अनुव्याख्यान · अध्याय 2.1
॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते श्रीमद्ब्रह्मसूत्रानुव्याख्याने प्रथमो ऽध्यायः ॥
उक्तः समन्वयः साक्षादविरोधो ऽत्र साध्यते ।
चतुर्विधस्य तस्यादौ यौक्तस्तत्रापि च स्मृतेः
तस्याश्चतुःस्वरूपत्वात् प्रत्येकं चतुरात्मकाः ।
पादाः सर्वे तदंशाश्च मूर्तीनां वर्णमाऽगमात्
आप्तता समतादृष्टिश्रुतिसाम्यबलाद्भवाः ।
सर्वानुसारो लघुता विशेषादर्शनाफले
इष्टसिद्धिश्च नियमः पूर्वपक्षेषु युक्तयः ।
एता एव त्वतिबला सिद्धान्तस्य नियामकाः
आप्तैः प्रत्यक्षतो दृष्ट्वा प्रोक्तमर्थं कथं श्रतिः ।
पिपीलिकालिपिनिभा वारयेत सर्वगा हि ते
इति चेद् यद्यशेषज्ञा रुद्राद्या हरिपूर्वकाः ।
किं नाशेषविदो मानं ह्य् उभयत्र समं भवेत्
नचाप्तिनिश्चयस्तत्र शक्यते व्यभिचारतः ।
नचास्या व्यभिचारे ऽपि हीयते मानता क्वचित्
वेदोक्तस्याधिकारस्य दुर्निरूपत्वतः सदा ।
नियमो व्यभिचारो वा नैव ज्ञातुं हि शक्यते
अधिकारो हि सुलभः कथितो ऽन्यागमेष्वलम् ।
वेदोक्तो ह्य् अधिकारस्तु दुर्लभः सर्वमानुषैः
अन्यागमेषु विप्रत्वमपि चण्डालजन्मनाम् ।
मण्डलान्तःप्रवेशेन क्रमशः प्रतिपाद्यते
अधिकारं दुरापाद्यमुक्तवातिसुलभं पुनः ।
अशक्यं साधनं चोक्तवा सुशकं तत्फलाप्तये ।
उच्यते ऽतस्तदुक्तं हि व्यभिचारि फले ऽपि तु
कथं प्रमाणतां गच्छेन्नित्यत्वात् पुरुषोद्भवैः ।
उज्खितं सर्वदोषैश्च कथं नो मानतां व्रजेत्
विरूप नित्यया वाचा नित्ययानित्यया सदा ।
इत्यादिश्रुतिभिर्वेदो नित्य इत्यवगम्यते
पिपीलिकालिपिश्चापि प्रमाणमविरोधतः ।
यथा द्रौणेरुलूकेन कृतमप्यास बोधकम्
अविरुद्धं विरुद्धं तु विरोधादेव बाधितम् ।
विरोधादर्शनात् तस्माद् वेदप्रामाण्यमिष्यते
तन्मूलत्वात् स्मृतीनां च विरोधो यत्र न क्वचित् ।
विरोधो ऽपि स एवोक्तः प्रत्यक्षेणागमेन वा
आगमेनागमस्यैव विरोधे युक्तिरिष्यते ।
उपजीव्यविरोधे तु वेदस्यान्यार्थकल्पना
प्रत्यक्षमुपजीव्यं स्यात् प्रायो युक्तिरपि क्वचित् ।
आगमैकप्रमाणेषु तस्यैव ह्युपजीव्यता
युक्तो ऽयुक्तश्च यद्यर्थ आगमस्य प्रतीयते ।
स्यात् तत्र युक्त एवार्थो युक्तिश्च त्रिविधा मता
व्याप्तिः प्रत्यक्षता यस्या युक्तिगाऽगमगा तथा ।
प्रत्यक्षागममूला तु युक्तिस्तत्र बलीयसी
याथार्थ्यमेव मानत्वं तन्मुख्यं ज्ञानशब्दयोः ।
अर्थत्वमर्यतैव स्यान्न क्रियार्थेषु सा मता
ज्ञानार्थे ज्ञेयता मुख्या शब्दार्थे तदनन्तरम् ।
