो ऽलोक इति मुक्तौ भेदो ऽभिधीयते ।
एतमानन्दमित्यन्या परमं साम्यमित्यपि

2.3.28

इदं ज्ञानमपाश्रित्य मम साधर्म्यमागताः ।
सर्गे ऽपि नोपजायन्ते प्रळये न व्यथन्ति च

2.3.29

उपसम्पद्य तज्ज्योतिः स्वरूपेणाभिपद्यते ।
तत्र पर्येति जक्षंश्च क्रीडन्नपि सदा सुखी

2.3.30

आचक्ष्व मे मोक्षं धीरा यं प्रवदन्ति तम् ।
इत्यक्त आह वाग्देवी परं मोक्षं प्रजापतेः

2.3.31

शाखां शाखां महानद्यः संयान्ति परितःस्रवाः ।
धानापूपा मांसकामाः सदा पायसकर्दमाः

2.3.32

यस्मिन्नग्निमुखा देवाः सेन्द्राः सहमरुद्गणाः ।
ईजिरे क्रतुभिः श्रेष्ठैस्तदक्षरमुपासते

2.3.33

प्रविशन्ति परं देवं मुक्तास्तत्रैव भोगिनः ।
निर्गच्छन्ति यथाकामं परेशेनैव चोदिताः

2.3.34

भेददृष्टयाभिमानेन निःसङ्गेनापि कमर्णा ।
कर्तृत्वात् सगुणं ब्रह्म पुरुषं पुरुषर्षभम्

2.3.35

स सङ्गत्य पुनः काले कालेनेश्वरमूर्तिता ।
जाते ऽगुणव्यतिकरे यथापूर्वं प्रजायते

2.3.36

ऋचां त्वः पोषमास्ते च परेण प्रेरिताः सदा ।
यत्कामस्तत् सृजत्यद्धैषात्मना तत् सृजत्यपि

2.3.37

सहैव ब्रह्मणा कामान् भुङ्कते निस्तीर्णतद्गुणः ।
दुःखादींश्च परित्यज्य जगद्वयापारवर्जितः

2.3.38

भुङ्क्ते भोगान् सहैवोच्चानित्याद्यागममानतः ।
मुक्तस्य भेदावगतेः कथमेव ह्यभिन्नता

2.3.39

जीवेशयोर्नानुमा च तदभेदं प्रमापयेत् ।
मिथ्यैव भेदो विमतो भेदत्वाच्चन्द्रभेदवत् ।
इति चेत् साध्यधर्मो ऽयं सन्नसन् वा नवोभयम्

2.3.40

यदि सन्नपसिद्धान्तः स एवासन्नितीरिते ।
नोभयं चेन्न सिद्धं तदिति मानस्य दूषणम्

2.3.41

न च मानान्तरेणैतच्छक्यं साधयितुं क्वचित् ।
अनुमानेन चेत् सैव ह्यनवस्था भविष्यति

2.3.42

नचागमस्तदर्थो ऽस्ति नासदासीन्न तद् वदेत् ।
परिशेषादनिर्वाच्यं यदि सिद्धयेत् परात्मनः

2.3.43

अनिर्वाच्यत्वमेव स्यात् परिशिष्टो ह्यसौ तदा ।
नचान्य आगमस्तत्र सदसत्प्रतियोगिनि

2.3.44

न च प्रत्यक्षमात्रास्ति नचार्थापत्तिरिष्यते ।
बाधायोगात् सत इति बाधाभावत एव हि

2.3.45

विषयस्य कुतो बाधो विद्यमानं हि बाध्यते ।
न हि वन्ध्यासुतो वध्यो यज्ञदत्तो हि वध्यते

2.3.46

बाधायोगः सत इति व्याप्तिरेषा क्व दृश्यते ।
कश्चायं बाध उद्दिष्टो न हि नाशो ऽसतो भवेत् ।
निवृत्तिश्चाप्रवृत्तस्य कथमेवोपपद्यते

2.3.47

नासीदस्ति भविष्यच्च तदिति ज्ञानमेयता ।
यदि बाधस्तदासत्त्वं तेनैवाङ्गीकृतं पुनः

2.3.48

प्रतीतिर्नासत इति वदन्नङ्गीकरोति ताम् ।
निषेधो ह्यप्रतीतस्य कथञ्चिन्नोपपद्यते

2.3.49

न चोपमा भवेदत्र प्रत्यक्षात् सत्त्वमेव च ।
शास्त्रगम्यपरेशानाद् भेदः स्वात्मन ईयते