यथार्थज्ञानजनका यथार्था युक्तयः स्मृताः
अनुप्रमाणमेतानि ह्यक्षयुक्तिवचांस्यतः ।
प्रामाण्यं नानुवादस्य स्मृतेरपि विहीयते
याथार्थ्यमेव प्रामाण्यशब्दार्थो यद् विवक्षितः ।
अङ्गीकृतं चेत् प्रामाण्यं स्मृत्यादेः का विरोधता
नचाफलत्वं वक्तव्यं सर्वस्मृत्यनुवादयोः ।
फलवत्त्वं नचास्माभिः प्रामाण्यं हि विवक्षितम्
तृणादिदर्शने किं च फलवत्त्वं निगद्यते ।
सुखदुःखादिकं किञ्चित् स्मृतावपि हि दृश्यते
न परिच्छेदकार्येव प्रमाणमिति च प्रमा ।
निर्दोषाक्षोद्भवं ह्यत्र प्रत्यक्षमिति गीयते
प्राकृतं शुद्धचैतन्यमक्षं तु द्विविधं मतम् ।
शुद्धमीशरमामुक्तेष्वन्यत्र प्राकृतैर्युतम्
निर्दोषमेव चैतन्यमन्यत्रोभयमिष्यते ।
सुखदुःखादिविषयं शुद्धं संसारगेष्वपि
निर्दोषत्वातिनियमात् तद् बलिष्ठतमं मतम् ।
पञ्चेन्द्रियमनोभेदात् प्राकृतं षड्विधं स्मृतम्
अनुमा युक्तिरेवोक्ता व्याप्तिरेव तु सा स्मृता ।
प्रतिज्ञातार्थसिद्धयर्थं व्याप्तिरेव यदोदिता
अवशिष्टं किमत्रास्ति लिङ्गं तत्र विजानतः ।
यदि लिङ्गमसिद्धं स्यात् कुत एवास्य मानता
यदि स्मारकमात्रं स्यात् स्मर्तुर्नात्र प्रयोजनम् ।
न पञ्चावयोक्तौ च विवादावसितिर्भवेत्
दृष्टान्तादिषु चैवं स्यात् साधनं पुनरेव हि ।
लिङ्गोक्तावपि चैवं स्यादनुमावसितिर्ध्रुवा
विरोधो ऽसङ्गतिश्चैव साक्षाद् युक्तेस्तु दूषणम् ।
प्रतिज्ञायामसम्बन्धो युक्तेरुक्ता ह्यसङ्गतिः
विरोधो ऽपि त्रिधैव स्यात् प्रतिज्ञार्थविरुद्धता ।
लिङ्गराहित्यमव्याप्तिर्न्यूनाधिक्ये तु वाचिके
साध्यव्यापकवैलोम्यमव्याप्तिः साधनस्य च ।
दुर्बलेन विरोधे ऽपि न प्रमाणमसाधकम्
स्ववाक्येन विरोधे ऽपि नैव साधकतां व्रजेत् ।
संवादानुक्तिसंयुक्ता एत एव च निग्रहाः
वादो जल्पो वितण्डेति कथास्तिस्रो विजानताम् ।
स्वार्थं परार्थमपि वा तत्त्वनिर्णयसाधनी
केवलं तु कथा वादो जल्पो ऽर्थादिव्यपेक्षया ।
सतामेव कथा ज्ञेया वितण्डा त्वसतां सताम्
अप्रकाश्य स्वसिद्धान्तमसतां पक्षदूषणम् ।
उक्ते तैः प्रथमं माने वक्तव्यं तस्य दूषणम्
विद्यापरीक्षापूर्वैव वितण्डा जल्प एव च ।
उच्चनीचत्वनिर्णीतिर्यतो जयपराजयौ
विनैव तत्त्वनिर्णीतिं न हि जल्पादिना क्वचित् ।
उच्चनीचत्वविज्ञानमिति विद्यापरीक्षणम्
वादेन चोच्चनीचत्वविज्ञानं भवति स्फुटम् ।
इति वादस्य पूर्वत्वं तत्सिद्धौ व्यर्थतान्ययोः
बहुविद्यत्वसिद्धौ तु नैव वादो ऽपि कारणम् ।
सभासभापप्राश्नीकपूर्वस्तु स्पर्धिनामपि
वाद एवोभयार्थः स्यान्निर्णीतिजयकारकः ।
तत्त्वाप्रकाश एवैको वितण्डाजल्पयोः फलम्
विना वादेन विद्याया यदि शक्यं परीक्षणम् ।
स्याज्जल्पादिरपि क्वापि वाद एवान्यथा भवेत्
जल्प इत्यपि नाम स्याद् वादस्यैतादृशस्य तु ।
प्रतिज्ञामात्रसाध्यत्वमपि स्याद् याज्ञवल्क्यवत्
सभा सभापतिश्चैव प्राश्निकाश्चैव वैष्णवाः ।
रागद्वेषविहीनाश्च स्युः सभ्याः सर्ववेदिनः
प्राश्निकाश्चैतदज्ञाने सभ्याश्चैषां च दूरगाः ।
प्रमाणं निर्णयाय स्युः पक्षपातविवर्जिताः
उभाभ्यां साधनं चैव दूषणं वादजल्पयोः ।
सद्भिरागम एवैकः प्रयोज्यो ऽभीष्यसाधकः
स्वसिद्धान्तानुसारेण ह्यसद्भिरनुमोच्यते ।
प्रत्यक्षागमवैरूप्यमाश्रित्यान्यार्थतैव तु
आगमे दशर्नीयात्र दोषो लिङ्गविलोमता ।
लिङ्गानुकूल्यं स्वार्थस्य श्रुत्यादीनामनुग्रहः
त्रिपञ्चावयवामेव युग्मावयविनीमपि ।
नियमाद् यो ऽनुमां ब्रूयाद् तं ब्रूयाद् यदि तादृशी ।
नानुमेति तदा केन साध्यावयवकल्पना
***[नोते: जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]***
नियतावयवासिद्धौ व्याप्तिमात्रेण साधनम् ।
कर्तव्यमेव तेन स्यात् तस्मात् सैवानुमा मता
अनुभूतिः प्रमाणं चेत् केन स्मृतिरपोद्यते ।
पूर्वानुभूते किं मानमित्युक्ते स्यात् किमुत्तरम्
मानसं तद्धि विज्ञानं तच्च साक्षिप्रमाणकम् ।
अतीतानागतं यद्वद् योगिभिर्दृश्यते ऽञ्जसा ।
एवं पूर्वानुभूतं च मनसैवावगम्यते
विज्ञातं मनसा पूर्वं मयैतत् कृतमित्यपि ।
साक्षादनुभवात् सिद्धं कथमेव ह्यपोद्यते
एवं लक्षणके मानत्रये ब्रह्मादिवस्तुषु ।
प्रमाणं वेद एवैकस् तत्प्रामाण्यं च साधितम्
तथापि मृज्जलादीनां बुद्धिवागादिवाचकः ।
दृष्टव्याप्तिविरुद्धत्वात् तत्र मानं कथं भवेत्
ततस्तन्नामकः कश्चित् पुमानन्यो भवेदिति ।
युक्तयागमाविरोधेन प्राप्तमत्राभिधीयते
बालरूढिं विनैवापि विद्वद्रूढिसमाश्रयात् ।
तत्तन्नामान एवैते तत्तद्वस्त्वभिमानिनः
सन्ति तेषां विशेषेण शक्तिरन्येभ्य उच्यते ।
व्याप्तिश्चोक्तानुसारेण दृश्यन्ते चाधिकारिभिः
शास्त्रोक्तवस्तुनश्चैव व्युत्पत्तिः शास्त्रलिङ्गतः ।
व्युत्पत्तिः सा बलवती मूर्खव्युत्पत्तिता हि यत्
दृढयुक्तिविरोधे तु सर्वत्र न्याय ईदृशः ।
अल्पवाक्ययुता युक्तिर्बहुलैव विरोधिनी
यत्र तत्र कथं वस्तुनिर्णयः स्यादितीरिते ।
विरोधियुक्तिबाहुल्यादिति न्यायो विनिश्चितः
युक्तेस्तु युक्तिबाहुल्यमागमादागमस्य च ।
कथं न निर्णयं कुर्यादित्यसत् कारणं न हि
श्रुत्यर्थो भवति क्वापि श्रुतिप्रायोपपत्तिभिः ।
अविरोधश्चतुर्थे तु पाते सम्यक् समर्थ्यते
असत् कार्यं यथा दृष्टं वस्तुत्वात् कारणं तथा ।
इति चेन्न निषेधैकस्वरूपस्य न कर्तृता
बुद्धिपूर्वप्रवृत्तिर्हि कर्तृत्वमिह निश्चितम् ।
प्रतिषेधात्मकत्वं तु भावस्याभावधर्मतः ।
धर्मधर्मैक्यतश्चैव नतु तन्मात्रता भवेत्
अभावस्य च भावो ऽपि धर्मो ऽथापि हि धर्मिणः ।
तादृक्तवं मात्रतेहोक्ता बुद्धिराहित्यमेव तत्
विशेष्यतैव धर्मित्वं प्रथमप्रतिपत्तिषु ।
निषेधविधिरूपत्वं भावाभावत्वमत्र हि
सर्वनाशेष्वपि सदा शिष्टत्वाद् यस्य कस्य नुः ।
नाशो ऽयं विमतो ऽपि स्यान्नाशत्वात् कर्तृशेषवान्
नचाशेषनृनाशस्तु दृष्टो दृश्यो ऽस्ति वा क्वचित् ।
धर्माधर्माश्रयत्वेन स्वीकार्यो ऽपि नरो लये
अनादित्वं विनादृष्टं कथं स्यात् कारणं क्वचित् ।
पूर्वादृष्टात् परादृष्टं यदि नैवोत्तरं कुतः
अदृष्टं कारणं नो चेल्लये मानं च किं भवेत् ।
उत्पत्तिनाशकारी हि बुद्धिमान् दृश्यते क्वचित्
तद्दृष्टान्तेन सर्वत्र कर्ता किं नानुमीयते ।
आगमानुगृहीता तु मानमेषानुमापितु
आगमानुग्रहाभावे न तर्कः स्यात् प्रतिष्ठितः ।
अक्षजागममूलस्य स्यादेवास्य प्रतिष्ठितिः ।
अन्यथास्याप्रतिष्ठा च स्ववाचा व्याहतैव हि
न च शिष्यागृहीतत्वं निरीशादीशवादिनः ।
अतो ऽवशिष्टजीवादिकर्तृतात्र निषिद्धयते
तन्मनो ऽकुरुतेत्यादेरसतो मनसो जनिः ।
निवारिता तु पूर्वत्र ह्यकस्मादिति तद्विना
असतो विश्वजननमाशङ्कयात्र निषिद्धयते ।
प्रापकं वाक्यमात्रं तु परिहारो विशेषितः
क्वचिज्जीवाकृतं दृष्ट्वा चेतनादेव चाकृतम् ।
तद्वदेवानुमान्यत्र वस्तुत्वात् क्रियते श्रुतेः
नान्यदन्यत्वमापन्नं क्वचिद् दृष्टं कथञ्चन ।
अतो जीवस्य न ब्रह्मभावः स्याद्धि कदाचन
क्वचिद् भिन्नतया दृष्टं तदभिन्नतया कथम् ।
दृश्येन्नो दृष्टपूर्वं हि तादृशं न च दृश्यते
भोक्तृत्वापत्तित इति यन्मतं तत् कुतो हरिः ।
भोक्त्रापत्तेरिति प्राह कथं च तदनन्यता
जगतस्त्वविकारत्व उक्तन्यायेन साधिते ।
स्वतन्त्रकारणान्यत्वं तेन ह्यत्र निषिद्धयते
द्रव्यं कर्म च कालश्च स्वभावश्चेतना धृतिः ।
यत्प्रसादादिमे सन्ति न सन्ति यदुपेक्षया ।
इति श्रुतेस्तद्वशस्य भावो न पर इत्यतः
शक्तो ऽपि ह्यन्यथाकर्तुं स्वेच्छानियमतो हरिः ।
कारणैर्नियतैरेव करोतीदं जगत् सदा
नित्यभेदो निमित्तेन ह्युपादानेन तु द्वयम् ।
असद् यत् कार्यरूपेण कारणात्मतयास्ति हि
अनवस्थान्यथा हि स्यात् सर्वत्रोत्पत्तिनाशयोः ।
शक्तो ऽपि भगवान् विष्णुरकर्तुं कर्तुमन्यथा
स्वभिन्नं कारणाभिन्नभिन्नं विश्वं करोत्यजः ।
इति श्रुतेरवसित उक्तार्थो ऽयमशेषतः
अनंशस्यापि जीवस्य किञ्चित् सामर्थ्ययोजनाम् ।
कार्येषु यः करोत्यद्धा नमस्तस्मै स्वयम्भुवे
यदि भागेन कार्येषु जीवशक्तिं न योजयेत् ।
हरिस्तदा हि सर्वत्र कृत्स्नयत्नोंऽशितापि वा
अंशिनो हि पटाद्या ये भिन्नैरेव परस्परम् ।
अंशैरंशिन उच्यन्ते नैवमेव हि चेतनाः
अतो ऽनंशिन इत्येव श्रुतिरेतेषु वर्तते ।
अप्यनेकस्वरूपेषु विशेषादेव केवलम्
बहुस्वरूपताख्या तु तेष्वस्त्येव हि सांशता ।
बहुत्वेनाविनाभावाद् भिन्नता नियमाद् भवेत्
यदि नैवं नियमकृद् भगवान् पुरुषोत्तमः ।
तस्य त्वशेषशक्तित्वाद् युज्यते सवर्मेव च
विरोधः सर्ववैशिष्टये यो द्वितीये निरस्यते ।
नारायणस्य त्वध्याये तदन्ये तत्रतत्रगाः
सृष्टिसंहारवाक्यानां जीवरूपाभिधायिनाम् ।
अप्यन्योन्याविरोधस्तु द्वितीयाध्यायगोचरः
मानमेयविशेषेण पुनरुक्तिर्न जायते ।
सदा प्रवृत्तिरीशस्य स्वभावादेव केवलम्
अङ्गचेष्या यथा पुंसः काश्चिदुद्देशवर्जिताः ।
देवस्यैष स्वभावो ऽयमित्याह श्रुतिरञ्जसा
क्रीडां प्रयोजनं कृत्वा सृष्टिः श्रुतिविरोधिनी ।
इति केवललीलैव निर्णीता प्रभुणा स्वयम्
आत्मप्रयोजनार्थाय स्पृहां श्रुतिरवारयत् ।
न प्रयोजनवत्त्वेनेत्यत आह जगद्गुरुः
इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः ।
इति प्रशंसया कामश्रुतिभ्यश्चैव युक्तितः ।
महातात्पर्ययुक्तेश्च नेच्छामात्रं निषिद्धयते
मोक्षार्थाः श्रुतयो यस्मात् स च तस्य प्रसादतः ।
उन्निनीषतिवाक्याच्च लोकदृष्टानुसारतः
इच्छांनिमित्तको यस्मात् तदभावे कुतः श्रुतिः ।
महातात्पर्यरहिता प्रमाणत्वं गमिष्यति
याथार्थ्यमेव मानत्वमपि वाक्यं प्रयोजकम् ।
मानत्वमेति तत्रापि यत् सम्पूर्णप्रयोजनम्
वैषम्यं चैव नैर्घृण्यं वेदाप्रामाण्यकारणम् ।
नाङ्गीकार्यमतो ऽन्यत्तु न वैषम्यादिनामकम्
यदधीना गुणाश्चैव दोषा अपि हि सर्वशः ।
गुणास्तस्य कथं न स्युः स्युर्देषाश्च कथं पुनः
सर्वधर्मापपत्तेस्तद् वाक्यैरपि हि तादृशैः ।
निर्दोषाशेषगुणको निर्णीतो भगवान् हरिः
मूल पाठ: Anuvyākhyāna a Dvaita verse commentary on Bādarāyaṇa's Brahmasūtra · Data entry members of the Sansknet Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0