2.3.50

अनुभूतिविरोधेन कथमेकत्वमुच्यते ।
किञ्चित्कर्ता च दुःखीति सर्वैरेवानुभूयते

2.3.51

सर्वज्ञो भगवान् विष्णुः सर्वशक्तिरिति श्रुतः ।
अनुभूताद्धि भेदेन श्रुतिरेषा वदत्यमुम्

2.3.52

उपजीव्यविरुद्धं तु कथमैक्यं श्रुतिर्वदेत् ।
अप्रामाण्यं यदा भेदवाचकस्य भविष्यति

2.3.53

स एव धर्मिणो ग्राही तदभेदः कथं भवेत् ।
यत् स्वरूपग्रहे मानं तद्धर्मे न कथं भवेत्

2.3.54

एकविज्ञानविज्ञप्त्या द्वयं मानं भविष्यति ।
न चेदेकममानं तद् द्वयमप्यत्र नो भवेत्

2.3.55

धर्मिग्राहिविरोधस्तु तस्मान्मानस्य दूषणम् ।
नोपजीव्यो ह्यभेदो ऽत्र क्वचिद् भेदश्रुतेर्बलात्

2.3.56

न च मानान्तरोपेयं ब्रह्म तद् भवति क्वचित् ।
येन मानेन चापेयं भेदस्तेनावगम्यते

2.3.57

सर्वज्ञानमयैवेशो यद्युपेयः कथञ्चन ।
सर्वज्ञथ्वगुणेनैव तया भेदो ऽवगम्यते

2.3.58

न दुःखानुभवः क्वापि मिथ्यानुभवतां व्रजेत् ।
न हि बाधः क्वचिद् दृष्टो दुःखाद्यनुभवस्य तु

2.3.59

यदि दुःखानुभूतिश्च भ्रान्तिरित्यवसीयते ।
अदुःखिताश्रुतिः केन न भ्रान्तिरिति गम्यते

2.3.60

श्रुतिस्वरूपमर्थश्च मानेनैवावसीयते ।
तच्चेन्मानं गृहीतं ते किं दुःखानुभवे भ्रमः

2.3.61

न च बाधविशेषो ऽस्ति यदबाधितमेव तत् ।
बाधो यद्यनुभूते ऽर्थे कथं निर्णय ईयते

2.3.62

को ऽपि ह्य् अर्थो न निश्चेतुं शक्यते भ्रमवादिना ।
भ्रमत्वमभ्रमत्वं च यदैवानुभवोपगम् ।
एकस्य भ्रमता तत्र परस्याभ्रमता कुतः

2.3.63

भ्रमत्वमभ्रमत्वं च सर्वं वेद्यं हि साक्षिणा ।
स चेत् साक्षी क्वचिद् दुष्यः कथं निर्णय ईयते

2.3.64

विशेषा सर्व एवैते साक्षिप्रत्ययगोचराः ।
ऊरीकृत्य च तान् सर्वान् व्यवहारः प्रवर्तते ।
साक्षिणो व्यवसायी तु व्यवहारो ऽभिधीयते

2.3.65

तस्मात् सर्वप्रसिद्धस्य व्यवहारस्य सिद्धये ।
साक्षी निर्दोष एवैकः सदाङ्गीकार्य एव नः

2.3.66

शुद्धः साक्षी यदा सिद्धो दुःखित्वं वार्यते कथम् ।
उपजीव्यप्रमाणं तद् भेदग्राहकमेव हि ।
अतो जीवेशयोर्भेदः श्रुतिसामर्थ्यसुस्थिरः

2.3.67

तथापि तु चिदानन्दपूर्वास्तत्सदृशा गुणाः ।
सारस्वरूपमस्यापि मुक्तावप्यवशिष्यते

2.3.68

अतो ऽभेदवदेवैताः श्रुतयः प्रवदन्ति हि ।
पौराणानि च वाक्यानि सादृश्याभेदसंश्रयात्

2.3.69

सादृश्याच्च प्रधानत्वात् स्वातन्त्र्यादपिचाभिदाम् ।
आहुरीशेन जीवस्य न स्वरूपाभिदां क्वचित्

2.3.70

स्थानैक्यमैकमत्यं च मुक्तस्य तु विशिष्टते ।
सादृश्यं च विशेषेण जडानां द्वयमेव तु ।
भवेत् सादृश्यमत्यल्पं तृतीयं परमात्मना

2.3.71

ईशरूपक्रियाणां च गुणानामपि सर्वशः ।
तथैवावयवानां तत्स्वरूपैक्यं तु मुख्यतः

2.3.72

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ।
इति श्रुतेर्नोभयं च भेदाभेदाख्यमिष्यते

2.3.73

एकमेवाद्वितीयं नेह नानास्ति किञ्चन ।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति

2.3.74

इति श्रुताविवेत्यस्माद् भेदाभेदनिराकृतिः ।
इवोभये च सादृश्य इति वाक् शब्दनिर्णये

2.3.75

भेदस्य मुक्तौ वचनादपि तत्पक्षनिग्रहः ।
चेतनत्वादिसादृश्यं यद्यभेद इतीष्यते ।
अङ्गीकृतं तदस्माभिर्न स्वरूपैकता क्वचित्

2.3.76

न केनचिदभेदो ऽस्ति भेदाभेदो ऽपिवा क्वचित् ।
समुदायमृते विष्णोः स्वगुणादीन् विनापि वा

2.3.77

इति श्रुतेर्न तस्यास्ति भेदाभेदो ऽपि केनचित् ।
अभेदश्रुतयोऽ ंशत्वात् सादृश्यं चांशतास्य तु

2.3.78

अंशस्तु द्विविधो ज्ञेयः स्वरूपांशो ऽन्य एव च ।
विभिन्नांशो ऽल्पशक्तिः स्यात् किञ्चित्सादृश्यमात्रयुक्

2.3.79

अंशिनो यत्तु सामर्थ्यं यत् स्वरूपं यथा स्थितिः ।
स एव चेत् स्वरूपांशः प्रादुर्भावा हरेर्यथा

2.3.80

सूर्यमण्डलमान्येकस्तत्प्रकाशाभिमानवान् ।
सूर्यो ऽथ सप्तमाब्धेश्च बाह्योदस्य च वारिपः

2.3.81

कठिनत्वेन मेर्वादेः पृथिव्या अपि देवता ।
धरादेव्येवमेवैको भगवान् विष्णुरव्ययः ।
नानावताररूपेण स्थितः पूर्णगुणः सदा

2.3.82

विण्मूत्राक्ष्यादिमानिन्यो यथापभ्रष्टदेवताः ।
सूर्यादिभ्यस्तथैवायं संसारी परमात् पृथक्

2.3.83

देहदोषैश्च दुष्टत्वादपभ्रष्टाख्यदेवताः ।
अन्याः सूर्यादिदेवेभ्यो ह्यनुग्राह्याश्च तैः सदा

2.3.84

एवमेव पराद् विष्णोः पृथक् संसारिणो मताः ।
अनुग्राह्याश्च तेनैव तत्प्रसादाच्च मोक्षिणः

2.3.85

न तु मत्स्यादिरूपाणामनुग्राह्यत्वमिष्यते ।
गुणैरशेषैः पूर्णत्वान्मुख्याभेदो ऽपरैर्नच

2.3.86

अंशाभासाश्च सर्वे ऽपि परस्यांशा न मुख्यतः ।
यथैषा पुरुषे च्छाया एतस्मिन्नेतदाततम्

2.3.87

न तु पुम्पादवत् पादा जीवा एते परात्मनः ।
पूर्णास्तस्य गुणा एव प्रादुर्भावतया स्थिताः ।
एवं जगाद परमश्रुतिर्नारायणं परम्

2.3.88

अक्षयो भगवान् विष्णुर्लक्ष्म्यावासो लये स्थितः ।
मुक्तैः सदा चिन्त्यमानो ब्रह्माद्यैस्तारतम्यगैः

2.3.89

प्रकृतिः पुरुषः कालो वेदाश्चेति चतुष्ययम् ।
नित्यं स्वरूपतो विष्णोर्विशेषावाप्तिमात्रतः ।
उत्पत्तिमादिति प्रोक्तं लक्ष्मीस्तदभिमानिनी

2.3.90

ततो जातः पुमान् नाम ब्रह्मास्यां वासुदेवतः ।
सूत्रात्मा प्राणनामा च देव्यौ प्रकृतिमानिनी

2.3.91

ततो रूपं महान् नाम ब्रह्मणो ऽहङ्कृतिः शिवः ।
ब्रह्मणो बुद्धिनाम्नोमा तत इन्द्रो मनो ऽभिधः ।
स्कन्दश्च तत एवान्ये सर्वे देवाः प्रजज्ञिरे

2.3.92

तत्र पूर्वतनः श्रेयान् गुणैः सर्वैः समस्तशः ।
तेभ्यश्च भगवान् विष्णुस्तदधीना इमे सदा

2.3.93

जन्मस्थितिलयाज्ञाननियतिज्ञानसंसृतिः ।
मोक्षश्च तदधीनत्वमेतेषां नैव हीयते

2.3.94

मुक्तावपि स एवैकः स्वतन्त्रः पूर्णसद्गुणः ।
इति श्रुत्युपपत्तिभ्यां पादे ऽस्मिन् प्रभुणोदितम्

मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc